(अथ प्रथमाष्टके द्वितीयप्रपाठके चतुर्दशोऽनुवाकः)।
कृ॒णु॒ष्व पाजः॒ प्रसि॑तिं॒ न पृ॒थ्वीं या॒हि
राजे॒वाम॑वाँ॒ इभे॑न। तृ॒ष्वीमनु॒ प्रसि॑तिं द्रूणा॒-
नोऽस्ता॑ऽसि॒ विध्य॑ र॒क्षस॒स्तपि॑ष्ठैः तव॑ भ्र॒मास॑
आशु॒या प॑त॒न्त्यनु॑ स्पृश धृष॒ता शोशु॑चानः।
तपूँ॑ष्यग्ने जु॒ह्वा॑ पत॒ङ्गानसं॑दितो॒ वि सृ॑ज॒ विष्व॑
गु॒ल्काः। प्रति॒ स्पशो॒ वि सृ॑ज॒ तूर्णि॑तिमो॒ भवा॑
पा॒युर्वि॒शो अ॒स्या अद॑ब्धः। यो नो॑ दूरे॒ अ॒घ-
शँ॑सः॒ [१] यो अन्त्यग्ने॒ माकि॑ष्टे॒ व्यथि॒रा
द॑धर्षीत्। उद॑ग्ने तिष्ठ॒ प्रत्या त॑नुष्व॒ न्य॑मित्राँ॑
ओषतात्तिग्महेते। यो नो॒ अरा॑तिँ समिधान
च॒क्रे नी॒चा तं ध॑क्ष्यत॒सं न शुष्क॑म्। ऊ॒र्ध्वो
भ॑व॒ प्रति॑ वि॒ध्याध्य॒स्मदा॒विष्कृ॑णुष्व॒ दैव्या॑न्य-
ग्ने। अव॑ स्थि॒रा त॑नुहि यातु॒जूनां॑ जा॒मिम-
जा॑मिं प्र मृ॑णीहि॒ शत्रू॑न् स ते॑ [२] जा॒ना॒ति॒-
सुम॒तिं य॑विष्ठ॒ य ईव॑ते॒ ब्राह्म॑णे गा॒तु-
मैर॑त्। विश्वा॑न्यस्मै सु॒दिना॑नि रा॒यो द्यु॒म्ना-
न्य॒र्यो वि दुरो॑ अ॒भि द्यौ॑त्। सेद॑ग्ने अस्तु
सु॒भगः॑ सु॒दानु॒र्यस्त्वा॒ नित्ये॑न ह॒विषा॒ य
उ॒क्थैः। पिप्री॑षति॒ स्व आयु॑षि दुरो॒णे विश्वे
द॑स्मै सु॒दिना॒ साऽस॑दि॒ष्टिः। अर्चा॑मि ते सुम॒तिं
घोष्य॒र्वाक्सं ते॑ वा॒वाता॑ जरताम् [३] इ॒यं गीः।
स्वश्वा॑स्त्वा सु॒रथा॑मर्जयेमा॒स्मे क्ष॒त्राणि॑ धार-
[[324]]
Page no. ३२५
ये॒रनु॒ द्यून्। इ॒ह त्वा॒ भूर्या च॑रे॒दुप॒ त्मन्दो-
षा॑वस्तर्दीदि॒वाँस॒मनु॒ द्यून्। क्रीड॑न्तस्त्वा सु॒म-
न॑सः सपेमा॒भि द्यु॒म्ना त॑स्थि॒वाँसो॒ जना॑नाम्।
यस्त्वा॒ स्वश्वः॑ सुहिर॒ण्यो अग्न उप॒याति॒ वसु॑-
मता॒ रथे॑न। तस्य॑ त्रा॒ता भ॑वसि॒ तस्य॒ सखा॒
यस्त॑ आति॒थ्यमा॑नु॒षग्जुजो॑षत्। म॒हो रु॑जामि
[४] ब॒न्धुता॒ वचो॑भि॒स्तन्मा॑ पि॒तुर्गोत॑मा॒दन्वि॑-
याय। त्वं नो॑ अ॒स्य वच॑सश्चिकिद्धि॒ होत॑र्यवि-
ष्ठ सुक्रतो॒ दमू॑नाः। अस्व॑प्नजस्त॒रण॑यः सु॒शेवा॒
अत॑न्द्रासोऽवृ॒का अश्न॑मिष्ठाः। ते पा॒यवः॑ स॒-
ध्रिय॑ञ्चो नि॒षद्याग्ने॒ तव॑ नः पान्त्वमूर। ये पा॒य-
वो॑ मामते॒यं ते॑ अग्ने॒ पश्य॑न्तो अ॒न्धं दु॑रि॒तादर॑-
क्षन्। र॒रक्ष॒ तान्त्सु॒कृतो॑ वि॒श्ववे॑दा॒ दिप्स॑न्त॒ इ-
द्रि॒पवो॒ ना ह॑ [५] देभुः॒। त्वया॑ व॒यँ स॑ध॒-
न्य॑स्त्वोता॒स्तव॒ प्रणी॑त्यश्याम॒ वाजा॑न्। उ॒भा
शँसा॑ सूदय सत्यतातेऽनुष्ठु॒या कृ॑णुह्यह्रयाण।
अ॒या ते॑ अग्ने स॒मिधा॑ विधेम॒ प्रति॒ स्तोमँ॑ श॒-
स्यमा॑नं गृभाय। दहा॒शसो॑ र॒क्षसः॑ पा॒ह्य॑स्मा-
न्द्रु॒हो नि॒दो मि॑त्रमहो अव॒द्यात्। र॒क्षो॒हणं॑ वा॒
जिन॒मा जि॑घर्मि मि॒त्रं प्रथि॑ष्ठ॒मुप॑ यामि॒ शर्म॑।
शिशा॑नो अ॒ग्निः क्रतु॑भिः॒ समि॑द्धः॒ सः नो॒
दिवा॑ [६] स रि॒षः पा॑तु॒ नक्त॑म्। वि ज्योति॑षा
बृह॒ता भा॑त्य॒ग्निरा॒विर्विश्वा॑नि कृणुते महि॒त्वा।
[[325]]
Page no. ३२६
प्रादे॑वीर्मा॒याः स॑हते दु॒रेवाः॒ शिशी॑ते॒ शृङ्गे॒ रक्ष॑से
वि॒निक्षे॑। उ॒त स्वा॒नासो॑ दि॒वि ष॑न्त्व॒ग्नेस्ति॒ग्मा-
यु॑धा॒ रक्ष॑से॒ हन्त॒वा उ॑। मे॑द चिदस्य॒ प्र रु॑जन्ति॒
भामा॒ न व॑रन्ते परि॒बाधो॒ अदे॑वीः (७)॥
(अ॒घशँ॑सः॒ स ते॑ जरताँ रुजामि ह॒ दिवैक॑चत्वारिँशच्च)।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां प्रथमाष्टके
द्वितीयप्रपाठके चतुर्दशोऽनुवाकः॥१४॥
(आप॑ उन्द॒न्त्वकू॑त्यै॒ दैवी॑मि॒यं वस्व्य॑स्यँ॒शुना॑ सोम॑मु॒दायु॑षा॒ प्र च्य॑वस्वा॒ग्नेरा॑ति॒थ्यमँ॒शुरँ॑ शुर्वि॒त्ताय॑नी मेऽसि यु॒ञ्जते॑ कृणु॒ष्व पाज॒श्चतु॑र्दश)॥१४॥
(आपो॒ वस्व्य॑सि॒ या तवे॒यं गीश्चतु॑स्त्रिँशत्॥३४॥)
हरि॑ ॐ।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां प्रथमाष्टके
द्वितीय: प्रपाठक:॥२॥
(अथ प्रथमकाण्डे द्वितीयप्रपाठके चतुर्दशोऽनुवाकः)
त्रयोदशेऽनुवाके हविर्धानमण्डपनिर्माणमुक्तम्। यद्यपि नैतावता किंचित्प्रमेयं परिसमाप्तं तथाऽप्यध्यापकसंप्रदायपरम्परया प्रपाठक उत्तरानुवाके समाप्यत इत्यन्तिमानुवाकत्वाञ्चतुर्दशे काम्याः सामिधेन्यः पुरोनुवाक्या याज्यश्वोच्यन्ते। तत्रेष्टिकाण्डे व्रातपत्येष्टेरूर्ध्वं राक्षोघ्नेष्टिरेवमाम्नायते —
‘अग्नये रक्षोघ्ने पुरोडाशमष्टाकपालं निर्वपेद्यँ रक्षाँसि सचेरन्नग्निमेव रक्षोहणँ स्वेन भागाधेयेनोप धावति स एवास्माद्रक्षाँस्यप हन्ति” [सं. का. २ प्र. २ अ. २] इति।
सचेरन्समवेयुर्बाधेरन्नित्यर्थः।
मध्यरात्रिकालं विधत्ते —
[[326]]
Page no. ३२७
‘निशितायां निर्वपेन्निशितायाँ हि रक्षाँसि प्रेरते संप्रेर्णान्येवैनानि हन्ति’ (सं. का. २ प्र. २ अ. २) इति।
प्रेरते प्रकर्षेण चरन्ति। अतस्तस्यां वेलायां निर्वापेण प्रचारवन्त्येवैनानि रक्षांसि हन्ति।
यागभूमेः परितो वेष्टनं विधत्ते —
‘परिश्रिते याजयेद्रक्षसामानन्ववचाराय’ (सं. का. ६ प्र. २ अ. २) इति।
अनुप्रवेशाभावायेत्यर्थः।
रक्षोहणं वाजिनं वि ज्योतिषेत्येतौ मन्त्रौ विधत्ते —
‘रक्षोघ्नी याज्यानुवाक्ये भवतो रक्षसाँ स्तृत्यै’ (सं. का. ६ प्र. २ अ. २) इति।
हिंसार्थमित्यर्थः।
अस्यामिष्टौ कृणुष्व पाज इत्यनुवाकः कृत्स्नो विनियुक्तः। तस्मिन्नृचोष्टादश। तासु पञ्चदश सामिधेन्यः। एका पुरोनुवाक्या, द्वे याज्ये विकल्पिते।
तत्रेयं प्रथमा —
कृणुष्वेति। कृणुष्व कुरुष्व। पाजो बलम्। प्रसितिं न मृगबन्धनेहतुभूतपाश्यामिव पृथ्वीं प्रसारिताम्। अमवानमात्ययुक्तः। इभेन हस्तिना तृष्वीं शीघ्रगामिनीं प्रसितिं प्रकृष्टसेनां द्रूणानो हिंसन्। अस्ता क्षेप्ता धावयिता। रक्षसो रक्षसान्। तपिष्ठैरतिसंतापकैर्बाणैः। हेऽग्ने मृगबन्धनाय प्रसारितां पाश्यामिव रक्षोनिरोधाय प्रौढं बलं कुरु। अमात्ययुक्तो गजेन सहितो राजेव रक्षसामुपरि याहि। क्षिप्रगामिनीं परकीयसेनामनु पृष्ठतो गत्वा मारयन्नवशिष्टाया धावयिता भव। पलायमानानपि राक्षसान्बाणैस्तीक्ष्णैर्विध्य॥१॥
अथ द्वितीया —
तव भ्रमास इति। भ्रमासो भ्रमणशालिनो विस्फुलिङ्गाः। असंदितोऽखण्डितः। [आशुया शीघ्रगामिनः(णः)। धृषता धार्ष्ट्येन। शोशुचानो भृशं दीप्यमानः। तपूंषि संतापान्। पतङ्गान्पतनशीलान्)। विसृज विशेषेणोत्पादय।
[[327]]
Page no. ३२८
विष्वक्सर्वतः। उल्का महाज्वालाः। हेऽग्ने तव सबन्धिनो विस्फुलिङ्गाः शीघ्रगामिनः(णः) सर्वतः पतन्ति। त्वमपि भृशं दीप्यमानस्तैर्विस्फुलिङ्गैस्तानसुरान्धार्ष्ट्येनात्यन्तगाढमनु स्पृश। पुनरपि जुह्वा हुतेन हविषा त्वमविच्छिन्नः सन्संतापान्विस्फुलिङ्गान्महाज्वालाश्चासुरबाधनाय सर्वतो बाहुल्येनोत्पादय॥२॥
अथ तृतीया —
प्रति स्पश इति। स्पशः पाशान्। तूर्णितमोऽतित्वरितः। पायुः पालयिता। विशः प्रजायाः। अदब्धः केनाप्यहिंसितः। अघशंसो विचित्रवधकारी। अन्ति समीपे। माकिर्मा। व्यथिर्व्यथाकरी। आदधर्षीत्सर्वतो धृष्टो भवतु। हेऽग्ने चित्रवधकारी राक्षसो योऽस्माकं वैरी दूरे वर्तते, यश्चान्तिके वर्तते तं प्रति त्वमतित्वरितो बन्धनहेतून्पाशान्विविधान्सृज। केनाप्यहिंसितस्त्वमस्मदादिकाया अस्याः प्रजायाः पालको भव। कोऽपि व्यथयिता राक्षसस्ते समीपे सर्वत्र धृष्टो मा भवतु॥३॥
अथ चतुर्थी —
उदग्न इति। हेऽग्ने त्वमुत्तिष्ठ शत्रून्प्रति सर्वतः प्रवर्तस्व। हे तीक्ष्णायुध त्वमित्रान्नितरां दह। हे सामिध्यामान वह्ने योऽस्माकं शत्रुत्वं चक्रे तं नीचं कृत्वा शुष्कमतसमिव काष्ठमिव भस्मी कुरु॥४॥
अथ पञ्चमी —
ऊर्ध्व इति। हेऽग्ने त्वमूर्ध्वो भवोद्युक्तो भव। अस्मदधि अस्माकमुपरि ये शत्रवः संवृत्तास्तान्प्रति विध्य। हेऽग्ने दैव्यानि वीर्याण्याविष्कुरु। यातुजूनां यातुधानानां स्थिराणि वीर्याणि अवमतानि यथा भवन्ति तथा तनुहि कुरु। जामिः पुनः पुनस्ताडितः, अजामिरताडितस्तादृशान्सर्वान्प्रमृणीहि मारय॥ ५॥
अथ षष्ठी —
स त इति। हे यविष्ठ युवतम यो यजमान ईवते स्वगृहं प्रति गमनवते ब्रह्मणे परिवृढाय तुभ्यं गातुं हविर्लक्षणमन्नमैरत्प्रददाति स एव यजमानस्त्वदनुग्रहयुक्तां सुमतिं जानाति। त्वमपि अर्यः स्वामी भूत्वा रायो धनानि द्युम्नानि यशांसि धुरो गृहांश्चाभिलक्ष्यास्मै यजमानाय विश्वानि सुदिनानि यथा भवन्ति तथा द्यौत्प्रकाशयानुगृहाण॥६॥
[[328]]
Page no. ३२९
अथ सप्तमी —
सेदग्न इति। हेऽग्ने यो यजमानः स्व आयुषि यावज्जीवं दुरोणे स्वगृहे नित्येन प्रतिदिनमनुष्ठेयेन हविषा त्वां पिप्रीषति प्रीणयितुमिच्छति यश्चोक्थैः शस्त्रैः पिप्रीषति स एव सुभगः सौभाग्यवान्सुदानुः शोभनदानवानप्यस्तु। अस्मै अस्य यजमानस्य सा सर्वाऽपीष्टिः सुदिनैवासद्भवति॥ ७॥
अथाष्टमी –
अर्चामीति। हेऽग्ने तव सुमितिमनुग्रहरूपामर्चामि मनसा पूजयामि। अर्वागर्वाचीनाऽपि घोषि घोषवतीयं स्तुतिरूपा मदीया गीर्वावाता पौनःपुन्येन प्रसृता ते त्वयि सम्यग्जरतां जीर्यतां त्वां विहायान्यत्र मा गच्छतु। वयं तु त्वत्प्रसादाच्छोभनैरश्वै रथैश्च युक्ताः सन्तस्त्वा मर्जयेम सेवेमहि। त्वमप्यनुद्यूननुदिनमस्मे अस्मासु क्षत्र्राणि सामर्थ्यानि धारयेर्धारय॥ ८॥
अथ नवमी —
इह त्वेति। हेऽग्न इहास्मिल्ँ लोके श्रेयोर्थी पुरुषस्त्वामेव भूरि बाहुल्येन सर्वत उपचरेत्त्मन्नात्मनि स्वनिमित्तम्। कीदृशं त्वां, दोषावस्तर्दीदिवांसं रात्रिंदिवं दीप्यमानम्। कियन्तं कालमुपचारः, अनुद्यूननुदिनम्। तस्माद्वयं क्रीडन्तो हृष्टमनसस्त्वां सपेम संगच्छेम भजेम। किं कुर्वन्तः, जनानां मध्ये द्युम्नानि धनानि अभितस्थिवांसस्त्वत्प्रसादादधिष्ठितवन्तः॥९॥
अथ दशमी —
यस्त्वेति। हेऽग्ने त्वत्प्रसादाच्छोभनैरश्वैः समीचीनेन हिरण्येन च युक्तो यो यजमानो हविःस्वरूपधनवता रथेन सह त्वामुपयाति तस्य त्वं त्राता भवसि। किंच यस्तवातिथिसत्कारमानुषक्प्रतिदिनं जुजोषत्प्रीतिपुरःसरं करोति तस्य त्वं सखिवत्स्वाधीनो भवति॥१०॥
अथैकादशी —
मह इति। हेऽग्ने बन्धुता त्वदीयेन बन्धुत्वेन महोऽसुराणां तेजोऽधिक्षेपरूपैर्वचोभिरेव रुजामि भञ्जयामि। तत्त्वदीयं बन्धुत्वं गोतमाद्गोतमसदृशादध्यापकात्पितुर्मामनुप्राप। हे होतर्देवानामाहा(हो)तर्यविष्ट युवतम सुक्रतो शोभनक्रतो याग-
[[329]]
Page no. ३३०
निष्पादक दमूना दान्तमनास्त्वं नोऽस्मदीयस्य वचसोऽधीतवेदस्य रहस्यं चिकिद्धि जानासि॥११॥
अथ द्वादशी —
अस्वप्नज इति। हेऽग्ने तव ते नः पान्तु त्वतीयास्तथाविधा रश्मयोऽस्मान्पालयन्तु। अमूरेत्यग्निविशेषणम्। मूर्मूर्छा तद्वान्मूरस्ततोऽन्यत्वादमूरस्तस्य संबोधनम्। कीदृशास्ते रश्मयः, स्वप्नजन्मानो मिथ्याभूता न भवन्तीति अस्वप्नजः। व्यत्ययेनैकवचनम्। तरणयो दुरितरूपं तमस्तारयन्ति। सुशेवाः सुखेन सेवितुं योग्याः। अतन्द्रासोऽप्रमत्ताः। अवृका अहिंसकाः। अश्रमिष्ठाः श्रमरहिताः। पायवः पालकाः। सध्रियञ्चः सह प्रवर्तमानाः। निषद्य यागप्रदेशे स्थित्वा॥१२॥
अथ त्रयोदशी —
ये पायव इति। हेऽग्ने तव संबन्धिनः पालका ये रश्मयो ममताख्यायाः कस्याश्चिद्योषितोऽपत्यं क्वचिदन्धं पश्यन्तो दुरितादान्ध्यलक्षणादरक्षन्। इयं त्वाख्यायिका क्वापि ब्राह्मणान्तरे द्रष्टव्या। विश्वं वेत्तीति विश्ववेदाः। तादृशो भवान्सुकृतः सोभनकर्मकारिणस्तान्रश्मीन्रक्ष। ते रिपवो राक्षसास्तान्दिप्सन्त इदिव परिभवितुमिच्छन्तोऽपि ना(न) ह देभुर्नैव परिबभूवुः॥१३॥
अथ चतुर्दशी —
त्वयेति। हेऽग्ने वयं तव प्रणीती प्रेरणया वाजानन्नान्पश्याम। कीदृशा वयं, त्वया सधन्याः। सह यज्ञकर्म नयन्तीति सधन्याः। त्वोतास्त्वया रक्षिताः। हे सत्यताते सत्यविस्तार, उभा शंसा त्वदग्नेऽस्माभिः शंसनीयावैहिकामुष्मिकौ पुरुषार्थावुभौ सूदय [क्षर देहि] हेऽह्रयाण भक्तानामलज्जाकरानुष्ठुया कृणुहि साधनानुष्ठापनेन तावुभौ कुरु॥१४॥
अथ पञ्चदशी —
अयात इति। हेऽग्नेऽया समिधाऽनया सामिधेन्या ते त्वां विधेम परिचरेम। अस्माभिः शस्यमानं स्तोमं स्तोत्रं प्रतिगृभाय प्रतिगृहाण। अशसोऽप्रशस्तान्रक्षसो राक्षसान्दह। मित्रमुपकारकं महस्तेजो यस्यासौ मित्रमहा हे मित्रमहो द्रुहो वैरिकृतद्रोहान्निदो निन्दाया अवद्यादनुष्ठानदोषाच्चास्मान्पाहि॥१५॥
अथ षोडशी। सा तु पुरोनुवाक्या —
Page no. ३३०
निष्पादक दमूना दान्तमनास्त्वं नोऽस्मदीयस्य वचसोऽधीतवेदस्य रहस्यं चिकिद्धि जानासि॥११॥
अथ द्वादशी —
अस्वप्नज इति। हेऽग्ने तव ते नः पान्तु त्वतीयास्तथाविधा रश्मयोऽस्मान्पालयन्तु। अमूरेत्यग्निविशेषणम्। मूर्मूर्छा तद्वान्मूरस्ततोऽन्यत्वादमूरस्तस्य संबोधनम्। कीदृशास्ते रश्मयः, स्वप्नजन्मानो मिथ्याभूता न भवन्तीति अस्वप्नजः। व्यत्ययेनैकवचनम्। तरणयो दुरितरूपं तमस्तारयन्ति। सुशेवाः सुखेन सेवितुं योग्याः। अतन्द्रासोऽप्रमत्ताः। अवृका अहिंसकाः। अश्रमिष्ठाः श्रमरहिताः। पायवः पालकाः। सध्रियञ्चः सह प्रवर्तमानाः। निषद्य यागप्रदेशे स्थित्वा॥१२॥
अथ त्रयोदशी —
ये पायव इति। हेऽग्ने तव संबन्धिनः पालका ये रश्मयो ममताख्यायाः कस्याश्चिद्योषितोऽपत्यं क्वचिदन्धं पश्यन्तो दुरितादान्ध्यलक्षणादरक्षन्। इयं त्वाख्यायिका क्वापि ब्राह्मणान्तरे द्रष्टव्या। विश्वं वेत्तीति विश्ववेदाः। तादृशो भवान्सुकृतः सोभनकर्मकारिणस्तान्रश्मीन्रक्ष। ते रिपवो राक्षसास्तान्दिप्सन्त इदिव परिभवितुमिच्छन्तोऽपि ना(न) ह देभुर्नैव परिबभूवुः॥१३॥
अथ चतुर्दशी —
त्वयेति। हेऽग्ने वयं तव प्रणीती प्रेरणया वाजानन्नान्पश्याम। कीदृशा वयं, त्वया सधन्याः। सह यज्ञकर्म नयन्तीति सधन्याः। त्वोतास्त्वया रक्षिताः। हे सत्यताते सत्यविस्तार, उभा शंसा त्वदग्नेऽस्माभिः शंसनीयावैहिकामुष्मिकौ पुरुषार्थावुभौ सूदय [क्षर देहि] हेऽह्रयाण भक्तानामलज्जाकरानुष्ठुया कृणुहि साधनानुष्ठापनेन तावुभौ कुरु॥१४॥
अथ पञ्चदशी —
अयात इति। हेऽग्नेऽया समिधाऽनया सामिधेन्या ते त्वां विधेम परिचरेम। अस्माभिः शस्यमानं स्तोमं स्तोत्रं प्रतिगृभाय प्रतिगृहाण। अशसोऽप्रशस्तान्रक्षसो राक्षसान्दह। मित्रमुपकारकं महस्तेजो यस्यासौ मित्रमहा हे मित्रमहो द्रुहो वैरिकृतद्रोहान्निदो निन्दाया अवद्यादनुष्ठानदोषाच्चास्मान्पाहि॥१५॥
अथ षोडशी। सा तु पुरोनुवाक्या —
[[330]]
Page no. ३३१
रक्षोहणमिति। रक्षसां हन्तारमन्नवन्तमग्निमाभिमुख्येन दीपयामि। जगतां मित्रं प्रथिष्ठं विस्तीर्णतमं शर्म शरणमुपयामि भजामि। एतदादिभिः ऋतुभिः समिद्धः संज्वलितः शिशानस्तीक्ष्णः सोऽग्निर्दिवा रिषो हिंसकादस्मान्पातु। स एव नक्तमपि पातु॥१६॥
अथ सप्तदशी। सा तु याज्या —
वि ज्योतिषेति। अयमग्निर्बृहता ज्योतिषा विभाति। विश्वानि महित्वा माहात्म्येनाऽऽविष्कुरुते। अदेवीरासुरीर्दुरेवा दुरत्यया मायाः प्रसहते विनाशयति। रक्षसे राक्षसान्विनिक्षे विनाशयितुं शृङ्गे द्वे ज्वाले शिशीते तीक्ष्णी करोति॥१७॥
अथाष्टादशी। सा तु विकल्पिता याज्या —
उतेति। तिग्मं तीक्ष्णत्वमेवाऽऽयुधं येषां रश्मीनां ते तिग्मायुधास्ते तव स्वानासोऽनेन पुरोडाशेन ध्वनिं कुर्वन्तः। तादृशा अग्ने रश्मय उत दिवि षन्तु द्युलोकेऽपि प्रसरन्तु। किमर्थं, रक्षसे हन्तवा उ राक्षसान्हन्तुमेव। अस्याग्नेर्भामा भासो रश्मयो मदे चिदस्मद्धर्षायैव प्ररुजन्ति प्रतिपक्षिणो भञ्जन्ति। अदेवीरासुर्यः परिबाधः सर्वतः कृता बाधा न वरन्ते नैवास्मानावृण्वन्ति। अत्र षोडशी विकल्पिता सामिधेनी। उत्तरे याज्यानुवाक्ये इति केचित्। तथा वाऽस्तु॥१७॥
अत्र विनियोगसंग्रहः —
“कृणु राक्षोघ्नके यागे सामिधेन्यस्तु षोडश।
याज्यानुवाक्ये द्वे अष्टादश मन्त्रा इहेरिताः॥१॥” इति।
मीमांसा तु उभा वामिन्द्राग्नी इत्यत्रेव सर्वत्र याज्याकाण्डे योजनीया। छन्दोऽपि सर्वासामृचामत्र त्रिष्टुबेव॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये प्रथमकाण्डे द्वितीयप्रपाठके चतुर्दशोऽनुवाकः॥१४॥
वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन्।
पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः॥१॥
[[331]]
Page no. ३३२
इति श्रीमद्विद्यातीर्थमहेश्वरापरावतारस्य श्रीमद्राजाधिराजपरमेश्वरस्य श्रीवीरबुक्कमहाराजस्याऽऽज्ञापरिपालकेन माधवाचार्येण विरचिते वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये प्रथमकाण्डे द्वितीयः प्रपाठकः॥२॥