(अथ प्रथमाष्टके द्वितीयप्रपाठकेऽष्टमोऽनुवाकः )
उदायु॑षा स्वा॒युषोदोष॑धीनाँ॒ रसे॒नोत्प॒र्ज-
न्य॑स्य॒ शुष्मे॒णाद॑स्थाम॒मृताँ॒ अनु॑। उ॒र्व॑न्तरि॑-
क्ष॒मन्वि॒ह्यदि॑त्याः॒ सदो॒ऽस्यादि॑त्याः॒ सद॒ आ
सी॒दास्त॑भ्ना॒द्द्यामृ॑ष॒भो अ॒न्तरि॑क्ष॒ममि॑मीत वरि॒-
[[264]]
Page No. २६५
माणं॑ पृथि॒व्या आऽसी॑द॒द्विश्वा॒ भुव॑नानि स॒म्रा-
ड्विश्वेत्तानि॒ वरु॑णस्य व्र॒तानि॒ वने॑षु॒ व्य॑न्तरि॑क्षं
ततान॒ वाज॒मर्व॑त्सु॒ पयो॑ अग्नि॒यासु॑ हृ॒त्सु (१)
क्रतुं॒ वरु॑णो वि॒क्ष्व॑ग्निं दि॒वि सूर्य॑मदधा॒त्सोम॒म-
द्रा॒वुदु॒ त्यं जा॒तवे॑दसं दे॒वं व॑हन्ति के॒तवः॑। दृ॒शे
विश्वा॑य॒ सूर्य॑म्। उस्रा॒वेतं॑ धूर्षाहावन॒श्रू अवी॑-
रहणौ ब्रह्म॒चोद॑नौ॒ वरु॑णस्य॒ स्कम्भ॑नमसि॒
वरु॑णस्या स्कम्भ॒सर्ज॑नमसि॒ प्रत्य॑स्तो॒ वरु॑णस्य॒
पाशः॑॥२॥
(हृ॒त्सु पञ्च॑त्रिँशच्च)।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां प्रथमाष्टके
द्वितीयप्रपाठकेऽष्टमोऽनुवाकः ॥ ॥
(अथ प्रथमाष्टके द्वितीयप्रपाठकेऽष्टमोऽनुवाकः)
सप्तमेऽनुवाके सोमक्रयणमभिहितम्। अथ क्रीतं सोमं प्राचीनवंशे नेतुमष्टमे शकटारोपणं सोमस्योच्यते।
उदायुषेति कल्पः – ‘अथैनमादायोपोत्तिष्ठति उदायुषा स्वायुषोदोषधीनाँ रसेनोत्पर्जन्यस्य शुष्मेणोदस्थाममृताँ अन्विति’ इति।
अमृतान्देवाननुलक्ष्याऽऽयुरादिविशेषणविशिष्टेन सोमेन सहोदस्थामुत्तिष्ठामीति। जीवनमायुः। तत्रापि रोगाद्युपद्रवरहितं स्वायुः। तदुभयप्रदत्वात्सोमस्य तदुभयरूपत्वम्। ओषधीनां पर्जन्यस्य च सोमः सार इतरौषधिवद्भूमिविशेषे जायमानत्वाद्वृष्ट्या वर्धमानत्वाच्च। चतुर्भिर्विशेषणैः पृथक्क्रियापदमन्वेतुं चत्वार उच्छब्दाः।
अमृतशब्दानुशब्दयोरर्थमाह —
[[265]]
Page No. २६६
‘उदायुषा स्वायुषेत्याह देवता एवान्वारभ्योत्तिष्ठति’ (सं. का. ६ प्र. १ अ. ११) इति।
उर्विति। कल्पः — ‘उर्वन्तरिक्षमन्विहीति शकटायाभिप्रव्रजति’ इति।
उत्थापनमारभ्य पुनर्भूमौ स्थापनपर्यन्तं सोमोऽन्तरिक्षाधार इत्यभिप्रायं दर्शयति —
‘उर्वन्तरिक्षमन्विहीत्याहान्तरिक्षदेवत्यो ह्येतर्हि सोमः’ (सं. का. ६ प्र. १ अ. ११) इति।
अदित्या इति। बौधायनः – ‘तस्य च्छिद्रे कृष्णाजिनमास्तृणात्यदित्याः सदोऽसीति, अदित्याः सद आसीदेति कृष्णाजिने राजानमथैनमुपतिष्ठतेऽस्तभ्नाद्द्यामृषभो अन्तरिक्षममिमीत वरिमाणं पृथिव्या आऽसीदद्विश्वा भुवनानि सम्राड्विश्वेत्तानि वरुणस्य व्रतानीति’ इति।
आपस्तम्बो द्वितीयतृतीयमन्त्रावेकी चकार। हे कृष्णाजिन त्वमिदित्या भूमेः सदः स्थानमसि। हे सोम तस्या सदः प्राप्नुहि। ऋषभः श्रेष्ठोऽयं सोमो यथा द्युलोको न पतति तथा स्तम्भनं संचस्कार। अन्तरिक्षमेतावदित्यमिमति पृथिव्या वरिमाणं गुरुत्वं चामिमीत। स सोमदेवः स्वमहिम्ना सम्यग्राजमानो विश्वानि भुवनानि आसीदद्व्याप्तवान्। विश्वेत्ताति सर्वाण्येवोक्तानि कर्माणि सर्वावरकत्वेन वरुणनाम्नः सोमस्य व्रतानि व्रतवन्नियतानि।
प्रथमद्वितीयमन्त्रयोः स्पष्टार्थतां दर्शयति —
“अदित्याः सदोऽस्यदित्याः सद आ सीदेत्याह यथायजुरेवैतत्” (सं. का. ६ प्र. १ अ. ११) इति।
द्वितीयमन्त्रसाध्यं यदासादनं तदेव तृतीयमन्त्रेणापि कर्तव्यमित्यमुमर्थं हेतूपन्यासपुरःसरं विधत्ते —
“वि वा एनमेतदर्धयति यद्वारुणँ सन्तं मैत्रं करोति वारुण्यर्चाऽऽसादयति स्वयैवैनं देवतया समर्धयति” (सं. का. ६ प्र. १ अ. ११) इति।
उपनद्धः सोमो वरुणो यद्विषये मित्रो न एहीति मन्त्रं पठन्मैत्रं करोतीति यदस्ति एतैनैनं सोमं व्यर्धयति समृद्धिहीनं करोति, वारुण्यर्चा तु समर्धयति।
[[266]]
Page No. २६७
वनेष्विति। कल्पः — “अथैनं वाससा परितनोति वनेषु व्यन्तरिक्षं ततान वाजमर्वत्सु पयो अघ्नियासु हृत्सु क्रतुं वरुणो विक्ष्वग्निं दिवि सूर्यमदधात्सोममद्राविति” इति।
विततानेति प्रतिवाक्यमन्वेति। वरुणनामकः सोमदेवो जगदीश्वरेणाभिन्नः सर्वं निर्ममे। तत्किं वनेषु वृक्षमध्येषु अन्तरिक्षमवकाशं विततान। अर्वत्सु वाजिषु वाजं वेगं गतिविशेषं, पयो गोषु, हृदयेषु वित्तेषु क्रतुं संकल्पं, विक्षु प्रजासु जठराग्निं, द्युलोके सूर्यं, पर्वते सोमवल्लीमदधादस्थापयत्।
अनेन मन्त्रेण कर्तव्यं विधत्ते —
“वाससा पर्यानह्यति सर्वदेवत्यं वै वासः सर्वाभिरेवैनं देवताभिः समर्धयत्यथो रक्षसामपहत्यै” (सं. का. ६ प्र. १ अ. ११) इति।
मन्त्रार्थो लोकप्रसिद्ध इत्याह —
“वनेषु व्यान्तरिक्षं ततानेत्याह वनेषु हि व्यन्तरिक्षं ततान वाजमर्वत्स्वित्याह वाजँ ह्यर्वत्सु पयो अघ्नियास्वित्याह पयो ह्यघ्नियासु हृत्सु क्रतुमित्याह हृत्सु हि क्रतुं वरुणो विक्ष्वग्निमित्याह वरुणो हि विक्ष्वग्निं दिवि सूर्यमित्याह दिवि हि सूर्यँ सोममद्रावित्याह ग्रावाणो वा अद्रयस्तेषु वा एष सोमं दधाति यो यजते तस्मादेवमाह” (सं. का. ६ प्र. १ अ. ११) इति।
अद्रिशब्देनात्र पाषाणबहुलो गिरिर्विवक्षितः। पाषाणसंधिषु सोमस्योत्पत्तेः। यजमानस्तेषु सोमं प्राप्नोति।
कल्पः — “उदु त्यं जातवेदसमिति सौर्यर्चा कृष्णाजिनं प्रत्यानह्यत्युर्ध्वग्रीवं बहिष्ठाद्विशसनम्” इति।
स च मन्त्र एवं पठ्यते —
उदु त्यमिति। केतवो रश्मयस्त्यं तं परोक्ष जातवेदसमुत्पन्नस्य सर्वस्य जगतो वेत्तारं सूर्यं देवमुद्वहन्ति ऊर्ध्वप्रदेशं प्रापयन्ति। किमर्थं, विश्वाय दृशे सर्वस्य जगतो दर्शनार्थम्।
सौर्यमन्त्रेण रक्षांसि निवार्यन्त इत्याह —
“उदु त्यं जातवेदसमिति सौर्यर्चा कृष्णाजिनं प्रत्यानह्यति रक्षसामपहत्यै” (सं. का. ६ प्र. १ अ. ११) इति।
[[267]]
Page No. २६८
उस्राविति। कल्पः — “अथ सोमवाहनावानीयमानौ प्रति मन्त्रयते उस्रावेतं धूर्षाहावन्श्रु अवीरहणौ ब्रह्मचोदनाविति” इति।
हे उस्रौ बलीवर्दावेतमागच्छतम्। कीदृशौ, धूर्षाहौ भारं सहमानौ। अनश्रू अनसि शकटे श्रुतौ ख्यातौ। अवीरहणौ वीरं शकटस्थितं सोममबाधमानौ ब्रह्मचोदनौ ब्रह्मान्नं कृषिद्वारेणान्नप्रवर्तकौ।
मन्त्रस्य स्पष्टार्थतामाह —
“उस्रावेतं धूर्षाहावित्याह यथायजुरेवैतत्” (सं. का. ६ प्र. १ अ. ११) इति।
वरुणस्येति। बौधायनः – “तयोर्दक्षिणं पूर्वं युनक्ति वरुणस्य स्कम्भनमसीति, वरुणस्य स्कम्भसर्जनमसीति शम्यामवगूहति, प्रत्यस्तो वरुणस्य पाश इति योक्त्रम्” इति।
आपस्तम्बः — “वरुणस्य स्कम्भनमसीति शम्यां प्रतिमोच्योस्रावेतं धूर्षाहावित्यनड्वाहावुपाज्य वारुणमसीति योक्त्रपाशं परिहृत्य प्रत्यस्तो वरुणस्य पाश इत्यभिधानीं प्रत्यस्यति” इति।
शाखान्तरानुसारेण वारुणमसीत्युक्तम्। एतच्छाखानुसारेण वरुणस्य स्कम्भसर्जनमसीति द्रष्टव्यम्। युगच्छिद्रे प्रक्षेप्यः शङ्कुः शम्या। हे शम्ये त्वं वरुणस्योक्ष्णो निवारणीयस्य बलीवर्दस्य स्कम्भनं। निवारणं कुर्वत्यसि। गलबन्धनसाधनं योक्त्रम्। हे योक्त्र त्वमपि पलायनान्निवारणीयस्य शम्येव निवारणं सृजसि। दीर्घरज्जुः पाशः। स च प्रत्यस्तः शकटस्योपरि प्रसारितः। एते त्रयो मन्त्राः स्पष्टार्था इति ब्राह्मणेनोपेक्षिताः।
अत्र विनियोगसंग्रहः —
“उदायु सोममादायोरु गच्छेच्छकटं प्रति।
अदि स्तृत्वाऽजिनं सोममदित्याः सेति सादयेत्॥१॥
वने वस्त्रेण बद्ध्वोदु प्रत्यानह्यति चर्मणा।
उस्रावनडुहोर्योगो वरु शम्यां विनिक्षिपेत्॥२॥
वरु बद्ध्वा योक्त्रपाशं प्रति धानीमुपास्यति।
अनुवाके ह्यष्टमेऽस्मिन्मन्त्रा एते दशोदिताः॥३॥” इति।
[[268]]
Page No. २६९
अत्र मीमांसा नास्ति।
अथ च्छन्दः —
उदायुषेत्यनुष्टुष्। उर्वित्येकपदा गायत्री। अस्तभ्नादिति वनेष्विति च त्रिष्टुभौ। उदु त्यमिति गायत्री॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये प्रथमकाण्डे द्वितीयप्रपाठकेऽष्टमोऽनुवाकः ॥८॥