(अथ प्रथमाष्टके तृतीयप्रपाठके तृतीयोऽनुवाकः)।
वि॒भूर॑सि प्र॒वाह॑णो॒ वह्नि॑रसि हव्य॒वाह॑नः श्वा॒-
त्रो॑ऽसि॒ प्रचे॑तास्तु॒थो॑ऽसि वि॒श्ववे॑दा उ॒शिग॑सि
क॒विरङ्घा॑रिर॒सि बम्भा॑रिर॒वस्युर॑सि॒ दुव॑स्वा-
ञ्छु॒न्ध्यूर॑सि मार्जा॒लीयः॑ स॒म्राड॑सि कृ॒शानुः॑
परि॒षद्यो॑ऽसि॒ पव॑मानः प्र॒तक्वा॑सि॒ नभ॑स्वा॒नसं॑-
मृष्टोऽसि हव्य॒सूद॑ ऋ॒तधा॑माऽसि॒ सुव॑र्ज्योति॒-
र्ब्रह्म॑ज्योतिरसि॒ सुव॑र्धामा॒ऽजो॑ऽस्येक॑पादहि॑रसि
बु॒ध्नियो॒ रौद्रे॒णानी॑केन पा॒हि मा॑ऽग्ने पिपृ॒हि
मा॒ मा मा॑ हिँसीः (१)।
(अनी॑केना॒ष्टौ च॑)॥
[[349]]
Page no. ३५०
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां प्रथमाष्टके
तृतीयप्रपाठके तृतीयोऽनुवाकः ॥३॥
(अथ प्रथमाष्टके तृतीयप्रपाठके तृतीयोऽनुवाकः)।
द्वितीयेऽनुवाके हविर्धानगतोपरवनिर्माणमुक्तम्। अथावशिष्टेष्वाग्नीध्रीयसदःप्रभृतिस्थानेषु धिष्णियास्तृतीयेऽनुवाकेऽभिधीयन्ते।
विभूरसीति। कल्पः — ‘आग्नीध्रीयं गत्वा स्फ्येनोद्धत्यावोक्ष्य चात्वालपुरीषं सिकता इति निर्वपति विभूरसि प्रवाहणो रौद्रेणानीकेन पाहि माऽग्ने पिपृहि मा मा मा हिँसीरिति ते परिमण्डलं धिष्णियं करोत्यथैनं सिकताभिराभ्राशितं करोत्यथान्तःसदसि धिष्णियान्निवपति होतुः प्रथमं वह्निरसि हव्यवाहन इति श्वात्रोऽसि प्रचेता इति दक्षिणतो मैत्रावरुणस्य, तुथोऽसि विश्ववेदा इत्युत्तरतो ब्राह्मणाच्छंसिनः, उशिगसि कविरित्युत्तरतः पोतुः अङ्घारिरसि बम्भारिरित्युत्तरतो नेष्टुः, अवस्युरसि दुवस्वानित्युत्तरतोऽच्छावाकस्याथ दक्षिणे वेद्यन्ते मार्जालीयं निवपति शुन्ध्यूरसि मार्जालीय इति सर्वेष्वेष रौद्रमनुवर्तयत्यथाष्टावनुदिशति सम्राडसि कृशानुरित्याहवनीयमुपतिष्ठते, परिषद्योऽसि पवमान इत्यास्तावं, प्रतक्वाऽसि नभस्वानिति चात्वालमसंमृष्टोऽसि हव्यसूद इति पशुश्रपणपथ सदसो द्वारि तिष्ठन्नौदुम्बरीमुपतिष्ठत ऋतधामाऽसि सुवर्ज्योतिरिति, ब्रह्मज्योतिरसि सुवर्धामेति ब्रह्मसदनमथात्रैव तिष्ठन्गार्हपत्यमुपतिष्ठतेऽजोऽस्येकपादिति, अहिरसि बुध्निय इति यं प्रहास्यन्तो भवन्ति’ इति।
अत्र रौद्रेणेति वाक्यं सर्वमन्त्रशेषत्वादन्ते समाम्नायते। आभ्राशितं समन्ताद्यथा न भ्रश्यति तथा करोनि शुभ्रं वा करोति। हे अग्नीध्रीय त्वत्तोऽन्यधिष्णियं विहरंस्त्वं विभूरसि विविधं भवसि। हविषां प्रवाहयितृत्वात्प्रवहणोऽसि। हे होत्रीय त्वं यो वह्निर्हव्यवाहनस्तद्रूपोऽसि। हे मैत्रावरुणीय श्वात्रो मित्रः प्रचेता वरुणस्तदुभयरूपोऽसि। हे ब्राह्मणाच्छंसिसंबन्धिन्। तुथो ह स्म वै विश्ववेदा देवानां दक्षिणा विभजतीत्याम्नातो विश्वभिज्ञो यस्तुथस्तद्रूपोऽसि। हे पोत्रीय त्वमुशिक्कमनीयः कविर्विद्वानसि, हे नेष्ट्रीय सोमरक्षकौ यावङ्घारि-
[[350]]
Page no. 351
बम्भारिनामकौ तद्रूपोऽसि। हेऽच्छावाकसंबन्धिन्, अवस्यवे त्वा वाताय स्वाहा दुवस्वते त्वा वाताय स्वाहेत्याम्नातौ याववस्युदुवस्वन्तौ वातविशेषौ तद्रूपोऽसि। हे मार्जालीय त्वं शुन्ध्यूः शोधकः पात्रप्रक्षालनेन लेपमार्जनस्थानभूतोऽसि। हे आहवनीय सम्यग्राजमानः कृशानुरसि। हे आस्ताव स्तोत्रस्थान परिषद्यः परितः सदनयोग्यः पवमानः पूतोऽसि। हे चात्वाल कृष्णविषाणत्यागार्थं प्रतक्वा प्रकृष्टगमनविषयो नभस्वानन्तरवकाशवानसि। हे पशुश्रपणप्रदेश राक्षसैरसंसृष्टो हव्यसूदो हृदयादिहव्यपाचकोऽसि। हे औदुम्बरि त्वमृतधामा सामगानामृतमवश्यंभावि धामोपवेशनस्थानं यस्यास्तादृशी सुवर्ज्योतिरुन्नतत्वेन स्वर्गप्रकाशिकाऽसि। हे ब्रह्मसदन त्वं ब्रह्मज्योतिर्ब्रह्मनामकस्यर्त्विजः प्रोक्षणादिकर्माभ्यनुज्ञानरूपं ज्योतिर्यस्मिन्स्थाने तादृशमसि, सुवर्धाम स्वर्गसदृशं स्थानं यस्य तथाविधमसि। हे नूतनगार्हपत्य यो देवः प्रोष्ठपदा नक्षत्रमज एकपाद्देवतेत्याम्नातस्तद्रूपोऽसि। पुरातनं गार्हपत्यमित ऊर्ध्वमृत्विजः परित्यक्ष्यन्तो भवन्ति। हे त्याज्यगार्हपत्य यो देवः प्रोष्ठपदा नक्षत्रमहिर्बुध्नियो देवतेत्याम्नातस्तद्रूपोऽसि। आग्नीध्रीयमारभ्य पुराणगार्हपत्यान्तेषु षोडशसु स्थानेष्वभिमन्यमान हेऽग्ने त्वदीयेन रौद्रेण सैन्येन राक्षसेभ्यो मां पाहि, कर्मफलप्रदानेन मां पिपृहि पूर्णमनोरथं कुरु, मद्विनाशरूपां हिंसां मा कुरु।
तनेतान्सर्वानु(न)पेक्ष्यानुष्ठानं विधत्ते —
“चात्वालद्धिष्णियानुप वपति योनिर्वै यज्ञस्य चात्वालं यज्ञस्य सयोनित्वाय” (सं॰ का॰ ६ प्र॰ ३ अ॰ १) इति।
ततः पुरिषमादायोत्तरवेद्याः करणाच्चात्वालं यज्ञस्य योनिः। तादृशाच्चात्वालाद्धिष्णियनामकानां स्थलविशेषाणां निवपने यज्ञः सर्वोऽपि स्वयोनियुक्तो भवति।
कालान्तरेऽनुष्ठेयान्यपि कानिचिद्धिष्णियप्रसङ्गादिह विधीयन्ते। तत्राऽऽग्नीध्रीयधिष्णियस्थिताद्वह्नेर्होत्रीयादिधिष्णियेष्वग्निस्थापनं विधत्ते —
“देवा वै यज्ञं पराऽजयन्त तमाग्नीघ्रात्पुनरपाजयन्नेतद्वै यज्ञस्यापराजितं यदाग्नीध्रं यदाग्नीध्राद्धिष्णियान्विहरति यदेव यज्ञस्यापराजितं तत एवैनं पुनस्तनुते” (सं॰ का॰ ६ प्र॰ ३ अ॰ १) इति।
पराजयन्त पराजयमकुर्वत। यज्ञमसुरा अगृह्णन्। पुनस्तं यज्ञमाग्नीध्रदेवता-
[[351]]
Page no. 352
सामर्थ्येनासुरेभ्योऽपच्छिद्य देवा अजयन्। आग्नीध्रस्यापराजितस्थानत्वात्ततो विहरणं युक्तम्।
प्रैषमन्त्रमुत्पादयति —
“पराजित्येव खलु वा एते यन्ति ये बहिष्पवमानँ सर्पन्ति बहिष्पवमाने स्तुते आहाग्नीदग्नीन्वि हर बर्हिः स्तृणाहि पुरोडाशाँ अलं कुर्विति यज्ञमेवापजित्य पुनस्तत्वाना यन्ति” (सं॰ का॰ ६ प्र॰ ३॰ अ॰ १) इति।
बहिष्पवमानं नाम प्रातःसवने सामगैर्गीयमानमुपास्मै गायतेत्यादिकं स्तोत्रम्। तत्तु गायन्त ऋत्विजो धावन्ति यथा लोके पराजित्य पलायन्ते तद्वत्। ततः स्तोत्रे समापिते सत्याग्नीध्रं संबोध्याग्निविहरणादिप्रैष उक्ते यज्ञं पराजयादपावृत्य पुनः प्रसारितवन्तो भवन्ति।
विहरणे विशेषं विधत्ते —
“अङ्गारैर्वेेः सवने वि हरति शलाकाभिस्तृतीयँ सशुक्रत्वायाथो सं भरत्येवैनत्” (सं॰ का॰ ६ प्र॰ ३॰ अ॰ १) इति।
प्रातःसवनमाध्यंदिनसवनयोराग्नीध्रीयगतैर्दग्धकाष्ठैर्विहरेत्। तृतीयसवने तु शलाकभिर्दीप्ततृणमुष्टिभिर्विरहेत्। अत्र सोमस्य गायत्रीमुखेन(ण) पीतत्वान्नास्ति सोमे तेजः। दीप्तासु शलाकासु साररूपं तजोऽस्तीति सशुक्रत्वाय सतेजस्त्वाय तथा कुर्यात्। किंचैनत्तृतीयसवनमितरसदृशं कृत्वा संभरति सम्यक्पोषयति।
पूर्वोक्तं धिष्णियसंघं प्रशंसति —
“धिष्णिया वा अमुष्मिल्लोँके सोममरक्षन्तेभ्योऽधि सोममाहरन्तमन्ववायन्तं पर्यविशन्” (सं॰ का॰ ६ प्र॰ ३॰ अ॰ १) इति।
स्वानभ्राजादय इव धिष्णियदेवता अपि सोमं रक्षन्ति। आह्रियमाणं सोममनु स्वयमप्यागत्य परित उपविष्टाः। तस्मात्प्रशस्ता धिष्णियाः।
एतद्वेदनं प्रशंसति —
“य एवं वेद विन्दते परिवेष्टारम्” (सं॰ का॰ ६ प्र॰ ३ अ॰ १) इति।
सेवकयजनमित्यर्थः।
[[352]]
Page no. 353
केषुचिद्धिष्णियेषु सोमाहुतिं विदधाति—
“ते सोमपीथेन व्यार्ध्यन्त ते देवेषु सोमपीथमैच्छन्त तान्देवा अब्रुवन्द्वेद्वे नामनी कुरध्वमथ प्र वाऽऽप्स्यथ न वेत्यग्नयो वा अथ धिष्णियास्तस्माद्द्विनामा ब्राह्मणोऽर्धुकस्तेषां ये नेदिष्ठं पर्यविशन्ते सोमपीथं प्राऽऽप्नुवन्नाहवनीय आग्नीध्रीयो होत्रीयो मार्जालीयस्तस्मात्तेषु जुह्वति” (सं॰ का॰ ६ प्र॰ ३ अ॰ १) इति।
ते धिष्णियाः सोमपानेन वियुक्ताः। ततस्ते देवेषु मध्ये सोमपानमस्माकमस्त्वित्यैच्छन्त। एकैकनाममात्रधारणेन युष्माकं सोमपानयोग्यता सर्वथा नास्ति। नामद्वये तु स्वीकृते पाक्षिकी तद्योग्यतेति देवैरुक्ता अग्निनाम धिष्णियनाम च कृतवन्तः। यस्मान्नामद्वयमुत्कर्षहेतुस्तस्माल्लोकेऽपि देवदत्तादिनाम प्रथमं धृत्वा पश्चात्तपोविद्यादिभिराचार्योपाध्यायादिकं द्वितीयं नाम दधत्सत्कारेण समृद्धो भवति। नामद्वयधारिणां तेषां मध्ये ये चत्वार आवहनीयादयः सोमस्यात्यन्तसमीपे निविष्टस्ते समीपवर्तित्वेन सोमपानयोग्या इति तेषु सोमं जुहुयुः।
द्विनामधारित्वेनेतरेषामपि प्रसक्तं सोमपानं वारयति —
“अतिहाय वषट्करोति वि ह्येते सोमपीथेनाऽऽर्ध्यन्त” (सं॰ का॰ ६ प्र॰ ३ अ॰ १) इति।
ये दूरवर्तिनो मैत्रावरुणधिष्णियादयस्तानतिलङ्घ्य समीपस्थेभ्य एव वषट्कारस्तथाऽपि अनुवषट्कारप्रदानाहुतिब्राह्मण ऐतरेयश्रुतौ तदाहुतिदेवतात्वेन चतुर्णामेव श्रवणात्तानतिहाय वषट्करोतीत्युक्तं युक्तम्। सा च श्रुतिः — “यदेव सोमस्याग्ने वीहीत्यनुवषट्करोति तेन धिष्णियान्प्रीणाति” इति। तस्मात्तेषां वषट्कारपूर्वको होमः। इतरे तु सोमपानेन व्यार्ध्यन्त, हि यस्मात्पूर्वोक्तस्य वियोगस्य प्रतीकारं सामीप्यलक्षणं न संपादितवन्तः। द्वितीयनामप्रयुक्तस्तूत्कर्षस्तेषां सोमाभावेऽप्याज्यव्याघारणादेवोपपद्येते।
सोमाहुतीनां व्यवस्थां विधत्ते —
“देवा वै याः प्राचीराहुतीरजुहवुर्ये पुरस्तादसुरा आसन्ताँस्ताभिः प्राणुदन्त याः प्रतीचीर्ये पश्चादसुरा आसन्ताँस्ताभिरपानुदन्त प्राचीरन्या आहुतयो
[[353]]
Page no. 354
हूयन्ते प्रत्यङ्ङासीनो धिष्णियान्व्याघारयति पश्चाच्चैव पुरस्ताच्च यजमानो भ्रातृव्यान्प्र णुदते तस्मात्पराचीः प्रजाः प्र वीयन्ते प्रतीचीर्जायन्ते” [सं॰ का॰ ६ प्र॰ ३ अ॰ १] इति।
प्राङ्मुखेग हूयमानाः प्राचीरुत्तरवेदिगताः। यस्मादाहुतिषु द्वैविध्यं तस्माल्लोकेऽपि प्रजाः पित्रा यन्मुखेन प्रवीयन्ते निषिच्यन्ते तद्विपरीतदिङ्मुखा उत्पद्यन्ते।
अध्वर्योः प्रत्यग्गमननिषेधं निन्दाभ्यामुन्नयति —
“प्राणा वा एते यद्धिष्णिया यदध्वर्युः प्रत्यङ्धिष्णियानतिसर्पेत्प्राणान्त्संकर्षेत्प्रमायुकः स्यान्नाभिर्वा एषा यज्ञस्य यद्धोतोर्ध्वः खलु वै नाभ्यै प्राणोऽवाङपानो यदध्वर्युः प्रत्यङ्होतारमतिसर्पेदपाने प्राणं दध्यात्प्रमायुकः स्यात्” (सं॰ का॰ ६ प्र॰ ३ अ॰ १) इति।
अतिसर्पेदतिक्रम्य गच्छेत्। होता यज्ञस्य नाभिर्मध्यदेशे वर्तते। प्राणवत्प्राग्वर्तिनोरध्वर्योः प्रत्यग्गमनमयुक्तम्।
ऋत्विज उपगायन्तीति विधिप्राप्तगानमध्वर्योर्निषेधति —
“नाध्वर्युरुप गायेद्वाग्वीर्यो वा अध्वर्युर्यदध्वर्युरुपगायेदुद्गात्रे वाचँ सं प्रयच्छेदुपदासुकाऽस्य वाक्स्यात्” (सं॰ का॰ ६ प्र॰ ३ अ॰ १) इति।
उद्गात्रा सामनि गीयमाने पृष्ठतदङ्गीकरणमुपगानम्। उपदासुकोपक्षयशीला। प्रकारन्तरेणाध्वर्योः प्रत्यग्गमनं विधातुं चोद्यमुद्भावयति —
“ब्रह्मवादिनो वदन्ति नासँस्थिते सोमेऽध्वर्युः प्रत्यङ्सदोऽतीयादथ कथा दाक्षिणानि होतुमेति” [सं॰ का॰ ६ प्र॰ ३ अ॰ १] इति।
अध्वर्योः सद उल्लङ्घ्य प्रत्यग्गमनं निषिद्धम्। दाक्षिणहोमस्तु प्राचीनवंशे नूतनगार्हपत्ये कर्तव्यः। तत्कथं घटते। असंस्थितेऽसमाप्ते। कथा केन प्रकारेण।
उक्तचोद्यस्य परिहारभासमाशङ्कते —
“यामो हि स तेषाम्” [सं॰ का॰ ६ प्र॰ ३ अ॰ १] इति।
याम उपरमः। यस्मात्स दाक्षिणहोमस्तेषां देवानां संबन्धिनः कर्मण उपरमकालीनोऽतो लौकिकगमनत्वाद्देवा अनुज्ञास्यन्ति।
इत्थमुत्तराभासं दूषयति –
“कस्मा अह देवा यामं वाऽयामं वाऽनु ज्ञास्यन्तीति” [सं॰ का॰ ६ प्र॰ ३ अ॰ १] इति।
[[354]]
Page no. 355
अहेत्युक्तनिषेधे। यदुत्तरवादिनोक्तं भवति, देवाः कस्मै प्रयोजनाय कर्मण उपरतियनुपरतिं वाऽनुज्ञास्यन्ति, न हि तदनुज्ञया देवानां किंचित्प्रयोजनं पश्यामः। ततः प्रत्यग्गमनस्य निषिद्धत्वाद्दाक्षिणहोमो न घटत एवेति चोद्यं सुस्थितम्।
तस्य मुख्यं परिहारं दर्शयन्प्रत्यग्गमनं विधत्ते —
‘उत्तरेणाऽऽग्नीध्रं परीत्य जुहोति दाक्षिणानि न प्राणान्त्सं कर्षति’ [सं॰ का॰ ६ प्र॰ ३ अ॰ १] इति।
आग्नीध्रहविर्धानयोर्मध्ये गत्वा यत्सदोतिक्रमणं तदेव निषिद्धम्। अयं त्वाग्नीध्रं वामतः परित्यज्य तस्मादुत्तरतः प्रत्यङ्मुखो गत्वा प्राचीनवंशे दाक्षिणानि जुहुयात्। ततो नोक्तदोषः।
प्रासङ्गिकं परिसमाप्य प्रकृतमनुसरति। तत्र चात्वालाद्धिष्णियानुपवपतीति सामान्यशास्त्रेणाऽग्नीध्रादीनां प्राजहितान्तानां षोडशानामपि निवपने प्रसक्ते मार्जालीयान्तानामेवेति विशेषं विधत्ते —
‘न्यन्ये धिष्णिया उप्यन्ते नान्ये यान्निवपति तेन तान्प्रीणाति’ (सं॰ का॰ ६ प्र॰ ३ अ॰ १) इति।
इतरेषामाहवनीयादीनां प्राजहितान्तानामष्टानामुपस्थानं विधत्ते —
‘यान्न निवपति यदनुदिशति तेन तान्’ (सं॰ का॰ ६ प्र॰ ३ अ॰ १) इति। प्रीणातीत्यनुवर्तते। अनुदेशनं मन्त्रेणोपस्थानम्।
अत्र विनियोगसंग्रहः —
‘विभूपदत्रयात्मानो मन्त्राः षोडश निर्वपेत्।
धिष्ण्यान्दिशेच्च सर्वेषु रौद्रेणेत्यनुदिश्यते॥१॥ इति।
अत्र मीमांसाछन्दसी न स्तः॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये प्रथमकाण्डे तृतीयप्रपाठके
तृतीयोऽनुवाकः॥३॥
[[355]]
Page no. 356