०४

(अथ प्रथमाष्टके चतुर्थप्रपाठके चतुर्थोऽनुवाकः)।
आ वा॑यो भूष शुचिपा॒ उप॑ नः स॒हस्रं॑ ते
नि॒युतो॑ निश्ववार। उपो॑ ते॒ अन्धो॒ मद्य॑मयामि॒
यस्य॑ देव दधि॒षे पू॑र्व॒पेय॑म्। उ॒प॒या॒मगृ॑हीतोऽसि
वा॒यवे॒ त्वेन्द्र॑वायू इ॒मे सु॒ताः। उप॒ प्रयो॑भि॒रा
ग॑त॒मिन्द॑वो वामु॒शन्ति॒ हि। उ॒प॒या॒मगृ॑हीतोऽ–
सीन्द्रवा॒युभ्यां॑ त्वै॒ष ते॒ योनिः॑ स॒जोषा॑भ्यां त्वा

[[466]]

Page No. ४६६
श्रीमत्सायणाचार्यविरचितभाष्यसमेता– (१ प्रथमकाण्डे–
(ऐन्द्रवायवग्रहाभिधानम्)
सीन्द्रवा॒युभ्यां॑ त्वै॒ष ते॒ योनिः॑ स॒जोषा॑भ्यां त्वा(१) ॥
(आ वा॑यो॒ त्रिच॑त्वारिँशत्)।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां प्रथमाष्टके
चतुर्थप्रपाठके चतुर्थोऽनुवाकः ॥४॥
––––––––––
(अथ प्रथमकाण्डे चतुर्थप्रपाठके चतुर्थोऽनुवाकः)।
कल्पः – “एन्द्रवायवं गृह्णात्या वायो भूष शुचिपा इत्यानुद्रुत्योपयामगृहीतोऽसि वायवे त्वेति गृहीत्वोपयम्येन्द्रवायू इमे सुता इत्यनुद्रुत्योपयामगृहीतोऽसीन्द्रवायुभ्यां त्वेति गृहीत्वा पवित्रदशाभिः परिमृज्यैष ते योनिः सजोषाभ्यां त्वेति सादयति” इति।
मन्त्रास्त्वेवं पठ्यन्ते –
आ वायो इति। हे वायो त्वमागत्य ग्रहान्भूषालंकुरु। हे शुचिपाः शुद्धसोमपास्त्वं नोऽस्मानुपागच्छ। हे विश्ववार विश्वव्यपक ते सहस्रं नियुतः सन्ति। नियुच्छब्दे वायुवाहनभूता अश्वा उच्यन्ते। तवान्धः सोमरसरूपमन्नं मद्यं हर्षकरं तस्मादुपो समीपे त्वामयामि प्राप्नोमि। हे देव यस्य सोमस्य संबन्धि रसद्रव्यं पूर्वपेयं प्रथममेव पातव्यमिति मनो दधिषे धृतवानसि तादृशेन सोमेन त्वामुप(पा)यामीत्यन्वयः। हे सोमरस त्वमुपयामेन पृथिवीरूपदारुपात्रेण गृहीतोऽसि। त्वां वायवे गृह्णामि। हे इन्द्रवायू इमे सोमाः सुता अभिषुता अतो युवां प्रयोभिरेतैः सोमरसरूपैरन्नैर्निमित्तभूतैरुप समीप आगतमागच्छतम्। हि यस्मादिन्दवः सोमरसा वामुशन्ति युवां कामयन्ते। हे सोम दारुपात्रेण गृहीतोऽसि। इन्द्रवायुभ्यां त्वा गृह्णामि। हे पात्रैष खरस्यैकदेशस्ते योनिस्तव स्थानम्। अतोऽत्र सजोषाभ्यां समानप्रीतिभ्यामिन्द्रवायुभ्यामिन्द्रवाय्वर्थं त्वां सादयामि। एते मन्त्रा उपेक्षिताः।
द्विदेवत्यग्रहेष्वस्य प्राथम्यं विधत्ते –
“वाग्वा एषा यदैन्द्रवायवो यदैन्द्रवायवाग्रा ग्रहा गृह्यन्ते वाचमेवानु प्रयन्ति” (सं. का. ६ प्र. ४ अ. ७) इति।

[[467]]

Page No. ४६७
प्रपा. ४ अनु. ४ कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(ऐन्द्रवायवग्रहाभिधानम्)
ऐन्द्रवायवमैत्रावरुणाश्विनग्रहाणामभिमानिदेवता वाक्चक्षुःश्रोत्राभिधाः। तस्मादैन्द्रवायवो वागित्युच्यते। तस्य प्राथम्ये सति वाचं पुरतः प्रयतीं चक्षुरादयोऽनुप्रयन्ति।
तत्प्राथम्यं प्रकारान्तरेण प्रशंसति–
“वायुं देवा अब्रुवन्त्सोमँ राजानँ हनामेति सोऽब्रवीद्वरं वृणै मदग्रा एव वो ग्रहा गृह्यान्ता इति तस्मादैन्द्रवायवाग्रा ग्रहा गृह्यन्ते तमघ्नन्” (सं. का. ६ प्र. ४ अ. ७) इति।
अभिषवः सोमदेवताया हननम्।
तदेव प्राथम्यं द्रढयितुं पुनरपि वायुं प्रशंसति, अथवा वायुस्तुत्या वायवे गृह्णीयादिति विधिरुन्नेयः।
“सोऽपूयत्तं देवा नोपाधृष्णुवन्ते वायुमब्रुवन्निमं नः स्वदयेति सोऽब्रवीद्वरं वृणै मद्देवत्यान्येव वः पात्राण्युच्यान्ता इति तस्मान्नानादेवत्यानि सन्ति वायव्यान्युच्यन्ते तमेभ्यो वायुरेवास्वदयत्तस्माद्यत्पूयति तत्प्रवाते वि षजन्ति वायुर्हि तस्य पवयिता स्वदयिता” (सं. का. ६ प्र. ४ अ. ७) इति।
अयं सोमो हतः सन्नपूयद्दुर्गन्धोऽभवत्। नोपाधृष्णुवन्स्वादुं कर्तुं नाशक्नुवन् मैत्रावरुणाश्विनादीन्यपि ग्रहपात्राणि वायव्यानीत्युच्यन्ते। अथ एवाऽऽम्नातम् – ‘आग्राव्ण आवायव्यानि’ इति। लोके यद्वस्तु द्रवाधिक्यात्पूतिगन्धोपेतं भवति तच्छोषयितुं प्रकृष्टे वायौ विषजन्ति प्रसार्य स्थापयन्ति। अतस्तादृशस्य वस्तुनो वायुः शोधयिता स्वादुकर्ता च।
सर्वग्रहसाधारणमुपयामगृहीतोऽसीत्यमुं मन्त्रं व्याचष्टे –
“तस्य विग्रहणं नाविन्दन्त्साऽदितिरब्रवीद्वरं वृणा अथ मया वि गृह्णीध्वं मद्देवत्या एव वः सोमाः सन्ना असन्नित्युपयामगृहीतोऽसीत्याहादितिदेवत्यास्तेन यानि हि दारुमयाणि पात्राण्यस्यैतानि योनेः संभूतानि यानि मृन्मयानि साक्षात्तान्यस्यै तस्मादेवमाह” (सं. का. ६ प्र. ४ अ. ७) इति।
विविधदेवतार्थत्वेन गृह्यते येन मन्त्रेण तादृशं मन्त्रं नालभन्त। अदितिः पृथिवी। मया भूमिप्रतिपादकमन्त्रेण। ये युष्माकं सोमास्ते सर्वेऽपि होमकाले युष्मद्देवत्यत्वेऽप्यासादनकाले मद्देवत्याः सन्त्विति भूमेर्वचः। उपयामगृहीतोऽसी–

[[468]]

Page No. ४६८
श्रीमत्सायणाचार्यविरचितभाष्यसमेता– (१ प्रथमकाण्डे–
(ऐन्द्रवायवग्रहाभिधानम्)
त्येतादृशं मन्त्रं भूमिराह। उपयामेन भूमिसंबन्धिपात्रेण गृहीत इति मन्त्रार्थः। तेनैतन्मन्त्रप्रयोगेण पूर्वोक्तवरेण च सोमा अदितिदेवत्याः द्विविधानि सोमपात्राणि दारुमयाणि ग्रहरूपाणि मृन्मयानि चाऽऽग्रयणस्थाल्यादीनि। तत्रास्या भूमेः संबन्धिनी या वृक्षरूपा योनिस्तस्याः संभूतानि ग्रहादीनि, स्थाल्यादीनि तु साक्षादेव भूमेः कार्याणि। तस्मादुपयामगृहीत इत्येवं मन्त्रो ब्रूते।
ऐ(इ)न्द्रवाय्वोरेकस्मिन्पात्रे सह ग्रहणं विधत्ते –
“वाग्वै पराच्यव्याकृताऽवदत्ते देवा इन्द्रमब्रुवन्निमां नो वाचं व्याकुर्विति सोऽब्रवीद्वरं वृणै मह्यं चैवैष वायवे च सह गृह्याता इति तस्मादैन्द्रवायवः सह गृह्यते तामिन्द्रो मध्यतोऽवक्रम्य व्याकरोत्तस्मादियं व्याकृता वागुद्यते” (सं. का. ६ प्र. ४ अ. ७) इति।
येयं वैदिकमन्त्ररूपा वाक्सा पूर्वं पराची समुद्रघोषवदैक्यरूपेण दण्डायमाना तस्यां वाच्येतावदेकं वाक्यं तस्मिन्वाक्येऽप्येतावदेकं पदं तस्मिन्पदेऽपीयं प्रकृतिरयं प्रत्यय इत्वेवं विभज्य सर्वतः करणं व्याकरणं तद्रहितत्वादव्याकृतैवावदत्प्रवृत्ता। तामिन्द्रो मध्यतोऽवक्रम्य वाक्यपदादिरूपेण तत्र तत्र विच्छिद्य विभिन्नां कृतवान्।
ऐन्द्रवायवग्रहणमुपसंहरति –
“तस्मात्सकृदिन्द्राय मध्यतो गृह्यते द्विर्वायवे द्वौ हि स वराववृणीत” (सं. का. ६ प्र. ४ अ. ७) इति।
यस्मादिन्द्र एकमेव सहग्रहणरूपं वरमवृणोत्तस्मात्सकृदेवेन्द्रस्य सोमग्रहणम्। यस्माच्च वाचं मध्यतो विभक्तवांस्तस्मादुभयोर्वाय्वर्थग्रहणयोर्मध्य इन्द्रर्थं ग्रहणम्। आ वायो भूषेति केवलस्य वायोरादौ ग्रहणम्, इन्द्रवायू इमे सुता इत्यत्र वायुः पश्चात्पठ्यते। तस्मादिन्द्रस्य मध्ये स्थानम्। तस्माद्वायोर्ग्रहाग्रत्वमेको वरः। सर्वपात्राणां वायव्यत्वं द्वितीयो वरः। तस्मात्तस्य द्विः सोमग्रहणम्।
इत आरभ्य विनियोगसंग्रहः षट्त्रिंशानुवाकस्यान्त उदाहरिष्यते।
अथ मीमांसा।
दशमाध्यायस्य पञ्चमपादे चिन्तितम् –
“पुरोपांशोरुत स्वस्य स्थाने स्यादैन्द्रवायवः।
आद्योऽग्रत्वविधेर्मैवं धारायुक्ताग्रतोक्तितः”।

[[469]]

Page No. ४६९
प्रपा. ४ अनु. ४ कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(ऐन्द्रवायवग्रहाभिधानम्)
ज्योतिष्टोमे श्रूयते–– “ऐन्द्रवायवाग्रा ग्रहा गृह्यन्ते” इति। मन्त्रकाण्डविधिकाण्डयोर्ग्रहाणामयं पाठक्रमः – उपांशुग्रहः प्रथमः। अन्तर्यामग्रहो द्वितीयः। ऐन्द्रवायवग्रहस्तृतीयः। मैत्रावरुणग्रहश्चतुर्थ इत्यादि। तत्रैन्द्रवायवस्याग्रत्वविधानादुपांशुग्रहात्पूर्वमेव ग्रहणमिति पूर्वःपक्षः। नैतद्युक्तम्। अग्रत्वस्य धाराग्रहापेक्षत्वात्। ऐन्द्रवायवादयो धाराग्रहाः, तद्वाक्ये धारया गृह्णातीति श्रुतत्वात्। एवं सति पाठक्रमो न बाध्यते। तस्मादैन्द्रवायवः स्वस्यैव स्थाने ग्रहीतव्यः।
तत्रैवान्यच्चिन्तितम् –
“सर्वादौ स्वस्य वा स्थाने काम्यः स्यादैन्द्रवायवः।
पुनर्विधेरादिमोऽन्त्यः कामायैतद्विधानतः” इति॥
ज्योतिष्टोम एव श्रूयते–– ‘ऐन्द्रवायवाग्रान्ग्रहान्गृह्णीयाद्यः कामयेत यथापूर्वं प्रजाः कल्पेरन्’ इति। सोऽयं काम्य ऐन्द्रवायवः सर्वेषामुपांशुप्रभृतीनां ग्रहाणामादौ स्यात्। कुतः। धाराग्रहादित्वस्य पूर्वमेव सिद्धौ सत्यां पुनरप्यग्रताविधानादिति प्राप्ते ब्रूमः – नात्र सर्वाग्रत्वं विधातुं शक्यम्। धाराग्रहाणां प्रकृतत्वात्। अतो यथाप्राप्ताग्रत्वोपेतानां धाराग्रहाणां कामसंयोगोऽत्र विधीयत इति स्वस्थान एवायमैन्द्रवायवग्रहः।
द्वितीयाध्यायस्य तृतीयपादे चिन्तितम् –
“रथंतरं साम सोमे भवेत्तद्वद्बृहज्जगत्।
ऐन्द्रवायवशुक्राग्रयणाग्राश्च ग्रहाः श्रुताः॥
रथंतरादिसंयुक्तमन्यत्कर्माथवा गुणः।
गायत्रादियुतात्पूर्वादन्यद्व्यावृत्तितो गुणौः॥
सोमशब्दप्रकरणे ज्योतिष्टोमसमर्पके।
ग्रहाग्रत्वं गुणस्तत्र व्यावृत्तिस्तु परस्परम्” इति॥
ज्योतिष्टोमप्रकरणे श्रूयते –– ‘यदि रथंतरसामा सोमः स्यादैन्द्रवायवाग्रान् (ग्रहान्) गृह्णीयाद्यदि बृहत्सामा शुक्राग्रान्यदि जगत्सामाऽऽग्रयणाग्रान्’ इति। तत्र सोमशब्देन सोमलतासाधनको यागोऽभिधीयते। तस्मिंश्च यागे माध्यंदिनसवने पृष्ठस्तोत्रे रथंतरबृहज्जगन्नामकानि सामानि विकल्पेन विहितानि। अभि त्वा शूरेत्यस्यां योनावुत्पन्नं रथंतरम्। त्वामिद्धि हवामह इत्य–

[[470]]

Page No. ४७०
श्रीमत्सायणाचार्यविरचितभाष्यसमेता– (१ प्रथमकाण्डे–
(ऐन्द्रवायवग्रहाभिधानम्)
स्यामुपत्पन्नं बृहत्। जगतीछन्दस्कायामुत्पन्नं जगत्। ऐन्द्रवायवः, मैत्रावरुणः, आश्विनः, शुक्रः, मन्थी, आग्रयणः, उक्थ्यः, ध्रुव इत्यादयो ग्रहाः प्रातःसवने गृह्यन्ते। दारुपात्रेषु सोमरसस्य ग्रहणाद्ग्रहा भवन्ति। सोमयागस्य रथंतरसामोपेतत्वपक्षे तेषु ग्रहेष्वैन्द्रवायवः प्रथमं ग्रहीतव्यः। बृहत्सामोपेतत्वपक्षे शुक्रः प्रथमिकः। जगत्सामोपेतत्वपक्ष आग्रयणः प्राथमिक इति विषयवाक्यार्थः। तत्र प्रकृतो ज्योतिष्टोमो गायत्रादिसामोपेतः। तद्व्यावृत्त्यर्थमिह रथंतरादयो गुणाः कीर्त्यन्ते। तस्मादैन्द्रवायवाग्रत्वागुणोपेतानि कर्मान्तराणि विधीयन्त इति प्राप्ते ब्रूमः –– यदि रथंतरसामा सोमः स्यादित्युक्तौ य सोमशब्दस्तेन प्रकरणेन चात्र ज्योतिष्टोमः समर्प्यते। तस्मिन्समर्पिते ग्रहाग्रत्वं गुणो विधीयते। न च रथंतरादिगुणानुवादेन ज्योतिष्टोमस्य व्यावृत्तिः संभवति। तस्य प्रातःसवनादौ गायत्रादिसामोपेतत्वेऽपि पृष्ठस्तोत्रे रथंतरादियोगस्यापि संभवात्। किं तर्हि व्यावर्त्यत इति चेत् रथंतरबृहज्जगतां परमार्थतो व्यावृत्तिरिति वक्ष्यामः। रथंतरादयः पृष्ठस्तोत्रे विकल्पिताः। तत्र रथंतरानुवादेनेतरौ पक्षौ व्यावर्त्येते। एवमितरत्रपि। तस्मादयं गुणविधिः। ननु यः प्रकृतो ज्योतिष्टोमः सोऽन्येषां सोमयागानां प्रकृतिः। न हि प्रकृतौ जगत्यामुत्पन्नं साम विहितमस्ति। अत एव दशमाध्याये पञ्चमपादस्य पञ्चदशाधिकरणे प्रथमवर्णके ‘यदि जगत्सामा’ इति वाक्योक्तमाग्रयणाग्रत्वं विकृतौ विषुवनामके मुख्येऽहनि व्यवस्थापितम्। बाढं, तथाऽपि नात्र कश्चिद्विरोधः। आग्रयणाग्रत्ववाक्यं न कर्मान्तरविधायकं, किंत्वन्येन विहिते सोमयागे यत्र जगत्साम संभवति तत्र गुणविधायकमित्येतावत एवात्र प्रतिपाद्यत्वात्।
तृतीयाध्यायस्य पञ्चमपादे चिन्तितम्–
“ऐन्द्रवायवशेषस्य सकृद्भक्ष उतासकृत्।
पूर्वन्यायात्सकृद्भक्षो द्विर्भक्षो वचनाद्भवेत्” इति॥
ज्योतिष्टोमे योऽयमैन्द्रवायवग्रहस्तत्र संस्कार्यस्य सोमस्यैकत्वात्सकृदेव शेषकार्यमिति चेन्मैवम्। द्विरैन्द्रवायवस्य भक्षयति द्विर्ह्येतस्य वषट् करोतीति वचनाद्द्विर्भक्षणम्।
अथ च्छन्दः ––
आ वायो भूषेति त्रिष्टुप्। इन्द्रवायू इति गायत्री॥

[[471]]

Page No. ४७१
प्रपा. ४ अनु. ५ कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(मैत्रावरुणग्रहाभिधानम्)
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वे-दीयतैत्तिरीयसंहिताभाष्ये प्रथमकाण्डे चतुर्थप्रपाठके
चतुर्थोऽनुवाकः ॥४॥
––––––