०१

(अथ प्रथमाष्टके चतुर्थः प्रपाठकः)।
(तत्र प्रथमोऽनुवाकः)।
हरि ॐ।
आ द॑दे॒ ग्रावा॑ऽस्यध्वर॒कृद्दे॒वेभ्यो॑ गम्भी॒रमि॒
मम॑ध्व॒रं कृ॑ध्युत्त॒मेन॑ प॒विनेन्द्रा॑य॒ सोमँ॒ सुषु॑तं॒
मधु॑मन्तं॒ पय॑स्वन्तं वृष्टि॒वनि॒मिन्द्रा॑य त्वा वृत्र॒घ्न
इन्द्रा॑य त्वा वृत्र॒तुर॒ इन्द्रा॑य त्वाऽभिमाति॒घ्न
इन्द्रा॑य त्वाऽऽदि॒त्यव॑त॒ इन्द्रा॑य त्वा वि॒श्वदे॑व्या–
वते श्वा॒त्राः स्थ॑ वृत्र॒तुरो॒ राधो॑गूर्ता अ॒मृत॑स्य॒
पत्नी॒स्ता दे॑वीर्देव॒त्रेमं य॒ज्ञं ध॒त्तोप॑हूताः॒ सोम॑–
स्य पिब॒तोप॑हूतो यु॒ष्माक॑म् (१) सोमः॑ पिबतु॒

[[451]]

Page No. ४५१
प्रपा. ३ अनु. १ कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(पात्रेषु रसग्रहणाय पूर्वमुपावहृतस्य सोमस्याभिषवः)
यत्ते॑ सोम दि॒वि ज्योति॒र्यत्पृ॑थि॒व्यां यदु॒राव॒न्त–
रि॑क्षे॒ तेना॒स्मै यज॑मानायो॒रुरा॒या कृ॒ध्यधि॑ दा॒–
त्रे वो॑चो॒ धिष॑णे वी॒डू स॒ती वी॑डयेथा॒मूर्जं॑ द–
धाथा॒मूर्जं॑ मे ध॒त्तं मा वाँ॑ हिँसिषं॒ मा मा॑
हिँसिष्टं॒ प्रागपा॒गुद॑गध॒राक्तास्त्वा॒ दिश॒ आ
धाव॒न्त्वम्ब॒ नि ष्व॑र। यत्ते॑ सो॒मादा॑भ्यं॒ नाम॒
जागृ॑वि॒ तस्मै॑ ते सोम॒ सोमा॑य॒ स्वाहा॑ (२)॥
(युष्माकँ॑ स्वर॒ यत्ते॒ नव॑ च)।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां प्रथमाष्टके
चतुर्थप्रपाठके प्रथमोऽनुवाकः ॥१॥
(अथ प्रथमकाण्डे चतुर्थः प्रपाठकः)।
(तत्र प्रथमोऽनुवाकः)
यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत्।
निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥१॥
तृतीयप्रपाठके प्रधान्येनाग्नीषोयीयपशुः प्रतिपादितः। तत ऊर्ध्वं वसतीवरीग्रहणं चोक्तम्। तावता सुत्यादिवसात्पूर्वदिवसेषु यत्कर्तव्यं तत्समाप्तम्। तत उपरितनेनानुवाकेन सुत्यादिवसकर्तव्यप्रारम्भाय सोमोपावहरणमुक्तम्। अथ चतुर्थप्रपाठके सुत्यादिने कर्तव्या ग्रहाः प्राधान्येन प्रतिपाद्यन्ते। तत्रानुवाकार्था विनियोगसंग्रहे दर्शिताः –
“ग्रहप्रश्रेऽनुवाकास्तु चत्वारिंशदिहोदिताः।
सोमाभिषव एकस्मिन्पञ्चत्रिंशत्सु(ति) तद्ग्रहाः॥

[[452]]

Page No. ४५२
श्रीमत्सायणाचार्यविरचितभाष्यसमेता– (१ प्रथमकाण्डे–
(पात्रेषु रसग्रहणाय पूर्वमुपावहृतस्य सोमस्याभिषवः)

दाक्षिणानि समिष्टाख्ययजूंष्यवभृथसातथा ।
काम्ययाज्या इति प्रोक्ता अर्था अत्रानुवाकगाः” इति॥
प्रथमानुवाके पात्रेषु रसग्रहणाय पूर्वमुपावहृतस्य सोमस्याभिषवोऽभिधीयते।
आ दद इति। कल्पः – “अथैषां ग्राव्णां यः सजन्तुरिव तमादत्ते देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यामा दद इत्यादायाभिमन्त्रयते ग्रावाऽस्यध्वरकृद्देवेभ्यो गम्भीरमिममध्वरं कृध्युत्तमेन पविनेन्द्राय सोमँ सुषुतं मधुमन्तं पयस्वन्तं वृष्टिवनिमिति”
आदद इत्याम्नातो मन्त्रो देवस्य त्वेत्यनेन पूरितः। हे ग्रावन्नभिषवसाधन त्वं यज्ञनिष्पादको दृढः पाषाणोऽसि। तत इमं यज्ञं देवार्थं गहनं कुरु। उत्कृष्टेन वज्रसदृशेन त्वयाऽहं सोममीदृशं करोमि। कीदृशं, सुषुतं सम्यगभिषुतं मधुमन्तं स्वादुत्वोपेतं पयस्वन्तं क्षीरवद्रसोपेतं वृष्टिवनिमाहुतिसूर्यद्वारा वृष्टिप्रदम्।
तथा च स्मर्यते –
“अग्नौ प्रास्ताऽऽहुतिः सम्यगादित्यमुपतिष्ठते।
आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः” इति॥
इन्द्रार्थमेव सोमं करोमि।
विधत्ते –
“देवस्य त्वा सवितुः प्रसव इति ग्रावाणमा दत्ते प्रसूत्या अश्विनोर्बाहुभ्यामित्याहाश्विनौ हि देवानामध्वर्यू आस्तां पूष्णो हस्ताभ्यामित्याह यत्यै” (सं. का. २ प्र. ४ अ. ४) इति।
ग्रावाऽसीति मन्त्र उपेक्षितः।
इन्द्रायेति। कल्पः – “अथैनं प्राञ्चं प्रश्रित्य विस्रस्य राजानं ग्रावाणमुपांशुसवनमभिमिमीत इन्द्राय त्वा वृत्रघ्न इन्द्राय त्वा वृत्रतुर इन्द्राय त्वाभिमातिघ्न इन्द्राय त्वाऽऽदित्यवत इन्द्राय त्वा विश्वदेव्यावत इति।”
हे सोम त्वामिन्द्रार्थं मिमे। कीदृशायेन्द्राय। वृत्रघ्ने मेघविदारयित्रे, वृत्रतुरे वृत्रासुरघातिने, अभिमातिघ्ने पापघातिने, आदित्यार्थं तृतीयसवने गृह्यमाणत्वादादित्यवते, प्रातःसवने विश्वान्देवानुद्दिश्य गृह्यमाणत्वाद्विश्वदेव्यावते।
विधत्ते –

[[453]]

Page No. ४५३
प्रपा. ४ अनु. १ कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(पात्रेषु रसग्रहणाय पूर्वमुपावहृतस्य सोमस्याभिषवः)
“पशवो वै सोमो व्यान उपाँशुसवनो यदुपाँशुसवनमभि मिमीते व्यानमेव पशुषु दधाति” (सं. का. २ प्र. ४ अ. ४) इति।
पशुप्राप्तिहेतुत्वात्सोमस्य पशुत्वम्। “प्राणापानौ वा एतौ यदुपाँश्वन्तर्यामौ व्यान उपाँशुसवनः” इति रूपकं वक्ष्यति। अतोऽस्य व्यानत्वम्। उपांशुनामकग्रहार्थं सोमः सूयते येन पाषाणेन स उपांशुसवनः। तमभिलक्ष्य सोमो मातव्यः।
सर्वमन्त्रेष्विन्द्रशब्दप्रयोगस्य तात्पर्यमाह –
“इन्द्राय त्वेन्द्राय त्वेति मीमित इन्द्राय हि साम आह्रियते” (सं. का. २ प्र. ४ अ. ४) इति।
सौमिकदेवेष्विन्द्रस्य प्राधान्यमिन्द्रपीतस्येत्यादिमन्त्रस्य च प्रसिद्धिं हिशब्दो द्योतयति।
विधत्ते –
“पञ्च कृत्वो यजुषा मिमीते पञ्चाक्षरा पङ्क्तिः पाङ्क्तो यज्ञो यज्ञमेवाव रुन्धे पञ्च कृत्वस्तूष्णीं दश सं पद्यन्ते दशाक्षरा विराडन्नं विराड्विराजैवान्नाद्यमव रुन्धे” (सं. का. २ प्र. ४ अ. ४) इति।
सोमो यथा क्रीतस्तद्वदयमपि मातव्यः।
श्वात्रा इति। कल्पः – “अथ मितं राजानं होतृचमसीयाभिरुपसृजति श्वात्राः स्थ वृत्रतुरो राधोगूर्ता अमृतस्य पत्नीस्ता देवीर्देवत्रेमं यज्ञं धत्तोपहूताः सोमस्य पिबतोपहूतो युष्माकं सोमः पिबत्विति” इति।
हे आपो यूयमेवंविधाः स्थ। कीदृश्यः। श्वाः शीघ्रकारिण्यः। वृत्रतुरो वृत्रघातिन्यः। राधोऽन्नं गूर्ताः संपादयितुमुद्यताः। अमृतस्य सोमस्य पत्नीः पालयित्र्यः। तास्तथाविधा यूयं देवीर्देवतारूपा देवत्रा देवेषु इममस्मदीयं यज्ञं स्थापयत। किंच, उपहूता अनुज्ञाताः सत्यः सोमस्यांशं पिबत। सोमश्चानुज्ञातो युष्माकमंशं पिबतु।
उपहूताः सोमस्य पिबतेत्यस्याभिप्रायमाह –
“श्वात्राः स्थ वृत्रतुर इत्याहैष वा अपाँ सोमपथिः” (सं. का. २ प्र. ४ अ. ४) इति।
अस्मिन्मन्त्रे पिबतेति यदुच्यत एतदेवाब्देवतानां सोमपानम्।

[[454]]

Page No. ४५४
श्रीमत्सायणाचार्यविरचितभाष्यसमेता– (१ प्रथमकाण्डे–
(पात्रेषु रसग्रहणाय पूर्वमुपावहृतस्य सोमस्याभिषवः)
वेदनं प्रशंसति –
“य एवं वेद नाप्स्वार्तिमार्च्छति” (सं. का. ६ प्र. ४ अ. ४) इति।
जले मरणं न प्राप्नोति।
यत्त इति। बौधायनः – “अथैनं संप्रयौति यत्ते सोम दिवि ज्योतिर्यत्पृथिव्यां यदुरावन्तरिक्षे तेनास्मै यजमानायोरु राया कृध्यधि दात्रे वोच इति” इति।
आपस्तम्बः – “यत्ते सोम दिवि ज्योतिरिति राजानमभिमन्त्रयते” इति।
हे सोम त्रिषु लोकेषु त्वदीयं यज्ज्योतिरस्ति तेन ज्योतिषाऽस्मै यजमानाय राया धनेनोरु समृद्धं विस्तीर्णं स्थानं कृधि कुरु। किंच–अधिकोऽयं यजमानो भक्त्येति दात्रे फलप्रदायेन्द्राय ब्रूहि।
दिवीत्यादेस्तात्पर्यमाह –
“यत्ते सोम ज्योतिरित्याहैभ्य एवैनं लोकेभ्यः सं भरति” (सं. का. ६ प्र. ४ अ. ४) इति।
लोकत्रयेणैनं सोमं सम्यक्पोषयति।
धिषण इति। कल्पः – “तिरश्चर्मन्फलके अभिमृशति धिषणे वीडू सती वीडयेथामूर्जं दधाथामूर्जं मे धत्तं मा वाँ हिँसिषं मा मा हिँसिष्टमिति” (सं. का. ६ प्र. ४ अ. ४) इति।
हे धिषणे सोमस्य चर्मणो वा धारयित्र्यौ वीडू सती विष्टब्धे सत्यौ वीडयेथां पुनरप्यभिषवादिघातेन विक्ष्लेषो मा भूदिति दृढं स्तम्भयतम्। उर्जं सोमरसं दधाथां युवां धारयतम्। ऊर्जं मे मह्यं धत्तं प्रयच्छतम्। अहं युवां मा हिंसिषम्। युवामपि मा मा हिंसिष्टम्। मन्त्रोऽयमुपेक्षितः।
कल्पः – “एकग्रहायाऽऽप्तँ राजानमुपरे न्युप्य होतृचमसेऽँशूनवधाय तस्मिन्ग्रावाणमुपाँ शुसवनमुपनिधाय त्रि प्रदक्षिणमुपरि परिप्लावयन्निग्राभमुपैति प्रागपागुदगधरागिति, यां भार्यां कामयेत तां मनसा ध्यायेदम्ब नि ष्वरेति” इति।
प्रागपामिति। प्रागादयो या दिशस्ताः सर्वा हे सोम त्वां प्रत्याभिमुख्येन धावन्तु। हेऽम्ब मातृस्थानीय सोम निष्वरांशुभ्यो रसात्मना निर्गच्छ। प्रागादिमन्त्रः सोमनिग्रहणहेतुत्वान्निग्राभ इत्युच्यते। उपरोऽभिषवाधारः पाषाणस्तस्मिन्सोममवस्थाप्य निग्राभमन्त्रं पठेत्।

[[455]]

Page No. ४५५
प्रपा. ४ अनु. १ कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(पात्रेषु रसग्रहणाय पूर्वमुपावहृतस्य सोमस्याभिषवः)
दिशामाधावनोक्तेस्तापर्यमाह –
“सोमो वै राजा दिशोऽभ्यध्यायत्स निशोऽनु प्राविशत्प्रागपागुदगधरागित्याह दिग्भ्य एवैनँ सं भरत्यथो दिश एवास्मा अव रुन्धे” (सं. का. ६ प्र. ४ अ. ४) इति।
अम्ब मातरित्यादयः शब्दाः स्त्रीणामुपलालनाय प्रयुज्यन्तेऽतोऽम्बशब्दप्रयोगेणात्र ध्यानविधिः सूच्यत इत्यभिप्रेत्य व्याचष्टे –
“अम्ब नि ष्वरेत्याह” (सं. का. ६ प्र. ४ अ. ४) इति।
यस्मादम्बेत्युपलालनमाह तस्माद्ध्यायेदित्यभिप्रायः।
वेदनं प्रशंसति –
“कामुका एनँ स्त्रियो भवति य एवं वेद” (सं. का. ६ प्र. ४ अ. ४) इति।
यत्त इति। कल्पः – “प्रतिप्रस्थाता राजन्येवांशू द्वौ द्वावपि सृजति यत्ते सोमादाभ्यं नाम जागृवि तस्मै ते सोम सोमाय स्वाहेति” इति।
यः सोम उपांशुग्रहाय पर्याप्त उपरे न्युप्तः श्वात्राः स्थेति मन्त्रेण वसतीवरीभिरुपसृष्टस्तस्मात्सोमादपादाय षडंशवः स्थापिताः। तथा चोक्तम् – “उपसृष्टस्य राज्ञः षडंशूनार्द्रानसंश्लिष्टानादाय चर्मणि निधाय” इति। त्रिष्वपि सवनेषु महाभिषवे तेषां षण्णामंशूनां मध्ये द्वौ द्वावंशू संसृजेत्। हे सोम तस्मै सोमाय ते तादृक्सोमनामधारिणे तुभ्यमिदं सोमांशुद्वयं स्वाहा हुतमस्तु।
सोमायेत्युक्तेरभिप्रायमाह –
“यत्ते सोमादाभ्यं नाम जागृवीत्याहैष वै सोमस्य सोमपीथः” (सं. का. ६ प्र. ४ अ. ४) इति।
यथाऽग्नौ होममन्तरेणैवापां सोमपानमुक्तं तथा सोमस्याप्येष एव मन्त्रेणांशुद्वयप्रक्षेपः।
सोमपानवेदनं प्रशंसति –
“य एवं वेद न सौम्यामार्तिमार्च्छति” (सं. का. ६ प्र. ४ अ. ४) इति।
सोमयागविनाशं न प्राप्नोति।

[[456]]

Page No. ४५६
श्रीमत्सायणाचार्यविरचितभाष्यसमेता– (१ प्रथमकाण्डे–
(उपांशुग्रहाभिधानम्)
षण्णामंशूनां संघातात्पृथक्करणं विधत्ते –
“घ्नन्ति वा एतत्सोमं यदभिषुण्वन्त्यँशूनप गृह्णाति त्रायत एवैनम्” (सं. का. ६ प्र. ४ अ. ४) इति।
अंशूनामपनयनेनाभिषवरूपाद्वधादेनं सोमं पालयति।
महाभिषवे तत्संसर्गं विधत्ते –
“प्राणा वा अँशवः पशवः सोमोऽँशून्पुनरपि सृजति प्राणानेव पशुषु दधाति” (सं. का. ६ प्र. ४ अ. ४) इति।
त्रिषु सवनेषु पृथगंशुसंसर्गं विधत्ते –
“द्वौद्वावपि सृजति तस्माद्द्वौद्वौ प्राणाः” (सं. का. ६ प्र. ४ अ. ४) इति। चक्षुःश्रोत्रघ्राणेन्द्रियरूपाः प्राणाः प्रत्येकं द्वौ द्वौ भूत्वा तत्तच्छिद्रेषु वर्तन्ते।
अत्र विनियोगसंग्रहः –
“आददेऽश्मानमादाय ग्रावाऽसीत्यभिमन्त्रयेत्।
इन्द्रा सोममिति पञ्च श्वात्रा निग्राम्यसेचनम्॥१॥
यत्ते सोमं मन्त्रयित्वा धिषेति फलके स्पृशेत्।
प्राक्त्रिः प्रदक्षिणाप्लावो ह्यम्ब पत्नीं विचिन्तयेत्॥
यत्ते महत्यभिषवे ह्यंशुयोगो नवेरिताः॥२॥” इति।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये प्रथमकाण्डे चतुर्थप्रपाठके प्रथमोऽनुवाकः ॥१॥
–––