बृह॒स्पति॑र् अकामयत॒
श्रन् मे॑ दे॒वा दधी॑र॒न् गछे॑यम् पुरो॒धाम् इति॒
स ए॒तं च॑तुर्विँशतिरा॒त्रम् अ॑पश्य॒त्
तम् आह॑र॒त्
तेना॑यजत॒
ततो॒ वै तस्मै॒ श्रद् दे॒वा अद॑ध॒ताग॑छत् पुरो॒धाम् \
य ए॒वं वि॒द्वाँस॑श् चतुर्विँशतिरा॒त्रम् आस॑ते॒ श्रद् ए॑भ्यो मनु॒ष्या॑ दधते॒ गछ॑न्ति पुरो॒धाम् \
ज्योति॒र् गौर् आयु॒र् इति॑ त्र्य॒हा भ॑वन्ति \
इ॒यं वाव ज्योति॑र् अ॒न्तरि॑क्षं॒ गौर् अ॒साव् आयुः॑ ॥
इ॒मान् ए॒व लो॒कान् अ॒भ्यारो॑हन्ति \
अभिपू॒र्वं त्र्य॒हा भ॑वन्ति \
अभिपू॒र्वम् ए॒व सु॑व॒र्गं लो॒कम् अ॒भ्यारो॑हन्ति॒ \
अस॑त्त्रं॒ वा ए॒तद् यद् अ॑छन्दो॒मम् \
यच् छ॑न्दो॒मा भव॑न्ति॒ तेन॑ स॒त्त्रम् \
दे॒वता॑ ए॒व पृ॒ष्ठैर् अव॑ रुन्धते प॒शूञ् छ॑न्दो॒मैस् \
ओजो॒ वै वी॒र्यं॑ पृ॒ष्ठानि॑ प॒शव॑श् छन्दो॒मास् \
ओज॑स्य् ए॒व वी॒र्ये॑ प॒शुषु॒ प्रति॑ तिष्ठन्ति
बृहद्रथंत॒राभ्यां॑ यन्ति \
इ॒यं वाव र॑थंत॒रम् अ॒सौ बृ॒हत् \
आ॒भ्याम् ए॒व ॥
य॒न्ति॒
चतु॑र्विँशतिर् अर्धमा॒साः सं॑वत्स॒रः
सं॑वत्स॒रः सु॑व॒र्गो लो॒कः
अथो॑ अ॒नयो॑र् ए॒व प्रति॑ तिष्ठन्ति \
ए॒ते वै य॒ज्ञस्या॑ञ्ज॒साय॑नी स्रु॒ती
सं॑वत्स॒र ए॒व सु॑व॒र्गे लो॒के प्रति॑ तिष्ठन्ति॒ \
अथो॒ चतु॑र्विँशत्यक्षरा गाय॒त्री
ताभ्या॑म् ए॒व सु॑व॒र्गं लो॒कं य॑न्ति
चतुर्विँशतिरा॒त्रो भ॑वति॒
गा॑य॒त्री ब्र॑ह्मवर्च॒सम् \
गा॒य॒त्रि॒यैव ब्र॑ह्मवर्च॒सम् अव॑ रुन्धते \
चतु॑र्विँशतिर् अर्धमा॒साः सं॑वत्स॒रः
सं॑वत्स॒रः सु॑व॒र्गो लो॒कः
सं॑वत्स॒र ए॒व सु॑व॒र्गे लो॒के प्रति॑ तिष्ठन्ति॒ \
अथो॒ चतु॑र्विँशत्यक्षरा गाय॒त्री
गा॑य॒त्री ब्र॑ह्मवर्च॒सम् \
गा॒य॒त्रि॒यैव ब्र॑ह्मवर्च॒सम् अव॑ रुन्धते \
अतिरा॒त्राव् अ॒भितो॑ भवतस् \
ब्र॒ह्म॒व॒र्च॒सस्य॒ परि॑गृहीत्यै ॥
यथा॒ वै म॑नु॒ष्या॑ ए॒वं दे॒वा अग्र॑ आस॒न्
ते॑ऽकामयन्त॒ \
अव॑र्तिम् पा॒प्मान॑म् मृ॒त्युम् अ॑प॒हत्य॒ दैवीँ॑ सँ॒सदं॑ गछे॒मेति॒
त ए॒तं च॑तुर्विँशतिरा॒त्रम् अ॑पश्य॒न्
तम् आह॑र॒न्
तेना॑यजन्त॒
ततो॒ वै तेऽव॑र्तिम् पा॒प्मान॑म् मृ॒त्युम् अ॑प॒हत्य॒ दैवीँ॑ सँ॒सद॑म् अगछ॒न्
य ए॒वं वि॒द्वाँस॑श् चतुर्विँशतिरा॒त्रम् आस॒तेऽव॑र्तिम् ए॒व पा॒प्मान॑म् अप॒हत्य॒ श्रियं॑ गछन्ति
श्रीर् हि म॑नु॒ष्य॑स्य ॥
दैवी॑ सँ॒सद् \
ज्योति॑र् अतिरा॒त्रो भ॑वति
सुव॒र्गस्य॑ लो॒कस्यानु॑ख्यात्यै
पृष्ठ्यः॑ षड॒हो भ॑वति॒
षड् वा ऋ॒तवः॑ संवत्स॒रस्
तम् मासा॑ अर्धमा॒सा ऋ॒तवः॑ प्र॒विश्य॒ दैवीँ॑ सँ॒सद॑म् अगछ॒न्
य ए॒वं वि॒द्वाँस॑श् चतुर्विँशतिरा॒त्रम् आस॑ते संवत्स॒रम् ए॒व प्र॒विश्य॒ वस्य॑सीँ सँ॒सदं॑ गछन्ति॒
त्रय॑स् त्रयस्त्रिँ॒शा अ॒वस्ता॑द् भवन्ति॒ त्रय॑स् त्रयस्त्रिँ॒शाः प॒रस्ता॑त्
त्र॒य॒स्त्रिँ॒शैर् ए॒वोभ॑व॒योतोऽव॑र्तिम् पा॒प्मान॑म् अप॒हत्य॒ दैवीँ॑ सँ॒सद॑म् मध्य॒तः ॥
ग॒छ॒न्ति॒
पृ॒ष्ठानि॒ हि दैवी॑ सँ॒सद् \
जा॒मि वा ए॒तत् कु॑र्वन्ति॒ यत् त्रय॑स् त्रयस्त्रिँ॒शा अ॒न्वञ्च॑स् \
मध्येऽनि॑रुक्तो भवति॒ तेनाजा॑मि \
ऊ॒र्ध्वानि॑ पृ॒ष्ठानि॑ भवन्त्य् ऊ॒र्ध्वाश् छ॑न्दो॒मास् \
उ॒भाभ्याँ॑ रू॒पाभ्याँ॑ सुव॒र्गं लो॒कं य॑न्ति॒ \
अस॑त्त्रं॒ वा ए॒तद् यद् अ॑छन्दो॒मम् \
यच् छ॑न्दो॒मा भव॑न्ति॒ तेन॑ स॒त्त्रम् \
दे॒वता॑ ए॒व पृ॒त्ष्ठैर् अव॑ रुन्धते प॒शूञ् छ॑न्दो॒मैस् \
ओजो॒ वै वी॒र्य॑म् पृ॒ष्ठानि॑ प॒शवः॑ ॥
छ॒न्दो॒मास् \
ओज॑स्य् ए॒व वी॒र्ये॑ प॒शुषु॒ प्रति॑ तिष्ठन्ति॒
त्रय॑स् त्रयस्त्रिँ॒शा अ॒वस्ता॑द् भवन्ति॒ त्रय॑स् त्रयस्त्रिँ॒शाः प॒रस्ता॒न् मध्ये॑ पृ॒ष्ठानि॒ \
उरो॒ वै त्र॑यस्त्रिँ॒शा आ॒त्मा पृ॒ष्ठानि॑ \
आ॒त्मन॑ ए॒व तद् यज॑मानाः॒ शर्म॑ नह्य॒न्तेऽना॑र्त्यै
बृहद्रथंत॒राभ्यां॑ यन्ति \
इ॒यं वाव र॑थंत॒रम् अ॒सौ बृ॒हत् \
आ॒भ्याम् ए॒व य॑न्ति॒ \
अथो॑ अ॒नयो॑र् ए॒व प्रति॑ तिष्ठन्ति \
ए॒ते वै य॒ज्ञस्या॑ञ्ज॒साय॑नी स्रु॒ती
ताभ्या॑म् ए॒व ॥
सु॒व॒र्गं लो॒कं य॑न्ति॒
अ॒ति॒रा॒त्राव् अ॒भितो॑ भवतस् \
ब्र॒ह्म॒व॒र्च॒सस्य॒ परि॑गृहीत्यै ॥
परा॑ञ्चो॒ वा ए॒ते सु॑व॒र्गं लो॒कम् अ॒भ्यारो॑हन्ति॒ ये प॑रा॒चीना॑नि पृ॒ष्ठान्य् उ॑प॒यन्ति॑
प्र॒त्यङ् ष॑ड॒हो भ॑वति प्र॒त्यव॑रूढ्या॒ अथो॒ प्रति॑ष्ठित्यै \
उ॒भयो॑र् लो॒कयो॑र् ऋ॒द्ध्वोत् ति॑ष्ठन्ति
त्रि॒वृतोऽधि॑ त्रि॒वृत॒म् उप॑ यन्ति॒ स्तोमा॑नाँ॒ सम्प॑त्त्यै प्रभ॒वाय॒
ज्योति॑र् अग्निष्टो॒मो भ॑वति \
अ॒यं वाव स क्षय॑स् \
अ॒स्माद् ए॒व तेन॒ क्षया॒न् न य॑न्ति
चतुर्विँशतिरा॒त्रो भ॑वति
ऋ॒क्षा वा इ॒यम् अ॑लो॒मका॑सीत्
साका॑मयत॒ \
ओष॑धीभि॒र् वन॒स्पति॑भिः॒ प्र जा॑ये॒येति॒
सैतास् त्रिँ॒शतँ॒ रात्री॑र् अपश्य॒त्
ततो॒ वा इ॒यम् ओष॑धीभि॒र् वन॒स्पति॑भिः॒ प्राजा॑यत॒
ये प्र॒जाका॑माः प॒शुका॑माः॒ स्युस् त ए॒ता आ॑सीरन्
प्रैव जा॑यन्ते प्र॒जया॑ प॒शुभि॑स् \
इ॒यं वा अ॑क्षुध्य॒त्
सैतां वि॒राज॑म् अपश्यत्
ताम् आ॒त्मन् धि॒त्वान्नाद्य॒म् अवा॑रु॒न्द्धौष॑धीः ॥
वन॒स्पती॑न् प्र॒जाम् प॒शून्
तेना॑वर्धत
सा जे॒मान॑म् अम्हि॒मान॑म् अगछत् \
य ए॒वं वि॒द्वाँस॑ ए॒ता आस॑ते वि॒राज॑म् ए॒वात्मन् धि॒त्वान्नाद्य॒म् अव॑ रुन्धते॒
वर्ध॑न्ते प्र॒जया॑ पशुभिस् \
जे॒मान॑म् महि॒मानं॑ गछन्ति॒
ज्योति॑र् अतिरा॒त्रो भ॑वति सुव॒र्गस्य॑ लो॒कस्यानु॑ख्यात्यै
पृष्ठ्यः॑ षड॒हो भ॑वति॒
षड् वा ऋ॒तवः॒ षट् पृ॒ष्ठानि॑
पृ॒ष्ठैर् ए॒वर्तून् अ॒न्वारो॑हन्त्य् ऋ॒तुभिः॑ संवत्स॒रम् \
ते सं॑वत्स॒र ए॒व ॥
प्रति॑ तिष्ठन्ति
त्रयस्त्रिँ॒शात् त्र॑यस्त्रिँ॒शम् उप॑ यन्ति य॒ज्ञस्य॒ संत॑त्यै॒ \
अथो॑ प्र॒जाप॑ति॒र् वै त्र॑यस्त्रिँ॒शः प्र॒जाप॑तिम् ए॒वा र॑भन्ते॒ प्रति॑ष्ठित्यै
त्रिण॒वो भ॑वति॒ विजि॑त्यै \
एकविँ॒शो भ॑वति॒ प्रति॑ष्ठित्यै॒ \
अथो॒ रुच॑म् ए॒वात्मन् द॑धते
त्रि॒वृद् अ॑ग्नि॒ष्टुद् भ॑वति
पा॒प्मान॑म् ए॒व तेन॒ निर् द॑ह॒न्तेऽथो॒ तेजो॒ वै त्रि॒वृत् तेज॑ ए॒वात्मन् द॑धते
पञ्चद॒श इ॑न्द्रस्तो॒मो भ॑वति \
इन्द्रि॒यम् ए॒वाव॑ ॥
रु॒न्ध॒ते॒
स॒प्त॒द॒शो भ॑वति \
अ॒न्नाद्य॒स्याव॑रुद्ध्यै॒ \
अथो॒ प्रैव तेन॑ जायन्ते \
एकविँ॒शो भ॑वति॒
र्पति॑ष्ठित्यै॒ \
अथो॒ रुच॑म् ए॒वात्मन् द॑धते
चतुर्विँ॒शो भ॑वति॒
चतु॑र्विँशतिर् अर्धमा॒साः सं॑वत्स॒रः
सं॑वत्स॒रः सु॑व॒र्गो लो॒कः
सं॑वत्स॒र ए॒व सु॑व॒र्गे लो॒के प्रति॑ तिष्ठन्ति॒ \
अथो॑ ए॒ष वै वि॑षू॒वान्
वि॑षू॒वन्तो॑ भवन्ति॒ य ए॒वं वि॒द्वाँस॑ ए॒ता आस॑ते
चतुर्विँ॒शात् पृ॒ष्ठान्य् उप॑ यन्ति
संवत्स॒र ए॒व प्र॑ति॒ष्ठाय॑ ॥
दे॒वता॑ अ॒भ्यारो॑हन्ति
त्रयस्त्रिँ॒शात् त्र॑यस्त्रिँ॒शम् उप॑ यन्ति॒
त्रय॑स्त्रिँश॒द् वै दे॒वता॑स् \
दे॒वता॑स्व् ए॒व प्रति॑ तिष्ठन्ति
त्रिण॒वो भ॑वति \
इ॒मे वै लो॒कास् त्रि॑ण॒वस् \
ए॒ष्व् ए॑व लो॒केषु॒ प्रति॑ तिष्ठन्ति
द्वाव् ए॑कविँ॒शौ भ॑वतः
प्रति॑ष्ठित्यै॒ \
अथो॒ रुच॑म् ए॒वात्मन् द॑धते
ब॒हवः॑ षोड॒शिनो॑ भवन्ति॒
तस्मा॑द् ब॒हवः॑ प्र॒जासु॒ वृषा॑णस् \
यद् ए॒ते स्तोमा॒ व्यति॑षक्ता॒ भव॑न्ति॒
तस्मा॑द् इ॒यम् ओष॑धीभि॒र् वन॒स्पति॑भि॒र् व्यति॑षक्ता ॥
व्यति॑षज्यन्ते प्र॒जया॑ प॒शुभि॒र् य ए॒वं वि॒द्वाँस॑ ए॒ता आस॑ते॒ \
अकॢ॑प्ता॒ वा ए॒ते सु॑व॒र्गं लो॒कं य॑न्ति \
उच्चाव॒चान् हि स्तोमा॑न् उप॒यन्ति॒
यद् ए॒त ऊ॒र्ध्वाः कॢ॒प्ता स्तोमा॒ भव॑न्ति कॢ॒प्ता ए॒व सु॑व॒र्गं लो॒कं य॑न्त्य् उ॒भयो॑र् एभ्यो लो॒कयोः॑ कल्पते
त्रिँ॒शद् ए॒तास्
त्रिँ॒श॒द॒क्ष॒रा॒ { वि॒राड् ^ वि॒राज् }
अन्नं॑ { वि॒राड् ^ वि॒राज् }
वि॒राजै॒वान्नाद्य॒म् अव॑ रुन्धते \
अतिरा॒त्राव् अ॒भितो॑ भवतस् \
अ॒न्नाद्य॑स्य॒ परि॑गृहीत्यै ॥
प्र॒जाप॑तिः सुव॒र्गं लो॒कम् ऐ॒त्
तं दे॒वा येन॑येन॒ छन्द॒सानु॒ प्रायु॑ञ्जत॒ तेन॒ नाप्नु॑व॒न्
त ए॒ता द्वात्रिँ॑शतँ॒ रात्री॑र् अपश्यन्
{ द्वात्रिँ॑शदक्षरानु॒ष्टुग् ^ द्वात्रिँ॑शदक्षरानु॒ष्टुभ् }
आनु॑ष्टुभः प्र॒जाप॑तिः
स्वेनै॒व छन्द॑सा प्र॒जाप॑ति॒म् आप्त्वाभ्या॒रुह्य॑ सुव॒र्गं लो॒कम् आ॑य॒न्
य ए॒वं वि॒द्वाँस॑ ए॒ता आस॑ते॒ द्वात्रिँ॑शद् ए॒तास् \
{ द्वात्रिँ॑शदक्षरानु॒ष्टुग् ^ द्वात्रिँ॑शदक्षरानु॒ष्टुभ् }
आनु॑ष्टुभः प्र॒जाप॑तिः
स्वेनै॒व छन्द॑सा प्र॒जाप्ति॑म् आ॒प्त्वा श्रियं॑ गछन्ति ॥
श्रीर् हि म॑नु॒ष्य॑स्य सुव॒र्गो लो॒कस् \
द्वात्रिँ॑शद् ए॒तास् \
{ द्वात्रिँ॑शदक्षरानु॒ष्टुग् ^ द्वात्रिँ॑शदक्षरानु॒ष्टुभ् }
वाग् { अ॑नु॒ष्टुप् ^ अ॑नु॒ष्टुभ् }
सर्वा॑म् ए॒व वाच॑म् आप्नुवन्ति॒
सर्वे॑ वा॒चो व॑दि॒तारो॑ भवन्ति॒
सर्वे॒ हि श्रि॒यं गछ॑न्ति॒
ज्योति॒र् गौर् आयु॒र् इति॑ त्र्य॒हा भ॑वन्ति \
इ॒यं वाव ज्योति॑र् अ॒न्तरि॑क्षं॒ गौर् अ॒साव् आयु॑र् इ॒मान् ए॒व लो॒कान् अ॒भ्यारो॑हन्ति \
अभिपू॒र्वं त्र्य॒हा भ॑वन्ति \
अभिपू॒र्वम् ए॒व सु॑व॒र्गं लो॒कम् अ॒भ्यारो॑हन्ति
बृहद्रथंत॒राभ्यां॑ यन्ति ॥
इ॒यं वाव र॑थंत॒रम् अ॒सौ बृ॒हत् \
आ॒भ्याम् ए॒व य॑न्ति॒ \
अथो॑ अ॒नयो॑र् ए॒व प्रति॑ तिष्ठन्ति \
ए॒ते वै य॒ज्ञस्या॑ञ्ज॒साय॑नी स्रु॒ती
ताभ्या॑म् ए॒व सु॑व॒र्गं लो॒कं य॑न्ति॒
परा॑ञ्चो॒ वा ए॒ते सु॑व॒र्गं लो॒कम् अ॒भ्यारो॑हन्ति॒ ये परा॑चस् त्र्य॒हान् उ॑प॒यन्ति॑
प्र॒त्यङ् त्र्य॒हो भ॑वति॒ प्रत्य॑वरूढ्या॒ अथो॒ प्रति॑ष्ठित्यै \
उ॒भयो॑र् लो॒कयो॑र् ऋ॒द्ध्वोत् ति॑ष्ठन्ति
द्वात्रिँ॑शद् ए॒तास्
तासां॒ यास् त्रिँ॒शत् त्रिँ॒शद॑क्षरा वि॒राड् अन्नं॑ वि॒राड् वि॒राजै॒वान्नाद्य॒म् अव॑ रुन्धते॒
ये द्वे अ॑होरा॒त्रे ए॒व ते उ॒भाभ्याँ॑ रू॒पाभ्याँ॑ सुव॒र्गं लो॒कं य॑न्ति \
अतिरा॒त्राव् अ॒भितो॑ भवतः॒ परि॑गृहीत्यै ॥
द्वे वाव दे॑वस॒त्त्रे द्वा॑दशा॒हश् च॑ त्रयस्त्रिँशद॒हश् च॒
य ए॒वं वि॒द्वाँस॑स् त्रयस्त्रिँशद॒हम् आस॑ते सा॒क्षाद् ए॒व दे॒वता॑ अ॒भ्यारो॑हन्ति॒
यथा॒ खलु॒ वै श्रेया॑न् अ॒भ्यारू॑ढः का॒मय॑ते॒ तथा॑ करोति॒
यद्य् अ॑व॒विध्य॑ति॒ पापी॑यान् भवति॒
यदि॒ नाव॒विध्य॑ति स॒दृङ्
य ए॒वं वि॒द्वाँस॑स् त्रयस्त्रिँशद॒हम् आस॑ते॒ वि पा॒प्मना॒ भ्रातृ॑व्ये॒णा व॑र्तन्तेऽह॒र्भाजो॒ वा ए॒ता दे॒वा अग्र॒ आह॑रन् ॥
अह॒र् एकोऽभ॑ज॒ताह॒र् एक॑स्
ताभि॒र् वै ते प्र॒बाहु॒ग् आर्ध्नु॑व॒न्
य ए॒वं वि॒द्वाँस॑स् त्रयस्त्रिँशद॒हम् आस॑ते॒ सर्व॑ ए॒व प्र॒बाहु॑ग् ऋध्नुवन्ति॒
सर्वे॒ ग्राम॑णीय॒म् प्राप्नु॑वन्ति
पञ्चा॒हा भ॑वन्ति॒
पञ्च॒ वा ऋ॒तवः॑ संवत्स॒रस् \
ऋ॒तुष्व् ए॒व सं॑वत्स॒रे प्रति॑ तिष्ठन्ति॒ \
अथो॒ पञ्चा॑क्षरा प॒ङ्क्तिः
पाङ्क्तो॑ य॒ज्ञस् \
य॒ज्ञम् ए॒वाव॑ रुन्धते
त्रीण्य् आ॑श्वि॒नानि॑ भवन्ति॒
त्रय॑ इ॒मे लो॒कास् \
ए॒षु॒ ॥
ए॒व लो॒केषु॒ प्रति॑ तिष्ठन्ति॒ \
अथो॒ त्रीणि॒ वै य॒ज्ञस्ये॑न्द्रि॒याणि॑
तान्य् ए॒वाव॑ रुन्धते
विश्व॒जिद् भ॑वत्य् अ॒न्नाद्य॒स्याव॑रुद्ध्यै॒
सर्व॑पृष्ठो भवति॒
सर्व॑स्या॒भिजि॑त्यै
वाग् वै द्वा॑दशा॒हस् \
यत् पु॒रस्ता॑द् द्वादशा॒हम् उ॑पे॒युर् अना॑प्तां॒ वाच॒म् उपे॑युर् उप॒दासु॑कैषां॒ वाक् स्या॑त् \
उ॒परि॑ष्टाद् द्वादशा॒हम् उप॑ यन्त्य् आ॒प्ताम् ए॒व वाच॒म् उप॑ यन्ति॒ तस्मा॑द् उ॒परि॑ष्टाद् वा॒चा व॑दामस् \
अ॒वा॒न्त॒रम् ॥
वै द॑शरा॒त्रेण॑ प्र॒जाप॑तिः प्र॒जा अ॑सृजत॒
यद् द॑शरा॒त्रो भव॑ति प्र॒जा ए॒व तद् यज॑मानाः सृजन्ते \
ए॒ताँ ह॒ वा उ॑द॒ङ्कः शौ॑ल्बाय॒नः स॒त्त्रस्यर्द्धि॑म् उवाच॒ यद् द॑शरा॒त्रस् \
यद् द॑शरा॒त्रो भव॑ति स॒त्त्रस्यर्द्ध्यै॒ \
अथो॒ यद् ए॒व पूर्वे॒ष्व् अहः॑सु॒ विलो॑म क्रि॒यते॒ तस्यै॒वैषा शान्ति॑स् \
द्व्य॒नी॒का वा ए॒ता रात्र॑यो॒ यज॑माना विश्व॒जित्
स॒हाति॑रा॒त्रेण॒ पूर्वाः॒ षोड॑श स॒हाति॑रा॒त्रेणोत्त॑राः॒ षोड॑श॒
य ए॒वं वि॒द्वाँस॑स् त्रयस्त्रिँशद॒हम् आस॑त॒ ऐषां॑ द्व्यनी॒का प्र॒जा जा॑यते \
अतिरा॒त्राव् अ॒भितो॑ भवतः॒
परि॑गृहीत्यै ॥
आ॒दि॒त्या अ॑कामयन्त
सुव॒र्गं लो॒कम् इ॑या॒मेति॒
ते सु॑व॒र्गं लो॒कं न प्राजा॑न॒न् न सु॑व॒र्गं लो॒कम् आ॑य॒न्
त ए॒तँ ष॑ट्त्रिँशद्रा॒त्रम् अ॑पश्य॒न्
तम् आह॑र॒न्
तेना॑यजन्त॒
ततो॒ वै ते सु॑व॒र्गं लो॒कम् प्राजा॑नन्त् सुव॒र्गं लो॒कम् आ॑य॒न्
य ए॒वं वि॒द्वाँसः॑ षट्त्रिँशद्रा॒त्रम् आस॑ते सुव॒र्गम् ए॒व लो॒कम् प्र जा॑नन्ति सुव॒र्गं लो॒कं य॑न्ति॒
ज्योति॑र् अतिरा॒त्रः ॥
भ॒व॒ति॒
ज्योति॑र् ए॒व पु॒रस्ता॑द् दधते
सुव॒र्गस्य॑ लो॒कस्यानु॑ख्यात्यै
षड॒हा भ॑वन्ति॒
षड् वा ऋ॒तव॑स् \
ऋ॒तुष्व् ए॒व प्रति॑ तिष्ठन्ति
च॒त्वारो॑ भवन्ति॒
चत॑स्रो॒ दिश॑स् \
दि॒क्ष्व् ए॑व प्रति॑ तिष्ठन्ति॒ \
अस॑त्त्रं॒ वा ए॒तद् यद् अ॑छन्दो॒मम् \
यच् छ॑न्दो॒मा भव॑न्ति॒ तेन॑ स॒त्त्रम् \
दे॒वता॑ ए॒व पृ॒ष्ठैर् अव॑ रुन्धते प॒शूञ् छ॑न्दो॒मैस् \
ओजो॒ वै री॒व्य॑म् पृ॒ष्ठानि॑ प॒शव॑श् छन्दो॒मास् \
ओज॑स्य् ए॒व ॥
वी॒र्ये॑ प्रति॑ तिष्ठन्ति
षट्त्रिँशद्रा॒त्रो भ॑वति॒
षट्त्रिँ॑शदक्षरा बृह॒ती
बार्ह॑ताः प॒शव॑स् \
बृ॒ह॒त्यैव प॒शून् अव॑ रुन्धते
बृह॒ती छन्द॑साँ॒ स्वारा॑ज्य॒म् आश्नु॑त \
अश्नु॒वते॒ स्वारा॑ज्यं॒ य ए॒वं वि॒द्वाँसः॑ षट्त्रिँशद्रा॒त्रम् आस॑ते सुव॒र्गम् ए॒व लो॒कं य॑न्ति \
अतिरा॒त्राव् अ॒भितो॑ भवतः सुव॒र्गस्य॑ लो॒कस्य॒ परि॑गृहीत्यै ॥
वसि॑ष्ठो ह॒तपु॑त्रोऽकामयत
वि॒न्देय॑ प्र॒जाम् अ॒भि सौ॑दा॒सान् भ॑वेय॒म् इति॒
स ए॒तम् ए॑कस्मान्नपञ्चाशम् अपश्य॒त्
तम् आह॑र॒त्
तेना॑यजत॒
ततो॒ वै सोऽवि॑न्दत प्र॒जाम् अ॒भि सौ॑दा॒सान् अ॑भवत् \
य ए॒वं वि॒द्वाँस॑ एकस्मान्नपञ्चा॒शम् आस॑ते वि॒न्दन्ते॑ प्र॒जाम् अ॒भि भ्रातृ॑व्यान् भवन्ति॒
त्रय॑स् त्रि॒वृतो॑ऽग्निष्टो॒मा भ॑वन्ति॒
वज्र॑स्यै॒व मुक॒ह्ँ सँ श्य॑न्ति॒
दश॑ पञ्चदशा भवन्ति
पञ्चद॒शो वज्रः॑ ॥
वज्र॑म् ए॒व भ्रातृ॑व्येभ्यः॒ प्र ह॑रन्ति
षोडशि॒मद् द॑श॒मम् अह॑र् भवति॒
वज्र॑ ए॒व वी॒र्यं॑ दधति
द्वाद॑श सप्तद॒शा भ॑वन्ति \
अ॒न्नाद्य॒स्याव॑रुद्ध्यै॒ \
अथो॒ प्रैव तैर् जा॑यन्ते
पृष्ठ्यः षड॒हो भ॑वति॒
षड् वा ऋ॒तवः॒
षट् पृ॒ष्ठानि॑
पृ॒ष्ठैर् ए॒वर्तून् अ॒न्वारो॑हन्त्य् ऋ॒तुभिः॑ संवत्स॒रम् \
ते सं॑वत्स॒र ए॒व प्रति॑ तिष्ठन्ति
द्वाद॑शैकविँ॒शा भ॑वन्ति॒
प्रति॑ष्ठित्यै॒ \
अथो॒ रुच॑म् ए॒वात्मन् ॥
द॒ध॒ते॒
ब॒हवः॑ षोड॒शिनो॑ भवन्ति॒
विजि॑त्यै॒
षड् आ॑श्वि॒नानि॑ भवन्ति॒
षड् वा ऋ॒तव॑स् \
ऋ॒तुष्व् ए॒व प्रति॑ तिष्ठन्ति \
ऊनातिरि॒क्ता वा ए॒ता रात्र॑यस् \
ऊ॒नास् तद् यद् एक॑स्यै॒ न प॑ञ्चा॒शद् अति॑रिक्ता॒स् तद् यद् भूय॑सीर् अ॒ष्टाच॑त्वारिँशतस् \
ऊ॒नाच् च॒ खलु॒ वा अति॑रिक्ताच् च प्र॒जाप॑तिः॒ प्राजा॑यत \
ये प्र॒जाका॑माः प॒शुका॑माः॒ स्युस् त ए॒ता आ॑सीरन्
प्रैव जा॑यन्ते प्र॒जया॑ प॒शुभि॑स् \
वै॒रा॒जो वा ए॒ष य॒ज्ञो यद् ए॑कस्मान्नपञ्चा॒शस् \
य ए॒वं वि॒द्वाँस॑ एकस्मान्नपञ्चाश॒म् आस॑ते वि॒राज॑म् ए॒व ग॑छन्त्य् अन्ना॒दा भ॑वन्ति \
अतिरा॒त्राव् अ॒भितो॑ भवतस् \
अ॒न्नाद्य॑स्य॒ परि॑गृहीत्यै ॥
सं॒व॒त्स॒राय॑ दीक्षि॒ष्यमा॑णा एकाष्ट॒कायां॑ दीक्षेरन् \
ए॒षा वै सं॑वत्स॒रस्य॒ पत्नी॒ यद् ए॑काष्ट॒का \
ए॒तस्यां॒ वा ए॒ष ए॒टँ रात्रिं॑ वसति
सा॒क्षाद् ए॒व सं॑वत्स॒रम् आ॒रभ्य॑ दीक्षन्ते \
आर्तं॒ वा ए॒ते सं॑वत्स॒रस्या॒भि दी॑क्षन्ते॒ य ए॑काष्ट॒कायां॒ दीक्ष॒न्तेऽन्त॑नामानाव् ऋ॒तू भ॑वतस् \
व्य॑स्तं॒ वा ए॒ते सं॑वत्स॒रस्या॒भि दी॑क्षन्ते॒ य ए॑काष्ट॒कायां॒ दीक्ष॒न्तेऽन्त॑नामानाव् ऋ॒तू भ॑वतः
फ॒ल्गु॒नी॒पू॒र्ण॒मा॒से दी॑क्षेर॒न्
मुखं॒ वा ए॒तत् ॥
सं॒व॒त्स॒रस्य॒ यत् फ॑ल्गुनीपूर्णमा॒सस् \
मु॒ख॒त ए॒व सं॑वत्स॒रम् आ॒रभ्य॑ दीक्षन्ते॒
तस्यैकै॒व नि॒र्या यत् साम्मे॑घ्ये विषू॒वान्त् स॒म्पद्य॑ते
चित्रापूर्णमा॒से दी॑क्षेर॒न्
मुखं॒ वा ए॒तत् सं॑वत्स॒रस्य॒ यच् चि॑त्रापूर्णमा॒सस् \
मु॒ख॒त ए॒व सं॑वत्स॒रम् आ॒रभ्य॑ दीक्षन्ते॒
तस्य॒ न का च॒न नि॒र्या भ॑वति
चतुर॒हे पु॒रस्ता॑त् पौर्णमा॒स्यै दी॑क्षेर॒न्
तेषा॑म् एकाष्ट॒कायां॑ क्र॒यः सम् प॑द्यते॒
तेनैका॑ष्ट॒कां न छ॒म्बट् कु॑र्वन्ति॒
तेषा॑म् ॥
पू॒र्व॒प॒क्षे सु॒त्या सम् प॑द्यते
पूर्वप॒क्षम् मासा॑ अ॒भि सम् प॑द्यन्ते॒
ते पू॑र्वप॒क्ष उत् ति॑ष्ठन्ति
तान् उ॒त्तिष्ठ॑त॒ ओष॑धयो॒ वन॒स्पत॒योऽनूत् ति॑ष्ठन्ति
तान् क॑ल्या॒णी की॒र्तिर् अनूत् ति॑ष्ठति॒ \
अरा॑त्सुर् इ॒मे यज॑माना॒ इति॒
तद् अनु॒ सर्वे॑ राध्नुवन्ति ॥
सु॒व॒र्गं वा ए॒ते लो॒कं य॑न्ति॒ ये स॒त्त्रम् उ॑प॒यन्ति॑ \
अ॒भीन्ध॑त ए॒व दी॒क्षाभि॑र् आ॒त्मानँ॑ श्रपयन्त उप॒सद्भि॑स् \
द्वाभ्यां॒ लोमाव॑ द्यन्ति॒ द्वाभ्यां॒ त्वच॑म् \
द्वाभ्या॒म् असृ॑त् \
द्वाभ्या॑म् माँ॒सम् \
द्वाभ्या॒म् अस्थि॑
द्वाभ्या॑म् म॒ज्जान॑म्
आ॒त्मद॑क्षिणं॒ वै स॒त्त्रम्
आ॒त्मान॑म् ए॒व दक्षि॑णां नी॒त्वा सु॑व॒र्गं लो॒कं य॑न्ति॒
शिखा॒म् अनु॒ प्र व॑पन्ते \
ऋद्ध्यै॒ \
अथो॒ रघी॑याँसः सुव॒र्गं लो॒कम् अ॑या॒मेति॑ ॥
ब्र॒ह्म॒वा॒दिनो॑ वदन्ति \
अतिरा॒त्रः प॑र॒मो य॑ज्ञक्रतू॒नां कस्मा॒त् तम् प्र॑थ॒मम् उप॑ य॒न्तीति॑ \
ए॒तद् वा अ॑ग्निष्टो॒मम् प्र॑थ॒मम् उप॑ य॒न्त्य् अथो॒क्थ्य॑म् अथ॑ षोड॒शिन॒म् अथा॑तिरा॒त्रम्
अ॑नुपू॒र्वम् ए॒वैतद् य॑ज्ञक्र॒तून् उ॒पेत्य॒ तान् आ॒लभ्य॑ परि॒गृह्य॒ सोम॑म् ए॒वैतत् पिब॑न्त आसते॒
ज्योति॑ष्टोमम् प्रथ॒मम् उप॑ यन्ति॒
ज्योति॑ष्टोमो॒ वै स्तोमा॑ना॒म् मुख॑म्
मुख॒त ए॒व स्तोमा॒न् प्र यु॑ञ्जते॒
ते ॥
सँस्तु॑ता वि॒राज॑म् अ॒भि सम् प॑द्यन्ते॒
द्वे च॒र्चाव् अति॑ रिच्येते॒
एक॑या॒ गौर् अति॑रिक्त॒ एक॒यायु॑र् ऊ॒नः
सु॑व॒र्गो वै लो॒को ज्योति॒र् ऊर्ग् वि॒राट् सु॑व॒र्गम् ए॒व तेन॑ लो॒कं य॑न्ति
रथंत॒रं दिवा॒ भव॑ति रथंत॒रं नक्त॒म् इत्य् आ॑हुर् ब्रह्मवा॒दिनः॒ केन॒ तद् अजा॒मीति॑
सौभ॒रं तृ॑तीयसव॒ने ब्र॑ह्मसा॒मम् बृ॒हत्
तन् म॑ध्य॒तो द॑धति॒ विधृ॑त्यै॒
तेनाजा॑मि ॥
ज्योति॑ष्टोमम् प्रथ॒मम् उप॑ यन्ति \
अ॒स्मिन्न् ए॒व तेन॑ लो॒के प्रति॑ तिष्ठन्ति॒
गोष्टो॑मं द्वि॒तीय॒म् उप॑ यन्ति \
अ॒न्तरि॑क्ष ए॒व तेन॒ प्रति॑ तिष्ठन्ति \
आयु॑ष्टोमं तृ॒तीय॒म् उप॑ यन्ति \
अ॒मुष्मि॑न्न् ए॒व तेन॑ लो॒के प्रति॑ तिष्ठन्ति \
इ॒यं वाव ज्योति॑र् अ॒न्तरि॑क्षं॒ गौस् \
अ॒साव् आयु॑स् \
यद् ए॒तान्त् स्तोमा॑न् उप॒यन्त्य् ए॒ष्व् ए॑व तल् लो॒केषु॑ स॒त्त्रिणः॑ प्रति॒तिष्ठ॑न्तो यन्ति॒
ते सँस्तु॑ता वि॒राज॑म् ॥
अ॒भि सम् प॑द्यन्ते॒
द्वे च॒र्चाव् अति॑ रिच्येते॒
एक॑या॒ गौर् अति॑रिक्त॒ एक॒यायु॑र् ऊ॒नः
सु॑व॒र्गो वै लो॒को ज्योति॒र् ऊर्ग् वि॒राड् ऊर्ज॑म् ए॒वाव॑ रुन्धते॒
ते न क्षु॒धार्ति॒म् आर्छ॑न्ति॒ \
अक्षो॑धुका भवन्ति॒
क्षुत्स॑म्बाधा इव॒ हि स॒त्त्रिण॑स् \
अ॒ग्नि॒ष्टो॒माव् अ॒भितः॑ प्र॒धी तौ \
उ॑क्थ्या॑ मध्ये॒ नभ्यं॒ तत्
तद् ए॒तत् प॑रि॒यद् दे॑वच॒क्रम् \
यद् ए॒तेन॑ ॥
ष॒ड॒हेन॒ यन्ति॑ देवच॒क्रम् ए॒व स॒मारो॑ह॒न्त्य् अरि॑ष्ट्यै॒
ते स्व॒स्ति सम् अ॑श्नुवते
साड॒हेन॑ यन्ति॒
षड् वा ऋ॒तव॑स् \
ऋ॒तुष्व् ए॒व प्रति॑ तिष्ठन्ति \
उभ॒यतो॑ज्योतिषा यन्ति \
उभ॒यत॑ ए॒व सु॑व॒र्गे लो॒के प्र॑ति॒तिष्ठ॑न्तो यन्ति॒
द्वौ ष॑ड॒हौ भ॑वतस्
तानि॒ द्वाद॒शाहा॑नि॒ सम् प॑द्यन्ते
द्वाद॒शो वै पुरु॑षो॒ द्वे स॒क्थ्यौ॑ द्वौ बा॒हू आ॒त्मा च॒ शिर॑श् च च॒त्वार्य् अङ्गा॑नि॒ स्तनौ॑ द्वाद॒शौ ॥
तत् पुरु॑ष॒म् अनु॑ प॒र्याव॑र्तन्ते॒
त्रयः॑ षड॒हा भ॑वन्ति
तान्य् अ॒ष्टाद॒शाहा॑नि॒ सम् प॑द्यन्ते॒
नवा॒न्यानि॒ नवा॒न्यानि॒
नव॒ वै पुरु॑षे प्रा॒णास्
तत् प्रा॒णान् अनु॑ प॒र्याव॑र्तन्ते
च॒त्वारः॑ षड॒हा भ॑वन्ति
तानि॒ चतु॑र्विँशति॒र् अहा॑नि॒ सम् प॑द्यन्ते॒
चतु॑र्विँशतिर् अर्धमा॒साः सं॑वत्स॒रस्
तत् सं॑वत्स॒रम् अनु॑ प॒र्याव॑र्तन्ते॒ \
अप्र॑तिष्ठितः संवत्स॒र इति॒ खलु॒ वा आ॑हु॒र् वर्षी॑यान् प्रति॒ष्ठाया॒ इति॑ \
ए॒ताव॒द् वै सं॑वत्स॒रस्य॒ ब्राह्म॑णं॒ याव॑न् मा॒सस् \
मा॒सिमा॑स्य् ए॒व प्र॑ति॒तिष्ठ॑न्तो यन्ति ॥
मे॒षस् त्वा॑ पच॒तैर् अ॑वतु॒ लोहि॑तग्रीव॒श् छागैः॑ शल्म॒लिर् वृद्ध्या॑ प॒र्णो ब्रह्म॑णा प्ल॒क्षो मेधे॑न न्य॒ग्रोध॑श् चम॒सैर् उ॑दु॒म्बर॑ ऊ॒र्जा गा॑य॒त्री छन्दो॑भिस् त्रि॒वृत् स्तोमै॑स् \
अव॑न्ती॒ स्थाव॑न्तीस् त्वावन्तु प्रि॒यं त्वा॑ प्रि॒याणां॒ वर्षि॑ष्ठ॒म् आप्या॑नां निधी॒नां त्वा॑ निधि॒पतिँ॑ हवामहे वसो मम ॥
कू॒प्या॒भ्यः॒ स्वाहा॑
कूल्या॑भ्यः॒ स्वाहा॑
विक॒र्या॑भ्यः॒ स्वाहा॑ \
अव॒ट्या॑भ्यः॒ स्वाहा॒
खन्या॑भ्यः॒ स्वाहा॒
ह्रद्या॑भ्यः॒ स्वाहा॑
सूद्या॑भ्यः॒ स्वाहा॑
सर॒स्या॑भ्यः॒ स्वाहा॑
वैश॒न्तीभ्यः॒ स्वाहा॑
पल्व॒ल्या॑भ्यः॒ स्वाहा॒
वर्ष्या॑भ्यः॒ स्वाहा॑ \
अव॒र्ष्याभ्यः॒ स्वाहा॑
ह्रा॒दुनी॑भ्यः॒ स्वाहा॑
पृष्वा॑भ्यः॒ स्वाहा॒
स्यन्द॑मानाभ्यः॒ स्वाहा॑
स्था॒व॒राभ्यः॒ स्वाहा॑
नादे॒यीभ्यः॒ स्वाहा॑
सैन्ध॒वीभ्यः॒ स्वाहा॑
समु॒द्रिया॑भ्यः॒ स्वाहा॒
सर्वा॑भ्यः॒ स्वाहा॑ ॥
अ॒द्भ्यः स्वाहा॒
वह॑न्तीभ्यः॒ स्वाहा॑
परि॒वह॑न्तीभ्यः॒ स्वाहा॑
सम॒न्तं वह॑न्तीभ्यः॒ स्वाहा॑
शीघ्रं॒ वह॑न्तीभ्यः॒ स्वाहा॑
शीभं॒ वह॑न्तीभ्यः॒ स्वाहा॑ \
उ॒ग्रं वह॑न्तीभ्यः॒ स्वाहा॑
भी॒मं वह॑न्तीभ्यः॒ स्वाहा॒ \
अम्भो॑भ्यः॒ स्वाहा॒
नभो॑भ्यः॒ स्वाहा॒
महो॑भ्यः॒ स्वाहा॒
सर्व॑स्मै॒ स्वाहा॑ ॥
यो अर्व॑न्तं॒ जिघाँ॑सति॒ तम् अ॒भ्य् अ॑मीति॒ वरु॑णः । प॒रो मर्तः॑ प॒रः श्वा ॥
अ॒हं च॒ त्वं च॑ वृत्रह॒न्त् सम् ब॑भूव स॒निभ्य॒ आ । अ॒रा॒ती॒वा चि॑द् अद्रि॒वोऽनु॑ नौ शूर मँसतै भ॒द्रा इन्द्र॑स्य रा॒तयः॑ ॥
अ॒भि क्रत्वे॑न्द्र भू॒र् अध॒ ज्मन् न ते॑ विव्यङ् महि॒मानँ॒ रजाँ॑सि । स्वेना॒ हि वृ॒त्रँ श॑वसा ज॒घन्थ॒ न शत्रु॒र् अन्तं॑ विविदद् यु॒धा ते॑ ॥
नमो॒ राज्ञे॒
नमो॒ वरु॑णाय॒
नमोऽश्वा॑य॒
नमः॑ प्र॒जाप॑तये॒
नमोऽधि॑पतये॒ \
अधि॑पतिर् अ॒स्य् अधि॑पतिम् मा कु॒र्व् अधि॑पतिर् अ॒हम् प्र॒जाना॑म् भूयासम्
मां धे॑हि॒
मयि॑ धेहि \
उ॒पाकृ॑ताय॒ स्वाहा॑ \
आल॑ब्धाय॒ स्वाहा॑
हु॒ताय॒ स्वाहा॑ ॥
म॒यो॒भूर् वातो॑ अ॒भि वा॑तू॒स्रा ऊर्ज॑स्वती॒र् ओष॑धी॒र् आ रि॑शन्ताम् । पीव॑स्वतीर् जी॒वध॑न्याः पिबन्त्व् अव॒साय॑ प॒द्वते॑ रुद्र मृड ॥
याः सरू॑पा॒ विरू॑पा॒ एक॑रूपा॒ यासा॑म् अ॒ग्निर् इष्ट्या॒ नामा॑नि॒ वेद॑ । या अङ्गि॑रस॒स् तप॑से॒ह च॒क्रुस् ताभ्यः॑ पर्जन्य॒ महि॒ शर्म॑ यछ ॥
या दे॒वेषु॑ त॒नुव॒म् ऐर॑यन्त॒ यासाँ॒ सोमो॒ विश्वा॑ रू॒पाणि॒ वेद॑ । ता अ॒स्मभ्य॒म् पय॑सा॒ पिन्व॑मानाः प्र॒जाव॑तीर् इन्द्र ॥
गो॒ष्ठे रि॑रीहि ॥
प्र॒जाप॑ति॒र् मह्य॑म् ए॒ता ररा॑णो॒ विश्वै॑र् दे॒वैः पि॒तृभिः॑ संविदा॒नः । शि॒वाः स॒तीर् उप॑ नो गो॒ष्ठम् आक॒स् तासां॑ व॒यम् प्र॒जया॒ सँ स॑देम ॥
इ॒ह धृतिः॒ स्वाहा॑ \
इ॒ह विधृ॑तिः॒ स्वाहा॑ \
इ॒ह रन्तिः॒ स्वाहा॑ \
इ॒ह रम॑तिः॒ स्वाहा॑
म॒हीम् ऊ॒ षु
सु॒त्रामा॑णम् ॥
किँ स्वि॑द् आसीत् पू॒र्वचि॑त्तिः॒ किँ स्वि॑द् आसीद् बृ॒हद् वयः॑ । किँ स्वि॑द् आसीत् पिशंगि॒ला किँ स्वि॑द् आसीत् पिलिप्पि॒ला ॥
द्यौर् आ॑सीत् पू॒र्वचि॑त्ति॒र् अश्व॑ आसीद् बृ॒हद् वयः॑ । रात्रि॑र् आसीत् पिशंगि॒लावि॑र् आसीत् पिलिप्पि॒ला ॥
कः स्वि॑द् एका॒की च॑रति॒ क उ॑ स्विज् जायते॒ पुनः॑ । किँ स्वि॑द् धि॒मस्य॑ भेष॒जं किँ स्वि॑द् आ॒वप॑नम् म॒हत् ॥
सूर्य॑ एका॒की च॑रति ॥
च॒न्द्रमा॑ जायते॒ पुनः॑ । अ॒ग्निर् हि॒मस्य॑ भेष॒जम् भूमि॑र् आ॒वप॑नम् म॒हत् ॥
पृ॒छामि॑ त्वा॒ पर॒म् अन्त॑म् पृथि॒व्याः पृ॒छामि॑ त्वा॒ भुव॑नस्य॒ नाभि॑म् । पृ॒छामि॑ त्वा॒ वृष्णो॒ अश्व॑स्य॒ रेतः॑ पृ॒छामि॑ वा॒चः प॑र॒मं व्यो॑म ॥
वेदि॑म् आहुः॒ पर॒म् अन्त॑म् पृथि॒व्या य॒ज्ञम् आ॑हु॒र् भुव॑नस्य॒ नाभि॑म् । सोम॑म् आहु॒र् वृष्णो॒ अश्व॑स्य॒ रेतो॑ ब्र॒ह्मैव वा॒चः प॑र॒मं व्यो॑म ॥
अम्बे॒ अम्बा॒ल्य् अम्बि॑के॒
न मा॑ नयति॒ कश् च॒न । स॒सस्त्य् अ॑श्व॒कः ॥
सुभ॑गे॒ काम्पी॑लवासिनि सुव॒र्गे लो॒के सम् प्रोर्ण्वा॑थाम् ।
आहम् अ॑जानि गर्भ॒धम् आ त्वम् अ॑जासि गर्भ॒धम् ।
तौ स॒ह च॒तुरः॑ प॒दः सम् प्र सा॑रयावहै ।
वृषा॑ वाँ रेतो॒धा रेतो॑ दधातु॒ \
उत् स॒क्थ्यो॑र् गृ॒दं धे॑ह्य् अ॒ञ्जिम् उद॑ञ्जि॒म्म् अन्व् अ॑ज । य स्त्री॒णां जी॑व॒भोज॑नो॒ य आ॑साम् ॥
बि॒ल॒धाव॑नः । प्रि॒य स्त्री॒णाम् अ॑पी॒च्यः॑ । य आ॑सां कृ॒ष्णे लक्ष्म॑णि॒ सर्दि॑गृदिम् प॒राव॑धीत् ॥
अम्बे॒ अम्बा॒ल्य् अम्बि॑के॒ न मा॑ यभति॒ कश् च॒न । स॒सस्त्य् अ॑श्व॒कः ॥
ऊ॒र्ध्वाम् ए॑ना॒म् उच् छ्र॑यताद् वेणुभा॒रं गि॒राव् इ॑व । अथा॑स्या॒ मध्य॑म् एधताँ शी॒ते वाते॒ पुन॑न्न् इव ॥
अम्बे॒ अम्बा॒ल्य् अम्बि॑के॒ न मा॑ यभति॒ कश् च॒न । स॒सस्त्य् अ॑श्व॒कः ॥
यद् ध॑रि॒णी यव॒म् अत्ति॒ न ॥
पु॒ष्टम् प॒शु म॑न्यते । शू॒द्रा यद् अर्य॑जारा॒ न पोषा॑य धनायति ॥
अम्बे॒ अम्बा॒ल्य् अम्बि॑के॒ न मा॑ यभति॒ कश् च॒न । स॒सस्त्य् अ॑श्व॒कः ॥
इ॒यं य॒का श॑कुन्ति॒काहल॒म् इति॒ सर्प॑ति । आह॑तं ग॒भे पसो॒ नि ज॑ल्गुलीति॒ धाणि॑का ॥
अम्बे॒ अम्बा॒ल्य् अम्बि॑के॒ न मा॑ यभति॒ कश् च॒न । स॒सस्त्य् अ॑श्व॒कः ॥
मा॒ता च॑ ते पि॒ता च॒ तेऽग्रं॑ वृ॒क्षस्य॑ रोहतः ॥
प्र सु॑ला॒मीति॑ ते पि॒ता ग॒भे मु॒ष्टिम् अ॑तँसयत् ॥
द॒धि॒क्राव्णो॑ अकारिषं जि॒ष्णोर् अश्व॑स्य वा॒जिनः॑ । सु॒र॒भि नो॒ मुखा॑ कर॒त् प्र ण॒ आयूँ॑षि तारिषत् ।
आपो॒ हि ष्ठा म॑यो॒भुव॒स् ता न॑ ऊ॒र्जे द॑धातन । म॒हे रणा॑य॒ चक्ष॑से ॥
यो वः॑ शि॒वत॑मो॒ रस॒स् तस्य॑ भाजयते॒ह नः॑ । उ॒श॒तीर् इ॑व मा॒तरः॑ ॥
तस्मा॒ अरं॑ गमाम वो॒ यस्य॒ क्षया॑य॒ जिन्व॑थ । आपो॑ ज॒नय॑था च नः ॥
भूर् भुवः॒ सुव॒र्
वस॑वस् त्वाञ्जन्तु गाय॒त्रेण॒ छन्द॑सा रु॒द्रास् त्वा॑ञ्जन्तु॒ त्रैष्टु॑भेन॒ छन्द॑सादि॒त्यास् त्वा॑ञ्जन्तु॒ जाग॑तेन॒ छन्द॑सा॒
यद् वातो॑ अ॒पो अग॑म॒द् इन्द्र॑स्य त॒नुव॑म् प्रि॒याम् । ए॒तँ स्तो॑तर् ए॒तेन॑ प॒था पुन॒र् अश्व॒म् आ व॑र्तयासि नः ॥
लाजी3ञ् छाची3न् यशो॑ म॒मा3म् \
य॒व्यायै॑ ग॒व्याया॑ ए॒तद् दे॑वा॒ अन्न॑म् अत्तै॒तद् अ॑न्नम् अद्धि प्रजापते
यु॒ञ्जन्ति॑ ब्र॒ध्नम् अ॑रु॒षं चर॑न्त॒म् परि॑ त॒स्थुषः॑ । रो॒चन्ते॑ रोच॒ना दि॒वि ॥
यु॒ञ्जन्त्य् अ॑स्य॒ काम्या॒ हरी॒ विप॑क्षसा॒ रथे॑ । शोणा॑ धृ॒ष्णू नृ॒वाह॑सा ॥
के॒तुं कृ॒ण्वन्न् अ॑के॒तवे॒ पेशो॑ मर्या अपे॒शसे॑ । सम् उ॒षद्भि॑र् अजायथाः ॥
प्रा॒णाय॒ स्वाहा॑
व्या॒नाय॒ स्वाहा॑ \
अपा॒नाय॒ स्वाहा॑
स्नाव॑भ्यः॒ स्वाहा॑
संता॒नेभ्यः॒ स्वाहा॒
परि॑संतानेभ्यः॒ स्वाहा॒
पर्व॑भ्यः॒ स्वाहा॑
सं॒धाने॑भ्यः॒ स्वाहा॒
शरी॑रेभ्यः॒ स्वाहा॑
य॒ज्ञाय॒ स्वाहा॒
दक्षि॑णाभ्यः॒ स्वाहा॑
सुव॒र्गाय॒ स्वाहा॑
लो॒काय॒ स्वाहा॒
सर्व॑स्मै॒ स्वाहा॑ ॥
सि॒ताय॒ स्वाहा॒ \
असि॑ताय॒ स्वाहा॑ \
अ॒भिहि॑ताय॒ स्वाहा॒ \
अन॑भिहिताय॒ स्वाहा॑
यु॒क्ताय॒ स्वाहा॒ \
अयु॑क्ताय॒ स्वाहा॒
सुयु॑क्ताय॒ स्वाहा॒ \
उद्यु॑क्ताय॒ स्वाहा॒
विमु॑क्ताय॒ स्वाहा॒
प्रमु॑क्ताय॒ स्वाहा॒
वञ्च॑ते॒ स्वाहा॑
परि॒वञ्च॑ते॒ स्वाहा॑
सं॒वञ्च॑ते॒ स्वाहा॑ \
अनु॒वञ्च॑ते॒ स्वाहा॑ \
उ॒द्वञ्च॑ते॒ स्वाहा॑ \
य॒ते स्वाहा॑
धाव॑ते॒ स्वाहा॒
तिष्ठ॑ते॒ स्वाहा॒
सर्व॑स्मै॒ स्वाहा॑ ॥