१०

(अथ प्रथमाष्टके चतुर्थप्रपाठके दशमोऽनुवाकः)।
ये दे॑वा दि॒व्येका॑दश॒ स्थ पृ॑थि॒व्यामध्येका॑-
दश॒ स्थाप्सु॒षदो॑ महि॒नैका॑दश॒स्थ ते दे॑वा य॒ज्ञ॑-
मि॒मं जु॑षध्वमुपया॒मगृ॑हीतोऽस्याग्रय॒णो॑ऽसि॒
स्वा॑ग्रयणो॒ जिन्व॑ य॒ज्ञं जिन्व॑ य॒ज्ञप॑तिम॒भि
सव॑ना पाहि॒ विष्णु॒स्त्वां पा॑तु॒ विशं॒ त्वं पा॑ही-
न्द्रि॒येणै॒ष ते॒ योनि॒र्विश्वे॑भ्यस्त्वा दे॒वेभ्यः॑ (१)॥
(ये दे॑वा॒स्त्रिच॑त्वारिँशत्)
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां प्रथमाष्टके
चतुर्थप्रपाठके दशमोऽनुवाकः॥१०॥
–––––––