( अथ प्रथमाष्टके तृतीयप्रपाठकेऽष्टमोऽनुवाकः )।
आ द॑द ऋ॒तस्य॑ त्वा देवहविः॒ पाशे॒नाऽऽर॑भे॒
धर्षा॒ मानु॑पान॒द्भ्यस्त्वौष॑धीभ्यः॒ प्रोक्षा॑म्य॒पां
पे॒रुर॑सि स्वा॒त्तं चि॒त्सदे॑वँ ह॒व्यमापो॑ देवीः॒
स्वद॑तैनँ॒ सं ते॑ प्रा॒णो वा॒युना॑ गच्छतँ॒ सं
यज॑त्रै॒रङ्गा॑नि॒ सं य॒ज्ञप॑तिरा॒शिषा॑ घृ॒तेना॒क्तौ
प॒शुं त्रा॑येथाँ॒ रेव॑तीर्य॒ज्ञप॑तिं प्रिय॒धाऽऽवि॑श॒-
तोरो॑ अन्तरिक्ष स॒जूर्दे॒वेन॑ (१) वाते॑ना॒स्य
ह॒विष॒स्त्मना॑ यज॒ सम॑स्य त॒नुवा॑ भव॒ वर्षी॑यो॒
वर्षी॑यसि य॒ज्ञे य॒ज्ञप॑तिं धाः पृथि॒व्याः सं॒पृचः॑
पाहि॒ नम॑स्त आतानान॒र्वा प्रेहि॑ घृ॒तस्य॑ कु॒ल्या-
मनु॑ स॒ह प्र॒जया॑ स॒ह रा॒यस्तोषे॒णाऽऽपो॑ देवीः
शुद्धायुवः शु॒द्धा यू॒यं दे॒वाँ ऊ॑ड्ढ्वँ शु॒द्धा व॒यं
परि॑विष्टाः परिवे॒ष्टारो॑ वौ भूयास्म [ २ ] ॥
(दे॒वेन॒ चतु॑श्चत्वारिँशच्च)।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां प्रथमाष्टके
तृतीयप्रपाठकेऽष्टमोऽनुवाकः ॥८॥
(अथ प्रथमकाण्डे तृतीयप्रपाठकेऽष्टमोऽनुवाकः)।
सप्तमेऽनुवाके पशोरुपाकरणं प्राधान्येनोक्तम्। अथोपाकृतस्य विशसनमष्टमेऽनुवाके विधीयते।
आ दद इति। बौधायनः – ‘अथ रशनामादत्ते देवस्य त्वा सवितुः प्रसवेऽश्वितोबार्हुभ्यां पूष्णो हस्ताभ्यामा दद इति ’ इति।
अत्राऽऽम्नात आ दद इति मन्त्रो देवस्य त्वेत्यनेन पूर्यते।
[[387]]
Page no. 388
आपस्तम्बः — ‘ सावित्रेण रशनामादाय पशोर्दक्षिणे बाहौ परिवीयोर्ध्वमुत्कृष्यर्तस्य त्वा देवहविः पाशेनाऽऽरभ इति दक्षिणेऽर्धशिरसि पाशेनाक्ष्णया प्रतिमुच्य धर्षा मानुषानित्युत्तरतो यूपस्य नियुनक्ति दक्षिणत ऐकादशिनान् ’ इति।
हे रशने त्वामाददे। हे देवहविः पशो, ऋतस्य यज्ञस्य सिद्ध्यर्थं त्वां पाशेनावबध्नामि। हे विनियुज्यमानपशो देवत्वप्राप्त्या मानुषानुपद्रवांस्ताडनादीन्धर्षाभिभव।
विधत्ते —
‘ देवस्य त्वा सवितुः प्रसव इति रशानामा दत्ते प्रसूत्या अश्विनोर्बाहुभ्यामित्याहाश्विनौ हि देवानामध्वर्यू आस्तां पूष्णो हस्ताम्यामित्याह यत्यै ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ६) इति।
ऋतशब्दार्थमाह —
‘ऋतस्य त्वा देवहविः पाशेनाऽऽरभ इत्याह सत्यं वा ऋतँ सत्येनैवैनमृतेनाऽऽरभते’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ६) इति।
अवश्यंभाविफलोपेतत्वाद्यज्ञस्वरूपं सत्यं, तेन निमित्तेनैनं पशुं बध्नाति।
बन्धनप्रकारं विधत्ते —
‘ अक्ष्णया परि हरति वध्यँ हि प्रत्यञ्चं प्रतिमुञ्चन्ति व्यावृत्त्यै ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ६) इति।
अक्ष्णया पूर्वोक्तया दक्षिणपादादिशिरोभागपर्यन्तया वक्रया परिहरति वेष्टयति। लोके तु मांसभक्षिणो वध्यं पशुं प्रत्यञ्चं स्वाभिमुखमवस्थाप्य गले पाशं प्रतिमुञ्चन्ति। अतस्तद्व्यावृत्तये वक्रबन्धनम्।
विधत्ते —
‘ धर्षा मानुषानिति नि युनिक्ति धृत्यै ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ६) इति।
नियुनक्ति निरन्तरं बध्नीयात्। तञ्च बन्धनं धृत्यर्थं पलायननिवारणार्थम्।
अद्भ्य इति। कल्पः — ‘ अद्भ्यस्त्वौषधीभ्यः प्रोक्षामीति प्रोक्षति, अपां पेरुरसीति पाययति, स्वात्तं चित्सदेवँ हव्यमापो देवीः स्वदतैनमित्युपरिष्टादधस्तात्सर्वतश्च प्रोक्ष्य ’ इति।
[[388]]
Page no. 389
हे पशो त्वामद्भिरोषधीभिश्च प्रोक्षामि। दर्मैरपामुत्पूतत्वादस्त्योषधीनामपि प्रोक्षणसाधनत्वम्।
पातृस्वीकृताभ्यां तृणोदकाभ्यां पशोरुत्पन्नत्वेनोभयेन प्रोक्षणं युक्तमित्याह —
‘ अद्भ्यस्त्वौषधीभ्यः प्रोक्षामीत्याहाद्भ्यो ह्येष ओषधीभ्यः संभवति यत्पशुः ’ [का॰ ६ प्र॰ ३ अ॰ ६] इति।
पेरुशब्दः पातृवाचीत्याह —
‘ अपां पेरुरसीत्याहैष ह्यपां पाता यो मेधायाऽऽरभ्यते ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ६) इति।
यज्ञार्थमालभ्यमानस्य पशोरित ऊर्ध्वमुदकपानाभावादिदानीमेव पातृत्वम्। हे आपो देव्यः स्वात्तं चित्स्वादुभूतमपि सदेवं देवतार्थं हव्यं होतुं योग्यमेनं पशुं स्वदत स्वादुं कुरुत।
अनेन मन्त्रेण स्वादुता भवतीत्याह —
‘ स्वात्तं चित्सदेवँ हव्यमापो देवीः स्वदतैनमित्याह स्वदयत्येवैनम् ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ६) इति।
त्रिभिर्मन्त्रैरनुष्ठेयानि विधत्ते —
‘ उपरिष्टात्प्रोक्षत्युपरिष्टादेवैनं मेध्यं करोति पाययत्यन्तरत एवैनं मेध्यं करोत्यधस्तादुपोक्षति सर्वत एवैनं मेध्यं करोति ’ [सं॰ का॰ ६ प्र॰ ३ अ॰ ६] इति।
अथ होतारं प्रत्यध्वर्योः प्रैषमुत्पादयति –
‘ अग्निना वै होत्रा देवा असुरानभ्यभवन्नग्नये सामिध्यमानायानु ब्रूहीत्याह भ्रातृव्याभिभूत्यै ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ६) इति।
अग्निः समिद्धो भ्रातृव्यानभिभवति।
अग्निसमिन्धनाय होत्राऽनूच्यमानानामृचां चोदकप्राप्तां पञ्चदशसंख्यामपोद्य सप्तदशसंख्यां विधत्ते –
‘ सप्तदश सामिधेनीरन्वाह सप्तदशः प्रजापतिः प्रजापतेराप्त्यै ’ [सं॰ का॰ ६ प्र॰ ३ अ॰ ६] इति।
आश्रावयेत्यादिभिरक्षरैः प्रजापतेः सप्तदशत्वम्।
तमेव विधिमनूद्य प्रशंसति —
[[389]]
Page no. 390
‘ सप्तदशान्वाह द्वादश मासाः पञ्चर्तवः स संवत्सरः संवत्सरं प्रजा अनु प्र जायन्ते प्रजानां प्रजननाय ’ [सं॰ का॰ ६ प्र॰ ३ अ॰ ७] इति।
हेमन्तशिशिरयोः समासेनेति बह्वृचब्राह्मणाम्नानादृतूनां पञ्चसंख्या। प्रजाः संवत्सरं गर्भे स्थित्वा पश्चात्प्रजायन्ते।
अमन्त्रकं प्रथममाघारं विधत्ते —
‘ देवा वै सामिधेनीरनूच्य यज्ञं नान्वपश्यन्स प्रजापतिस्तूष्णीमाघारमाघारयत्ततो वै देवा यज्ञमन्वपश्यन्यत्तूष्णीमाघारामाघारयति यज्ञस्यानुख्यात्यै ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ७) इति।
बहुनियमोपेते सामिधेन्यनुवचने व्यापृता बुद्धिः श्रान्ता सती पश्चात्कर्तव्यं यज्ञं नान्वपश्यत्। ततः प्रजापतिस्तूष्णीमाघारेण मन्त्रविषयव्यापारजन्यं बुद्धेः श्रममपनीतवान्।
तमेव विधियनूद्य प्रशंसति —
‘ असुरेषु वै यज्ञ आसीत्तं देवास्तूष्णीँ होमेनावृञ्जत यत्तूष्णीमाघारमाघारयति भ्रातृव्यस्यैव तद्यज्ञं वृङ्क्ते ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ७) इति।
असुरा गूढचारिणो भूत्वा देवैरनुष्ठितमवगत्य स्वयमपि तथैवानुतिष्ठन्ति। तथा च श्रुत्यन्तरम् — ‘ देवा वै यद्यज्ञेऽकुर्वत तदसुरा अकुर्वत ’ इति। तं वृत्तान्तमवगत्य देवा गूढचारिणां समीपे प्रथममाघारममन्त्रकं हुतवन्तः तं दृष्टवन्तोऽसुराः सहसा गत्वा कृत्स्नं यज्ञं तूष्णीं कृत्वा नाशितवन्तः। तमभिप्रेत्य तं देवास्तूष्णीं होमेनावृञ्जतेत्युच्यते।
त्रयाणां परिधीनां मार्जनं प्रत्येकं तदावृत्तिं च विधत्ते —
‘ परिधीन्त्सं मार्ष्टि पुनात्येवैनान्त्रिस्त्रिः सं मार्ष्टि त्र्यावृद्धि यज्ञोऽथो रक्षसामपहत्यै द्वादश सं पद्यन्ते द्वादश मासाः संवत्सरः संवत्सरमेव प्रीणात्यथो संवत्सरमेवास्मा उप दधाति सुवर्गस्य लोकस्य समष्ट्यै ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ७) इति।
परिधिषु पतितस्य भस्मादेरपनयनेन ते शुद्धा भवन्ति। तिस्र आवृत्तयो यस्यासौ त्र्यावुत्। त्रिः प्रथमामन्वाहेत्यदिषु तत्प्रसिद्धम्। त्र्यावृत्त्या तदादरं दृष्टवा रक्षसां भयातिशयो भवति। त्रिषु परिधिषु नव संमार्जनान्युक्तानि।
[[390]]
Page no. 391
अत्रानुक्तैस्त्रिभिर्वह्निसंमार्जनैः सह द्वादशसंपत्तिः। अत एव दर्शपूर्णमासब्राह्मणे श्रूयते।
‘ परिधीन्त्संमार्ष्टि पुनात्येवैनान्त्रिर्मध्यमं त्रयो वै प्राणाः प्राणानेवाभिजयति त्रिदर्क्षिणार्ध्यं त्रय इमे लोका इमानेव लोकानभिजयति त्रिरुत्तरार्ध्यं त्रयो वै देवयानाः पन्थानस्तानेवाभिजयति त्रिरुपवाजयति त्रयो वै देवलोका देवलोकानेवाभिजयति द्वादश संपद्यन्ते ’ इति।
तया संख्यया संवत्सरदेवतां तोषयति। किंचास्य यजमानस्य स्वर्गप्रापणाय तां संवत्सरदेवतामुपदधाति समीपे समानयति।
पूर्वं स्रौवाधारो विहितः। अथ स्रुच्याघारं विधत्ते —
‘ शिरो वा एतद्यज्ञस्य यदाघारोऽग्निः सर्वा देवता यदाघारमाघारयति शीर्षत एव यज्ञस्य यजमानः सर्वा देवता अव रुन्धे ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ७) इति।
आघारस्य होमेषु प्रथमभावित्वेन शिरोरूपत्वम्। यद्यपि पशोरिष्टिर्विकृतिवदेवाऽऽघारद्वयं प्राप्नोति तथाऽपि तद्विकृतित्वमेव निश्चेतुं तदीयलिङ्गत्वेनात्र त्पुनर्विहितम्।
सं त इति।कल्पः — ‘ स्रुच्यमाघार्य प्रत्याक्रम्य जुह्वा पशुं समनक्ति सं ते प्राणो वायुना गच्छतामिति शिरसि, सं यजत्रैरङ्गानीत्यंसोच्चलयोः, सं यज्ञपतिराशिषेति श्रोण्याम् ’ इति।
उच्चलशब्देन ककुदुच्यते। हे पशो ते तव प्राणो वायुना संगच्छताम्। हृदयाद्यङ्गानि यजत्रैर्यागविशेषैः संयुज्यन्ताम्। यज्ञपतिराशिषा संयुज्यताम्।
स्रुचाऽऽघारशेषेण पश्वञ्जनं विधत्ते —
‘ शिरो वा एतद्यज्ञस्य यदाघार आत्मा पशुराघारमाघार्य पशुँ समनक्त्यात्मन्नेव यज्ञस्य शिरः प्रति दधाति ’ [सं॰ का॰ ६ प्र॰ ३ अ॰ ७] इति।
आत्मा ग्रीवाया अधोवर्तिदेहः।
प्राणस्य बाह्ये वायुसंगमो युक्त इत्याह –
‘ सं ते प्राणो वायुना गच्छतामित्याह वायुदेवत्यो वै प्राणो वायावेवास्य प्राणं जुहोति ’ [सं॰ का॰ ६ प्र॰ ३ अ॰ ७] इति।
अस्य यज्ञस्य फलेन वायुना यजमानो युज्यत इत्येतमर्थमन्त्यमन्त्रे दर्शयति –
[[391]]
Page no. 392
‘ सं यजत्रैरङ्गानि सं यज्ञपतिराशिषेत्याह यज्ञपतिमेवाऽऽस्याशिषं गमयति ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ७) इति।
मध्यममन्त्रेण हृदयाद्यङ्गानि यागविशेषैर्योजयतीत्येतावदुन्नेयम्।
पूर्वं शिरस्यञ्जनं विहितम्। इदानीं ककुदि श्रोण्यां चाञ्जनं विधत्ते। अथवा पूर्वविधेः साधारणत्वात्तमेवानूद्य प्रशंसति —
‘ विश्वरूपो वै त्वाष्ट्र उपरिष्टात्पशुमभ्यवमीत्तस्मादुपरिष्टात्पशोर्नावद्यन्ति यदुपरिष्टात्पशुँ समनक्ति मेध्यमेवैनं करोति ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ७) इति।
त्वष्टुः पुत्रो विश्वरूपः पशुमभि प्राप्योपरिष्टात्पृष्ठभागे वमनमकरोत्। तस्माद्याज्ञिका हृदयादिवदुपरिभागान्नावद्यन्ति। तं भागमञ्जनेन शुद्धं करोति।
विधत्ते —
‘ ऋत्विजो वृणीते छन्दाँस्येव वृणीते ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ७) इति।
वक्ष्यमाणसंख्यासाम्यादृत्विजां छन्दस्त्वम्।
सप्तत्वसंख्यां विधत्ते —
‘ सप्त वृणीते सप्त ग्राम्याः पशवः सप्ताऽऽरण्याः सप्त छन्दाँस्युभयस्यावरुद्ध्यै ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ७) इति।
होताऽऽग्नीध्रोऽध्वर्युर्मैत्रावरुणो ब्राह्मणाच्छंसी पोता नेष्टेति [ सप्तर्त्विजः ]। सप्तग्राम्यादिकं व्याख्यातम्।
चोदकप्राप्तेषु संख्यां विधत्ते —
‘ एकादश प्रयाजान्यजति दश वै पशोः प्राणा आत्मैकादशो यावानेव पशुस्तं प्र यजति ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ७) इति।
प्राणशब्देन तदाधारभूतानि च्छिद्राण्युच्यन्ते। तानि च शिरसि सप्त, अधस्ताद् द्वे, नाभिर्दशमी। आत्मा देहः। अत एकादशसंख्याया कृत्स्नं पशुं प्रयजति।
अन्तिमप्रयाजस्य कालान्तरं विधत्ते —
‘ वपामेकः परि शय आत्मैवाऽऽत्मानं परि शये ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ७) इति।
वपां परि वपाहोमसमीपे शये शेते तस्मिन्काले यजेदित्यर्थः। चरमः प्रयाजो देहत्वेन निरूपितात्वात्पशोरात्मा, वपाऽपि मुख्यावयवत्वादात्माऽतस्तयोः सामीप्यं युक्तम्।
[[392]]
Page no. 393
घृतेनेति। कल्पः — ‘ जुह्वा स्वरुस्वधिती अनक्ति, द्विः स्वरुं सकृत्स्वधितेरन्यतरां धारां स्वरुमन्तर्धाय स्वधितिना पशुं समनक्ति घृतैनाक्तौ पशुं त्रायेथामिति शिरसि ’ इति।
हे स्वरुस्वधिती इति संबोधनीयम्।
स्वरुस्वधितिघृतानामुपयोगं दर्शयति —
‘ वज्रो वै स्वधितिर्वज्रो यूपशकलो घृतं खलु वै देवा वज्रं कृत्वा सोममघ्नन्घृतेनाक्तौ पशुं त्रायेथामित्याह वज्रेणैवैनं वशे कृत्वाऽऽलभते ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ७) इति।
त्रिविधेन वज्रेणैनं पशुं वशीकृत्य मारयति —
विधत्ते —
‘ पर्यग्नि करोति सर्वहुतमेवैनं करोत्यस्कन्दयास्कन्नँ हि तद्यद्धुतस्य स्कन्दति ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ८) इति।
अत्र प्रकारः सूत्रेऽभिहितः – ‘ आहवनीयादुल्मुकमादायाऽग्नीघ्रः परिवाजायति कविरिति त्रिः प्रदक्षिणं पर्यग्नि करोति पशुं यूपमाहवनीयं शामित्रदेशं चात्वालमाज्यानि चेत्येके ’ इति। तेन पर्यग्निकरणेनैनं पशुं सर्वमपि हुतमेव करोति। तद्धुतत्वं स्कन्दनदोषराहित्याय भवति। होमादूर्ध्वं स्कन्दनेऽपि तद्दोषो न भवति।
आवृत्तिं विधत्ते —
‘ त्रिः पर्याग्ने करोति त्र्यावृद्धि यज्ञोऽथो रक्षसामपहत्यै ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ८) इति।
रेवतीरिति। कल्पः — ‘ रेवतीर्यज्ञपतिं प्रियधाऽऽविशतेति वपाश्रपणीभ्यां पशुमन्वारभेते अध्वर्युर्यजमानश्च ’ इति।
हे रेवतीर्घनवन्तः पश्ववयवा यजमानं प्रति प्रियधारिण्यो भवत, हविष्ट्वेन यज्ञमाविशत।
अत्र विचारं दर्शयति —
‘ ब्रह्मवादिनो वदन्त्यन्वारभ्य पशू३र्नान्वारभ्या३ इति ” (सं॰ का॰ ६ प्र॰ ३ अ॰ ८) इति।
[[393]]
Page no. 394
प्रथमपक्षे दोषमाह —
‘ मृत्यवे वा एष नीयते यत्पशुस्तं यदन्वारभेत प्रमायुको यजमानः स्यात् ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ८) इति।
द्वितीयपक्षे दोषमाह —
‘ अथो खल्वाहुः सुवर्गाय वा एष लोकाय नीयते यत्पशुरिति यन्नान्वारभेत सुवर्गाल्लोकाद्यजमानो हीयेत ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ८) इति।
दोषद्वयपरिहाराय प्रकारन्तरं विधत्ते —
‘ वपाश्रपणीभ्यामन्वारभते तन्नेवान्वारब्धं नेवानन्वारब्धम् ’ [सं॰ का॰ ६ प्र॰ ३ अ॰ ८] इति।
याभ्यां दारुमयीभ्यां वपा पच्यते ते वपाश्रपण्यौ।
प्रैषमन्त्रमुत्पादयति —
‘ उप प्रेष्य होतर्हव्या देवेभ्य इत्याहेषितँ हि कर्म क्रियते ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ८) इति।
हे होतर्देवेभ्यो वपादीनि हव्यानि कर्तुमुपप्रेष्य पशुसमीपे शमितॄन्प्रेरय। लोके हि प्रभुणा प्रेषितं कर्म सहसा क्रियते।
मन्त्रस्तु स्पष्टार्थ इत्याह —
‘ रेवतीर्यज्ञपतिं प्रियधाऽऽविशतेत्याह यथायजुरेवैतत् ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ८) इति।
कल्पः — ‘ आहवनीयादुल्मुकमादायाऽऽग्नीध्रः पूर्वः प्रतिपद्यते शमिता पशुं नयत्युरो अन्तरिक्षेत्यन्तरा चात्वलोत्करावुदञ्चं पशुं नयति ’ इति।
मन्त्रस्त्वेवमाम्नातः
उर इति। अत्रान्तरिक्षशब्देन पशोः श्रोत्रादिच्छिद्रेष्ववस्थित इन्द्रियसमुदाय उपलक्ष्यते। हे उरो अन्तरिक्ष विस्तीर्णेन्द्रियसमुदायास्य पशोरभिमानिदेवेन वातेन प्राणवायुना त्मना जीवात्मना च सजूः सह हविषो यज हविर्देहि। किंचास्य पशोस्तनुवा भविष्यता देवशरीरेण संभव संयुज्यस्व। हे वर्षीयोऽ
[[394]]
Page no. 395
तिविस्तीर्णेन्द्रियसमुदाय वर्षीयस्यतिविस्तीर्णे यज्ञे यज्ञपतिं यजमानं धाः स्थापय। मन्त्रोऽयमुपेक्षितः।
विधत्ते —
‘ अग्निना पुरस्तादेति रक्षसामपहत्यै ’ [सं॰ का॰ ६ प्र॰ ३ अ॰ ८] इति।
उल्मुकेन सह पशोः पुरस्तादाग्नीध्रो गच्छेत्।
पृथिव्या इति। कल्पः — ‘ अभिपर्यग्निकृते देश उल्मुकं निदधाति स शामित्रस्तं दक्षिणेन प्रत्यञ्चं पशुमवस्थाप्य पृथिव्याः संपृचः पाहीति बर्हिरुपास्यत्युपाकरणयोरन्यतरत् ’ इति।
हे बर्हिर्भूसंपर्कात्पालय।
विधत्ते —
‘ पृथिव्याः संपृचः पाहीति बर्हिरुपास्यत्यस्कन्दायास्कन्नँ हि तद्यद्बर्हिषि स्कन्दत्यथो बर्हिषदमेवैनं करोति ’ [सं॰ का॰ ६ प्र॰ ३ अ॰ ८] इति।
पशुसंबन्धि यदङ्गं बर्हिषि स्कन्देत्तद्भूमावपतनादस्कन्नमेव। अथ कथंचिदधः पतितेप्येनं बर्हिषदमेव करोति।
विधत्ते —
‘ पराङा वर्ततेऽध्वर्युः पशोः संज्ञप्यमानात्पशुभ्य एव तन्निह्नुत आत्मनोऽनाव्रस्काय ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ८) इति।
अध्वर्युर्मार्यमाणं पशुमदृष्ट्वा ततः पराङ्मुखः प्रत्यवर्तेत। तेन पशुभ्यो निह्नुते पशुं न मारयामीत्येवमपलपति। स चापलापः स्वस्य दोषाभावाय भवति।
वेदनं प्रशंसति —
[[395]]
Page no. 396
‘ गच्छति श्रियं प्र पशुनाप्नोति य एवं वेद ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ८) इति।
अत्र सूत्रम् — ‘ प्रत्यक्शिरसमुदीचीनपादममायुं कृण्वन्तं संज्ञपयेत्युक्त्वा पराङावर्ततेऽध्वर्युः ’ इति।
नम इति। कल्पः – ‘ ततः प्रतिप्रस्थाता पत्निमुदानयति नमस्त आतनेति पत्न्यादित्यमुपतिष्ठते ’ इति।
आ समन्तात्तानो व्याप्तिर्यस्य सूर्यरश्मेः स आतानः।
एतदेव दर्शयति —
‘ पश्चाल्लोका वा एषा प्राच्युदानीयते यत्पत्नी नमस्त आतानेत्याहाऽऽदित्यस्य वै रश्मय आतानास्तेभ्य एव नमस्करोति ’ [सं॰ का॰ ६ प्र॰ ३ अ॰ ८] इति।
पश्चात्प्रतीच्यां दिशि निर्मिता शाला लोको निवासस्थानं यस्याः सा पश्चाल्लोका। तादृशी यदा प्राचीं गच्छति तदानीमाभिमुख्येन सूर्यरश्मिर्भवतीति तन्नमस्कारो युक्तः।
अनर्वेति। बौधायनः – ‘ अथैनामन्तरेण चात्वालोत्करावुदगुपनिष्क्रमय्य प्राचीमुदानयन्वाचयत्यनर्वा प्रेहि घृतस्य कुल्यामनु सह प्रजया सह रायस्पोषेणेत्यागतामध्वर्युरप्सु वाचयत्यापो देवीः शुद्धायुवः शुद्धा यूयं देवाँ ऊड्ढ्वँ शुद्धा वयं परिविष्ठाः परिवेष्टारो वो भूयास्मेति ’ इति।
आपस्तम्बः — ‘ अनर्वा प्रेहीति प्राचीमुदानयत्यनुमन्त्रयत इत्येके। आपो देवीः शुद्धायुव इति चात्वाले पत्न्यपोऽवमृशति ’ इति।
हे पत्नि त्वमनर्वा शत्रुरहिता सती घृतप्रवाहमनु प्रजया सह धनपुष्ट्या च सह प्रयाहि। घृतस्य कुल्यामित्यनेन सर्ववस्तुसंपूर्णं स्थानमुपलक्ष्यते। हे आपो देव्यो यूयं देवानूड्ढ्वं यागप्रदेशे प्रापयत। कीदृश्यो यूयम्। शुद्धायुवः शुद्धिमस्मदीयामिच्छन्तीति शुद्धायुवः। यूयं तु
[[396]]
Page no. 397
स्वत एव शुद्धाः। वयमपि युष्माभिः परिवेष्टिताः शुद्धाः सन्तो युष्माकं परिवेष्टारो भूयास्म।
एतौ मन्त्रौ व्याचष्टे —
‘ अनर्वा प्रेहीत्याह भ्रातृव्यो वा अर्वा भ्रातृव्यापनुत्त्यै घृतस्य कुल्यामनु सह प्रजया सह रायस्पोषेणेत्याहाऽऽशिषमेवैतामा शास्त आपो देवीः शुद्धायुव इत्याह यथायजुरेवैतत् ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ८) इति।
अत्र विनियोगसंग्रहः –
“ आ ददे रज्जुमादाय ऋत बध्नाति तं पशुम्।
धर्ष यूपे नियुङ्क्तेऽद्भ्यः प्रोक्ष्यापां पायदेदपः॥१॥
स्वात्तं सर्वत्र संप्रोक्ष्य सं ते मूर्ध्नि समञ्जनम्।
सं यांसयोः सं य पश्चाद्घृते सस्वरुशस्त्रके॥२॥
रेव श्रपण्युपस्पर्श उरो उत्तरतो नयेत्।
पृथि बर्हिरवस्थाप्य नमः पत्नी रविं भजेत्।
अन पत्नीं नयेदापः स्पृश(शे)न्मन्त्रास्तु षोडश ॥३॥ ” इति ।
अथ मीमांसा।
द्वितीयाध्यायस्य प्रथमपादे चिन्तितम् —
“ गच्छतामिति शब्दस्यानुषङ्गोऽस्ति न वोपरी।
सं यज्ञपतिरित्यत्र योग्यत्वात्सोऽस्ति पूर्ववत्॥
तदेकवचनं मध्यमन्त्रोङ्गानीत्यनेन हि।
नान्वेति तद्व्यवायेन नोपर्यप्यनुषज्यते ” इति।
अग्नीषोमीयपशौ श्रूयते — ‘ सं ते प्राणो वायुना गच्छताँ सं यजत्रैरङ्गानि सं यज्ञपतिराशिषा ’ इति।
[[397]]
Page no. 398
अयमर्थः – भोः पशो तव प्राणवायुर्वायुना संगच्छतां तव हृदयाद्यङ्गानि यागविशषैः संयुज्यन्तां यज्ञपतिराशिषा संयुज्यतामिति। तत्र यज्ञपतिरित्यास्मिंस्तृतीयमन्त्रे समित्युपसर्गस्य कियापदाकाङ्क्षत्वारत्प्रथममन्त्रगतस्य गच्छतामिति पदस्यैकवचनान्तस्य यज्ञपतिशब्देनान्वेतुं योग्यत्वात्पूर्ववद्बुद्धिस्थत्वेन संनिहितत्वादाकाङ्क्षासंनिधियोग्यतानां सद्भावेन क्रियापदमनुषज्यत इति प्राप्ते ब्रूमः — मध्यममन्त्रे बहुवचनान्तेनाङ्गानीत्यनेनान्वेतुमयोग्यत्वात्तद्व्यवायेन बुद्धिसंनिधिलोपान्नास्त्यनुषङ्गः। ततो द्वितीयतृतीयमन्त्रयोर्यथोचितं वाक्यशेषोऽध्याहर्तव्यः।
अष्टमाध्यायस्य प्रथमपादे चिन्तितम् —
“ न पशावैष्टिकः स्याद्वा न कपालाद्यभावतः।
स्याद्व्यक्तद्रव्यदेवत्वप्रयाजस्रुच्यसाम्यतः ” इति।
अग्नीषोमीयपशावैष्टिको विध्यन्तो नास्ति। कुतः। पूर्ववदत्र निर्वापकपालादिलिङ्गाभावदिति चेन्मैवम्। आग्नेयमष्टाकपालमित्यत्रोत्पत्तिवाक्ये यथा द्रव्यदेवते व्यक्ते तथाऽग्नीषोमीयं पशुमित्यत्रापि। न तु सोमेन यजेतेत्यत्रेव देवताया अव्यक्तत्वम्। तदेतद्व्यक्तद्रव्यदेवत्वमेकं लिङ्गम्। एकादश प्रयाजान्यजतीति प्रयाजवत्त्वं द्वितीयम्। स्रुच्यमाघार्य जुह्वा पशुमनक्तीत्याघाराञ्जने लिङ्गान्तरे। आलम्भो लिङ्गान्तरम्। इष्टावपीषामालभत इति दर्शनात्। तस्मादस्ति पशावैष्टिको विध्यन्तः।
“ प्रयाजेष्वपकर्षोऽनुयाजेषूत्कर्ष इत्यमू।
श्रुतमात्रे तदन्तेषु तदाद्येषु च वाऽग्रिमः॥
अन्येषां मुख्यकालत्वान्मैवं व्युत्क्रमशक्तितः।
प्रयाजान्ते ह्यनु [नू] याजादिके चैतौ समूहके ” इति।
अग्नीषोमीयपशो प्रयाजानामपकर्षः श्रूयते — ‘ तिष्ठन्तं पशुं प्रयजन्ति ’ इति। प्रकृतौ हविष्यासादिते पश्चात्प्रयाजा इज्यन्ते। इहापि पशुसंज्ञपनादूर्ध्वं
[[398]]
Page no. 399
हविष्यासादिते पश्चादेव प्रयाजाश्चोदकेन प्राप्ताः। ते चात्र वचनाज्जीवत्येव पशावपकृष्यन्ते। तथा सवनीयपशावनुयाजानामुत्कर्षः श्रूयते — “आग्निमारुतादूर्ध्वमनुयाजैश्चरन्ति ” इति। तत्र प्रयाजमात्रस्यापकर्षः श्रुतः। अनुयाजमात्रस्योत्कर्षः। तावुभौ श्रुत्यनुसारेण तथैवाङ्गीकर्तव्यौ। यदि प्रयाजान्तस्याङ्गकलापस्यापकर्षः स्यात्तदा प्रयाजेभ्यः पूर्वभाविनामाघारसामिधेन्यादीनां ततोऽऽयपकर्षादत्यन्तव्यवहितानां प्रधानकालीनत्वं न स्यात्। प्रयाजमात्रेऽपकृष्टे सत्याघारादीनां मुख्यकालीनत्वं न लुप्यते। एवमनुयाजमात्र उत्कृष्टे तत ऊर्ध्वभाविनां सूक्तवाकशंयुवाकदीनामनुत्कर्षात्प्रधानसंनिधिर्न विनश्यति। तस्मात्प्रयाजमात्रस्यापकर्षोऽनुयाजमात्रास्यौत्कर्ष इति प्राप्ते ब्रूमः — प्रकृतौ पदार्थानुष्ठानक्रमस्य क्लृप्तत्वात्सक्रमाणामेव पदार्थानां चोदकेनातिदेशाद्व्युत्क्रमे सति पूर्वेण पदार्थेनोत्तरपदार्थस्य, बुद्धावनुपस्थापितत्वादनुष्ठानमेव लुप्येत। तस्मात्प्रयाजान्तस्य कर्मसमूहस्यापकर्षः, अनुयाजादेरङ्गसमूहस्योत्कर्षः।
तत्रैव तृतीयपादे चिन्तितम् —
“ एकादश प्रयाजाः किं प्रत्येकं स्यादुतान्यथा।
संख्यावृद्धिरिहाऽऽद्योऽस्तु प्रतिमुख्यं गुणो यतः॥
प्रत्येकं समुदाये वा स्वरूपेण न सिध्यति।
संख्यावृद्धिः प्रयोगात्तु साऽऽवृत्त्या संभविष्यति ” इति।
अग्निषोमीयपशौ श्रूयते — ‘ एकादश प्रयाजान्यजति ’ इति। तत्र चोदकप्राप्तेषु पञ्चसु प्रयाजेष्वेकैकस्य प्रयाजस्येयमेकादशत्वसंख्या युक्ता। कुतः प्रयाजानुद्दिश्य संख्यागुणे विहिते सति प्रतिप्रधानं गुणस्याभ्युपेयत्वादिति प्राप्ते ब्रूमः — न ह्येकैकस्य प्रयाजस्य स्वरूपमात्रमुपजीव्येयमेकादशत्वसंख्या संपादयितुं शक्या। नापि पञ्चप्रयाजसमुदायस्य स्वरूपे साऽस्ति। तस्मात्प्रयोगद्वारा सा संपादनीया। प्रयोगस्य चाऽऽवर्तयितुं शक्यत्वात्। पञ्च प्रयाजान्द्विरावर्त्य पुनरपि चरमप्रयाजे सकृदावर्तिते सत्येकादशत्वसंख्या संपद्यते।
[[399]]
Page no. 400
अथ छन्दः।
उरो अन्तरिक्षेति त्रिष्टुप्। आपो देवीः शुद्धायुव इत्यनुष्टुप्॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये प्रथमकाण्डे
तृतीयप्रपाठकेऽष्टमोऽनुवाकः ॥८॥
[[401]]
Page No. ४०१
ॐ तत्सद्ब्रह्मणे नमः।
श्रीमत्सायणाचार्यविरचितभाष्यसमेता–
कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
तस्या द्वितीयो भागः।