गावो॒ वा ए॒तत् स॒त्त्रम् आ॑सताशृ॒ङ्गाः स॒तीः
शृङ्गा॑णि नो जायन्ता॒ इति॒ कामे॑न
तासां॒ दश॒ मासा॒ निष॑ण्णा आस॒न्न् अथ॒ शृङ्गा॑न्य् अजायन्त
ता उद् अ॑तिष्ठन् \
अरा॒त्स्मेति॒ \
अथ॒ यासां॒ नाजा॑यन्त॒ ताः सं॑वत्स॒रम् आ॒प्त्वोद् अ॑तिष्ठन् \
अरा॒त्स्मेति॑
यासां॒ चाजा॑यन्त॒ यासां॑ च॒ न ता उ॒भयी॒र् उद् अ॑तिष्ठन् \
अरा॒त्स्मेति॑
गोस॒त्त्रं वै ॥
सं॒व॒त्स॒रस् \
य ए॒वं वि॒द्वाँसः॑ संवत्स॒रम् उ॑प॒यन्त्य् ऋ॑ध्नु॒वन्त्य् ए॒व
तस्मा॑त् तूप॒रा वार्षि॑कौ॒ मासौ॒ पर्त्वा॑ चरति
स॒त्त्राभि॑जितँ॒ ह्य् अ॑स्यै॒
तस्मा॑त् संवत्सर॒सदो॒ यत् किं च॑ ग्रि॒हे क्रि॒यते॒ तद् आ॒प्तम् अव॑रुद्धम् अ॒भिजि॑तं क्रियते
समु॒द्रं वा ए॒ते प्र प्ल॑वन्ते॒ ये सं॑वत्स॒रम् उ॑प॒यन्ति॒
यो वै स॑मु॒द्रस्य॒ पारं॒ न पश्य॑ति॒ न वै स तत॒ उद् ए॑ति
संवत्स॒रः ॥
वै स॑मु॒द्रस्
तस्यै॒तत् पा॒रं यद् अ॑तिरा॒त्रौ
य ए॒वं वि॒द्वाँसः॑ संवत्स॒रम् उ॑प॒यन्त्य् अना॑र्ता ए॒वोदृच॑म् गछन्ति \
इ॒यं वै पूर्वो॑ऽतिरा॒त्रो॑ऽसाव् उत्त॑रस् \
मनः॒ पूर्वो॒ वाग् उत्त॑रः
प्रा॒णः पूर्वो॑ऽपा॒न उत्त॑रः
प्र॒रोध॑न॒म् पूर्व॑ उ॒दय॑न॒म् उत्त॑रस् \
ज्योति॑ष्टोमो वैश्वान॒रो॑ऽतिरा॒त्रो भ॑वति॒
ज्योति॑र् ए॒व पु॒रस्ता॑द् दधते
सुव॒र्गस्य॑ लो॒कस्यानु॑ख्यात्यै
चतुर्विँ॒शः प्रा॑य॒णीयो॑ भवति॒
चतु॑र्विँशतिर् अर्धमा॒साः ॥
सं॒व॒त्स॒रः
प्र॒यन्त॑ ए॒व सं॑वत्स॒रे प्रति॑ तिष्ठन्ति॒
तस्य॒ त्रीणि॑ च श॒तानि॑ ष॒ष्टिश् च॑ स्तो॒त्रीय॑स्
ताव॑तीः संवत्स॒रस्य॒ रात्र॑यस् \
उ॒भे ए॒व सं॑वत्स॒रस्य॑ रू॒पे आ॑प्नुवन्ति॒
ते सँस्थि॑त्या॒ अरि॑ष्ट्या॒ उत्त॑रै॒र् अहो॑भिश् चरन्ति
षड॒हा भ॑वन्ति॒
षड् वा ऋ॒तवः॑ संवत्स॒रस् \
ऋ॒तुष्व् ए॒व सं॑वत्स॒रे प्रति॑ तिष्ठन्ति॒
गौश् चायु॑श् च मध्य॒त स्तोमौ॑ भवतः
संवत्स॒रस्यै॒व तन् मि॑थु॒नम् म॑ध्य॒तः ॥
द॒ध॒ति॒
प्र॒जन॑नाय॒
ज्योति॑र् अ॒भितो॑ भवति
वि॒मोच॑नम् ए॒व तत् \
छन्दाँ॑स्य् ए॒व तद् वि॒मोकं॑ यन्ति॒ \
अथो॑ उभ॒यतो॑ज्योतिषै॒व ष॑ड॒हेन॑ सुव॒र्गं लो॒कं य॑न्ति
ब्रह्मव॒दिनो॑ वदन्ति \
आस॑ते॒ केन॑ य॒न्तीति॑
देव॒याने॑न प॒थेति॑ ब्रूयात् \
छन्दाँ॑सि॒ वै दे॑व॒यानः॒ पन्था॑ गाय॒त्री त्रि॒ष्टुब् जग॑ती॒
ज्योति॒र् वै गा॑य॒त्री गौस् त्रि॒ष्टुग् आयु॒र् जग॑ती॒
यद् ए॑ते॒ स्तोमा॒ भव॑न्ति
देव॒याने॑नै॒व ॥
तत् प॒था य॑न्ति
समा॒नँ साम॑ भवति
देवलो॒को वै साम॑
देवलो॒काद् ए॒व न य॑न्ति \
अ॒न्याअ॒न्या॒ ऋचो॑ भवन्ति
मनुष्यलो॒को वा ऋच॑स् \
म॒नु॒ष्य॒लो॒काद् ए॒वान्यम॑न्यं देवलो॒कम् अ॑भ्या॒रोह॑न्तो यन्ति \
अभिव॒र्तो ब्र॑ह्मसा॒मम् भ॑वति
सुव॒र्गस्य॑ लो॒कस्या॒भिवृ॑त्त्यै \
अभि॒जिद् भ॑वति
सुव॒र्गस्य॑ लो॒कस्या॒भिजि॑त्यै
विश्व॒जिद् भ॑वति॒ विश्व॑स्य॒ जित्यै॑
मा॒सिमा॑सि पृ॒ष्ठान्य् उप॑ यन्ति
मा॒सिमा॑स्य् अतिग्रा॒ह्या॑ गृह्यन्ते
मा॒सिमा॑स्य् ए॒व वी॒र्यं॑ दधति
मा॒साम् प्रति॑ष्ठित्यै \
उ॒परि॑ष्टान् मा॒साम् पृ॒ष्ठान्य् उप॑ यन्ति॒
तस्मा॑द् उ॒परि॑ष्टा॒द् ओष॑धयः॒ फलं॑ गृह्णन्ति ॥
गावो॒ वा ए॒तत् स॒त्त्रम् आ॑सताशृ॒ङ्गाः स॒तीः शृङ्गा॑णि॒ सिषा॑सन्तीस्
तासां॒ दश॒ मासा॒ निष॑ण्णा आसन् \
अथ॒ शृङ्गा॑ण्य् अजायन्त
ता अ॑ब्रुवन् \
अरा॒त्स्मोत् ति॑ष्ठा॒माव॒ तं काम॑म् अरुत्स्महि॒ येन॒ कामे॑न॒ न्यष॑दा॒मेति॑
तासा॑म् उ॒ त्वा अ॑ब्रुवन्न् अ॒र्धा {F वा॑} {W वा} {ग्लोस् वा॒} याव॑तीर् वा \
आस॑महा ए॒वेमौ द्वा॑द॒शौ मासौ॑ संवत्स॒रँ स॒म्पाद्योत् ति॑ष्ठा॒मेति॑
तासा॑म् ॥
द्वा॒द॒शे मा॒सि षृङ्गा॑णि॒ प्राव॑र्तन्त श्र॒द्धया॒ वाश्र॑द्धया वा
ता इ॒मा यास् तू॑प॒रास् \
उ॒भय्यो॒ वाव ता आ॑र्ध्नुव॒न् याश् च॒ शृङ्गा॒ण्य् अस॑न्व॒न् याश् चोर्ज॑म् अ॒वारु॑न्धत \
ऋ॒ध्नोति॑ द॒शसु॑ मा॒सूत्तिष्ठ॑न्न् ऋ॒ध्नोति॑ द्वाद॒शसु॒ य ए॒वं वेद॑
प॒देन॒ खलु॒ वा ए॒ते य॑न्ति वि॒न्दति॒ खलु॒ वै प॒देन॒ यन्
तद् वा ए॒तद् ऋ॒ध्हम् अय॑नम् \
तस्मा॑द् ए॒तद् गो॒सनि॑ ॥
प्र॒थ॒मे मा॒सि पृ॒ष्ठान्य् उप॑ यन्ति मध्य॒म उप॑ यन्त्य् उत्त॒म उप॑ यन्ति॒
तद् आ॑हुस् \
यां वै त्रिर् एक॒स्याह्न॑ उप॒सीद॑न्ति द॒ह्रं वै साप॑राभ्यां॒ दोहा॑भ्यां दु॒हेऽथ॒ कुतः॒ सा धो॑क्ष्यते॒ यां द्वाद॑श॒ कृत्व॑ उप॒सीद॒न्तीति॑
संवत्स॒रँ स॒म्पाद्यो॑त्त॒मे मा॒सि स॒कृत् पृ॒ष्ठान्य् उपे॑यु॒स्
तद् यज॑माना य॒ज्ञम् प॒शून् अव॑ रुन्धते
समु॒द्रं वै ॥
ए॒ते॑ऽनवा॒रम् अ॑पा॒रम् प्र प्ल॑वन्ते॒ ये सं॑वत्स॒रम् उ॑प॒यन्ति॒
यद् बृ॑हद्रथंत॒रे अ॒न्वर्जे॑यु॒र् यथा॒ मध्ये॑ समु॒द्रस्य॑ प्ल॒वम् अ॒न्वर्जे॑युस् ता॒दृक् तत् \
अनु॑त्सर्गम् बृहद्रथंत॒राभ्या॑म् इ॒त्वा प्र॑ति॒ष्ठां ग॑छन्ति॒
सर्वे॑भ्यो॒ वै कामे॑भ्यः सं॒धिर् दु॑हे॒
तद् यज॑मानाः॒ सर्वा॒न् कामा॒न् अव॑ रुन्धते ॥
स॒मा॒न्य॑ ऋचो॑ भवन्ति
मनुष्यलो॒को वा ऋच॑स् \
म॒नु॒ष्य॒लो॒काद् ए॒व न य॑न्ति \
अ॒न्यद॑न्य॒त् साम॑ भवति
देवलो॒को वै साम॑
देवलो॒काद् ए॒वान्यम॑न्यम् मनुष्यलो॒कम् प्र॑त्यव॒रोह॑न्तो यन्ति॒
जग॑ती॒म् अग्रे॒ उप॑ यन्ति॒
जग॑तीं॒ वै छन्दाँ॑सि प्र॒त्यव॑रोहन्त्य् आग्रय॒णं ग्रहा॑ बृ॒हत् पृ॒ष्ठानि॑ त्रयस्त्रिँ॒शँ स्तोमा॒स्
तस्मा॒ज् ज्यायाँ॑सं॒ कनी॑यान् प्र॒त्यव॑रोहति
वैश्वकर्म॒णो गृ॑ह्यते॒
विश्वा॑न्य् ए॒व तेन॒ कर्मा॑णि॒ यज॑माना॒ अव॑ रुन्धते \
आदि॒त्यः ॥
गृ॒ह्य॒ते॒ \
इ॒यं वा अदि॑तिस् \
अ॒स्याम् ए॒व प्रति॑ तिष्ठन्ति \
अ॒न्यो॑ऽन्यो गृह्येते मिथुन॒त्वाय॒ प्रजा॑त्यै \
अवानत॒रं वै द॑शरा॒त्रेण॑ प्र॒जाप॑तिः प्र॒जा अ॑सृजत॒
यद् द॑शरा॒त्रो भव॑ति प्र॒जा ए॒व तद् यज॑मानाः सृजन्ते \
ए॒ताँ ह॒ वा उ॑दङ्कः शौल्बाय॒नः स॒त्त्रस्यर्द्धि॑म् उवाच॒ यद् द॑शरातश् \
यद् द॑शरा॒त्रो भव॑ति स॒त्त्रस्यर्द्ध्यै॒ \
अथो॒ यद् ए॒व पूर्वे॒ष्व् अहः॑सु॒ विलो॑म क्रि॒यते॒ तस्यै॒वैषा शान्तिः॑ ॥
यदि॒ सोमौ॒ सँसु॑तौ॒ स्याता॑म् मह॒ति रात्रि॑यै प्रातरनुवा॒कम् उ॒पाकु॑र्यात्
पूर्वो॒ वाच॒म् पूर्वो॑ दे॒वताः॒ पूर्व॒श् छन्दाँ॑सि वृङ्क्ते॒ वृष॑ण्वतीम् प्रति॒पदं॑ कुर्यात्
प्रा॒तः॒स॒व॒नाद् ए॒वैषा॒म् इन्द्रं॑ वृङ्क्ते॒ \
अथो॒ खल्व् आ॑हुः
सवनमु॒खेस॑वनमुखे का॒र्येति॑
सवनमु॒खात्स॑वनमुखाद् ए॒वैषा॒म् इन्द्रं॑ वृङ्क्ते
संवे॒शायो॑पवे॒शाय॑ गायत्रि॒यास् त्रि॒ष्टुभो॒ जग॑त्या अनु॒ष्टुभः॑ प॒ङ्क्त्या अ॒भिभू॑त्यै॒ स्वाहा॒
छन्दाँ॑सि॒ वै सं॑वे॒श उ॑पवे॒शस् \
छन्दो॑भिर् ए॒वैषां॑ ॥
छन्दाँ॑सि वृङ्क्ते
सज॒नीयँ॒ शस्य॑म् \
वि॒ह॒व्यँ॑ शस्य॑म्
अ॒गस्त्य॑स्य कयाशु॒भीयँ॑ शस्यम्
ए॒ताव॒द् वा अ॑स्ति॒ याव॑द् ए॒तत् \
याव॑द् ए॒वास्ति॒ तद् ए॑षां वृङ्क्ते॒
यदि॑ प्रातःसव॒ने क॒लशो॒ दीर्ये॑त वैष्णवीषु शिपिवि॒ष्टव॑तीषु स्तुवीर॒न्
यद् वै य॒ज्ञस्या॑ति॒रिच्य॑ते॒ विष्णुं॒ तच् छि॑पिवि॒ष्टम् अ॒भ्य् अति॑ रिच्यते॒
तद् विष्णुः॑ शिविपि॒ष्टोऽति॑रिक्त ए॒वाति॑रिक्तं दधाति॒ \
अथो॒ अति॑रिक्तेनै॒वाति॑रिक्तम् आ॒प्त्वाव॑ रुन्धते॒
यदि॑ म॒ध्यंदि॑ने॒ दीर्ये॑त वषट्का॒रनि॑धनँ॒ साम॑ कुर्युस् \
व॒ष॒ट्का॒रो वै य॒ज्ञस्य॑ प्रति॒ष्ठा
प्र॑ति॒ष्ठाम् ए॒वैन॑द् गमयन्ति॒
यदि॑ तृतीयसव॒न ए॒तद् ए॒व ॥
ष॒ड॒हैर् मासा॑न्त् स॒म्पाद्याह॒र् उत् सृ॑जन्ति
षड॒हैर् हि मासा॑न्त् स॒म्पश्य॑न्ति \
अर्धमा॒सैर् मासा॑न्त् स॒म्पाद्याह॒र् उत् सृ॑जनति \
अर्धमा॒सैर् हि मासा॑न्त् स॒म्पश्य॑न्ति \
अमावा॒य॑या॒ मासा॑न्त् स॒म्पाद्याह॒र् उत् सृ॑जन्ति \
अमावा॒स्य॑या॒ हि मासा॑न्त् स॒म्पश्य॑न्ति
पौर्णमा॒स्या मासा॑न्त् स॒म्पाद्याह॒र् उत् सृ॑जन्ति
पौर्णमा॒स्या हि मासा॑न्त् स॒म्पश्य॑न्ति॒
यो वै पू॒र्ण आ॑सि॒ञ्चति॒ परा॒ स सि॑ञ्चति॒
यः पू॒र्णाद् उ॒दच॑ति ॥
प्रा॒णम् अ॑स्मि॒न्त् स द॑धाति॒
यत् पौ॑र्णमा॒स्या मासा॑न्त् स॒म्पाद्याह॑र् उत्सृ॒जन्ति॑ संवत्स॒रायै॒व तत् प्रा॒णं द॑धति॒
तद् अनु॑ स॒त्त्रिणः॒ प्राण॑न्ति॒
यद् अह॒र् नोत्सृ॒जेयु॒र् यथा॒ दृति॒र् उप॑नद्धो वि॒पत॑त्य् ए॒वँ सं॑वत्स॒रो वि प॑तेत् \
आर्ति॒म् आर्छे॑युस् \
यत् पौ॑र्णमा॒स्या मासा॑न्त् स॒म्पाद्याह॑र् उत्सृ॒जन्ति॑ संवत्स॒रायै॒व तद् उ॑दा॒नं द॑धति॒
तद् अनु॑ स॒त्त्रिण॒ उत् ॥
अ॒न॒न्ति॒
नार्ति॒म् आर्छ॑न्ति
पू॒र्णमा॑से॒ वै दे॒वानाँ॑ सु॒तस् \
यत् पौ॑र्णमा॒स्या मासा॑न्त् स॒म्पाद्याह॑र् उत्सृ॒जन्ति॑ दे॒वाना॑म् ए॒व तद् य॒ज्ञेन॑ य॒ज्ञम् प्र॒त्यव॑रोहन्ति॒
वि वा ए॒तद् य॒ज्ञं छि॑न्दन्ति॒ यत् ष॑ड॒हसं॑ततँ॒ सन्त॒म् अथाह॑र् उत्सृ॒जन्ति॑
प्राजाप॒त्यम् प॒शुम् आल॑भन्ते
प्र॒जाप॑तिः॒ सर्वा॑ दे॒वता॑स् \
दे॒वता॑भिर् ए॒व य॒ज्ञँ सं त॑न्वन्ति॒
यन्ति॒ वा ए॒ते सव॑ना॒द् येऽहः॑ ॥
उ॒त्सृ॒जन्ति॑
तु॒रीयं॒ खलु॒ वा ए॒तत् सव॑नं॒ यत् सां॑ना॒य्यम् \
यत् सां॑ना॒य्यम् भव॑ति॒ तेनै॒व सव॑ना॒न् न य॑न्ति
समुप॒हूय॑ भक्षयन्ति \
ए॒तत्सो॑मपीथा॒ ह्य् ए॑तर्हि॑
यथायत॒नं वा ए॒तेषाँ॑ सवन॒भाजो॑ दे॒वता॑ गछन्ति॒ येऽह॑र् उत्सृ॒जन्ति॑ \
अनुसव॒नम् पु॑रो॒डाशा॒न् निर् व॑पन्ति
यथायत॒नाद् ए॒व स॑वन॒भाजो॑ दे॒वता॒ अव॑ रुन्धते \
ऽष्टाक॑पालान् प्रातःसव॒न एका॑दशकपाला॒न् माध्यं॑दिने॒ सव॑ने॒ द्वाद॑शकपालाँस् तृतीयसव॒ने
छन्दाँ॑स्य् ए॒वाप्त्वाव॑ रुन्धते
वैश्वदे॒वं च॒रुं तृ॑तीयसव॒ने निर् व॑पन्ति
वैश्वदे॒वं वै तृ॑तीयसव॒नम् \
तेनै॒व तृ॑तीयसव॒नान् न य॑न्ति ॥
उ॒त्सृज्या3ं नोत्सृज्या3म् इति॑ मीमाँसन्ते ब्रह्मवा॒दिन॒स्
तद् व् आ॑हुस् \
उ॒त्सृज्य॑म् ए॒वेति॑ \
अमावा॒स्या॑यां च पौर्णमा॒स्यां चो॒त्सृज्य॒म् इत्य् आ॑हुस् \
ए॒ते हि य॒ज्ञं वह॑त॒ इति॒
ते त्वाव नोत्सृज्ये॒ इत्य् आ॑हु॒र् ये अ॑वान्त॒रं य॒ज्ञम् भे॒जाते॒ इति॑
या प्र॑थ॒मा व्य॑ष्टका॒ तस्या॑म् उ॒त्सृज्य॒म् इत्य् आ॑हुस् \
ए॒ष वै मा॒सो वि॑श॒र इति॑
नादि॑ष्टम् ॥
उत् सृ॑जेयुस् \
यद् आदि॑ष्टम् उ॒त्सृजेयु॑र् या॒दृशे॒ पुनः॑ पर्याप्ला॒वे मध्ये॑ षड॒हस्य॑ स॒म्पद्ये॑त षड॒हैर् मासा॑न्त् स॒म्पाद्य॒ यत् स॑प्त॒मम् अह॒स् तस्मि॒न्न् उत् सृ॑ज्येयु॒स्
तद् अ॒ग्नये॒ वसु॑मते पुरो॒डाश॑म् अ॒ष्टाक॑पालं॒ निर् व॑पेयुर् ऐ॒न्द्रं दधीन्द्रा॑य म॒रुत्व॑ते पुरो॒डाश॒म् एका॑दशकपालं वैश्वदे॒वं द्वाद॑शकपालम्
अ॒ग्नेर् वै वसु॑मतः प्रातःसव॒नम् \
यद् अ॒ग्नये॒ वसु॑मते पुरो॒डाश॑म् अ॒ष्टाक॑पालं नि॒र्वप॑ति दे॒वता॑म् ए॒व तद् भा॒गिनीं॑ कु॒र्वन्ति॑ ॥
सव॑नम् अष्टा॒भिर् उप॑ यन्ति॒
यद् ऐ॒न्द्रं दधि॒ भव॒तीन्द्र॑म् ए॒व तद् भा॑ग॒धेया॒न् न च्या॑वयन्ति॒ \
इन्द्र॑स्य॒ वै म॒रुत्व॑तो॒ माध्यं॑दिनँ॒ सव॑नम् \
यद् इन्द्रा॑य म॒रुत्व॑ते पुरो॒डाश॒म् एका॑दशकपालं नि॒र्वप॑न्ति दे॒वता॑म् ए॒व तद् भा॒गिनीं॑ कु॒र्वन्ति॒ सव॑नम् एकाद॒शभि॒र् उप॑ यन्ति॒
विश्वे॑षां॒ वै दे॒वाना॑म् ऋभु॒मतां॑ तृतीयसव॒नम् \
यद् वै॑श्वदे॒वं द्वाद॑शकपालं नि॒र्वप॑न्ति दे॒वता॑ ए॒व तद् भा॒गिनीः॑ कु॒र्वन्ति॒ सव॑नं द्वाद॒शभिः॑ ॥
उप॑ यन्ति
प्राजाप॒त्यम् प॒शुम् आ ल॑भन्ते
य॒ज्ञो वै प्र॒जाप॑तिर् य॒ज्ञस्यान॑नुसर्गाय \
अभिव॒र्त इ॒तः षण् मा॒सो ब्र॑ह्मसा॒मम् भ॑वति॒
ब्रह्म॒ वा अ॑भिव॒र्तस् \
ब्रह्म॑णै॒व तत् सु॑व॒र्गं लो॒कम् अ॑भिव॒र्तय॑न्तो यन्ति
प्रतिकू॒लम् इ॑व॒ हीतः सु॑व॒र्गो लो॒कस् \
इन्द्र॒ क्रतुं॑ न॒ आ भ॑र पि॒ता पु॒त्रेभ्यो॒ यथा॑ ।
शिक्षा॑ नो अ॒स्मिन् पु॑रुहूत॒ याम॑नि जी॒वा ज्योति॑र् अशीम॒हीत्य् अ॒मुत॑ आय॒ताँ षण् मा॒सो ब्र॑ह्मसा॒मम् भ॑वति \
अ॒यं वै लो॒को ज्योतिः॑ प्र॒जा ज्योति॑स् \
इ॒मम् ए॒व तल् लो॒कम् पश्य॑न्तोऽभि॒वद॑न्त॒ आ य॑न्ति ॥
दे॒वानां॒ वा अन्तं॑ ज॒ग्मुषा॑म् इन्द्रि॒यं वी॒र्य॑म् अपा॑क्राम॒त्
तत् क्रो॒शेनावा॑ रुन्धत॒
तत् क्रो॒शस्य॑ क्रोश॒त्वम् \
यत् क्रो॒शेन॒ चात्वा॑ल॒स्यान्ते॑ स्तु॒वन्ति॑ य॒ज्ञस्यै॒वान्तं॑ ग॒त्वेन्द्रि॒यं वी॒र्य॑म् अव॑ रुन्धते
स॒त्त्रस्यर्द्ध्या॑हव॒नीय॒स्यान्ते॑ स्तुवन्ति \
अ॒ग्निम् ए॒वोप॑द्र॒ष्टारं॑ कृ॒त्वर्द्धि॒म् उप॑ यन्ति
प्र॒जाप॑ते॒र्हृद॑येन हवि॒र्धाने॒ऽन्त स्तु॑वन्ति
प्रे॒माण॑म् ए॒वास्य॑ गछन्ति
श्लो॒केन॑ पु॒रस्ता॒त् सद॑सः ॥
स्तु॒व॒न्त्य् अनु॑श्लोकेन प॒श्चात् \
य॒ज्ञस्यै॒वान्तं॑ ग॒त्वा श्लो॑क॒भाजो॑ भवन्ति
न॒वभि॑र् अध्व॒र्युर् उद् गा॑यति॒
नव॒ वै पुरु॑षे प्रा॒णाः
प्रा॒णान् ए॒व यज॑मानेषु दधाति॒
सर्वा॑ ऐ॒न्द्रियो॑ भवन्ति
प्रा॒णेष्व् ए॒वेन्द्रि॒यं द॑धति॒ \
अप्र॑तिहृताभि॒र् उद् गा॑यति॒
तस्मा॒त् पुरु॑षः॒ सर्वा॑ण्य् अ॒न्यानि॑ शी॒र्ष्णोऽङ्गा॑नि॒ प्रत्य् अ॑चति॒
शिर॑ ए॒व न
पञ्च॑द॒शँ र॑थंत॒रम् भ॑वतीन्द्रि॒यम् ए॒वाव॑ रुन्धते
सप्तद॒शम् ॥
बृ॒हद् अ॒न्नाद्य॒स्याव॑रुद्ध्यै॒ \
अथो॒ प्रैव तेन॑ जायन्ते \
एकविँ॒शम् भ॒द्रं द्वि॒पदा॑सु॒ प्रति॑ष्ठित्यै॒
पत्न॑य॒ उप॑ गायन्ति
मिथुन॒त्वाय॒ प्रजा॑त्यै
प्र॒जाप॑तिः प्र॒जा अ॑सृजत॒
सो॑ऽकामयत \
आ॒साम् अ॒हँ रा॒ज्यम् परी॑या॒म् इति॑
तासाँ॑ राजनेनै॒व रा॒ज्यम् पर्य् ऐ॒त्
तद् रा॑ज॒नस्य॑ राजन॒त्वम् \
यद् रा॑ज॒नम् भव॑ति प्र॒जाना॑म् ए॒व तद् यज॑माना रा॒ज्यम् परि॑ यन्ति
पञ्चविँशम् भवति प्र॒जाप॑तेः ॥
आप्त्यै॑
प॒ञ्चभि॒स् तिष्ठ॑न्त स्तुवन्ति देवलो॒कम् ए॒वाभि ज॑यन्ति
प॒ञ्चभि॒र् आसी॑ना मनुष्यलो॒कम् ए॒वाभि ज॑यन्ति॒
दश॒ सम् प॑द्यन्ते॒ दशा॑क्षरा { वि॒राड् ^ वि॒राज् }
अन्नं॑ { वि॒राड् ^ वि॒राज् }
वि॒राजै॒वान्नाद्य॒म् अव॑ रुन्धते
पञ्च॒धा वि॑नि॒षद्य॑ स्तुवन्ति॒
पञ्च॒ दिश॑स् \
दि॒क्ष॒व् ए॑व प्रति॑ तिष्ठन्ति॒ \
एकै॑क॒यास्तु॑तया स॒माय॑न्ति दि॒ग्भ्य ए॒वान्नाद्यँ॒ सम् भ॑रन्ति
ताभि॑र् उद्गा॒तोद् गा॑यति
दि॒ग्भ्य ए॒वान्नाद्य॑म् ॥
स॒म्भृत्य॒ तेज॑ आ॒त्मन् द॑धते॒
तस्मा॒द् एकः॑ प्रा॒णः सर्वा॒ण्य् अङ्गा॑न्य् अवति॒ \
अथो॒ यथा॑ सुप॒र्ण उ॑त्पति॒ष्यञ् छिर॑ उत्त॒मं कु॑रु॒त ए॒वम् ए॒व तद् यज॑मानाः प्र॒जाना॑म् उत्त॒मा भ॑वन्ति \
आस॒न्दीम् उ॑द्गा॒ता रो॑हति॒ साम्रा॑ज्यम् ए॒व ग॑छन्ति
प्ले॒ङ्खँ होता॒ नाक॑स्यै॒व पृ॒ष्ठँ रो॑हन्ति
कू॒र्चाव् अ॑ध्व॒र्युर् ब्र॒ध्नस्यै॒व वि॒ष्टपं॑ गछन्ति \
ए॒ताव॑न्तो॒ वै दे॑वलो॒कास् तेष्व् ए॒व य॑थापू॒र्वम् प्रति॑ तिष्ठन्ति॒ \
अथो॑ आ॒क्रम॑णम् ए॒व तत् सेतुं॒ यज॑मानाः कुर्वते सुव॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ॥
अ॒र्क्ये॑ण॒ वै स॑हस्र॒शः प्र॒जाप॑तिः प्र॒जा अ॑सृजत
ताभ्य॒ इलां॑दे॒नेरां॒ लूता॒म् अवा॑रुन्द्ध॒
यद् अ॒र्क्य॑म् भव॑ति प्र॒जा ए॒व तद् यज॑मानाः सृजन्ते॒ \
इलां॑दम् भवति प्र॒जाभ्य॑ ए॒व सृ॒ष्टाभ्य॒ इरां॒ लूता॒म् अव॑ रुन्धते॒
तस्मा॒द् याँ समाँ॑ स॒त्त्रँ समृ॑द्धं॒ क्षोधु॑का॒स् ताँ समा॑म् प्र॒जा इषँ॑ ह्य् आ॑सा॒म् ऊर्ज॑म् आ॒दद॑ते
याँ समां॑ व्य्॑र्?द्ध॒म् अक्षो॑धुका॒स् ताँ समा॑म् प्र॒जाः ॥
न ह्य् आ॑सा॒म् इष॒म् ऊर्ज॑म् आ॒दद॑ते \
उत्क्रो॒दं कु॑र्वते॒
यथा॑ ब॒न्धान् मु॑मुचा॒ना उ॑त्क्रो॒दं कु॒र्वत॑ ए॒वम् ए॒व तद् यज॑माना देवब॒न्धान् मु॑मुचा॒ना उ॑त्क्रो॒दं कु॑र्वत॒ इष॒म् ऊर्जं॑ आ॒त्मन् दधा॑नास् \
वा॒णः श॒तत॑न्तुर् भवति
श॒तायुः॒ पुरु॑षः श॒तेन्द्रि॑यस् \
आयु॑ष्य् ए॒वेन्द्रि॒ये प्रति॑ तिष्ठन्ति \
आ॒जिं धा॑व॒न्त्य् अन॑भिजितस्या॒भिजि॑त्यै
दुन्दु॒भीन्त् स॒माघ्न॑न्ति
पर॒मा वा ए॒षा वाग् या दु॑न्दु॒भौ
प॑र॒माम् ए॒व ॥
वाच॒म् अव॑ रुन्धते
भूमिदुन्दु॒भिम् आ घ्न॑न्ति॒
यैवेमां वाक् प्रवि॑ष्टा॒ ताम् ए॒वाव॑ रुन्धते॒ \
अथो॑ इ॒माम् ए॒व ज॑यन्ति॒
सर्वा॒ वाचो॑ वदन्ति॒
सर्वा॑सां वा॒चाम् अव॑रुद्ध्यै \
आ॒र्द्रे चर्म॒न् व्याय॑छेते
इन्द्रि॒यस्याव॑रुद्ध्यै \
आन्यः क्रोश॑ति॒ प्रान्यः शँ॑सति॒
य आ॒क्रोश॑ति पु॒नात्य् ए॒वैना॒न्त् { स ^ सस् }
यः प्र॒शँस॑ति पू॒तेष्व् ए॒वान्नाद्यं॑ दधाति \
ऋषि॑कृतं च ॥
वा ए॒ते दे॒वकृ॑तं च॒ पूर्वै॒र् मासै॒र् अव॑ रुन्धते॒
यद् भू॑ते॒छदाँ॒ सामा॑नि॒ भव॑न्त्य् उ॒भय॒स्याव॑रुद्ध्यै॒
यन्ति॒ वा ए॒ते मि॑थु॒नाद् ये सं॑वत्स॒रम् उ॑प॒यन्ति॑ \
अन्तर्वे॒दि मि॑थु॒नौ सम् भ॑वत॒स्
तेनै॒व मि॑थु॒नान् न य॑न्ति ॥
चर्माव॑ भिन्दन्ति
पा॒प्मान॑म् ए॒वैषा॒म् अव॑ भिन्दन्ति
माप॑ रात्सी॒र् माति॑ व्यात्सी॒र् इत्य् आ॑ह
सम्प्र॒त्य् ए॑वैषा॑म् पा॒प्मान॒म् अव॑ भिन्दन्ति \
उदकु॒म्भान् अ॑धिनि॒धाय॑ दा॒स्यो॑ मार्जा॒लीय॒म् परि॑ नृत्यन्ति प॒दो नि॑घ्न॒तीर् इ॒दम्म॑धुं॒ गाय॑न्त्यस् \
मधु॒ वै दे॒वाना॑म् पर॒मम् अ॒न्नाद्य॑म्
पर॒मम् ए॒वान्नाद्य॒म् अव॑ रुन्धते
प॒दो नि घ्न॑न्ति
मही॒याम् ए॒वैषु॑ दधति ॥
पृ॒थि॒व्यै स्वाहा॒न्तरि॑क्षाय॒ स्वाहा॑ दि॒वे स्वाहा॑
सम्प्लोष्य॒ते स्वाहा॑ स॒म्प्लव॑मानाय॒ स्वाहा॒ सम्प्लु॑ताय॒ स्वाहा॑
मेधायिष्य॒ते स्वाहा॑ मेघाय॒ते स्वाहा॑ मेघि॒ताय॒ स्वाहा॑ मे॒घाय॒ स्वाहा॑
नीहा॒राय॒ स्वाहा॑ नि॒हाका॑यै॒ स्वाहा॑
प्रास॒चाय॒ स्वाहा॑ प्रच॒लाका॑यै॒ स्वाहा॑
विद्योतिष्य॒ते स्वाहा॑ वि॒द्योत॑मानाय॒ स्वाहा॑ संवि॒द्योत॑मानाय॒ स्वाहा॑
स्तनयिष्य॒ते स्वाहा॑ स्त॒नय॑ते॒ स्वाहो॒ग्रँ स्त॒नय॑ते॒ स्वाहा॑
वर्षिष्य॒ते स्वाहा॒ वर्ष॑ते॒ स्वाहा॑भि॒वर्ष॑ते॒ स्वाहा॒ परि॑वर्षते॒ स्वाहा॑ सं॒वर्ष॑ते ॥
स्वाहा॑नु॒वर्ष॑ते॒ स्वाहा॑
शीकायिष्य॒ते स्वाहा॑ शीकाय॒ते स्वाहा॑ शीकि॒ताय॒ स्वाहा॑
प्रोषिष्य॒ते स्वाहा॑ प्रुष्ण॒ते स्वाहा॑ परिप्रुष्ण॒ते स्वाहा॑ \
उद्ग्रहीष्य॒ते स्वाहो॑द्गृह्ण॒ते स्वाहोद्गृ॑हीताय॒ स्वाहा॑
विप्लोष्य॒ते स्वाहा॑ वि॒प्लव॑मानाय॒ स्वाहा॒ विप्लु॑ताय॒ स्वाहा॑ \
आतप्स्य॒ते स्वाहा॒तप॑ते॒ स्वाहो॒ग्रम् आ॒तप॑ते॒ स्वाहा॑ \
ऋ॒ग्भ्यः स्वाहा॒ यजु॑र्भ्यः॒ स्वाहा॒ साम॑भ्यः॒ स्वाहाङ्गि॑रोभ्यः॒ स्वाहा॒
वेदे॑भ्यः॒ स्वाहा॒ गाथा॑भ्यः॒ स्वाहा॑ नाराशँ॒सीभ्यः॒ स्वाहा॒ रैभी॑भ्यः॒ स्वाहा॒
सर्व॑स्मै॒ स्वाहा॑ ॥
द॒त्वते॒ स्वाहा॑द॒न्तका॑य॒ स्वाहा॑
प्रा॒णिने॒ स्वाहा॑प्रा॒णाय॒ स्वाहा॒
मुख॑वते॒ स्वाहा॑मु॒खाय॒ स्वाहा॑
नासि॑कवते॒ स्वाहा॑नासि॒काय॒ स्वाहा॑ \
अक्ष॒ण्वते॒ स्वाहा॑न॒क्षिका॑य॒ स्वाहा॑
क॒र्णिने॒ स्वाहा॑क॒र्णका॑य॒ स्वाहा॑
शीर्ष॒ण्वते॒ स्वाहा॑शी॒र्षका॑य॒ स्वाहा॑
प॒द्वते॒ स्वाहा॑पा॒दका॑य॒ स्वाहा॑
प्राण॒ते स्वाहा॑प्राणते॒ स्वाहा॒
वद॑ते॒ स्वाहा॑वदते॒ स्वाहा॒
पश्य॑ते॒ स्वाहा॑पश्यते॒ स्वाहा॑
शृण्व॒ते स्वाहाशृ॑ण्वते॒ स्वाहा॑
मन॒स्विने॒ स्वाहा॑ ॥
अ॒म॒नसे॒ स्वाहा॑
रेत॒स्विने॒ स्वाहा॑रे॒तस्का॑य॒ स्वाहा॑
प्र॒जाभ्यः॒ स्वाहा॑ प्र॒जन॑नाय॒ स्वाहा॒
लोम॑वते॒ स्वाहा॑लो॒मका॑य॒ स्वाहा॑
त्व॒चे स्वाहा॒त्वक्का॑य॒ स्वाहा॒
चर्म॑ण्वते॒ स्वाहा॑च॒र्मका॑य॒ स्वाहा॒
लोहि॑तवते॒ स्वाहा॑लोहि॒ताय॒ स्वाहा॑
माँस॒न्वते॒ स्वाहा॑माँ॒सका॑य॒ स्वाहा॑
स्नाव॑भ्यः॒ स्वाहा॑स्ना॒वका॑य॒ स्वाहा॑ \
अस्थ॒न्वते॒ स्वाहा॑न॒स्थिका॑य॒ स्वाहा॑
मज्ज॒न्वते॒ स्वाहा॑म॒ज्जका॑य॒ स्वाहा॑ \
अ॒ङ्गिने॒ स्वाहा॑न॒ङ्गाय॒ स्वाहा॑ \
आ॒त्मने॒ स्वाहा॑नात्मने॒ स्वाहा॒
सर्व॑स्मै॒ स्वाहा॑ ॥
कस् त्वा॑ युनक्ति॒ स त्वा॑ युनक्तु॒
विष्णु॑स् त्वा युनक्तु \
अ॒स्य य॒ज्ञस्यर्द्ध्यै॒ मह्यँ॒ संन॑त्यै \
अ॒मुष्मै॒ कामा॑य \
आयु॑षे त्वा प्रा॒णाय॑ त्वापा॒नाय॑ त्वा व्या॒नाय॑ त्वा॒
व्यु॑ष्ट्यै त्वा
र॒य्यै त्वा॒ राध॑से त्वा॒
घोषा॑य॒ त्वा पोषा॑य त्वाराद्घो॒षाय॑ त्वा॒
प्रच्यु॑त्यै त्वा ॥
अ॒ग्नये॑ गाय॒त्राय॑ त्रि॒वृते॒ राथं॑तराय वास॒न्ताया॒ष्टाक॑पालस् \
इन्द्रा॑य॒ त्रैष्टु॑भाय पञ्चद॒शाय॒ बार्ह॑ताय॒ ग्रैष्मा॒यैका॑दशकपालस् \
विश्वे॑भ्यो दे॒वेभ्यो॒ जाग॑तेभ्यः सप्तद॒शेभ्यो॑ वैरू॒पेभ्यो॒ वार्षि॑केभ्यो॒ द्वाद॑शकपालस् \
मि॒त्रावरु॑णाभ्या॒म् आनु॑ष्टुभाभ्याम् एकविँ॒शाभ्यां॑ वैरा॒जाभ्याँ॑ शार॒दाभ्या॑म् पय॒स्या॑
बृह॒स्पत॑ये॒ पाङ्क्ता॑य त्रिण॒वाय॑ शाक्व॒राय॒ हैम॑न्तिकाय च॒रुः
स॑वि॒त्र आ॑तिछन्द॒साय॑ त्रयस्त्रिँ॒शाय॑ रैव॒ताय॑ शैशि॒राय॒ द्वाद॑शकपालस् \
अदि॑त्यै॒ विष्णु॑पत्न्यै च॒रुस् \
अ॒ग्नये॑ वैश्वान॒राय॒ द्वाद॑शकपालस् \
अनु॑मत्यै च॒रुः
का॒य एक॑कपालः ॥
यो वा अ॒ग्नाव् अ॒ग्निः प्र॑ह्रि॒यते॒ यश् च॒ सोमो॒ राजा॒ तयो॑र् ए॒ष आ॑ति॒थ्यं यद् अ॑ग्नीषो॒मीय॑स् \
अथै॒ष रु॒द्रो यश् ची॒यते॒
यत् संचि॑ते॒ऽग्नाव् ए॒तानि॑ ह॒वीँषि॒ न नि॒र्वपे॑त् \
ए॒ष ए॒व रु॒द्रोऽशा॑न्त उपो॒त्थाय॑ प्र॒जाम् प॒शून् यज॑मानस्या॒भि म॑न्येत॒
यत् संचि॑ते॒ऽग्नाव् ए॒तानि॑ ह॒वीँषि॑ नि॒र्वप॑ति भाग॒धेये॑नै॒वैनँ॑ शमयति॒ नास्य॑ रु॒द्रोऽशा॑न्तः ॥
उ॒पो॒त्थाय॑ प्र॒जाम् प॒शून् अ॒भि म॑न्यते॒
दश॒ हवीँ॑षि भवन्ति॒
नव॒ वै पुरु॑षे प्रा॒णा नाभि॑र् दश॒मी
प्रा॒णान् ए॒व यज॑माने दधाति॒ \
अथो॒ दशा॑क्षरा { वि॒राड् ^ वि॒राज् }
अन्नं॑ { वि॒राड् ^ वि॒राज् }
वि॒राज्य् ए॒वान्नाद्ये॒ प्रति॑ तिष्ठति \
ऋ॒तुभि॒र् वा ए॒ष छन्दो॑भि॒ स्तोमैः॑ पृष्ठैश् चेत॒व्य॑ इत्य् आ॑हुस् \
यद् ए॒तानि॑ ह॒वीँषि॑ नि॒र्वप॑त्य् ऋ॒तुभि॑र् ए॒वैनं॒ छन्दो॑भि॒ स्तोमैः॑ पृ॒ष्ठैश् चि॑नुते॒
दिशः॑ सुषुवा॒णेन॑ ॥
अ॒भि॒जित्या॒ इत्य् आ॑हुस् \
यद् ए॒तानि॑ ह॒वीँषि॑ नि॒र्वप॑ति दि॒शाम् अ॒भिजि॑त्यै \
ए॒तया॒ वा इन्द्रं॑ दे॒वा अ॑याजय॒न् तस्मा॑द् इन्द्रस॒वस् \
ए॒तया॒ मनु॑म् मनु॒ष्या॑स् तस्मा॑न् मनुस॒वस् \
यथेन्द्रो॑ दे॒वानां॒ यथा॒ मनु॑र् मनु॒ष्या॑णाम् ए॒वम् भ॑वति॒ य ए॒वं वि॒द्वान् ए॒तयेष्ट्या॒ यज॑ते॒
दिग्व॑तीः पुरोऽनुवा॒क्या॑ भवन्ति॒
सर्वा॑सां दि॒शाम् अ॒भिजि॑त्यै ॥
यः प्रा॑ण॒तो नि॑मिष॒तो म॑हि॒त्वैक॒ इद् राजा॒ जग॑तो ब॒भूव॑ । य ईशे॑ अ॒स्य द्वि॒पद॒श् चतु॑ष्पदः॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥
उ॒प॒या॒मगृ॑हीतोऽसि प्र॒जाप॑तये त्वा॒ जुष्टं॑ गृह्णामि॒ तस्य॑ ते॒ द्यौर् म॑हि॒मा नक्ष॑त्राणि रू॒पम् आ॑दि॒त्यस् ते॒ तेज॒स् तस्मै॑ त्वा महि॒म्ने प्र॒जाप॑तये॒ स्वाहा॑ ॥
य आ॑त्म॒दा ब॑ल॒दा यस्य॒ विश्व॑ उ॒पास॑ते प्र॒शिषं॒ यस्य॑ दे॒वाः । यस्य॑ छा॒यामृतं॒ यस्य॑ मृ॒त्युः कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥
उ॒प॒या॒मगृ॑हीतोऽसि प्र॒जाप॑तये त्वा॒ जुष्टं॑ गृह्णामि॒ तस्य॑ ते पृथि॒वी म॑हि॒मौष॑धयो॒ वन॒स्पत॑यो रू॒पम् अ॒ग्निस् ते॒ तेज॒स् तस्मै॑ त्वा महि॒म्ने प्र॒जाप॑तये॒ स्वाहा॑ ॥
आ ब्रह्म॑न् ब्राह्म॒णो ब्र॑ह्मवर्च॒सी जा॑यताम्
आस्मिन् रा॒ष्ट्रे रा॑ज॒न्य॑ इष॒व्यः॑ शूरो॑ महार॒थो जा॑यताम् \
दोग्ध्री॑ धे॒नुस् \
वोढा॑न॒ड्वान्
आशुः॒ सप्तिः॒
पुरं॑धि॒र् योषा॑
जि॒ष्णू र॑थे॒ष्ठाः
स॒भेयो॒ युवा॑ \
आस्य यज॑मानस्य वी॒रो जा॑यताम् \
नि॒का॒मेनि॑कामे नः प॒र्जन्यो॑ वर्षतु
फ॒लिन्यो॑ न॒ ओष॑धयः पच्यन्ताम् \
यो॒ग॒क्षे॒मो नः॑ कल्पताम् ॥
आक्रा॑न् वा॒जी पृ॑थि॒वीम् अ॒ग्निं युज॑म् अकृत वा॒ज्य् अर्वाक्रा॑न् वा॒ज्य् अ॑न्तरि॑क्षं वा॒युं युज॑म् अकृत वा॒ज्य् अर्वा॒ द्यां वा॒ज्य् आक्रँ॑स्त॒ सूर्यं॒ युज॑म् अकृत वा॒ज्य् अर्वा॑ \
अ॒ग्निस् ते॑ वाजि॒न् युङ्ङ् अनु॒ त्वा र॑भे स्व॒स्ति मा॒ सम् पा॑रय वा॒युस् ते॑ वाजि॒न् युङ्ङ् अनु॒ त्वा र॑भे स्व॒स्ति मा॒ सम् ॥
पा॒र॒या॒दि॒त्यस् ते॑ वाजि॒न् युङ्ङ् अनु॒ त्वा र॑भे स्व॒स्ति मा॒ सम् पा॑रय प्राण॒धृग् अ॑सि प्रा॒णम् मे॑ दृँह व्यान॒धृग् अ॑सि व्या॒नम् मे॑ दृँहापान॒धृग् अ॑स्य् अपा॒नम् मे॑ दृँह॒ चक्षु॑र् असि॒ चक्षु॒र् मयि॑ धेहि॒ श्रोत्र॑म् असि॒ श्रोत्र॒म् मयि॑ धे॒ह्य् आयु॑र् अ॒स्य् आयु॒र् मयि॑ धेहि ॥
जज्ञि॒ बीज॑म् \
वर्ष्टा॑ प॒र्जन्यः॒
पक्ता॑ स॒स्यम् \
सु॒पि॒प्प॒ला ओष॑धयः
स्व॒धि॒च॒र॒णेयम् \
सू॒प॒स॒द॒नो॑ऽग्निः
स्व॒ध्य॒क्षम् अ॒न्तरि॑क्षम् \
सु॒पा॒वः पव॑मानः
सूपस्था॒ना द्यौः
शि॒वम् अ॒सौ तप॑न्
यथापू॒र्वम् अ॑होरा॒त्रे
प॑ञ्चद॒शिनो॑ऽर्धमा॒सास्
त्रिँ॒शिनो॒ मासाः॑
कृ॒प्ता ऋ॒तवः॑
शा॒न्तः सं॑वत्स॒रः ॥
आ॒ग्ने॒यो॑ऽष्टाक॑पालः
सौ॒म्यश् च॒रुः
सा॑वि॒त्रो॑ऽष्टाक॑पालः
पौ॒ष्णश् च॒रुस् \
रौ॒द्रश् च॒रुस् \
अ॒ग्नये॑ वैश्वान॒राय॒ द्वाद॑शकपालो मृगाख॒रे यदि॒ नागछे॑त् \
अ॒ग्नये॑ऽँहो॒मुचे॒ऽष्टाक॑पालः
सौ॒र्यम् पय॑स् \
वा॒य॒व्य॑ आज्य॑भागः ॥
अ॒ग्नये॑ऽँहो॒मुचे॒ऽष्टाक॑पालस् \
इन्द्रा॑याँहो॒मुच॒ एका॑दशकपालस् \
मि॒त्रावरु॑णाभ्याम् आगो॒मुग्भ्या॑म् पय॒स्या॑
वायोसावि॒त्र आ॑गो॒मुग्भ्यां॑ च॒रुस् \
अ॒श्विभ्या॑म् आगो॒मुग्भ्यां॑ धानास् \
म॒रुद्भ्य॑ एनो॒मुग्भ्यः॑ स॒प्तक॑पालस् \
विश्वे॑भ्यो दे॒वेभ्य॑ एनो॒मुग्भ्यो॒ द्वाद॑शकपालस् \
अनु॑मत्यै च॒रुस् \
अ॒ग्नये॑ वैश्वान॒राय॒ द्वाद॑शकपालस् \
द्यावा॑पृथि॒वीभ्या॑म् अँहो॒मुग्भ्यां॑ द्विकपा॒लः ॥
अ॒ग्नये॒ सम् अ॑नमत् पृथि॒व्यै सम् अ॑नमत् \
यथा॒ग्निः पृ॑थि॒व्या स॒मन॑मद् ए॒वम् मह्य॑म् भ॒द्राः संन॑तयः॒ सं न॑मन्तु
वा॒यवे॒ सम् अ॑नमद् अ॒न्तरि॑क्षाय॒ सम् अ॑नमत् \
यथा॑ वा॒युर् अ॒न्तरि॑क्षेण
सूर्या॑य॒ सम् अ॑नमद् दि॒वे सम् अ॑नमत् \
यथा॒ सूर्यो॑ दि॒वा
च॒न्द्रम॑से॒ सम् अ॑नम॒न् नक्ष॑त्रेभ्यः॒ सम् अ॑नमत् \
यथा॑ च॒न्द्रमा॒ नक्ष॑त्रैस् \
वरु॑णाय॒ सम् अ॑नमद् अ॒द्भ्यः सम् अ॑नमत् \
यथा॑ ॥
वरु॑णो॒ऽद्भिः
साम्ने॒ सम् अ॑नमद् ऋ॒चे सम् अ॑नमत् \
यथा॒ साम॒र्चा
ब्रह्म॑णे॒ सम् अ॑नमत् क्ष॒त्राय॒ सम् अ॑नमत् \
यथा॒ ब्रह्म॑ क्ष॒त्रेण॑
राज्ञे॒ सम् अ॑नमद् वि॒शे सम् अ॑नमत् \
यथा॒ राजा॑ वि॒शा
रथा॑य॒ सम् अ॑नम॒द् अश्वे॑भ्यः॒ सम् अ॑नमत् \
यथा॒ रथोऽश्वैः॑
प्र॒जाप॑तये॒ सम् अ॑नमद् भू॒तेभ्यः॒ सम् अ॑नमत् \
यथा॑ प्र॒जाप॑तिर् भू॒तैः स॒मन॑मद् ए॒वम् मह्य॑म् भ॒द्राः संन॑तयः॒ सं न॑मन्तु ॥
ये ते॒ पन्था॑नः सवितः पू॒र्व्यासो॑ऽरे॒णवो॒ वित॑ता अ॒न्तरि॑क्षे । तेभि॑र् नो अ॒द्य प॒थिभिः॑ सु॒गेभी॒ रक्षा॑ च नो॒ अधि॑ च देव ब्रूहि ॥
नमो॒ऽग्नये॑ पृथिवि॒क्षिते॑ लोक॒स्पृते॑ लो॒कम् अ॒स्मै यज॑मानाय देहि॒ नमो॑ वा॒यवे॑ऽन्तरिक्ष॒क्षिते॑ लोक॒स्पृते॑ लो॒कम् अ॒स्मै यज॑मानाय देहि॒ नमः॒ सूर्या॑य दिवि॒क्षिते॑ लोक॒स्पृते॑ लो॒कम् अ॒स्मै यज॑मानाय देहि ॥
यो वा अश्व॑स्य॒ मेध्य॑स्य॒ शिरो॒ वेद॑ शीर्ष॒ण्वान् मेध्यो॑ भवति \
उ॒षा वा अश्व॑स्य॒ मेध्य॑स्य॒ शिरः॑
सूर्य॒श् चक्षु॑स् \
वातः॑ प्रा॒णस् \
च॒न्द्रमाः॒ श्रोत्र॑म् \
दिशः॒ पादौ॑ \
अवान्तरदि॒शाः पर्श॑वस् \
अ॒हो॒रा॒त्रे नि॑मे॒षस् \
अ॒र्ध॒मा॒साः पर्वा॑णि
मासाः॑ सं॒धाना॑नि \
ऋ॒तवोऽङ्गा॑नि
संवत्स॒र आ॒त्मा
र॒श्मयः॒ केषा॑स् \
नक्ष॑त्राणि रू॒पम् \
तार॑का अ॒स्थानि॒
नभो॑ माँ॒सानि॒ \
ओष॑धयो॒ लोमा॑नि॒
वन॒स्पत॑यो॒ वाला॑स् \
अ॒ग्निर् मुख॑म् \
वै॒श्वा॒न॒रो व्यात्त॑म् ॥
स॒मु॒द्र उ॒दर॑म्
अ॒न्तरि॑क्षम् पा॒युस् \
द्यावा॑पृथि॒वी आ॒ण्डौ
ग्रावा॒ शेपः॒
सोमो॒ रेत॑स् \
यज् ज॑ञ्ज॒भ्यते॒ तद् वि द्यो॑तते॒
यद् वि॑धूनु॒ते तत् स्त॑नयति॒
यन् मेह॑ति॒ तद् व॑र्षति
वाग् ए॒वास्य॒ { वाग् ^ वाच् }
अह॒र् वा अश्व॑स्य॒ जाय॑मानस्य महि॒मा पु॒रस्ता॑ज् जायते॒ रात्रि॑र् एनम् महि॒मा प॒श्चाद् अनु॑ जायते \
ए॒तौ वै म॑हि॒माना॒व् अश्व॑म् अ॒भितः॒ सम् ब॑भूवतुस् \
हयो॑ दे॒वान् अ॑वह॒द् अर्वासु॑रान् वा॒जी ग॑न्ध॒र्वान् अश्वो॑ मनु॒ष्या॑न् \
स॒मु॒द्रो वा अश्व॑स्य॒ योनिः॑ समु॒द्रो बन्धुः॑ ॥