(अथ प्रथमाष्टके चतुर्थप्रपाठकेऽष्टमोऽनुवाकः)।
अ॒यं वे॒नश्चो॑दय॒त्पृश्नि॑गर्भा॒ ज्योति॑र्जरायू॒
रज॑सो वि॒माने॑। इ॒मम॒पाँ सं॑ग॒मे सूर्य॑स्य॒
शिशुं॒ न विप्रा॑ म॒तिभी॑ रिहन्ति। उ॒प॒या॒मगृ॑–
हीतोऽसि॒ शण्डा॑य त्वै॒ष ते॒ योनि॑र्वी॒रतां॑
पाहि (१)॥
[[479]]
Page No. ४७९
प्रपा. ४ अनु. ९ कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(शुक्रमन्थिग्रहयोरभिधानम्)
(अ॒यं वे॒नः पञ्च॑विँशतिः)।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां प्रथमाष्टके
चतुर्थप्रपाठकेऽष्टमोऽनुवाकः॥८॥
––––