दैवीं॒ धियं॑ मनामहे सुमृडी॒काम॒भिष्ट॑ये
वर्चो॒धां य॒ज्ञवा॑हसँ सुपा॒रा नो॑ अ॒सद्वशे॑।
ये दे॒वा मनो॑जाता मनो॒युजः॑ सु॒दक्षा॒ दक्ष॑पि-
तार॒स्ते नः॑ पान्तु॒ ते नो॑ऽवन्तु॒ तेभ्यो॒ नम॒-
[[223]]
Page No. २२४
स्तेभ्यः॒ स्वाहाऽग्ने॒ त्वँ सु जा॑गृहि व॒यँ
सु म॑न्दिषीमहि गोपा॒य नः॑ स्व॒स्तये॑ प्र॒बुधे॑ नः॒
पुन॑र्ददः त्वम॑ग्ने व्रत॒पा अ॑सि दे॒व आ
मर्त्ये॒ष्वा। त्वम् [१] य॒ज्ञेष्वीड्यः॑। विश्वे॑
दे॒वा अ॒भि मामाऽव॑वृत्रन्पू॒षा स॒न्या सोमो॒
राध॑सा दे॒वः स॑वि॒ता वसो॑र्वसु॒दावा॒ रास्वेय॑-
त्सो॒माऽऽभूयो॑ भर॒ मा पृ॒णन्पू॒र्त्या वि रा॑धि॒-
माऽहमायु॑षा च॒न्द्रम॑सि॒ मम॒ भोगा॑य भव॒
वस्त्र॑मसि॒ मम॒ भोगा॑य भवो॒स्राऽसि मम॒
भोगा॑य भव॒ हयो॑ऽसि॒ मम॒ भोगा॑य भव॒
(२) छागो॑ऽसि॒ मम॒ भोगा॑य भव मे॒षो॑ऽसि॒
मम॒ भोगा॑य भव वा॒यवे॑ त्वा॒ वरु॑णाय त्वा॒
निर्ऋ॑त्यै त्वा रु॒द्राय॑ त्वा॒ देवी॑रापो अपां
नपा॒द्य ऊ॒र्मिर्ह॑वि॒ष्य॑ इन्द्रि॒यावा॑न्म॒दिन्त॑म॒स्तं
वो॒ माऽव॑ क्रमिष॒मच्छि॑न्नं॒ तन्तुं॑ पृथि॒व्या
अनु॑ गेषं भ॒द्राद॒भि श्रेयः॒ प्रेहि॒ बृह॒स्पतिः॑
पुरए॒ता ते॑ अ॒स्त्वथे॒मव॑ स्य॒ वर॒ आ पृ॑थि॒व्या
आ॒रे शत्रू॑न्कृणुहि॒ सर्व॑वीर॒ एदम॑गन्म देव॒य-
ज॑नं पृथि॒व्या विश्वे॑ दे॒वा यदजु॑षन्त॒ पूर्व॑
ऋक्सा॒माभ्यां॒ यजु॑षा सं॒तर॑न्तो रा॒यस्पोषे॑ण॒
समि॒षा म॑देम [३]॥
( आ त्वं हयो॑ऽसि॒ मम भोगा॑य भव स्य पञ्च॑विँशतिश्च)।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां प्रथमाष्टके
द्वितीयप्रपाठके तृतीयोऽनुवाकः॥३॥
[[224]]
Page No. २२५
[अथ प्रथमकाण्डे द्वितीयप्रपाठके तृतीयोऽनुवाकः]
द्वितीयेऽनुवाके दीक्षा वर्णिता। दीक्षितेन देवयजने स्वीकृते सति सोमक्रयणादिरूपः क्रतुव्यवहारस्तत्र कर्तुं शक्यत इति तृतीयेऽनुवाके देवयजनस्वीकारो वर्ण्यते। तत्स्वीकारादूर्ध्वं सोमार्थे देवयजने सोमक्रयस्यैव वक्तुमुचितत्वात्तत्स्वीकारात्पूर्वमनुवाकादौ व्रतपानद्रव्यसंपादनमभिधीयते।
दैवीमिति। बौधायनः – “अथाप आचामति दैवीं धियं मनामहे सुमृडीकामभिष्टये वर्चोधां यज्ञवाहसँ सुपारा नो असद्वश इति” इति।
आपस्तम्बः – “दैवीं धियं मनामह इति हस्ताववनिज्य” इति।
अभीष्टार्थसिद्धये वयं देवताविषयां कर्मानुष्ठानबुद्धिमनया बुद्ध्या संपादयामः। कीदृशीं बुद्धिम्। समृडीकां सुखहेतुं ब्रह्मचर्यसाधारणहेतुं यज्ञनिर्वाहिकाम्। सेयं बुद्धिः सुष्ठु पारं गताऽस्माकं वशे भवतु।
सुमृडीकामिति पदस्याभिप्रायमाह —
“दैवीं धियं मनामह इत्याह यज्ञमेव तन्म्रदयति” (सं. का. ६ प्र. १ अ. ४) इति।
मृदू करोतीत्यर्थः।
सुपारेति पदेन यत्सूचितं तदाह —
“सुपारा नो असद्वश इत्याह व्युष्टिमेवावरुन्धे” (सं. का. ६ प्र. १ अ. ४) इति।
व्युष्टिः सुप्रभातं कृत्स्नयज्ञप्रकाशनमित्यर्थः।
य इति। कल्पः — “अथास्मै कँसे वा चमसे वा निषिच्य व्रतं प्रयच्छति तद्दक्षिणतः परिश्रित्य व्रतयति ये देवा मनोजाता मनोयुजः सुदक्षा दक्षपितारस्ते नः पान्तु ते नोऽवन्तु तेभ्यो नमस्तेभ्यः स्वाहेति” इति।
चक्षुरादिप्राणाभिमानिनो ये देवाः सन्ति तेऽस्मान्पयःपानरूपव्रतानुष्ठायिनोऽन्तर्बहिश्च शुद्धिसंपादनेन पालयन्तु। कीदृशा देवाः। उत्पत्तिकाले मनसा सहोत्पन्नाः। व्यवहारकालेऽपि मनसा युज्यन्ते। अन्यमनस्कस्य चक्षुरादिभिः संनिहितविषयाणामप्यनवगमात्। सति तु मनःसाहाय्ये स्वस्वविषयेषु सुदक्षाः कुशलाः। दक्षः प्रजापतिरुत्पादको येषां ते दक्षपितारः।
[[225]]
Page No. २२६
विचारपुरःसरं व्रतं विधत्ते —
“ब्राह्मवादिनो वदन्ति होतव्यं दीक्षितस्य गृहा३इ न होतव्या३मिति हविर्वै दीक्षितो यज्जुहुयाद्यजमानस्यावदाय जुहुयाद्यन्न जुहुयाद्यज्ञपरुरनन्तरियाद्ये देवा मनोजाता मनोयुज इत्याह प्राणा वै देवा मनोजाता मनोयुजस्तेष्वेव परोक्षं जुहोति तन्नेव हुतं नेवाहुतम्” (सं. का. ६ प्र. १ अ. ४) इति।
दीक्षितस्य हविष्ट्वमर्थवादान्तरे श्रूयते —
“पुरा खलु वावैष मेधायाऽऽत्मानमारभ्य चरति यो दीक्षितो यदग्नीषोमीयं पशुमालभत आत्मनिष्क्रयण एवास्य स तस्मात्तस्य नाऽऽश्यं पुरुषनिष्क्रयण इव ह्यथो खल्वाहुरग्नीषोमाभ्यां वा इन्द्रो वृत्रमहन्निति यदग्नीषोमीयं पशुमालभते वार्त्रघ्न एवास्य स तस्माद्वाश्यं वारुण्यर्चा परिचरति स्वयैवैनं देवतया परिचरति” (सं. का. ६ प्र. १ अ. ११) इति।
शाखान्तरेऽपि — “सर्वाभ्यो वा एष देवताभ्य आत्मानमालभते यो दीक्षितः” इति। तथा सति दीक्षितस्य गृहे यद्यग्निहोत्रं जुहुयात्तर्हि यजमान एव हुतो भवेत्। अहोमे तु नित्याग्निहोत्रस्य परुः प्रतिदिनानुष्ठानरूपं पर्व विच्छिद्येत। तत्र पूर्वप्रसिद्धेन मन्त्रेणाऽऽहवनीयाग्नौ होमः स प्रत्यक्ष इत्युच्यते। अयं तु परोक्षोऽग्निहोत्रहोमः। अन्यमन्त्रेण प्राणाग्निषु हूयमानत्वात्। अतस्तृतीयकोटित्वेन मुख्ययोर्होमाहोमयोरभावान्नोक्तदोषद्वयम्। तस्मादनेन मन्त्रेण व्रतं कुर्यादित्यभिप्रायः।
अग्न इति। बौधायनः — “अथ संवेशनयुजुर्जपति अग्ने त्वँसु जागृहि वयँसु मन्दिषीमहि गोपाय नः स्वस्तये प्रबुधे नः पुनर्दद इति” इति।
आपस्तम्बः — “अग्ने त्वँ सु जागृहीति स्वप्स्यन्नाहवनीयमभिन्त्रयते” इति।
सुमन्दिषीमहि निर्भयाः सन्तः स्वप्स्यामः। नोऽस्माकं स्वस्तये विनाशाभावार्थं प्रबुधे जागरणाय ददः सामर्थ्यं देहि।
भयप्रसक्तिं दर्शयन्मन्त्रं व्याचष्टे —
“स्वपन्तं वै दीक्षितँ रक्षाँसि जिघाँसन्त्यग्निः खलु वै रक्षोहाऽग्ने त्वँसु जागृहि वयँसु मन्दिषीमहीत्याहाग्निमेवाधिपां कृत्वा स्वपिति रक्षसामपहत्यै” (सं. का. ६ प्र. १ अ. ४) इति।
[[226]]
Page No. २२७
त्वमिति। कल्पः – “अथाध्वर्युर्मध्यरात्र आद्रुत्य प्रबुद्धयजुर्वाचयति त्वमग्ने व्रतपा असि देव आ मर्त्येष्वा त्वं यज्ञेष्वीड्य इति” इति।
याज्यासु व्याख्यातम्।
व्रतभ्रंशप्रसक्तिं दर्शयन्प्रथमं पादं व्याचष्टे —
‘अव्रत्यमिव वा एष करोति यो दीक्षितः स्वपिति त्वमग्ने व्रतपा असीत्याहाग्निर्वै देवानां व्रतपतिः स एवैनं व्रतमालम्भयति’ (सं. का. ६ प्र. १ अ. ४) इति।
अविकलं करोतीत्यर्थः।
मनुष्येषु च्छिन्नं व्रतं मनुष्यावतारेण पालयतीति शङ्का वारयन्द्वितीयपादं व्याचष्टे —
‘देव आ मर्त्येष्वेत्याह देवो ह्येष सन्मर्त्येषु’ (सं. का. ६ प्र. १ अ. ४) इति।
अतो व्रतं समाधातुं शक्नोति।
अग्निर्मूर्धा दिवः ककुदित्यादियाज्यापुरोनुवाक्यादिमन्त्रेष्वाग्नेः स्तूयत इत्यभिप्रायं तृतीयपादे स्वयं दर्शयति —
‘त्वं यज्ञेष्वीड्य इत्याहैतँ हि यज्ञेष्वीडते’ (सं. का. ६ प्र. १ अ. ४) इति।
विश्व इति। बौधायनः – ‘अथ सनिहारान्प्राहिणोति स यं मन्यते न मां प्रत्याख्यास्यतीति तं प्रथममभिप्रहिणोति विश्वे देवा अभि मामाऽववृत्रन्पूषा सन्या सोमो राधसा देवः सविता वसोर्वसुदावेति, आहरन्तं दृष्ट्या जपति नानाहरन्तं रास्वेयत्सोमाऽऽभूयो भर मा पृणन्पूर्त्या वि राधि माऽहमायुषेति’ इति।
सनिशब्देन हिरण्यवस्त्रादि देयद्रव्यमुच्यते। सनिहारा द्रव्याणामानेतारः। आपस्तम्बस्तु प्रकारान्तरेण मन्त्रविनियोगविच्छेदावाह —
‘विश्वे देवा अभि मामाऽववृत्रन्निति प्रबुध्य जपति, पूषा सन्येति सनिहारान्त्सँ शास्ति, चन्द्रमसीत्येतैः प्रतिमन्त्रं यथालिङ्गं प्रतिगृह्णाति, देवः सविता वसोर्वसुदावेत्यन्यानि’ इति।
सर्वे देवा अभितः पालयितुं मामावृत्य तिष्ठन्तु। पूषा सन्या पोषको देवो
[[227]]
Page No. २२८
देयेन हिरण्यद्रव्येण सहाऽऽयातु। सोमो राधसा साधकेन वस्त्रेण सहाऽऽयातु। वसोर्वस्वन्तरस्य गवादेः प्रेरको देवो वसुप्रदः सन्नायातु। हे सोमास्मिन्कर्मण्यपेक्षितमियद्देहि, संपूर्त्या मां पूरयन्भूय आभर, अहमायुषा मा विराधि वियुक्तो मा भूवम्।
प्रबुद्धो जपेदित्येतद्व्याचष्टे —
“अप वै दीक्षितात्सुषुपुष इन्द्रियं देवताः क्रामन्ति विश्वे देवा अभि मामाऽववृत्रन्नित्याहेन्द्रियेणैवैनं देवताभिः संनयति” (सं. का. ६ प्र. १ अ. ४) इति।
सुषुपुषः सुप्तात्। अतीन्द्रियसामर्थ्येन तदभिमानिदेवताभिश्चायं मन्त्रः संयोजयति।
विपक्षबाधपुरःसरमाऽऽभूयो भरेत्यमुं मन्त्रभागं व्याचष्टे —
‘यदेतद्यजुर्न ब्रूयाद्यावत एव पशूनभिदीक्षेत तावन्तोऽस्य पशवः स्यू रास्वेयत्सोमाऽऽभूयो भरेत्याहापरिमितानेव पशूनवरुन्धे’ (सं. का. ६ प्र. १ अ. ४) इति।
‘दीक्षाकाले विद्यमानान्यावतः पशूनभिप्राप्य दीक्षेत मन्त्रानुक्तौ तावन्त एव स्युः। मन्त्रोक्तौ तु तत्सामर्थ्यादपरिमिताः परलोके भवन्ति। पशुभिर्द्रव्यान्तराण्युपलक्ष्यन्ते। चन्द्रमसि मम भोगाय भव वस्त्रमसि मम भोगाय भवोस्राऽसि मम भोगाय भव हयोऽसि मम भोगाय भव च्छागोऽसि मम भोगाय भव मेषोऽसि मम भोगाय भवेत्येभिर्मन्त्रैर्यथालिङ्गं वसु स्वीकर्तव्यम्। चन्द्रं हिरण्यम्। उस्रा गौः।
तेन तेन मन्त्रेण तत्तद्द्रव्याभिमानिदेवतास्तुष्यन्तीत्याह —
‘चन्द्रमसि मम भोगाय भवेत्याह यथादेवतमेवैनाः प्रतिगृह्णाति’ (सं. का. ६ प्र. १ अ. ४) इति।
एना हिरण्यादिरूपा दित्सिता दक्षिणाः।
वायव इति। कल्पः — ‘ताः समुदायुत्व रक्षति तासां या नश्यति म्रियते वा वायवे त्वेति तामनुदिशति, याऽप्सु वा पाशे वा वरुणाय त्वेति तां या सं वा शीर्यते गर्ते वा पतति नित्यै त्वेति तां यामहिर्व्याघ्रो वा हन्ति रुद्राय त्वेति ताम्’ इति।
[[228]]
Page No. २२९
अनुदिशामीति शेषः।
विपक्षस्वपक्षयोर्दूषणभूषणे दर्शयति —
“वायवे त्वा वरुणाय त्वेति यदेवमेता नानुदिशेदयथादेवतं दक्षिणा गमयेदा देवताभ्यो वृश्च्येत यदेवमेता अनुदिशति यथादेवतमेव दक्षिणा गमयति न देवेताभ्य आ वृश्च्यते” (सं. का. ६ प्र. १ अ. ४) इति।
देवीरिति। बौधायनः – “ अथ यद्यपरियाणा आप उपाधिगच्छन्ति तज्जपति देवीरापो अपां नपाद्य ऊर्मिर्हविष्य इन्द्रियावान्मदिन्तमस्तं वो माऽवक्रमिषमच्छिन्नं तन्तुं पृथिव्या अनुगेषमिति सं वा गाहते सं वा तरति “ इति।
अपरियाणा गमनविरोधिन्यो मार्गप्रतिरोधिकाः।
आपस्तम्बः – “प्रयाणे देवीराप इत्यपोऽवगाहतेऽच्छिन्नं तन्तुं पृथिव्या अनुगेषमिति हस्तेन लोष्टं विमृद्नात्यापारात्” इति।
यदा केनापि निमित्तेन देवयजनादन्यत्र दीक्षेत तदानीं पृथगरणीष्वग्नीन्समारोप्य देवयजनं गच्छन्मध्ये प्राप्तायां नद्यामवगाह्योत्तरेत्। अपां नपादित्यग्निसंबोधनम्। हे देव्य आपो युष्माकं य ऊर्मिस्तं पादेन माऽवक्रमिषम्। कीदृश उर्मिः। व्रीह्याद्युत्पादनेन हविर्योग्यः स्वकीयजलपानेनेन्द्रियशक्तिकारी तृषां निवर्तयन्नतिहर्षप्रदः। मृदि लोष्टरूपं पृथिव्या अच्छिन्नं तन्तुं सेतुं प्राप्य तस्योपरि गच्छामि।
हविष्यशब्दाभिप्रायमाह —
“देवीरापो अपां नपादित्याह यद्वो मेध्यं यज्ञियँ सदेवं तद्वो माऽव क्रमिषमिति वावैतदाह” (सं. का. ६ प्र. १ अ. ४) इति।
इति वाव, इत्येव।
तन्तुशब्दाभिप्रायमाह —
“अच्छिन्नं तन्तुं पृथिव्या अनुगेषमित्याह सेतुमेव कृत्वाऽत्येति” (सं. का. ६ प्र. १ अ. ४) इति।
भद्रादिति। बौधायनः — “बृहस्पतिवत्यर्चा प्रयाति भद्रादभि श्रेयः प्रेहि बृहस्पतिः पुरएता ते अस्त्वित्यथ यत्र वत्स्यन्भवति तदवस्यत्यथेमव स्य वर आ पृथिव्या इत्यथाऽऽदित्यमुद्यन्तमुपतिष्ठत आरे शास्रून्कृणुहि सर्ववीर इति” इति।
[[229]]
Page No. २३०
आपस्तम्बस्तु त्रीन्मन्त्रानेकीकृत्य विनियुङ्क्ते — “पृथगरणीष्वग्नीन्समारोप्य रथेन प्रयाति एतदभावे रथाङ्गमादाय भद्रादभि श्रेय इति” इति।
अत्रार्थक्रमेण देवीराप इत्यस्मात्पूर्वमेवायं मन्त्रोऽवगन्तव्यः। हे रथ भद्रात्प्रशस्तादस्मान्नित्याग्निहोत्रस्नानादतिप्रशस्तं सौमिकं देवयजनमभिप्रयाहि। बृहस्पतिस्तव पुरतो गन्ता भवतु। अथ प्रयाणादूर्ध्वं पृथिव्याः संबन्धिन्या समन्ताद्वरे श्रेष्ठे स्थान ईमिमां गतिमवस्य समापय। हे रथाभिमानिन्नादित्य शत्रून्राक्षसादीनारे देवयजनाद्दूरे कुरु।
कल्पः — “अथ यत्र यक्ष्यमाणो भवति तदवस्यत्येदमगन्म देवयजनं पृथिव्या इत्पन्तादनुवाकस्य” इति।
स च मन्त्र एवमाम्नायते —
एदमिति। पृथिव्याः संबन्धि यद्देवयजनं तदिदमागन्म वयं प्राप्ताः। यद्देवयजने(नं) पूर्वे सर्वे देवा अजुषन्तासेवन्त तद्वयमागत्य वेदत्रयगतैर्मन्त्रैः सोमयागं संतरन्तः सम्यक्पारं नयन्तो रायस्पोषेण धनसमृद्ध्या समिषा समीचीनेनान्नेन च मदेम हृष्यास्म।
भद्रादभीत्यादिमन्त्रार्थः स्पष्ट इत्यभिप्रेत्य ब्राह्मणेनात्र व्याख्यानमुपेक्षितम्। औपानुवाक्यकाण्डे तु दीक्षितनियमप्रसङ्गाद्व्याख्यानं कृतम्। तत्र बृहस्पतेरुपयोगमाह —
“अग्निर्वै दीक्षितस्य देवता सोऽस्मादेतर्हि तिर इव यर्हि याति तमीश्वरँ रक्षाँसि हन्तोर्भद्रादभि श्रेयः प्रेहि बृहस्पतिः पुरएता ते अस्त्वित्याह ब्रह्म वै देवानां वृहस्पतिस्तमेवान्वारभते स एनँ संपारयति” (सं. का. ३ प्र. १ अ. १) इति।
यदा दीक्षितोऽग्निहोत्रस्थानात्प्रयाति तदाऽग्निस्तिरोहित इव नैनं पालयति। ततो रक्षांस्येनं मार्गे हन्तुमीश्वराणि भवन्ति। तत्र बृहस्पतौ पुरतो गच्छति सत्यनुगच्छन्तमेनं रक्षोबाधपरिहारेण स बृहस्पतिः सम्यक्पारं नयति।
उत्तरमन्त्रस्य चतुर्षु प्रतिपाद्योऽर्थः प्रसिद्ध इत्याह —
“एदमगन्म देवयजनं पृथिव्या इत्याह देवयजनँ ह्येष पृथिव्या आगच्छति यो यजते विश्वे देवा यदजुषन्त पूर्व इत्याह विश्वे ह्येतद्देवा जोषयन्ते यद्ब्राह्मणा
[[230]]
Page No. २३१
ऋक्सामाभ्यां यजुषा संतरन्त इत्याहर्क्सामाभ्याँ ह्येव यजुषा संतरति यो यजते रायस्पोषेण समिषा मदेमेत्याहाऽऽशिषमेवैतामाशास्ते। (सं. का. ३ प्र. १ अ. १) इति।
अध्वर्युप्रभृतयो ब्राह्मणा यद्देवयजनमिदानीमधितिष्ठन्ति तद्देवाः स्वयं सेवमाना एतान्सेवन्ते। यो यजते स एष संतरतीत्यन्वयः।
अत्र विनियोगसंग्रहः —
“दैवीं हस्तौ शोधयित्वा ये दे व्रतपयः पिवेत्।
अग्ने स्वप्स्यन्नग्निमाह त्वं प्रबुद्धो जपेत्तथा॥१॥
विश्व इत्यपि पूषेति सनिहारानुशासनम्।
देवो वसुग्रहश्चन्द्रं षड्भिस्तत्र प्रतिग्रहः॥२॥
वाय नष्टामप्सु मृतां सन्नामृग्भ्यां च गां स्पृशेत्।
देवीरापो विगाह्याच्छि लोष्टमप्सु विमर्दयेत्॥३॥
भद्राद्रथेन यात्येदं यागभूमिव्यवस्थितिः।
अनुवाके तृतीयेऽस्मिन्नुदिता एकविंशतिः॥४॥ इति।
अथ मीमांसा।
एकादशाध्यायस्य चतुर्थपादे चिन्तितम् —
‘स्वप्नादिमन्त्रा आवर्त्या नो वाऽऽद्योऽस्त्वन्तरायतः।
कृत्स्नोद्देशप्रवृत्तत्वान्निमित्ताभेदतः सकृत्” इति॥
दीक्षितस्य स्वप्ननद्युत्तरणवृष्टिक्लेदनामेध्यदर्शननिमित्तकास्तत्तन्नन्त्रजपाः पठिताः। त्वमग्ने व्रतपा असीत्यादिकः स्वप्नमन्त्रः। देवीरापो अपां नपादित्यादिर्नदीतरणमन्त्रः। उन्दतीर्बलं धत्त इत्यादिर्वृष्टिक्लेदनमन्त्रः। अबद्धं मन इत्यादिरमेध्यदर्शनमन्त्रः। यदा निद्रा मध्ये प्रबोधैरल्पैर्व्यवधीयते, नदी च बहुशःस्रोतोयुक्ता द्वीपैः, वृष्टिश्च विच्छेदैः, अमेध्यानि च देशैस्तदा तैरन्तरायैर्निमित्तेषु भिद्यामानेषु नैमित्तिका मन्त्रा आवर्तनीया इति प्राप्ते ब्रूमः — रात्रिगतां कृत्स्नां निद्रामुद्दिश्य मन्त्राभिधानान्निमित्तमेकम्। एवमन्यत्रापि योज्यम्। तस्मान्नास्त्यावृत्तिः।
तत्रैवान्यच्चिन्तितम् —
[[231]]
Page No. २३२
“प्रयाणे प्रत्यहं मन्त्रो भिन्नो नो वाऽत्र विश्रमैः।
प्रयाणभेदाभिन्नो नो गत्यैक्यादानिवृत्तितः’ इति।
भद्रादभि श्रेय इत्यादिः प्रयाणमन्त्रः। तत्र दीक्षितस्य निर्गमनमारभ्य पुनःप्रवेशपर्यन्तं विश्रमव्यवधानेऽपि प्रयोजनैक्यादेकमेव प्रयाणम्। ततो न मन्त्रावृत्तिः।
अथ च्छन्दः —
दैवीं धियमित्यग्ने त्वमिति चैते अनुष्टुभौ। त्वमग्न इति गायत्री। विश्वे देवा इत्येकपदा। एदमगन्मेति त्रिष्टुप्॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वे-
दीयतौत्तिरीयसंहिताभाष्ये प्रथमकाण्डे द्वितीयप्रपाठके
तृतीयोऽनुवाकः॥३॥