०१

(तत्र प्रथमोऽनुवाकः)।
ह॒रिः॒ ॐ

आप॑ उन्दन्तु जी॒वसे॑ दीर्घायु॒त्वाय॒ वर्च॑स॒
ओष॑धे॒ त्राय॑स्वैनँ॒ स्वधि॑त॒ मैनँ॑ हिँसी-
र्देव॒श्रूरे॒तानि॒ प्र व॑पे स्व॒स्त्युत्त॑राण्यशी॒-
याऽऽपो॑ अ॒स्मान्मा॒तरः॑ शुन्धन्तु घृ॒तेन॑ नो
घृ॒तपुवः॑ पुनन्तु॒ विश्व॑म॒स्मत्प्र व॑हन्तु रि॒प्र-
मुदा॑भ्यः॒ शुचि॒रा पू॒त ए॑मि॒ सोम॑स्य त॒नूर॑सि
त॒नुवं॑ भे पाहि मही॒नां पयो॑ऽसि वर्चो॒धा
आ॑सि॒ वर्चो॑ [१] मयि॑ धेहि वृ॒त्रस्य॑
क॒नीनि॑काऽसि चक्षु॒ष्पा अ॑सि॒ चक्षु॑र्मे पाहि॒
चित्पति॑स्त्वा पुनातु वा॒क्पति॑स्त्वा पुनातु

[[193]]

Page No. १९४
दे॒वस्त्वा॑ सवि॒ता पु॑ना॒त्वच्छि॑द्रेण प॒वि-
त्रे॑ण॒ वासोः॒ सूर्य॑स्य र॒श्मिभि॒स्तस्य॑ ते
पवित्रपते प॒वित्रे॑ण॒ यस्मै॒ कं पु॒ने तच्छ॑केय॒मा
वो॑ देवास ईमहे॒ सत्य॑धार्माणो अध्व॒रे यद्वो॑
देवास आगु॒रे यज्ञि॑यासो॒ हवा॑मह॒ इन्द्रा॑ग्नी॒
द्यावा॑पृथि॒वी आप॑ ओषधी॒स्त्वं दी॒क्षाणा॒
मधि॑पतिरसी॒ह मा॒ सन्तं॑ पाहि (२)।

(व॑र्च ओषधीर॒ष्टौ च॑)।

इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां प्रथमाष्टके
द्वितीयप्रपाठके प्रथमोऽनुवाकः॥१॥

(अथ प्रथमाष्टके द्वितीयः प्रपाठकः)।
(तत्र प्रथमोऽनुवाकः)।

यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत्।
निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम्॥१॥
आद्यप्रपाठके दर्शपूर्णमासेष्टिरीरिता।
प्रपाठकत्रयेणाथ सोमयागः प्रवक्ष्यते॥२॥

तदिदं सौम्यकाण्डम्। तथा चानुक्रमणिकायामुक्तम् —

“अध्वरप्रभृतित्रीणि तद्विधिर्वाजपेयकौ
सवाः शुक्रियकाण्डे च नवेन्दोरिति धारणा” इति॥

आप उन्दन्त्वित्यादिकमध्वरकाण्डम्। आ ददे ग्रावाऽसीत्यादिकं ग्रहकाण्डम्। उदु त्यं जातवेदसमित्यादिकं दक्षिणाकाण्डम्। तान्येतानि त्रीणि। प्राजीनवँशं करोतीत्यादिकं त्रयाणामेतेषां विधिः। देव सवितः प्र सुवेत्यादिकं वाजपेयस्य मन्त्रकाण्डम्। देवा वै यथादर्शं यज्ञानाहरन्तेत्यादिकं वाजपेयस्य विधिकाण्डम्। त्रिवृत्स्तोमो भवतीत्यादिकाः सवाः। नमो वाचे या चोदितेत्या-

[[194]]

Page No. १९५
दिकं शुक्रियमन्त्रकाण्डम्। देवा वै सत्रमासतेत्यादिकं तद्विधिकाण्डम्। तान्येतानि नवसंख्याकानि चन्द्रस्य काण्डानि। अतस्तेषु चन्द्र ऋषिरिति ध्यायेत्।

“सोमाङ्गे दीक्षणीयादौ दर्शमन्त्रातिदेशनात्।
दर्शोर्ध्वत्वं तत्र युक्तमग्निष्टोमोऽत्र वर्ण्यत”॥

त्रिविधः सोमयाग एकाहाहीनसत्रनामकः। एकस्मिन्नेवाहनि सवनत्रयेण निष्पाद्य एकाहः। द्विरात्रमारभ्यैकादशरात्रपर्यन्ता अहीनाः। त्रयोदशरात्रमारभ्य सहस्रसंवत्सरपर्यन्तानि सत्राणि। द्वादशाहस्तु द्विरूपः। तत्राहीनरूपेण द्विरात्रादीनां प्रकृतिः, सत्ररूपेण त्रयोदशरात्रादीनाम्। तस्य च द्वादशाहस्यौकाहरूपो ज्योतिष्टोमः प्रकृतिः। अत एवाऽऽम्नायते — “एष वाव प्रथमो यज्ञो यज्ञानां यज्ज्योतिष्टोमः” इति। यद्यपि सप्तसंस्थो ज्योतिष्टोमोऽग्निष्टोमोऽत्याग्निष्टोम उक्थ्यः षोडश्यतिरात्रोऽप्तोर्यामो वाजपेयश्चेति, तथाऽप्यग्निष्टोमे कृत्स्नाङ्गजातस्योपदिष्टत्वात्स एवेतरेषां प्रकृतिः। अतः प्रथमं स एवाभिधीयते। तत्र प्रपाठकत्रयस्यानुवाकानां चार्थभेदो विनियोगसंग्रहे दर्शितः –

“द्वितीयप्रश्नमारभ्य प्रश्नत्रय उदीर्यते।
सोमयागे मन्त्रजातं तत्रावान्तरभेदतः॥१॥
क्रयः पशुर्ग्रहश्चेति प्रश्नभेदोऽवगम्यताम्।
क्रयप्रश्नेऽनुवाकाः स्युरर्थभेदाच्चतुर्दश॥२॥
प्राग्वंशावेशनं दीक्षा स्याद्देवयजनग्रहः।
सोमक्रयण्यानयनं तदीयपदसंग्रहः॥३॥
सोमोन्मानं क्रयस्तस्य शकटारोपणं गतिः।
आतिथ्योपसदस्तद्वद्भवेदुत्तरवेदिका॥
हविर्धानं काम्ययाज्या इत्यर्था अनुवाकगाः॥४॥ इति॥

तत्र प्रथमानुवाके क्षौरादिभिः संस्कृतस्य यजमानस्य प्राचीनवंशाख्यशालाप्रवेशोऽभिधीयते। आप उन्दन्त्वित्यादयः क्षौरमन्त्राः। क्षौरात्प्रागेव शाला निर्मातव्या। ततो बौधायनो दीक्षासाधनद्रव्यसंपादनपूर्वकं शालानिर्माणमाह – “अग्निष्टोमेन यक्ष्यमाणो भवति स उपकल्पयते कृष्णाजिनं च कृष्णविषाणं च वासश्च मेखलां च” इति। “जुष्टे देवयजने शाला कारिता भवति” इति च।

[[195]]

Page No. १९६
आपस्तम्बोऽपि “सोमेन यक्ष्यमाणो ब्राह्मणानार्षेयानृत्विजो वृणीते” इत्युपक्रम्य वरणं देवयजनाध्यवसानं दीक्षणीयेष्टिं चाभिधायेदमाह — “प्राचनिवँशं करोति पुरस्तादुन्नतं पश्चान्निनतँ सर्वतः परिश्रितम्” इति।

एतदेवाभिप्रेत्य वपनविधेः पूर्वं शालां विधत्ते –

“प्राचीनवँशं करोति देवमनुष्या दिशो व्यभजन्त प्राचीं देवा दक्षिणां पितर, प्रतीचीं मनुष्या उदीचाँ रुद्रा यत्प्राचीनवँशं करोति देवलोकमेव तद्यजमान उपावर्तते” (सं. का. ६ प्र. १ अ. १) इति।

प्रागायतः पृष्ठवंशो यस्य गृहविशेषस्य स प्राचीनवंशः। केचित्तु वस्य देवयजनस्येति विगृह्य कृत्स्नदेवयजनविधिमेतमाहुः। देवयजनैकदेशरूपगृहसंबद्धो वंशो देवयजनसंबद्धो भवति। वंशस्य प्रागग्रत्वेन तद्गृहं यजमानो देवलोकं करोति।

गृहस्य कुड्यस्थानीयमावरणं विधत्ते —

‘परिश्रयत्यन्तर्हितो हि देवलोको मनुष्यलोकात्” (सं. का. ६ प्र. १ अ. १) इति।

स्वर्गस्य मनुष्यैरदृश्यत्वादत्रापि तदर्थं परिश्रयणम्।

द्वाराणि विधत्ते —

‘नास्माल्लोकात्स्वेतव्यमिवेत्याहुः को हि तद्वेद यद्यमुष्मिल्ँ लोकेऽस्ति वा न वेति दिक्ष्वतीकाशान्करोत्युभयोर्लोकयोरभिजित्यै’ (सं. का. ६ प्र. १ अ. १) इति।
इहलोके तावत्सुखं प्रत्यक्षसिद्धम्। गृहक्षेत्रपुत्रमित्रादिभिस्तदुत्पादात्॥ स्वर्गे तु संदिग्धम्। यद्यविघ्नेनेदं कर्म साङ्गं समाप्येत तदा सुखमस्ति नान्यथा। भवदपि तत्सुखं नेदानीं भवति किंतु मरणादूर्ध्वम्। तदाऽपि प्रबलेन केनचिन्नरकप्रदेन कर्मणा प्रतिबन्धे सति ततोऽपि विलम्ब्येत। तस्मादिदानीमेवास्माल्लोकान्न सर्वात्मना निर्गन्तव्यमिति बुद्धिमन्त आहुः। तत एतल्लोकदर्शनाय द्वारेषु कृतेषु लोकद्वयजयो भवति।

[[196]]

Page No. १९७
आप इति। कल्पः ‘अथास्य प्राङ्मुखस्य दक्षिणं गोदानमद्भिरनुबध्याऽऽप उन्दन्तु जीवसे दीर्घायुत्वाय वर्चस इति’ इति।

गोदानं शिरसो भागः। जीवनायुर्वृद्धिब्रह्मवर्चसेभ्य आपः शिर आर्द्रीकुर्वन्तु।

ओषध इति। कल्पः- ‘ऊर्ध्वाग्रं बर्हिरनूच्छ्रयति ओषधे त्रायस्वैनमिति स्वधितिं तिर्यञ्चं निदधाति स्वधिते मैनँ हिँसीरिति प्रवपति देवश्रूरेतानि प्र वप इति’ इति।

स्वाधितिः क्षुरः। देवेषु प्रसिद्धत्वेन श्रूयत इति देवश्रूर्देवनापितस्तद्रूपोऽहं वपनं कुर्वे। एतानि केशादीनि।

स्वस्तीति। बौधायनः — ‘स्वस्त्युत्तराण्यशीयेत्युक्त्वा तं प्रत्यभिमृशते’ इति।

आपस्तम्बः — ‘स्वस्त्युत्तराण्यशीयेति यजमानो जपति’ इति।

अविघ्नोत्तराणि कर्माणि प्राप्नुयाम्।

विधत्ते —

‘केशश्मश्रु वपते नखानि निकृन्तते मृता वा एषा त्वममेध्या यत्केशश्मश्रु मृतामेव त्वचममेध्यामपहत्य यज्ञियो भूत्वा मेधमुपैति’ (सं. का. ६ प्र. १ अ. १) इति।

आप इति। बौधायनः — ‘अथैनमद्भिरभिषिञ्चत्यापो अस्मान्मातरः शुन्धन्तु धृतेन नो घृतपुवः पुनन्त्विति संप्रधाव्य रजः प्रक्षालयति विश्वमस्मत्प्र वहन्तु रिप्रमिति’ इति।

आपस्तंम्बस्त्वेकमन्त्रतां मन्यते। अस्मानस्मदीया यजमानान्। क्षरदुदकमत्र घुतम्। तेन पुनन्ति पर्जन्यादयो घृतपुवः रिप्रं पापम्। इमा आपः सर्वं पापमस्मत्तोऽपनयन्तु।

उदाभ्य इति। कल्पः — ‘उदाभ्यः शुचिरा पूत एमीत्युद्गाहमानो जपति’ इति।

स्नानाचमनाभ्यां बहिरन्तश्च शुद्धः सन्नद्भ्य उद्गम्याऽऽगच्छामि।
विधत्ते —

[[197]]

Page No. १९८
‘अङ्गिरसः सुवर्गं लोकं यन्तोऽप्सु दीक्षातपसी प्रावेशयन्नप्सु स्नाति साक्षादेव दीक्षातपसी अवरुन्धे’ (सं. का. ६ प्र. १ अ. १) इति।

मुण्डनादिसंस्कारो दीक्षा। आहारदिनियमस्तपः। अप्सु स्नानेन तदुभयमव्यवधानेनैव प्राप्नोति। अवतरणप्रदेशं विधत्ते —

‘तीर्थे स्नाति तीर्थे हि ते तां प्रावेशयन्’ (सं. का. ६ प्र. १ अ. १) इति। उक्तमेवार्थमनूद्य स्तौति –

‘तीर्थे स्नाति तीर्थमेव समानानां भवति’ (सं. का. ६ प्र. १ अ. १) इति। संख्यादीनां समानानां तीर्थवत्सेव्यो भवति।

आचमनं विधत्ते –

‘आपोऽश्नात्यन्तरत एव मेध्यो भवति’ (सं. का. ६ प्र. १ अ. १) इति।

सोमस्येति। कल्पः — ‘अथ प्रदक्षिणमहतं वासः परिधत्ते सोमस्य तनूरसि तनुवं मे पाहीति’ इति।

क्षौमवस्त्रस्य सोमोऽभिमानी देव इति तस्य वस्त्रं शरीरम्। विधत्ते – ‘वाससा दीक्षयति सौम्यं वै क्षौमं देवतया सोममेष देवतामुपैति यो दीक्षते’ (सं. का. ६ प्र. १ अ. १) इति। दीक्षयति संस्करोति।

मन्त्रस्य पूर्वोत्तरभागौ व्याचष्टे —

‘सोमस्य तनूरसि तनुवं मे पाहीत्याह स्वामेव देवतामुपैत्यथो आशिषमेवैतामाशास्ते’ (सं. का. ६ प्र. १ अ. १) इति।

वस्त्रपरिहितस्य सोम एव स्वा देवता। प्रकारान्तरेण प्रस्तौति —

‘अग्नेस्तूषाधानं वायोर्वातपानं पितृणां नीविरोषधीनां प्रघात आदित्यानां प्राचीनतानो विश्वेषां देवानामोतुर्नक्षत्राणामतीकाशास्तद्वा एतत्सर्वदेवत्यं यद्वासो यद्वाससा दीक्षयति सर्वाभिरेवैनं देवताभिर्दीक्षयति’ (सं. का. ६ प्र. १ अ. १) इति।

शलाकोपधानं तूषाः। तत्र तन्तूनां पूरणं तूषाधानम्। वायुना शोषणं वातपानम्। नीविर्बन्धविशेषः। प्रघातो दण्डेन शलाकोपधानेन वा प्रहारः। प्राचीनतानो दीर्घतन्तुप्रसारणम्। ओतुस्तिर्यक्तन्तुप्रसारणम्। अतीकाशाश्छिद्राणि। एतेषु क्रमेणाग्न्यादयोऽभिमानिदेवताः। भोजनं विधत्ते —

[[198]]

Page No. १९९
‘बहिःप्राणो वै मनुष्यस्तस्याशनं प्राणोऽश्नाति सप्राण एव दीक्षते’ (सं. का. ६ प्र. १ अ. १) इति।

प्राणस्थितिहेतुत्वादशनस्य प्राणत्वम्। मित्रबन्ध्वादिभिः प्रार्थितो बहु भुञ्जीतेति।

विधत्ते — ‘आशितो भवति यावानेवास्य प्राणस्तेन सह मेधमुपैति” (सं. का. ६ प्र. १ अ. १) इति।

महीनामिति। बौधायनः — ‘अथास्यैतन्नवनीतं विचितमुदशराव उपशेते तस्य पाणिभ्यां संप्रम्लाय मुखमेव प्रथममभ्यङ्क्ते महीनां पयोऽसि वर्चोधा असि नुवर्चो मयि धेहीत्यनुलोमपादाभ्याम्’ ।

आपस्तम्बो मन्त्रभेदमाह — ‘महीनां पयोऽसीति दर्भपुञ्जीलाभ्यां नवनीतमुद्यौति वर्चोधा असीति तेन पराचीनं त्रिरभ्यङ्क्ते’ इति।

हे नवनीत त्वं गवां पयः कार्यमसि। स्निग्धतारूपं वर्चो धारयसि। अतो मयि ब्रह्मवर्चसं धेहि।

अभ्यङ्गं विधत्ते —

‘घृतं देवानां मस्तु पितृणां निष्पक्वं मनुष्याणां तद्वा एतत्सर्वदेवत्यं यन्नवनीतं यन्नवनीतेनाभ्यङ्क्ते सर्वा एव देवताः प्रीणाति’ (सं. का. ६ प्र. १ अ. १) इति।

नवनीतस्य पाकजन्यास्तिस्रोऽवस्थाः पक्वं किंचित्पक्वं निःशेषपक्वं च। द्राव्यान्तरप्रक्षेपेण सुरभि निःशेषपक्वम्। अत एव बह्वृचः पठन्ति – ‘आज्यं वै देवानां सुरभि घृतं मनुष्याणामायुतं पितॄणां नवनीतं गर्भाणाम्’ इति।

प्रकारान्तरेण नवनीताभ्यङ्गं प्रस्तौति —

‘प्रच्युतो वा एषोऽस्माल्लोकादतो देवलोकं यो दीक्षितोऽन्तरेण नवनीतं तस्मान्नवनीतेनाभ्यङ्क्ते” (सं. का. ६ प्र. १ अ. १) इति।

दीक्षितस्य सर्वसाधने प्रवृत्तत्वादेतल्लोकप्रच्युतिः। यागस्यासमाप्तत्वाद्देवलोकप्राप्त्यभावः। नवनीतमपि क्षीरभावात्प्रच्युत्य घृतभावं न प्राप्नोति। अतोऽन्तरालवर्तित्वसाम्यात्तेन तस्याभ्यङ्गो युक्तः। गुणद्वयं विधत्ते –

‘अनुलोमं यजुषा व्यावृत्त्यै’ (सं. का. ६ प्र. १ अ. १) इति।

मनुष्याणां नास्त्यानुलोम्ये नियमः न वाऽभ्यङ्क्ते मन्त्रोऽस्ति। तस्माद्व्यावृत्त्यै तदुभयमत्रेति नियम्यते।

[[199]]

Page No. २००
वृत्रस्येति। कल्पः – ‘अथास्यैतदाञ्जनं पिष्टं दृषदुपले सतूलया च शरेषीकया चास्य प्रङ्मुखस्य प्रत्यङ्मुख उपविश्य सव्येन पाणिना दक्षिणामक्ष्यनक्ति वृत्रस्य कनीनिकाऽसि चक्षुष्पा असि चक्षुर्मे पाहीति’ इति।

मन्त्रार्थं विशदयन्नञ्जनं विधत्ते —

‘इन्द्रो वृत्रमहन्तस्य कनीनिका पराऽपतत्तदाञ्जनमभवद्यदाङ्क्ते चक्षुरेव भ्रातृव्यस्य वृङ्क्ते” (सं. का. ६ प्र. १ अ. १) इति। विनाशयतीत्यर्थः।

क्रमेण गुणान्विधत्ते —

‘दक्षिणं पूर्वमाऽङ्क्ते सव्यँहि पूर्वं मनुष्या आञ्जते न नि धावते नीव हि मनुष्या धावन्ते पञ्चकृत्व आऽङ्क्ते पञ्चाक्षरा पङ्क्तिः पाङ्क्तो यज्ञो यज्ञमेवावरुन्धे परिमितमाऽङ्क्तेऽपरिमितँ हि मनुष्या आञ्जते सतूलयाऽऽङ्क्तेऽपतूलया हि मनुष्या आञ्जते व्यावृत्त्यै” (सं. का. ६ प्र. १ अ. १) इति।

मनुष्यस्य योषितामञ्जने वामभागपूर्वत्वं प्रसिद्धम्। अञ्जनोपेताङ्गुलेश्चक्षुषि सहसा पुनः पुनः पर्यावर्तनं निधावनं तच्च मनुष्याः कुर्वन्ति। यज्ञे सवनीयपुरोडाशद्रव्याणां पञ्चसंख्यया पङ्क्तिच्छन्दोगताक्षरसाम्याद्यज्ञस्य पाङ्क्तत्वम्।

तथा च पञ्चमप्रपाठके वक्ष्यति – ‘ब्रह्मवादिनो वदन्ति नर्चा न यजुषा पङ्क्तिराप्यतेऽथ किं यज्ञस्य पाङ्क्तत्वमिति धानाः करम्भः परिवापः पुरोडाशः पयस्या तेन पङ्क्तिराप्यते तद्यज्ञस्य पाङ्क्तत्वम्’ (सं. का. ६ प्र. ५ अ. १०) इति।

परिमितमल्पं पञ्चसंख्यानियमो वा। न ह्ययं नियमो मनुष्येष्वस्ति। अग्रसहिता शरेषीका सतूला। मनुष्याणामिषीकानियम एव नास्ति कृतः सतूलत्वनियमः।

विपक्षे बाधकपूर्वकं स्वपक्षं निगमयति — ‘यदपतूलयाऽऽञ्जीत वज्र इव स्यात्स तूलयाऽऽङ्क्ते मित्रत्वाय’ (सं. का. ६ प्र. २ अ. १) इति।

तूलरहिताशरकाष्ठस्य तीक्ष्णाग्रत्वाद्वज्रसमत्वम्।

चिदिति। कल्पः – ‘अथैनमेकविँशत्या दर्भपुञ्जीलैः पवयति चित्पतिस्त्वा पुनातु वाक्पतिस्त्वा पुनातु देवस्त्वा सविता पुनात्वच्छिद्रेण पवित्रेण वसोः सूर्यस्य रश्मिभिरिति” इति।

[[200]]

Page No. २०१
प्रथमद्वितीयमन्त्रयोरच्छिद्रेणेत्यनुषज्यते। हे यजमान चितां ज्ञानानां पतिर्मनो देवस्त्वां पुनातु। वाचां शब्दानां पतिः सरस्वत्यसौ वा आदित्योऽच्छिद्रं पवित्रं तद्रूपोऽयं दर्भस्तोमः। जगन्निवासहेतोः सूर्यस्य रश्मिरूपा दर्भाः।

दर्भस्तोमविशिष्टं मार्जनं विधत्ते —

“इन्द्रो वृत्रमहन्त्सोऽपोऽभ्यम्रियत तासां यन्मेध्यं यज्ञियँ सदेवमासीत्तदपोदक्रामत्ते दर्भ अभवन्यद्दर्भपुञ्जीलैः पवयति या एव मेध्या यज्ञियाः सदेवा आपस्ताभिरेवैनं पवयति” (सं. का. ६ प्र. १ अ. १) इति।

मेध्यं शुद्धं, यज्ञियं यज्ञार्हं, सदेवं देवताप्रियम्। उत्पवनब्राह्मणे दर्भोत्पत्तिर्व्याख्याता।

दर्भस्तोमस्य संख्याविशेषान्विधत्ते —

“द्वाभ्यां पवयत्यहोरात्राभ्यामेवैनं पवयति त्रिभिः पवयति त्रय इमे लोका एभिरेवैनं लोकैः पवयति पञ्चभिः पवयति पञ्चाक्षरा पङ्क्तिः पाङ्क्तो यज्ञो यज्ञायैवैनं पवयति षड्भिः पवयति षड्वा ऋतव ऋतुभिरेवैनं पवयति सप्तभिः पवयति सप्त छन्दाँसि छन्दोभिरेवैनं पवयति नवभिः पवयति नव वै पुरुषे प्राणाः सप्राणमेवैनं पवयत्येकविँशत्या पवयति दश हस्त्या अङ्गुलयो दश पद्या आत्मैकविँशो। यावनेव पुरुषस्तमपरिवर्गं पवयति” (सं. का. ६ प्र. १ अ. १) इति।

“गायत्री त्रिष्टुब्जगत्यनुष्टुप्पङ्क्त्या सह। बृहत्युष्णिहा ककुत्सूचीभिः शिम्यन्तु त्वा” इति कश्चिन्मन्त्र आम्नायते। तत्रोष्णिक्ककृभोरवान्तरभेदपरित्यागेन सप्त च्छन्दांसि। संचारस्थानभूतच्छिद्राभिप्रायेण प्राणानां नवत्वम्। अपरिवर्गं निःशेषम्। एकविंशतिपक्ष एवात्रानुष्ठेयः। “एकविँशत्या दर्भपुञ्जीलैः पवयति” इति बह्वृचब्राह्मण आम्नातत्वात्। तत्प्रशंसार्थमितरे पक्षा अवयुत्यानुवादः।

मन्त्रं व्याचष्टे —

“चित्पतिस्त्वा पुनात्वित्याह मनो वै चित्पतिर्मनसैवैनं पवयति वाक्पतिस्त्वा पुनात्वित्याह वाचैवैनं पवयति देवस्त्वा सविता पुनात्वित्याह सवितृप्रसूत एवैनं पवयति” (सं. का. ६ प्र. १ अ. १) इति।

[[201]]

Page No. २०२
तस्येति। कल्पः – “यजमानं वाचयति तस्य ते पवित्रपते पवित्रेण यस्मै कं पुने तच्छकेयमिति” इति।

आदित्यरूपस्याच्छिद्रपवित्रस्य पतिः प्रेरकोऽन्तर्यामी। हे पवित्रपते तादृशस्य तव पवित्रेण यस्मा अग्निष्टोमकर्मणे कमात्मानं शोधयामि तत्कर्तुं शक्तो भूयासम्।

एतमभिप्रायं दर्शयति —

“तस्य ते पवित्रपते पवित्रेण यस्मै कं पुने तच्छकेयमित्याहाऽऽशिषमेवैतामाशास्ते” (सं. का. ६ प्र. १ अ. १) इति।

आ व इति। बौधायनः – “अथैनं सव्ये पाणावभिपाद्य शालामानयति आ वो देवास ईमहे सत्यधर्माणो अध्वरे यद्वो देवास आगुरे यज्ञियासो हवामह इति” इति।

अपस्तम्बः — “आ वो देवास ईमहे इति पूर्वया द्वारा प्राग्वंशे प्रविश्य” इति।

हे देवा युष्माकं संबन्धिन्यस्मिन्नध्वरे वयं सत्यधर्माणोऽवश्यंभाव्यनुष्ठानपरा आगच्छामः। हे यज्ञसंबन्धिनो देवा यस्मादागुरे कर्मोद्यमे युष्मानाह्वास्यामस्तस्माद्वयमत्राऽऽगच्छामः।

इन्द्राग्नी इति। बौधायनः — “पूर्वया द्वारा शालां प्रपादयति, इन्द्राग्नी द्यावापृथिवि आप ओषधीरिति” इति।

आपस्तम्बः – ‘इन्द्राग्नी द्यावापृथिवी आप ओषधीरित्यपरेणाऽऽहवनीयं दक्षिणाऽतिक्रम्य” इति।

हे इन्द्रादय एनमनुजानीतेति शेषः।

त्वमिति। बौधायनः — अथैनमग्रेणाऽऽहवनीयं पर्याहृत्य दक्षिणत उदङ्मुखमुपवेश्याऽऽहवनीयमीक्षयति त्वं दीक्षाणामधिपतिरसीह मा सन्तं पाहीति” इति।

आपस्तम्बः — “त्वं दीक्षाणामधिपतिरसीत्याहवनीयमुपोपविशति” इति।

हे आहवनीय त्वं दीक्षारूपाणां नियमानां पालकोऽस्यतस्त्वत्समीपे स्थितं मां पालय।

पूर्वोक्तपूतत्वप्रशंसापूर्वकं प्राचीनवंशप्रवेशं विधत्ते —

[[202]]

Page No. २०३
“यावन्तो वै देवा यज्ञायापुनत त एवाभवन्य एवं विद्वान्यज्ञाय पुनीते भवत्येव बहिः पवयित्वाऽन्तः प्रपादयति मनुष्यलोक एवैनं पवयित्वा पूतं देवलोकं प्रणयति” (सं. का. ६ प्र. १ अ. २) इति।

अभवन्नैश्वर्यं प्राप्तः। भवत्येवैश्वर्यं प्राप्नोत्येव।

अत्र विनियोगसंग्रहः –

“आपः शिर उनत्त्योष दर्भोऽत्रान्तर्हितः स्वधि।
क्षुरं निधाय देवश्रूर्वपेत्स्वस्ति तदा जपेत्॥१॥
आपः स्नायादुदा जप्यं सोम वस्त्रपरिग्रहः।
महीति नवनीतस्य ग्रहो वर्चोऽतिलेपनम्॥२॥
वृत्रेत्याङ्क्ते चित्पतिस्त्वात्रिभिर्दर्भेण पावयेत्।
तस्येति जपति स्वामी ह्या वः प्राग्वंशवेशनम्॥३॥
इन्द्राग्नी दक्षिणे गत्वा त्वमित्युपविशेदिह।
प्रथमे ह्यनुवाकेऽस्मिन्मन्त्रा अष्टादशेरिताः॥४॥ इति।

अथ मीमांसा।

चतुर्थाध्यायस्य तृतीयपादे चिन्तितम् —

“किं दर्शपूर्णमासाभ्यामिष्ट्वा सोमेन यागकः।
अङ्गाङ्गिता वा कालो वा ह्यपारार्थ्याय चाङ्गता॥
दर्शादिलक्षिते काले सोमयागो विधीयते।
स्वनन्त्रफलवत्त्वेन न युक्ताऽङ्गाङ्गिता तयोः” इति।

इदमाम्नायते – “दर्शपूर्णमासाभ्यामिष्ट्वा सोमेन यजेत” इति। तत्रोभयोराग्निमारुतानूयाजवदन्याधीनत्वाभावद्दर्शपूर्णमासोक्तेः पारार्थ्यपरिहाराय सोमस्य दर्शपूर्णमासाङ्गत्वबोधकोऽयं संयोग इति चेन्मैवम्। स्वतन्त्रफलवतः सोमयागस्याङ्गत्वासंभवात्। फलवत्संनिधावफलं तदङ्गमिति न्यायात्। न चात्र बृहस्पतिसवन्यायेन सोमधर्मकमफलं कर्मान्तरं विधीयत इति शक्यं वक्तुम्। सोमशब्दस्य बृहस्पतिसवशब्दवन्नामत्वाभावेन धर्मातिदेशकत्वाभावत्। क्त्वाप्रत्ययस्तु असत्यङ्गाङ्गिभावे कर्त्रैक्यमात्रेणोपपद्यते। तस्माद्दर्शपूर्णमासशब्दस्य पारार्थ्ममभ्युपेत्यापि तदिष्ट्युपलक्षित उत्तरकाले सोमविधिरयम्।

एतदेवाभिप्रेत्य रथरूपकमाम्नायते —

[[203]]

Page No. २०४
“एष वै देवरथो यद्दर्शपूर्णमासौ यो दर्शपूर्णमासाविष्ट्वा सोमेन यजते रथस्पष्ट एवावसाने वरे देवानामवस्यति” (सं. का. २ प्र. ५ अ. ६) इति।

अवसाने निश्चिते वरे मार्गे यथा रथेन क्षुण्णे मार्गे गन्तुः कण्टकपाषाणादिबाधराहित्येन सुखं भवति तथा प्रथमं दर्शपूर्णमासाविष्टवत उत्तरकाले तदिष्टिविकृतिषु सोमाङ्गभूतदीक्षणीयाप्रायणीयादिषु कर्मानुष्ठानं सुकरं भवतीत्यर्थः। तस्मात्कालार्थः संयोगः।

पञ्चमाध्यायस्य चतुर्थपादे चिन्तितम्।

“दर्शादीष्ट्वा सोमयागः क्रमोऽयं नियतो न वा।
उक्तेराद्यो न सोमस्याऽऽधानानन्तरताश्रुतेः” इति॥

दर्शपूर्णमासाविष्ट्वा सोमेन यजेतेति क्त्वाप्रत्ययेनावगम्यमानः क्रमो नियत इति चेन्मैवम्। सोमेन यक्ष्यमाणोऽग्नीना दधीतेत्याधानानन्तरताया अपि श्रवणात्। तस्मादिष्टिसोमयोः पौर्वापर्यं न नियतम्।

तत्रैवान्यच्चिन्तितम् —

“विप्रस्य सोमपूर्वत्वं नियतं वा न वाऽग्रिमः।
उत्कर्षतो नैवमग्नीषोमीयस्यैव तच्छ्रुतेः” इति॥

इष्टिपूर्वत्वं सोमपूर्वत्वं च विकल्पितमिति यदुक्तं तत्र ब्राह्मणस्य सोमपूर्वत्वमेव नियतम्। कुतः उत्कर्षश्रवणात् “आग्नेयो वै ब्राह्मणो देवतया स सोमेनेष्ट्वाऽग्नीषोमीयो भवति यदेवादः पौर्णमासं हविस्तत्तर्ह्यनु निर्वपेत्तर्ह्युभयदेवतो भवति” इति। अस्यायमर्थः — प्रजापतेर्मुखादग्निब्राह्मणश्चेत्युभावुत्पन्नौ। ततो ब्राह्मणस्यैकैव देवतेत्याग्नेय एव ब्रह्मणो न तु सौम्यः। सोमस्य तद्देवतात्वाभावात्। यदा स ब्राह्मणः सोमेन यजति तदा सोमोऽऽप्यस्य देवतेत्यग्नीषोमीयो भवति। तस्याग्नीषोमीयस्य ब्राह्मणस्यानुरूपं पौर्णमासमग्नीषोमीयपुरोडाशरूपं हविः सोमादूर्ध्वमनुनिर्वपेत्। तदा स ब्राह्मणो देवताद्वयसंबन्धी भवतीति। यद्यप्यत्र कर्मान्तरं किंचिद्विधीयत इति कश्चिन्मन्येत तथाऽपि पौर्णमासं हविरिति विस्पष्टं प्रत्यभिज्ञानान्न कर्मान्तरं किंतु दर्शपूर्णमासयोः सोमादूर्ध्वमुत्कर्षः। तस्माद्विप्रस्य सोमपूर्वत्वमेव नियतमिति प्राप्ते ब्रूमः — नात्र दर्शशब्दः पूर्ण-

[[204]]

Page No. २०५
मासशब्दो वा कश्चिद्यागवाची श्रूयते। पौर्णमासमित्येष तद्धितान्तो हविर्विशेषणात्वेनोपन्यस्यते। तच्च हविरग्नीषोमीयपुरोडाशरूपमिति देवताद्वयेन संस्तवादवगम्यते। तस्मादेकस्यैव हविष उत्कर्षो न तु कृत्स्नयोर्दर्शपूर्णमासयोः। तथा सति ब्राह्मणस्यैकस्मिन्नेवाग्नीषोमीयपुरोडाशे सोमपूर्वत्वनियमः। इतरत्र क्षत्रियवैश्ययोरिवास्यपीष्टिपूर्वत्वसोमपूर्वत्वे विकल्प्येते।

तृतीयाध्यायस्य चतुर्थपादे चिन्तितम्।

“दिशं प्रतीचीं मनुजा व्यभजन्तेत्यसौ विधिः।
वादो वाऽत्र पुराकल्पस्तुत्यर्थो विधिमर्हति॥
प्राचीनवंशवाक्योक्तेर्विधानस्यौकवाक्यतः।
दिग्विधावर्थवादोऽयमुपवीते निवीतवत्” इति।

ज्योतिष्टोमे श्रूयते —

“प्राचीनवँशं करोति देवमनुष्या दिशो व्यभजन्त प्राचीं देवा दक्षिणा पितरः प्रतीचीं मनुष्या उदीचीँ रुद्रा यत्प्राचीनवँशं करोति देवलोकमेव तद्यजमान उपावर्तते” (सं. का. ६ प्र. १ अ. १) इति। तत्र देवादीनां कर्मानधिकारान्न तत्र विधिशङ्का। मनुष्याः प्रतीचीं विभजेयुरित्येव विधिः स्यात्। कुतः। पुराकल्परूपेणार्थवादेन स्तूयमानत्वात्। पूर्वपुरुषाचरितत्वाभिधानं पुराकल्पः। व्यभजन्तेत्यनेन भूतार्थवाचिना तदभिधीयते। तस्माद्विधिरयमिति पूर्वः पक्षः। यस्य मण्डपविशेषस्योपरि वंशाः प्रागग्रा भवन्ति स प्राचीनवंशः। तद्विध्येकवाक्यत्वाभ्युपगमादर्थवादः। सायंकालीनर्घ्यादौ प्रतीची प्राप्ता।

तृतीयाध्यायस्य सप्तमपादे चिन्तितम् —

“वपतीत्युपकारः किं द्वयोर्मुख्याङ्गयोरुत।
मुख्य एव द्वयोरस्य कृत्स्नकर्तृगतत्वतः॥
युक्तः शास्त्रीयसंस्कारो मुख्येऽस्य फलभोगि(जि)नः।
विनाऽपि संस्कृतिं दृष्टं कर्तृत्वं तस्य नास्ति सः” इति॥

ज्योतिष्टोमे केशश्मश्रुवपनपयोव्रतादयो यजमानसंस्कारा आम्नाताः। ग्रहैः सोमहोमो ज्योतिष्टोमे मुख्यः। अग्नीषोमीयपश्वादिकमङ्गम्। तत्र द्वयोर्मुख्याङ्गयोरेते वपनादय उपकुर्वन्ति। कुतः। कर्तृधर्मत्वात्। यजमानो हि कर्तृतया

[[205]]

Page No. २०६
वपनादिभिः संस्क्रियते। कर्तृत्वं च यथा मुख्यं प्रति तस्य विद्यते तथाऽङ्गं प्रत्यप्यस्ति। तस्मादुभयोरुपकार इति चेन्मैवम्। द्वै हि यजमानस्याऽऽकारौ क्रियाकर्तृत्वं फलभोक्तृत्वं चेति। तयोरदृष्टः फलभोगः क्रियानिष्पत्तिश्च दृष्टा। तथा सति वपनादिकृतोपकारस्याप्यदृष्टत्वाद्भोक्तृशेषा वपनादयः फलभोगसाधने मुख्य एव पर्यवस्यन्ति। वपनादिसंस्काररहितैत्विग्भिः कृषीवलादिभिश्च क्रिया निष्पाद्यमाना दृश्यते। ततस्तत्र कर्तृत्वाकारे वपनादिकृतः स उपकारो नास्ति। तस्माददृष्टफलभोजिनो यजमानस्य योऽयमदृष्टरूपः शास्त्रीयसंस्कारः सोऽयं मुख्ये कर्मणि युक्तो नाङ्गेषु। नात्र पूर्ववद्वाक्यमस्ति। येन परम्परया फलसाधनाङ्गेषु वपनाद्युपकारः शङ्क्येत। प्रकरणं तु मुख्यस्यैव न त्वङ्गानाम्। तस्मान्न तेषूपकारः।

तत्रैवाष्टमे पादे चिन्तितम् —

“संस्कारा वपनाद्या, किमध्वर्योः स्वामिनोऽथवा।
अध्वर्योस्तत्र शक्तत्वात्तद्वेदोक्तेश्च तस्य ते॥
संस्कारैर्योग्यतां प्राप्य स्वकार्यं कर्तुमृत्विजः।
क्रीणात्यन्यक्रिया तेषां संस्क्रिया यजमानगा” इति॥

आप उन्दन्तु जीवस इत्याद्याः संस्कारमन्त्राः। तद्विधयश्चाध्वर्युवेदे समाम्नाताः – “केशश्मश्रु वपते नखानि निकृन्तते” इति। शक्तश्चाध्वर्युर्वपनादौ। तस्मात्तस्याध्वर्योर्वपनादिसंस्कारा इति चेन्मैवम्। वपनादिसंस्कारा यजमानगतमालिन्यमपनीय यागयोग्यतामुत्पादयितुं क्रियन्ते। तथा च ब्राह्मणम् — “केशश्मश्रु वपते नखानि निकृन्तते मृता वा एषा त्वगमेध्या यत्केशश्मश्रु मृतामेव त्वचममेध्यामपहत्य यज्ञियो भूत्वा मेधमुपैति” (सं. का. ६ प्र. १ अ. १) इति। न ह्यद्वर्युवपनेन यजमानगता मृता त्वगपैति। योग्यस्य हि कर्माधिकारे सति पश्चात्प्रयासरूपेषु व्यापारेषु स्वयमशक्तः सन्कर्मकरानृत्विजः परिक्रीणाति। लोकेऽपि रोगिणः स्वामिन औषधाद्यानयन एव भृत्या जीवितदानेन परिक्रीयन्ते। न तु तदौषधं भृत्याः सेवन्ते। तस्मादितरक्रियार्त्विजाम्। संस्कारस्तु यजमानस्य। क्वचित्तु वचनादृत्विजामपि संस्कारोऽस्तु।
चतुर्थाध्यायस्य तृतीयपादे चिन्तितम् —

[[206]]

Page No. २०७
“जुह्वाः पर्णमयीत्वेन न पापश्रुतिरञ्जनात्।
वैरिदृग्वर्जनं वर्म प्रयाजैः पुरुषाय किम्॥
क्रतवे वाऽग्रिमो भानात्फलस्य न हि साध्यता।
विभाति क्रतवे तस्मादर्थवादः फलं भवेत्” इति॥

इदमाम्नायते — “यस्य पर्णमयी जुहूर्भवति न पापँ श्लोकँ शृणोति यदाङ्क्ते चक्षुरेव भ्रातृव्यस्य वृङ्क्ते यत्प्रयाजानूयाजा इज्यन्ते वर्मैव तद्यज्ञाय क्रियते वर्म यजमानाय भ्रातृव्याभिभूत्यै” इति। तत्र यज्जुह्वाः प्रकृतिभूतं पर्णद्रव्यं यश्चाञ्जनेन चक्षुःसंस्कारो यच्च प्रयाजानूयाजरूपं वर्म तत्त्रितयं पुरुषार्थत्वेन विधीयते। कुतः। पापश्लोकश्रवणराहित्यादेः पुरुषसंबन्धिफलस्य प्रतिभानादिति चेन्मैवम्। फलं हि साध्यं भवति। न चात्र साध्यता प्रतिभासते। न शृणोति वृङ्क्ते वर्म क्रियत इति वर्तमानत्वनिर्देशात्। अतः क्रत्वर्था एते विधयः। तत्र पर्णमयीत्वस्यानारभ्याधीतस्यापि वाक्येन क्रतुसंबन्धः। संस्कारक(व)र्मणोस्तु प्रकरणेन। क्रत्वर्थानां क्रतुनिष्पादनव्यतिरेकण फलाकाङ्क्षया असंभवद्वर्तमाननिर्देशस्य विपरिणामं कृत्वाऽपि फलं कल्पयितुं न शक्यम्। तस्मात्फलवत्त्वभ्रमहेतुः पापश्लोकराहित्यादिरर्थवादः।

द्वितीयाध्यायस्य प्रथमपादे चिन्तितम् —

“नानुषङ्गोऽनुषङ्गो वाऽच्छिद्रेणेत्यस्य शेषिणौ।
चित्पतिस्त्वेत्यनाकाङ्क्षावतो नात्रानुषज्यते॥
करणत्वं क्रियापेक्षं क्रिया चैका पुनात्विति।
मन्त्रद्व(त्र)येऽतस्तद्द्वारा सर्वशेषोऽनुषज्यते” इति।

ज्योतिष्टोमे दीक्षाप्रकरणे पठ्यते — “चित्पतिस्त्वा पुनातु, वाक्पतिस्त्वा पुनातु, देवस्त्वा सविता पुनात्वच्छिद्रेण पवित्रेण वसोः सूर्यस्य रश्मिभिः” इति। तत्र तृतीयमन्त्रशेषोऽच्छिद्रेणेत्यादिभागः प्रथमद्वितीयमन्त्रयोर्नानुषज्यते। कुतः। न हि चित्पतिस्त्वा पुनातु वाक्पतिस्त्वा पुनात्वित्यनयोर्मन्त्रयोः शेषिणोः संपूर्णवाक्ययोः काचिच्छेषाकाङ्क्षाऽस्तीति प्राप्ते ब्रूमः – मा भूच्छेषिणोराकाङ्क्षा तथाऽपि शेषस्याऽऽकाङ्क्षाऽस्तीति। पवित्रेण रश्मिभिरित्युक्तं करणत्वं क्रियामपेक्षते। क्रिया च पुनात्वित्येषा त्रिष्वपि मन्त्रेष्वेका। तथा च क्रियया संबद्धः शेषः क्रियाद्वारा तृतीयमन्त्रे निरपेक्षेऽपि यथाऽन्वेति तथा पूर्वयोरप्यन्वेतु। तस्मादनुषङ्गः।

[[207]]

Page No. २०८
अथ च्छन्दः।

आप उन्दन्त्विति द्विपदा गायत्री। आपो अस्मानिति द्विपदा विराट्। विश्वमित्येकपदा विराट्। उदाभ्य इति तद्वत्। चित्पतिरित्यनुषङ्गे सति तिस्रो गायत्र्यः। आ वो देवास इत्यनुष्टुप्॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये प्रथमकाण्डे द्वितीयप्रपाठके
प्रथमोऽनुवाकः ॥१॥