(अथ प्रथमाष्टके तृतीयप्रपाठके चतुर्दशोऽनुवाकः)।
त्वम॑ग्ने रु॒द्रो असु॑रो म॒हो दि॒वस्त्वँ शर्धो॒
मारु॑तं पृ॒क्ष ई॑शिषे। त्वं वातै॑ररु॒णैर्या॑सि शंग॒–
[[437]]
Page No. ४३७
प्रपा. ३ अनु. १४ कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(काम्ययाज्यापुरोनुवाक्याः)
यस्त्वं पू॒षा वि॑ध॒तः पा॑सि॒ नु त्मना॑। आ
वो॒ राजा॑नमध्व॒रस्य॑ रु॒द्रँ होता॑रँ सत्य॒यजँ॒
रोद॑स्योः। अ॒ग्निं पु॒रात॑नयि॒त्नोर॒चित्ता॒द्धिर॑–
ण्यरूप॒मव॑से कृणुध्वम्। अ॒ग्निर्होता॒ निष॑सादा॒
यजी॑यानु॒पस्थे॑ मा॒तुः सु॑र॒भावु॑ लो॒के। युवा॑
क॒विः पु॑रुनि॒ष्ठः (१) ऋ॒तावा॑ ध॒र्ता
कृ॑ष्टी॒नामु॒त मध्य॑ इ॒द्धः। सा॒ध्वीम॑कर्दे॒ववी॑तिं
नो अ॒द्य य॒ज्ञस्य॑ जि॒ह्वाम॑विदाम॒ गुह्या॑म्। स
आयु॒राऽगा॑त्सुर॒भिर्वसा॑नो भ॒द्राम॑कर्दे॒वहू॑तिं नो
अ॒द्य। अक्र॑न्दद॒ग्निः स्त॒नय॑न्निव॒ द्यौः क्षामा॒
रेरि॑हद्वी॒रुधः॑ सम॒ञ्जन्। स॒द्यो ज॑ज्ञा॒नो वि–
हीमि॒द्धो अख्य॒दा रोद॑सी भा॒नुना॑ भात्य॒न्तः।
त्वे वसू॑नि पुर्वाणीक (२) हो॒त॒र्दो॒षा वस्तो॒–
रेरि॑रे य॒ज्ञिया॑सः। क्षामे॑व॒ विश्वा॒ भुव॑नानि॒
यस्मि॒न्त्सँ सौभ॑गानि दधि॒रे पा॑व॒के। तुभ्यं॒
ता अ॑ङ्गिरस्तम॒ विश्वाः॑ सुक्षि॒तयः॒ पृथ॑क्।
अग्ने॒ कामा॑य येमिरे। अ॒श्याम॒ तं काम॑मग्ने॒
तवो॒त्य॑श्याम॑ र॒यिँ र॑यिवः सु॒वीर॑म्। अ॒श्याम॒
वाज॑म॒भि वा॒जय॑न्तो॒ऽश्याम॑ द्यु॒म्नम॑जरा॒जरं॑ ते।
श्रेष्ठं॑ यविष्ठ भार॒ताग्ने॑ द्यु॒मन्त॒मा भ॑र (३)
वसो॑ पुरु॒स्पृहँ॑ र॒यिम्। स श्वि॑ता॒नस्त॑न्य॒तू
रो॑चन॒स्था अ॒जरे॑भि॒र्नान॑दभ्दि॒र्यवि॑ष्ठः। यः
पा॑व॒कः पु॑रु॒तमः॑ पु॒रूणि॑ पृ॒थून्य॒ग्निर॑नु॒याति॒
[[438]]
Page No. ४३८
श्रीमत्सायणाचार्यविरचितभाष्यसमेता– (१ प्रथमकाण्डे–
(काम्ययाज्यापुरोनुवाक्याः)
भर्व॑न्। आयु॑ष्टे वि॒श्वतो॑ दधद॒यम॒ग्निर्वरे॑ण्यः।
पुन॑स्ते प्रा॒ण आऽय॑ति॒ परा॒ यक्ष्मँ॑ सुवामि
ते। आ॒यु॒र्दा अ॑ग्ने ह॒विषो॑ जुषा॒णो घृ॒तप्र॑तीको
घृ॒तयो॑निरोधि। धृ॒तं पी॒त्वा मधु॒ चारु॒ गव्यं॑
पि॒तेव॑ पु॒त्रम॒भि (४) र॒क्ष॒ता॒दि॒मम् । तस्मै॑
ते प्रति॒हर्य॑ते॒ जात॑वेदो॒ विच॑र्षणे । अग्ने॒
जना॑मि सुष्टु॒तिम् । दि॒वस्परि॑ प्रथ॒मं ज॑ज्ञे
अ॒ग्निर॒स्मद्द्वितीयं॒ परि॑ जा॒तवे॑दाः । तृ॒तीय॑–
म॒प्सु नृ॒मणा॒ अज॑स्र॒मिन्धा॑न एनं जरते
स्वा॒धीः । शुचिः॑ पावक॒ वन्द्योऽग्ने॑ बृ॒हद्वि
रो॑चसे । त्वं॒ घृ॒तेभि॒राहु॑तः । दृ॒शा॒नो रु॒क्म
उ॒र्व्या व्य॑द्यौद्दुर्मर्ष॒मायुः॑ श्रि॒ये रु॑चा॒नः । अ॒ग्नि–
र॒मृतो॑ अभव॒द्वयो॑भिः (५) यदे॑नं द्यौ॒रज॑न
यत्सु॒रेताः॑। आ यदि॒षे नृ॒पतिं॒ तेज॒ आन॒ट्–
शुचि॒ रेतो॒ निषि॑क्तं॒ द्यौर॒भीके॑ । अ॒ग्निः शर्ध॑म–
नव॒द्यं युवा॑नँसाव॒धियं॑ जनयत्सू॒दय॑च्च। स
तेजी॑यसा॒ मन॑सा॒ त्वोत॑ उ॒त शि॑क्ष स्वप॒त्यस्य॑
शि॒क्षोः। अग्ने॑ रा॒यो नृत॑मस्य॒ प्रभू॑तौ भू॒याम॑
ते सृष्ठु॒तय॑श्च॒ वस्वः॑। अग्ने॒ सह॑न्त॒मा भ॑र
द्यु॒म्नस्य॑ प्रा॒सहा॑ र॒यिम्। विश्वा॒ यः (६)
च॒र्ष॒णीर॒भ्या॑सा वाजे॑षु सा॒सह॑त्। तम॑ग्ने पृत–
ना॒सहँ॑ र॒यिँ स॑हस्व॒ आ भ॑र । त्वँ हि
स॒त्यो अद्भु॑तो दा॒ता वाज॑स्य॒ गोम॑तः । उ॒क्षा–
न्ना॑य व॒शान्ना॑य सोम॑पृष्ठाय वे॒धसे॑ । स्तोमै॑–
[[439]]
Page No. ४३९
प्रपा. ३ अनु. १० कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(काम्ययाज्यापुरोनुवाक्याः)
र्विधमा॒ग्नये॑ । व॒द्मा हि सू॑नो॒ अस्य॑द्म॒सद्वा॑ च॒क्रे
अ॒ग्निर्ज॒नुषाऽज्मान्न॑म्। स त्वं न॑ ऊर्जसन॒ उर्ज॑
धा॒ राजे॑व जेरवृ॒के क्षे॑ष्य॒न्तः। अग्न॒ आयूँ॑षि (७)
प॒व॒स॒ आ सु॒वोर्ज॒मिषं॑ च नः। आ॒रे बा॑धस्व
दु॒च्छुना॑म्। अग्ने॒ पव॑स्व॒ स्वपा॑ अ॒स्मे वर्चः॑
सु॒वीर्य॑म्। दध॒त्पोषँ॑ र॒यिं मयि॑। अग्ने॑ पावक
रो॒चिषा॑ म॒न्द्रया॑ देव जि॒ह्वया॑। आ दे॒वान्व॑क्षि॒
यक्षि॑ च। स नः॑ पावक दीदि॒वोऽग्ने॑ दे॒वाँ
इ॒हाऽऽ व॑ह। उप॑ य॒ज्ञँ ह॒विश्च॑ नः। अ॒ग्निः
शुचि॑व्रततमः॒ शुचि॒र्विप्रः॒ शुचिः॑ क॒विः। शुची॑
रोचत॒ आहु॑तः। उद॑ग्ने॒ शुच॑य॒स्तव॑ शु॒क्रा
भ्राज॑न्त ईरते। तव॒ ज्योतीँ॑ष्यर्चयः॑ (८)॥
(पु॒रु॒नि॒ष्ठः पु॑र्वणीक भरा॒भि वयो॑भि॒र्य आयूँ॑षि॒ विप्रः॒ शुचि॒श्चतु॑र्दशच)॥
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां प्रथमाष्टके
तृतीयप्रपाठके चतुर्दशोऽनुवाकः ॥१४॥
(दे॒वस्य॑ रक्षो॒हणो॑ वि॒भूस्त्वँसो॒मात्य॒न्यानगां॑ पृथि॒व्या इ॒षे त्वाऽऽ द॑दे॒ वाक्ते॒ सं ते॑ समु॒द्रँ ह॒विष्म॑तीर्हृ॒दे त्वम॑ग्ने रु॒द्रश्चतु॑र्दश) ॥१४॥
(दे॒वस्य॑ ग॒मध्ये॑ ह॒विष्म॑तीः पवस॒ एक॑त्रिँशत्) ॥३१॥
हरिः॑ ॐ।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां प्रथमाष्टके
तृतीयः प्रपाठकः ॥३॥
[[440]]
Page No. ४४०
श्रीमत्सायणाचार्यविरचितभाष्यसमेता– (१ प्रथमकाण्डे–
(काम्ययाज्यापुरोनुवाक्याः)
(अथ प्रथमाष्टके तृतीयप्रपाठके चतुर्दोऽनुवाकः)।
त्रयोदशेऽनुवाके हविर्धानशकटादधिषवणफलकयोरुपरि सोमोऽवरोहितः। अथाभिषवो वक्तव्यः। तथाऽप्यध्यापकसंप्रदायेन प्रपाठकसमाप्तिरूपत्वाच्चतुर्दशेऽनुवाके काम्ययाज्यापुरोनुवाक्याः क्रमप्राप्ता अभिधीयन्ते।
तत्र काम्येष्टिकाण्डे राक्षोघ्नेष्टेरूर्ध्वमिष्टयन्तरं विधत्ते–
‘अग्नये रुद्रवते पुरोडाशमष्टाकपालं निर्वपेदभिचरन्नेषा वा अस्य घोरा तनूर्यद्रुदस्तस्मा एवैनमा वृश्चति ताजगार्तिमार्च्छति’ (सं. का. २ प्र. ४ अ. २) इति।
रुद्रवते घोरतनूयुक्ताय। अभिचरञ्शत्रुं मारयन्। तस्मै रुद्रवतेऽग्नये। एनं शत्रुमावृश्चति समन्ताच्छित्त्वा प्रयच्छति। ताजक् तदानीमेव।
तत्र पुरोनुवाक्या –
त्वमग्न इति। हेऽग्ने त्वं रुद्रो घोरतनूयुक्तोऽसुरः शत्रूणां निरसिता। दिवो द्युलोकस्य मह उत्सवरूपो हविर्वहनेनोत्सवकारित्वात्। त्वं मारुतं शर्धो मरुतां संबन्धि बलं बलवत्त्वेन प्रसिद्धानां मरुद्गणानामपि त्वदनुग्रहेणैव बलं भवति। अतः पृक्ष ईशिषे मरुद्भिः संपृक्तस्तदीयं सैन्यं नियमय। किंच त्वं शंगयः सुखं प्राप्तो वायुवेगैररुणवर्णैरश्वैर्यासि। किंच पोषकस्त्वं नु त्मना स्वयमेव पासि। कान्, विधतो हविषा परिचर्यां विदधतो यजमानान्।
अथ याज्या–
आ व इति। हे ऋत्विग्यजमाना वो युष्माकमवसे रक्षणायाग्निमाकृणुध्वं वशी कुरुत। कदा, तनयित्नोरचित्तात्, न विद्यते चित्तं यस्मिन्मरणे तदचित्तं शत्रुणा विस्तारिताद्भवदीयमरणात्पूर्वमेव। कीदृशमग्निम्। अध्वरस्य राजानं यज्ञस्वामिनं, रुद्रँ शत्रून्प्रति क्रूरं, होतारं फलदानाय भक्तानामाह्वातारं, रोदस्योः सत्ययजं द्युलोके भूलोके च सत्यमवश्यं कर्मफलं यजति ददातीति सत्ययजस्तं, हिरण्यरूपं तत्सदृशम्।
इष्ट्यन्तरं विधत्ते–
‘अग्नये सुरभिमते पुरोडाशमष्टाकपालं निर्वपेद्यस्य गावो वा पुरुषा वा प्रमीयेरन्यो वा बिभीयादेषा वा अस्य भेषज्या तनूर्यत्सुरभिमती तयैवास्मै भेषजं करोति सुरभिमते भवति पूतीगन्धस्यापहत्यै’ (सं. का. २ प्र. २ अ. २) इति।
[[441]]
Page No. ४४१
प्रपा. ३ अनु. १४ कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(काम्ययाज्यापुरोनुवाक्याः)
सुरभिमते भेषज्यतनूयुक्ताय। यस्य यजमानस्य गावो वा भृत्या वा दैविकरोगबाहुल्येन बहवो म्रियेरन्स्वयं वा कदाचिदपमृत्योर्भीतो भवेत्तादृशो निर्वपेत्पूतीगन्धास्य शवगन्धस्य निवृत्तये सुगन्धयुक्ताय कुर्यात्।
तत्र पुरोनुवाक्या –
अग्निर्होतेति। अयमग्निर्मातुरुपस्थे वेदेः समीपवर्तिनि सुरभावु लोके सुरभिगन्धयुक्त एवाऽऽहवनीयस्थाने निषसादोपविष्टः। कीदृशोऽग्निः। होता देवानामाह्वाता। यजीयान्मानुषाद्धोतुरतिशयेन यष्टा। युवा नित्यं तरुणः। कविर्मेधावी। पुरुनिष्ठः पुरुषु गार्हपत्यादिस्थाने स्थितः। ऋतावा सत्यवान्। कृष्टीनां धर्ता मनुष्याणां पोषकः। अपि च मध्ये मनुष्याणामुदर इद्धो जाठराग्निरूपेण दीप्तः।
अथ याज्या –
साध्वीमिति। अयमग्निरद्य नो देववीतिमस्माभिर्देवेभ्यो दत्तां भक्ष्यां पुरोडाशाहुतिं साध्वीमकः स्वादुमकरोत्। अतो यज्ञस्य जिह्वास्थानीयां गोप्यामग्निदेवतामविदाम वयं लब्धवन्तः। सुरभिः पुरोडाशाज्यादिसुगन्धोपेतः सोऽग्निरायुर्वसानोऽस्मदीयमायुराच्छादयन्गोपायन्नगादागच्छतु। अद्य नोऽस्मदीयां देवहूतिं भद्रामकः, देवार्थं होमं यथाशास्त्रं करोतु।
इष्ट्यन्तरं विधत्ते –
‘अग्नये क्षामवते पुरोडाशमष्टाकपालं निर्वपेत्संग्रामे संयत्ते भागधेयेनैवैनँ शमयित्वा परानभि निर्दिशति यमवरेषां विध्यन्ति जीवति स यं परेषां प्र स मीयते जयति तँ संग्रामम्’ (सं. का. ६ प्र. २ अ. २) इति।
क्षामवते क्षुधायुक्ताय। युद्धे प्रत्यासन्ने सति जयार्थी निर्वपेत्। स्वदत्तेनाग्निभागेन स्वविषयमग्निं शान्तं कृत्वा पराञ्शत्रून्वह्नेराभिमुख्येन निर्दिशति हन्तुं प्रदर्शयति। तथा सत्यवरेषां स्वसैन्यगतानां मध्ये यं पुरुषं शत्रवो विध्यति स जीवति। परेषां शत्रुसैन्यगतानां मध्ये यं पुरुषमितरे विध्यन्ति स प्रम्रियते। ततो यजमानो जयति।
यथा जयार्थिन एषेष्टिस्तथा बहुबन्धुमरणनिवारणार्थिनोऽप्येतामिष्टिं विधत्ते –
‘अभि वा एष एतानुच्यति येषां पूर्वापरा अन्वञ्चः प्रमीयन्ते पुरुषाहुतिर्ह्यस्य प्रियतमाऽग्नये क्षामवते पुरोडाशमष्टाकपालं निर्वपेद्भागधेयेनैवैनँ शमयति नैषां पुराऽऽयुषोऽपरः प्र मीयते’ (सं. का. ६ प्र. २ अ. २) इति।
[[442]]
Page No. ४४२
श्रीमत्सायणाचार्यविरचितभाष्यसमेता– (१ प्रथमकाण्डे–
(काम्ययाज्यापुरोनुवाकक्याः)
पूर्वापरा ज्येष्ठा कनिष्ठाश्च। अन्वञ्चो विच्छेदवर्जिताः। येषां बन्धूनां मध्ये बहवो विच्छेदमन्तरेण म्रियन्त एतानभिलक्ष्यैष क्षामवानग्निरुच्यति समवैति। कुतः, पुरुषाहुतेरेतत्प्रियत्वात्पुरोडाशेनाग्निः शाम्यति। तत एषां बन्धुनां मध्ये ज्येष्ठे जीवति सत्यपरः कनिष्ठ आयुःसंपूर्तेः पूर्वमपमृत्युना न म्रियते।
गृहदाहादि निमित्तीकृत्यापि तामेवेष्टिं विधत्ते –
‘अभि वा एष एतस्य गृहानुच्यति यस्य गृहान्दहत्यग्नये क्षामवते पुरोडाशमष्टाकपालं निर्वपेद्भागधेयेनैवेनँ शमयति नास्यापरं गृहान्दहति’ (सं. का. २ प्र. २ अ. २) इति।
अपरं यथा भवति तथा न दहति। न पुनर्दहतीत्यर्थः।
अस्यां त्रिविधायां क्षामवतेष्टौ पुरोनुवाक्यामाह –
अक्रन्ददिति। अयमग्निरक्रन्ददस्मदनिष्टनिवारणार्थं गर्जतु। किमिव। स्तनयन्निव द्यौर्यथा द्युलोकस्थो मेघो गर्जन्सस्यशोषभीतिं निवारयति तद्वत्। किं कुर्वन्। क्षाम दाहकमस्मद्विरुद्धं रेरिहल्लेलिहानो वीरुधः समञ्जन्पुष्पलतावदस्मदनुकूलानि सम्यगभिव्यञ्जयन्। हि यस्माज्जज्ञान उत्पद्यमानः सद्य ईमिदानीमेवेद्धो दीप्तो व्यख्यद्विविधं जगत्प्रख्यापयति। रोदसी द्यावापृथिव्योरन्तर्भानुना रश्मिना स्वयमाभाति समन्तात्प्रकाशते।
अथ याज्या –
त्वे वसूनीति। हे पुर्वणीकात्यन्तबहुल होतर्देवानामाह्वातर्दोषा रात्रौ वस्तोर्दिवा च यज्ञियासो यज्ञार्हाणि वसूनि हवींषि एरिर आगच्छन्ति। त्वदनुग्रहात्पूर्वं क्षामेव दग्धं पटादिकमिव विश्वा भुवनानि निःसाराणि भूत्वा पावके त्वय्यनुगृह्णाति सति पश्चात्सौभगानि संदधिरे सौभाग्यं प्राप्नुवन्। तादृशस्त्वमस्माननिगृहाणेत्यर्थः।
इष्ट्यन्तरं विधत्ते –
‘अग्नये कामाय पुरोडाशमष्टाकपालं निर्वपेद्यं कामो वोपनमेदग्निमेव कामँ स्वेन भागधेयेनोप धावति स एवैनं कामेन समर्धयत्युपैनं कामो नमति’ (सं. का. २ प्र. २ अ. ३) इति।
कामाय कामप्रदाय, कामितार्थो यं यजमानं न प्राप्नुयात्स निर्वपेत्।
[[443]]
Page No. ४४३
प्रपा. ३ अनु. १४ कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(काम्ययाज्यापुरोनुवाक्याः)
तत्र पुरोनुवाक्या –
तुभ्यमिति। हेऽङ्गिरस्तमातिशयेनाङ्गसारोपेताग्ने सुक्षितयो वेदिरूपशोभनभूमियुक्ता विश्वाः सर्वास्ताः प्रजाः पृथक्कामयमाना विविधकामितार्थसिद्धिप्रदाय तुभ्यं येमिरे नियमं स्वीकृतवन्तः।
अथ याज्या –
अश्यामेति। हेऽग्ने तवोती त्वदीयरक्षया तं काममभीष्टफलमश्याम व्याप्नुयाम। किंच, हे रयिवो हे धनवन्सुवीरं शोभनपुत्रपौत्राद्युपेतं रयिं धनमश्याम। किंच वाजयन्तोऽन्नमिच्छन्तो वयं वाजमन्नमभितोऽश्याम। किंच, हेऽजर तव प्रसादादजरमक्षयं द्युम्नं यशोऽश्याम।
इष्ट्यन्तरं विधत्ते –
‘अग्नये यविष्टाय पुरोडाशमष्टाकपालं निर्वपेत्स्पर्धमानः क्षेत्रे वा सजातेषु वाऽग्निमेव यविष्ठँ स्वेन भागधेयेनोप धावति तेनैवेन्द्रियं वीर्यं भ्रातृव्यस्य युवते वि पाप्मना भ्रातृव्येण जयते’ (सं. का. २ प्र. २ अ. ३) इति।
यविष्ठायातिशेन वियोगकारिणे, युवते वियोजयति। यजमानः पापिना वैरिणा वियुक्तो जयति।
एतामेवेष्टिं परप्रयुक्ताभिचारनिवारणाय विधत्ते –
‘अग्नये यविष्ठाय पुरोडाशमष्टाकपालं निर्वपेदभिचर्यमाणोऽग्निमेव यविष्ठँ स्वेन भागधेयेनोप धावति स एवास्माद्रक्षाँसि यवयति नैनमभिचरन्त्स्तृणुते’ (सं. का. २ प्र. २ अ. ३) इति।
यवयति वियोजयति। अभिचरन्वैर्येनमिष्टिकारिणं न स्तृणुते हन्तुं न शक्नोति।
एतस्यां द्विविधायामिष्टौ पुरोनुवाक्यामाह –
श्रेष्ठमिति। हेऽग्ने रयिमाभर धनमाहर। यविष्ठातिशयेन वियोगकारिन्। भारत ऋत्विग्भिर्भरणीय। वसो, आहुतिनिवासभूत। कीदृशं रयिं, श्रेष्ठं प्रशस्ततमं द्युमन्तं दीप्तिमन्तं पुरुस्पृहं पुरुभिर्बहुभिः स्पृहणीयं मणिमुक्तादिरूपम्।
अथ याज्या –
स श्वितान इति। योऽग्निः पावकः शोधयिता पुरुतम आहवनीयगार्हपत्या–दिनामभिर्यविष्ठादिविशेषणैश्चात्यन्तं बहुविधः पुरूणि बहूनि पृथूनि विस्तृतानि
[[444]]
Page No. ४४४
श्रीमत्सायणाचार्यविरचितभाष्यसमेता– (१ प्रथमकाण्डे–
(काम्ययाज्यापुरोनुवाक्यः)
पुरोडाशादिहवींषि भर्वन्भक्षयन्ननुयाति यजमानगृहमनुदिनं गच्छति सोऽग्निर्वक्ष्यमाणगुणोपेतः। श्वितानो दीप्यमानः। तन्यतुः फलानां विस्तारयिता। रोचनस्था दीप्तिमत्सु देवयजनेष्ववस्थितः। अजरेभिर्जरारहितैर्नानदद्भिः स्तुतिं कुर्वाणैर्देवैः संयुतः। यविष्ठोऽतिशयेन वैरिवियोगकर्ता।
इष्ट्यन्तरं विधत्ते –
‘अग्नय आयुष्मते पुरोडाशमष्टाकपालं निर्वेपेद्यः कामयेत सर्वमायुरियामित्यग्निमेवाऽऽयुष्मन्तँ स्वेन भागधेयेनोप धावति स एवास्मिन्नायुर्दधाति सर्वमायुरेति’ (सं. का. २ प्र. २ अ. ३) इति।
अयुष्मत आयुष्प्रदाय।
तत्र पुरोनुवाक्या –
आयुष्ट इति। हे यजमान ते तुभ्यं वरेण्यः श्रेष्ठोऽयमग्निर्विश्वत आयुर्दधत्संपूर्णमायुर्दधातु। अपमृत्युना गृहीतोऽपि ते प्राणः पुनरस्यानुग्रहेणाऽऽयाति त्वद्देहे ,समागच्छतु। ते तव यक्ष्मं व्याधिं परासुवामि विनाशयामि।
अथ याज्या –
आयुर्दा इति। हेऽग्ने त्वमायुर्दा एधि यजमानस्याऽऽयुष्प्रदो भव। कीदृशस्त्वम्। हविषो जुषाणः पुरोडाशं सेवामानः। घृतप्रतीको घृतोपक्रम आघारप्रयाजादीनां घृतेन हूयमानत्वात्। घृतयोनिरवसानेऽप्यनूयाजादौ घृतमेव योनिर्जन्मोत्पत्तिकारणं यस्यासौ घृतयोनिः। तादृशस्त्वं मधु स्वादुतमं चारु शोधितत्वेन निर्मलं गव्यं घृतं पीत्वा पिता पुत्रमिवेमं यजमानमभितो रक्षो।
इष्ट्यन्तरं विधत्ते –
‘अग्नये जातवेदसे पुरोडाशमष्टाकपालं निर्वपेद्भूतिकामोग्निमेव जातवेदसँ स्वेन भागधेयेनोप धावति स एवैनं भूतिं गमयति भवत्येव’ (सं. का. २ प्र. २ अ. ३) इति।
जातवेदस उत्पन्नधनाय भवत्येव भूतिं प्राप्नोत्येव।
तत्र पुरोनुवाक्या –
तस्मा इति। विविधाश्चर्षणयो मनुष्या यजमाना यस्यासौ विचर्षणिः। हे विचर्षणे जातवेदोऽग्ने प्रतिहर्यते प्रतिदिनं यजमानगृहं गच्छते तस्मै ते शोभनां स्तुतिं जनामि जनयामि।
[[445]]
Page No. ४४५
प्रपा. ३ अनु. १४ कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(काम्ययाज्यापुरोनुवाक्याः)
अथ याज्या –
दिवस्परीति। अग्निः प्रथमं दिवस्परि द्युलोकस्योपरि जज्ञे सूर्यरूपेणोत्पन्नः। अस्मत्परि अस्मदीयस्य मनुष्यलोकस्योपरि जातवेदा द्वितीयं जज्ञे प्रसिद्धमग्निरूपेण द्वितीयं जन्म प्राप्तवान्। अप्सु समुद्रे तृतीयं जज्ञे वडवानलरूपेणोत्पन्नः। अजस्रं त्रिष्वपि जन्मसु नृमणा नृषु यजमानेषु मनोऽनुग्रहबुद्धिर्यस्यासौ नृमणाः। एनमीदृशमग्निमिन्धानः पुरोडाशादिभिर्दीपयन्स्वाधीः स्वायत्तचित्तो जरते जीर्यते जरापर्यन्तं परिचरतीत्यर्थः।
इष्ट्यन्तरं विधत्ते –
‘अग्नये रुक्मते पुरोडाशमष्टाकपालं निर्वपेद्रुक्कामोऽग्निमेव रुक्मन्तँ स्वेन भागधेयेनोप धावति स एवास्मिन्रुचं दधाति रोचत एव’ (सं. का. २ प्र. २ अ. ३) इति।
रुक्मते कान्तिमते। रोचते कान्तिमान्भवति।
तत्र पुरोनुवाक्या –
शुचिरिति। हे पावक शोधयितरग्ने शुचिर्वन्द्यश्च त्वं घृतप्रभृतिभिर्हव्यैः समन्ताद्धुतः सन्बृहद्विरोचसे।
अथ याज्या –
दृशान इति। दृशानो दर्शनीयरूपो रुक्मः सुवर्णसदृशोऽग्निरुर्व्या महत्या दप्त्या व्यद्यौद्विद्योतते। किं कुर्वन्। दुर्मर्षमितरैरतिरस्कार्यमायुर्जीवनं श्रिये श्रयितुं रुचानो वाञ्छन्। तथाविधोऽग्निर्वयोभिरमृतोऽभवत्। यद्यस्मादेनमग्निं द्यौर्द्युलोकवासी देवगणः सुरेताः सन्नजनयत्तस्मादस्यामृतत्वं युक्तम्।
इष्ट्यन्तरं विधत्ते –
‘अग्नये तेजस्वते पुरोडाशमष्टाकपालं निर्वपेत्तेजस्कामोऽग्निमेव तेजस्वन्तँ स्वेन भागधेयेनोप धावति स एवास्मिन्तेजो दधाति तेजस्व्येव भवति’ (सं. का. २ प्र. २ अ. ३) इति।
तेजस्वते प्रभावते नियमनसामर्थ्यवते वा।
तत्र पुरोनुवाक्या –
आ यदिति। यत्तेज इषेऽभीष्टसिद्धये नृपतिं यजमानपालकमग्निमा समन्तादानड्व्याप्नोत्, यदपि शुचि रेतः शुद्धं बीजं मातापितृभ्यां निषिक्तं तेन तेजसा
[[446]]
Page No. ४४६
श्रीमत्सायणाचार्यविरचितभाष्यसमेता– (१ प्रथमकाण्डे–
(काम्ययाज्यापुरोनुवाक्याः)
तेन च बीजेन द्यौर्द्युलोकस्थोऽग्निरभीके प्रत्यासन्नकाले शर्धादिविशेषणोपेतं पुरुषं जनयदुत्पादयति, सूदयच्च विरोधिपापं नाशयत्यपि। शर्धं बलवन्तम्। अनवद्यं दोषरहितम्। युवानं तरुणम्। स्वाधियं स्वयत्तचित्तम्। अतो यजमानाय तेजो दातुमग्निः शक्नोति।
अथ याज्या –
स तेजीयसेति। स यजमानस्त्वोतस्त्वया रक्षितः। केन साधनेन। तेजीयसाऽत्यन्ततेजोयुक्तेन मनसा। किंच हेऽग्ने स्वपत्यस्य शोभपुत्रपौत्रादियुक्तस्य शिक्षोः शक्तुमिच्छतो नृतमस्य मनुष्यतमस्य मनुष्येषु श्रेष्ठस्य यजमानस्य रायः शिक्ष धनानि देहि। ते प्रभूतौ त्वदनुग्रहेण प्रभुत्वे सति वयं वस्वो वसुमत्तमाः सुष्टुतयश्च शोभनस्तुतियुक्ता बहुयागानुष्ठानेन स्तोत्रशस्त्रैः प्रभूता भूयास्म।
इष्ट्यन्तरं विधत्ते –
‘अग्नये साहन्त्याय पुरोडाशमष्टाकपालं निर्वपेत्सीक्षमाणोऽग्निमेव साहन्त्यँ स्वेन भागधेयेनोप धावतितेनैव सहते यँ सीक्षते’ (सं. का. २ प्र. २ अ. ३) इति।
साहन्त्याय सहिष्णवे वैरिणामभिभवित्रे सीक्षमाणः सोदुमभिभवितुमिच्छुः। यं वैरिणं सीक्षते तं तेनानुगृहीतोऽभिभवति।
तत्र पुरोनुवाक्या –
अग्न इति। हेऽग्ने द्युम्नस्यास्मदीयस्य यशसः सहन्तमभिभवितारं वैरिणं प्रासहा प्रसभमाभरास्मद्वशे समानय। रयिं तदीयं धनं चाऽऽनय। यो भवांश्चर्षणीर्मनुष्यसेना विश्वा अस्मत्प्रतिपक्षभूताः सर्वा अभिसासहदभिभवेत्। किंनिमित्तं, वाजेषु अस्मदीयेष्वन्नेषु निमित्तभूतेषु। केन साधनेन। आसा त्वत्संनिधानेन। पराभिभावाय त्वत्संनिध्यतिरिक्तप्रयत्नो नापेक्षित इत्यर्थः।
अथ याज्या –
तमग्न इति। हेऽग्ने (सहस्वो बलवन्) तं पृतनासहं परकीयसेनाभिभवक्षमं रयिं धनमाभराऽऽहर। हि यस्मात्त्वं सत्यः परमार्थभूतो बाधरहितोऽद्भुत आश्चर्यचरित्रस्तस्माद्गोमतो बहुगोयुक्तस्य वाजस्यान्नस्य दाता त्वमेव।
इष्ट्यन्तरं विधत्ते –
‘अग्नयेऽन्नवते पुरोडाशमष्टाकपालं निर्वपेद्यः कामयेतान्नवान्त्स्यामित्यग्नि–
[[447]]
Page No. ४४७
प्रपा. ३ अनु. १४ कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(काम्ययाज्यापुरोनुवाक्याः)
मेवन्नवन्तँ स्वेन भागधेयेनोप धावति स एवैनमन्नवन्तं करोत्यन्नवानेव भवति’ (सं. का. २ प्र. २ अ. ४) इति।
अन्नवते बह्वन्नयुक्ताय।
तत्र पुरोनुवाक्या –
उक्षान्नायेति। अग्नये स्तोमैः स्तोत्रैर्विधेम परिचर्यां कुर्याम। कीदृशाय। उक्षान्नाय वशान्नाय। उक्षा वृषभः। वशा वन्ध्या। तत्पशुद्वयं क्वचिद्यागे हविष्ट्वेन श्रूयते – ‘यो भ्रातृव्यवान्त्स्यात्स स्पर्धमानो वैष्णावरुणीं वशामालभेतैन्द्रमुक्षाणम्’ इति। यद्यप्यत्र देवताऽन्या तथाऽपि हविरग्नावेव हूयत इत्यग्निरुक्षान्नो वशान्नश्च। एतदन्नान्तरस्याप्युलक्षार्थम्। सोमयुक्तानि पृष्ठस्तोत्राणि यस्यासौ सोमपृष्टः। अनेकस्तोत्रसत्कृतदेवतासंयुक्तः सोमोऽप्यस्यान्नमित्यर्थः। वेधसेऽन्नस्य विधात्रे।
अथ याज्या –
वद्मा हीति। हे सूनो पुत्रवदभिमतकारिन्नग्ने त्वं वद्माऽसि वदत्यनयेति वद्मा वाक्तदभिमानिदेवत्वेन तद्रूपोऽसि। अस्मिन्नर्थे श्रुत्यन्तरप्रसिद्धिद्योतनाय हिशब्दः। ‘अग्निर्वाग्भूत्वा मुखं प्राविशत्’ इति श्रुत्यन्तरम्। सोऽग्निरस्मदर्थमन्नमज्म च चक्रे। (अज्म गृहम्)। तन्नामसु पाठात्। विवाहाग्निर्जायमान एव गृहाश्रमं कारयति। कीदृशोऽग्निः। अद्मसद्वा, अद्यत इत्यद्मान्नं तस्मिन्सीदतीत्यद्मसद्वा, भुक्तमन्नं जरयितुं जठराग्निरूपेणात्र सीदति। केन व्यापारेणान्नमज्म (च) चक्रे जनुषा जन्ममात्रेण न तु व्यापारान्तरेण। न हि संकल्पसिद्धस्य व्यापारापेक्षाऽस्ति। हे ऊर्जसने रसप्रद त्वं नोऽस्मभ्यमूर्जं रसं धा देहि। राजेव जेः, राजा यथा जयति तद्वज्जय। वृकवद्धिंस्रको वृकः। अवृके हिंसादिदोषरहिते यजमाने त्वनुग्रहीतुमन्तः क्षेषि निवससि।
इष्ट्यन्तरं (रे) विधत्ते –
‘अग्नयेऽन्नादाय पुरोडाशमष्टाकपालं निर्वपेद्यः कामयेतान्नादः स्यामित्यग्निमेवान्नादँ स्वेन भागधेयेनोप धावति स एवैनमन्नादं करोत्यन्नाद एव भवत्यग्नयेऽन्नपतये पुरोडाशमष्टकपालं निर्वपेद्यः कामयेतान्नपतिः स्मामित्यग्निमेवान्न–
[[448]]
Page No. ४४८
श्रीमत्सायणाचार्यविरचितभाष्यसमेता– (१ प्रथमकाण्डे–
(काम्ययाज्यापुरोनुवाक्याः)
पतिँ स्वेन भागधेयेनोप धावति स एवैनमन्नपतिं करोत्यन्नपतिरेव भवति’ (सं. का. २ प्र. ३ अ. ४) इति।
अन्नमत्तीत्यन्नादस्तीव्रदीपनयुक्तः। अन्नपतिर्बह्वन्नस्वामी। अनयोरपीष्टयोर-न्नमात्रलिङ्गकमन्नपतिसाधारण्यादेव याज्यापुरोनुवाक्यायुगलं द्रष्टव्यम्। यद्वा शाखान्तरेऽन्नादलिङ्गकमन्नपतिलिङ्गकं चान्वेषणीयम्।
इष्ट्यन्तरं हविस्त्रयोपेतं विधत्ते –
‘अग्नये पवमानाय पुरोडाशमष्टाकपालं निर्वपेदग्नये पावकायाग्नये शुचये ज्योगामयावी यदग्नये पवमानाय निर्वपति प्राणमेवास्मिन्तेन दधाति यदग्नये पावकाय वाचमेवास्मिन्तेन दधाति यदग्नये शुचय आयुरेवास्मिन्तेन दधात्युत यदीतासुर्भवति जीवत्येव’ (सं. का. २ प्र. ३ अ. ४) इति।
पवमानाय पापानां शोधयित्रे। पावकाय पापानां शुद्धिहेतवे। शुचये, औज्ज्वल्यहेतवे। द्वितीयतृतीयवाक्ययोरपि पुरोडाशमष्टाकपालं निर्वपेदित्यनुवर्तते। ज्योगामयावी दीर्घरोगयुक्तः। उतापि च यद्यपीतासुर्गतप्राणो भवेत्तथाऽपि जीवत्येव, तत्र नीरोगो भवतीति किमु वक्तव्यम्।
पुनरपि तामेवेष्टिं फलान्तराय विधत्ते –
‘एतामेव निर्वपेच्चक्षुष्कामो यदग्नये पवमानाय निर्वपति प्राणमेवास्मिन्तेन दधाति यदग्नये पावकाय वाचमेवास्मिन्तेन दधाति यदग्नये शुचये चक्षुरेवास्मिन्तेन दधात्युत यद्यन्धो भवति प्रैव परयति’ (सं. का. २ प्र. २ अ. ४) इति।
यत्र फलभेदेन द्विविधायामस्यामिष्टौ प्रथमहविषः पुरोनुवाक्या –
अग्न इति। हेऽग्न आयूंष्यस्मदीयजीवनानि पवसे यथा वर्धन्ते तथा शोधयसे। ऊर्जं क्षीरादिरसमिषमन्नं च नोऽस्माकमासुवाऽऽभिमुख्येन प्रेरय। दुच्छुनामुपद्रवमारे दूरे नीत्वा बाधस्य विनाश्य।
अथ याज्या –
अग्ने पवस्वेति। हेऽग्ने शोभनमपः कर्म यस्यासौ स्वपाः। तादृशस्त्वमस्मे अस्मदीयं वर्चो ब्रह्मवर्चसं सुवीर्यं शोभनं सामर्थ्यं च पवस्व शोधयस्व वर्धयेत्यर्थः। पुष्टिं रयिं धनं च मयि दधत्स्थापय।
द्वितीयस्य हविषः पुरोनुवाक्या –
[[449]]
Page No. ४४९
प्रपा. ३ अनु. १४ कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(काम्ययाज्यापुरोनुवाक्याः)
अग्ने पावकेति। हेऽग्ने पावक शोधक देव द्योतनात्मक रोचिषा दीप्तिमत्या मन्द्रया श्लक्ष्णया जिह्वया वाचा देवानावक्षि यक्षि आवह यज च।
अथ याज्या –
स न इति। हे पावक शोधक दीदिवो दीप्यमानाग्ने नोऽस्मदर्थं देवानिह कर्मण्यावह, अस्माकमिमं यज्ञं हविश्चोप देवसमीपे प्रपय।
तृतीयस्य हविषः पुरोनुवाक्या –
अग्निः शुचीति। अयमग्निः प्रथमं तावच्छुचिव्रततमः स्वत एव शुचिव्रततमोऽतिशयेन शुद्धं व्रतमाचरणं दाहपाकप्रकाशरूपं यस्यासौ तादृशः। तत उर्ध्वं विप्राभिमानित्वादपि शुचिः। तत उर्ध्वं विद्वदभिमानित्वेन शुचिः। ततोऽप्यूर्ध्वमाभिमुख्येन हुतः शुचिर्दीप्तिमान्रोचते शोभते।
अथ याज्या –
उदग्न इति। हेऽग्ने शुचयः शुद्धास्तव शुक्रा रश्मयो भ्राजन्तः प्रकाशमाना उदीरत उद्गछन्ति। तथाऽर्चयः पूजका ज्योतींषि भासकानि देवतारूपाणि प्राप्नुवन्ति।
अत्र विनियोगसंग्रहः –
“त्वं याज्या रुद्रवद्यागे ह्यग्निः सुरभिसंयुते।
अक्रन्क्षामयुजे तुभ्यं कामिनि श्रेष्ठमित्यसौ॥१॥
यविष्ठयुत आयुष्टे आयुष्मति तथोपरि।
जातवेदयुते तस्मै शुची रुक्मयुते तथा॥२॥
आ यत्तेजोयुते ह्यग्ने साहन्त्यगुणसंयुते।
उक्षान्नसंयुते ह्यग्ने पवमानयुते तथा।
अग्ने पावकवत्यग्निः शुचावष्टौ च विंशतिः॥३॥” इति।
अत्र मीमांसा नास्ति।
अथ च्छन्दः –
त्वमग्ने रुद्र इत्यादयः षट्। अश्याम तं स श्वितान आयुर्दा अग्ने दिवस्परि
[[450]]
Page No. ४५०
श्रीमत्सायणाचार्यविरचितभाष्यसमेता– (१ प्रथमकाण्डे–
(पात्रेषु रसग्रहणाय पूर्वमुपावहृतस्य सोमस्याभिषवः)
दृशानो रुक्म आ यदिषे स तेजीयसा वद्मा हि सूनो च त्रिष्टुभः। तुभ्य ताः श्रेष्ठं यविष्ठ तस्मै ते शुचिः पावकोक्षन्नायेत्येता अग्न आयूंषीत्यदयश्च षड् गायत्र्यः। आयुष्टेऽग्ने सहन्तं तमग्ने पृतनासहमित्येता अनुष्टुभः॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये प्रथमकाण्डे तृतीयप्रपाठके चतुर्दशोऽनुवाकः ॥१४॥
––––
वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन्।
पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः॥१॥
इति श्रीमद्विद्यातीर्थमहेश्वरापरावतारस्य श्रीमद्राजाधिराजपरमेश्वरस्य श्रीवीरबुक्कमहाराजस्याऽऽज्ञापरिपालकेन माधवाचार्येण विरचिते
वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये
प्रथमाष्टके तृतीयः प्रपाठकः ॥३॥
–––––