प्र॒जवं॒ वा ए॒तेन॑ यन्ति॒ यद् द॑श॒मम् अह॑र् \
पा॒पा॒व॒हीयं॒ वा ए॒तेन॑ भवन्ति॒ यद् द॑श॒मम् अह॒र्
यो वै प्र॒जवं॑ य॒ताम् अप॑थेन प्रति॒पद्य॑ते॒ य स्था॒णुँ हन्ति॒ यो भ्रेषं॒ न्येति॒ स ही॑यते॒
स यो वै द॑श॒मेऽह॑न्न् अविवा॒क्य उ॑पह॒न्यते॒ स ही॑यते॒
तस्मै॒ य उप॑हताय॒ व्याह॒ तम् ए॒वान्वा॒रभ्य॒ सम् अ॑श्नुते॒ \
अथ॒ यो व्याह॒ सः ॥
ही॒य॒ते॒
तस्मा॑द् दश॒मेऽह॑न्न् अविवा॒क्य उप॑हताय॒ न व्युच्य॒म्
अथो॒ खल्व् आ॑हुर्
य॒ज्ञस्य॒ वै समृ॑द्धेन दे॒वाः सु॑व॒र्गं लो॒कम् आ॑यन् य॒ज्ञस्य॑ व्य्॑र्?द्धे॒नासु॑रा॒न् परा॑भावय॒न्न् इति॒
यत् खलु॒ वै य॒ज्ञस्य॒ समृ॑द्धं॒ तद् यज॑मानस्य॒ यद् व्यृद्धं॒ तद् भ्रातृ॑व्यस्य॒
स यो वै द॑श॒मेऽह॑न्न् अविवा॒क्य उ॑पह॒न्यते॒ स ए॒वाति॑ रेचयति॒
ते ये बाह्या॑ दृशी॒कवः॑ ॥
स्युस् ते वि ब्रू॑युस् \
यदि॒ तत्र॒ न वि॒न्देयु॑र् अन्तःसद॒साद् व्युच्य॑म् \
तद् व्युच्य॑म् ए॒व \
अथ॒ वा ए॒तत् स॑र्परा॒ज्ञिया॑ ऋ॒ग्भि स्तु॑वन्ति \
इ॒यं वै सर्प॑तो॒ राज्ञी॒
यद् वा अ॒स्यां किं चार्च॑न्ति॒ यद् आ॑नृ॒चुस् तेने॒यँ स॑र्परा॒ज्ञी
ते यद् ए॒व किं च॑ वा॒चानृ॒चुर् यद् अतोऽध्य् अ॑र्चि॒तारः॑ ॥
तद् उ॒भय॑म् आ॒प्त्वाव॒रुध्योत् ति॑ष्ठा॒मेति॑
ताभि॒र् मन॑सा स्तुवते॒
न वा इ॒माम् अ॑श्वर॒थो नाश्व॑तरीर॒थः स॒द्यः पर्या॑प्तुम् अर्हति॒
मनो॒ वा इ॒माँ स॒द्यः पर्या॑प्तुम् अर्हति॒ मनः॒ परि॑भवितु॒म्
अथ॒ ब्रह्म॑ वदन्ति॒
परि॑मिता॒ वा ऋचः॒ परि॑मितानि॒ सामा॑नि॒ परि॑मितानि॒ यजूँ॒ष्य् अथै॒तस्यै॒वान्तो॒ नास्ति॒ यद् ब्रह्म॒
तत् प्र॑तिगृण॒त आ च॑क्षीत॒
स प्र॑तिग॒रः ॥
ब्र॒ह्म॒वा॒दिनो॑ वदन्ति॒
किं द्वा॑दशा॒हस्य॑ प्रथ॒मेनाह्न॒र्त्विजां॒ यज॑मानो वृङ्क्त॒ इति॒
तेज॑ इन्द्रि॒यम् इति॒
किं द्वि॒तीये॒नेति॑
प्रा॒णान् अ॒न्नाद्य॒म् इति॒
किं तृ॒तीये॒नेति॑
त्रीन् इ॒माँ लो॒कान् इति॒
किं च॑तु॒र्थेनेति॒
चतु॑ष्पदः प॒शून् इति॒
किम् प॑ञ्च॒मेनेति॒
पञ्चा॑क्षराम् प॒ङ्क्तिम् इति॒
किँ ष॒ष्ठेनेति॒
षड् ऋ॒तून् इति॒
किँ स॑प्त॒मेनेति॑
स॒प्तप॑दाँ शक्वरी॒म् इति॑ ॥
किम् अ॑ष्ट॒मेनेति॑ \
अ॒ष्टाक्ष॑रां गाय॒त्रीम् इति॒
किं न॑व॒मेनेति॑
त्रि॒वृतँ॒ स्तोम॒म् इति॒
किं द॑श॒मेनेति॒
दशा॑क्षरां वि॒राज॒म् इति॒
किम् ए॑काद॒शेनेति॒ \
एका॑दशाक्षरां तृ॒ष्टुभ॒म् इति॒
किं द्वा॑द॒शेनेति॑
द्वाद॑शाक्षरां॒ जग॑ती॒म् इति॑ \
ए॒ताव॒द् वा अ॑स्ति॒ याव॑द् ए॒तत् \
याव॑द् ए॒वास्ति॒ तद् ए॑षां वृङ्क्ते ॥
ए॒ष वा आ॒प्तो द्वा॑दशा॒हो यत् त्र॑योदशरा॒त्रः
स॑मा॒नँ ह्य् ए॑तद् अह॒र् यत् प्रा॑य॒णीय॑श् चोदय॒नीय॑श् च
त्र्य॑तिरात्रो भवति॒
त्रय॑ इ॒मे लो॒कास् \
ए॒षां लो॒काना॒म् आप्त्यै॑
प्रा॒णो वै प्र॑थ॒मो॑ऽतिरा॒त्रो व्या॒नो द्वि॒तीयो॑ऽपा॒नस् तृ॒तीयः॑
प्रा॒णा॒पा॒नो॒दा॒नेष्व् ए॒वान्नाद्ये॒ प्रति॑ तिष्ठन्ति॒ सर्व॒म् आयु॑र् यन्ति॒ य ए॒वं वि॒द्वाँस॑स् त्रयोदशरा॒त्रम् आस॑ते॒
तद् आ॑हुस् \
वाग् वा ए॒षा वित॑ता ॥
यद् द्वा॑दशा॒हस्
तां वि छि॑न्द्यु॒र् यन् मध्ये॑ऽतिरा॒त्रं कु॒र्युर् उ॑प॒दासु॑का गृ॒हप॑ते॒र् वाक् स्या॑त् \
उ॒परि॑ष्टाच् छन्दो॒माना॑म् महाव्र॒तं कु॑र्वन्ति॒ संत॑ताम् ए॒व वाच॒म् अव॑ रु॒न्द्धेऽनु॑पदासुका गृ॒हप॑ते॒र् वाग् भ॑वति
प॒शवो॒ वै छ॑न्दो॒मा अन्न॑म् महाव्र॒तम् \
यद् उ॒परि॑ष्टाच् छन्दो॒माना॑म् महाव्र॒तं कु॒र्वन्ति॑ प॒शुषु॑ चै॒वान्नाद्ये॑ च॒ प्रति॑ तिष्ठन्ति ॥
आ॒दि॒त्या अ॑कामयन्त \
उ॒भयो॑र् लो॒कयो॑र् ऋध्नुया॒मेति॒
त ए॒तं च॑तुर्दशरा॒त्रम् अ॑पश्य॒न्
तम् आह॑र॒न्
तेना॑यजन्त॒
ततो॒ वै त उ॒भयो॑र् लो॒कयो॑र् आर्ध्नुवन्न् अ॒स्मिँश् चा॒मुष्मिँ॑श् च॒
य ए॒वं वि॒द्वाँस॑श् चतुर्दशरा॒त्रम् आस॑त उ॒भयो॑र् ए॒व लो॒कयो॑र् ऋध्नुवन्त्य् अ॒स्मिँश् चा॒मुष्मिँ॑श् च
चतुर्दशरा॒त्रो भ॑वति
स॒प्त ग्रा॒म्या ओष॑धयः स॒प्तार॒ण्या उ॒भयी॑षा॒म् अव॑रुद्ध्यै॒
यत् प॑रा॒चीना॑नि प्रा॒ष्ठानि॑ ॥
भव॒न्त्य् अमु॑म् ए॒व तैर् लो॒कम् अ॒भि ज॑यन्ति॒
यत् प्र॑ती॒चीना॑नि पृ॒ष्ठानि॒ भव॑न्ती॒मम् ए॒व तैर् लो॒कम् अ॒भि ज॑यन्ति
त्रयस्त्रिँ॒शौ म॑ध्य॒त स्तोमौ॑ भवतः॒ साम्रा॑ज्यम् ए॒व ग॑छन्ति \
अधिरा॒जौ भ॑वतोऽधिरा॒जा ए॒व स॑मा॒नाना॑म् भवन्ति \
अतिरा॒त्रा व॒भितो॑ भवतः॒
परि॑गृहीत्यै ॥
प्र॒जाप॑तिः सुव॒र्गं लो॒कम् ऐ॒त्
तं दे॒वा अन्व् आ॑यन्
तान् आ॑दि॒त्याश् च॑ प॒शव॒श् चान्व् आ॑य॒न्
ते दे॒वा अ॑ब्रुवन्
यान् प॒शून् उ॒पाजी॑विष्म॒ त इ॒मे॑ऽन्वाग्म॒न्न् इति॒
तेभ्य॑ ए॒तं च॑तुर्दशरा॒त्रम् प्रत्य् औ॑ह॒न्
त आ॑दि॒त्याः पृ॒ष्ठैः सु॑व॒र्गं लो॒कम् आरो॑हन् त्र्य॒हाभ्या॑म् अ॒स्मिँ लो॒के प॒शून् प्रत्य् औ॑हन्
पृ॒ष्ठैर् आ॑दि॒त्या अ॒मुष्मिँ॑ लो॒क आर्ध्नु॑वन् त्र्य॒हाभ्या॑म् अ॒स्मिन् ॥
लो॒के प॒शव॑स् \
य ए॒वं वि॒द्वाँस॑श् चतुर्दशरा॒त्रम् आस॑त उ॒भयो॑र् ए॒व लो॒कयो॑र् ऋध्नुवन्त्य् अस्मिँश् चा॒मुष्मिँ॑श् च
पृ॒ष्ठैर् ए॒वामुष्मिँ॑ लो॒क ऋ॑ध्नु॒वन्ति॑ त्र्य॒हाभ्या॑म् अ॒स्मिँ लो॒के
ज्योति॒र् गौर् आयु॒र् इति॑ त्र्य॒हो भ॑वति \
इ॒यं वाव ज्योति॑र् अ॒न्तरि॑क्षं॒ गौर् अ॒साव् आयु॑स् \
इ॒मान् ए॒व लो॒कान् अ॒भ्यारो॑हन्ति॒
यद् अ॒न्यतः॑ पृ॒ष्ठानि॒ स्युर् विवि॑वधँ स्यात् \
मध्ये॑ पृ॒ष्ठानि॑ भवन्ति सविवध॒त्वाय॑ ॥
ओजो॒ वै वी॒र्य॑म् पृ॒ष्ठानि॒ \
ओज॑ ए॒व वी॒र्य॑म् मध्य॒तो द॑धते
बृहद्रथंत॒राभ्यां॑ यन्ति \
इ॒यं वाव र॑थंत॒रम् अ॒सौ बृ॒हत् \
आ॒भ्याम् ए॒व य॑न्ति॒ \
अथो॑ अ॒नयो॑र् ए॒व प्रति॑ तिष्ठनि \
ए॒ते वै य॒ज्ञस्या॑ञ्ज॒साय॑नी स्रु॒ती
ताभ्या॑म् ए॒व सु॑व॒र्गं लो॒कं य॑न्ति॒
परा॑ञ्चो॒ वा ए॒ते सु॑व॒र्गं लो॒कम् अ॒भ्यारो॑हन्ति॒ ये प॑रा॒चीना॑नि पृ॒ष्ठान्य् उ॑प॒यन्ति॑
प्र॒त्यञ् त्र्य॒हो भ॑वति प्र॒त्यव॑रूढ्या॒ अथो॒ प्रति॑ष्ठियै \
उ॒भयो॑र् लो॒कयो॑र् ऋ॒द्ध्वोत् ति॑ष्ठन्ति॒
चतु॑र्दशै॒तास् \
तासां॒ या दश॒ दशा॑क्षरा वि॒राड् अन्नं॑ वि॒राड् वि॒राजै॒वान्नाद्य॒म् अव॑ रुन्धते
याश् चत॑स्र॒श् चत॑स्रो॒ दिशो॑ दि॒क्ष्व् ए॑व प्रति॑ तिष्ठन्ति \
अतिरा॒त्राव् अ॒भितो॑ भवतः॒ परि॑गृहीत्यै ॥
इन्द्रो॒ वै स॒दृङ् दे॒वता॑भिर् आसी॒त्
स न व्या॒वृत॑म् अगछ॒त्
स प्र॒जाप॑ति॒म् उपा॑धाव॒त्
तस्मा॑ ए॒तम् प॑ञ्चदशरा॒त्रम् पाय॑छ॒त्
तम् आह॑र॒त्
तेना॑यजत॒
ततो॒ वै सो॑ऽन्याभि॑र् दे॒वता॑भिर् व्या॒वृत॑म् अगछत् \
य ए॒वं वि॒द्वाँसः॑ पञ्चदशरा॒त्रम् आस॑ते व्या॒वृत॑म् ए॒व पा॒प्मना॒ भ्रातृ॑व्येण गछन्ति॒
ज्योति॒र् गौर् आयु॒र् इति॑ त्र्य॒हो भ॑वति \
इ॒यं वाव ज्योति॑र् अ॒न्तरि॑क्षम् ॥
गौर् अ॒साव् आयु॑स् \
ए॒ष्व् ए॑व लो॒केषु॒ प्रति॑ तिष्ठन्ति॒ \
अस॑त्त्रं॒ वा ए॒तद् यद् अ॑छन्दो॒मम् \
यच् छ॑न्दो॒मा भव॑न्ति॒ तेन॑ स॒त्त्रम् \
दे॒वता॑ ए॒व पृ॒ष्ठैर् अव॑ रुन्धते प॒शूञ् छ॑न्दो॒मैस् \
ओज॑स्य् ए॒व वी॒र्ये॑ प॒शुषु॒ प्रति॑ तिष्ठन्ति
पञ्चदशरा॒त्रो भ॑वति
पञ्चद॒शो वज्र॑स् \
वज्र॑म् ए॒व भ्रातृ॑व्येभ्यः॒ प्र ह॑रन्ति \
अतिरा॒त्राव् अ॒भितो॑ भवतस् \
इ॒न्द्रि॒यस्य॒ परि॑गृहीत्यै ॥
इन्द्रो॒ वै शि॑थि॒ल इ॒वाप्र॑तिष्ठित आसी॒त्
सोऽसु॑रेभ्योऽबिभे॒त्
स प्र॒जाप॑ति॒म् उपा॑धाव॒त्
तस्मा॑ ए॒तम् प॑ञ्चदशरा॒त्रं वज्र॒म् प्राय॑छ॒त्
तेनासु॑रान् परा॒भाव्य॑ वि॒जित्य॒ श्रिय॑म् अगछत् \
अ॒ग्नि॒ष्टुता॑ पा॒प्मानं॒ निर् अ॑दहत पञ्चदशरा॒त्रेणौजो॒ बल॑म् इन्द्रि॒यं वी॒र्य॑म् आ॒त्मन्न् अ॑धत्त॒
य ए॒वं वि॒द्वाँसः॑ पञ्चदशरा॒त्रम् आस॑ते॒ भ्रातृ॑व्यान् ए॒व प॑रा॒भाव्य॑ वि॒जित्य॒ श्रियं॑ गछन्ति \
अग्नि॒ष्टुता॑ पा॒प्मानं॒ निः ॥
द॒ह॒न्ते॒ प॒ञ्च॒द॒श॒रा॒त्रेणौजो॒ बल॑म् इन्द्रि॒यं वी॒र्य॑म् आ॒त्मन् द॑धते \
ए॒ता ए॒व प॑श॒व्याः॑
पञ्च॑दश॒ वा अ॑र्ध॒मास॑स्य॒ रात्र॑यस् \
अ॒र्ध॒मा॒स॒शः सं॑वत्स॒र आ॑प्यते
संवत्स॒रम् प॒शवोऽनु॒ प्र जा॑यन्ते॒
तस्मा॑त् पश॒व्या॑स् \
ए॒ता ए॒व सु॑व॒र्ग्याः॑
पञ्च॑दश॒ वा अ॑र्धमा॒सस्य॒ रात्र॑यस् \
अ॒र्ध॒मा॒स॒शः सं॑वत्स॒र आ॑प्यते
संवत्स॒रः सु॑व॒र्गो लो॒कस्
तस्मा॑द् सुव॒र्ग्या॑स् \
ज्योति॒र् गौर् आयु॒र् इति॑ त्र्य॒हो भ॑वति \
इ॒यं वाव ज्योति॑र् अ॒न्तरि॑क्षम् ॥
गौर् अ॒साव् आयु॑स् \
इ॒मान् ए॒व लो॒कान् अ॒भ्यारो॑हन्ति॒
यद् अ॒न्यतः॑ पृ॒ष्ठानि॒ स्युर् विवि॑वधँ स्यात् \
मध्ये॑ पृ॒ष्ठानि॑ भवन्ति सविवध॒त्वाय॒ \
ओजो॒ वै वी॒र्य॑म् पृ॒ष्ठानि॒ \
ओज॑ ए॒व वी॒र्य॑म् मध्य॒तो द॑धते
बृहद्रथंत॒राभ्यां॑ यन्ति \
इ॒यं वाव र॑थंत॒रम् अ॒सौ बृ॒हत् \
आ॒भ्याम् ए॒व य॑न्ति॒ \
अथो॑ अ॒नयो॑र् ए॒व प्रति॑ तिष्ठनि \
ए॒ते वै य॒ज्ञस्या॑ञ्ज॒साय॑नी स्रु॒ती
ताभ्या॑म् ए॒व सु॑व॒र्गं लो॒कम् ॥
य॒न्ति॒
परा॑ञ्चो॒ वा ए॒ते सु॑व॒र्गं लो॒कम् अ॒भ्यारो॑हन्ति॒ ये प॑रा॒चीना॑नि पृ॒ष्ठान्य् उ॑प॒यन्ति॑
प्र॒त्यञ् त्र्य॒हो भ॑वति प्र॒त्यव॑रूढ्या॒ अथो॒ प्रति॑ष्ठियै \
उ॒भयो॑र् लो॒कयो॑र् ऋ॒द्ध्वोत् ति॑ष्ठन्ति॒
पञ्च॑दशै॒तास्
तासां॒ या दश॒ दशा॑क्षरा वि॒राड् अन्नं॑ वि॒राड् वि॒राजै॒वान्नाद्य॒म् अव॑ रुन्धते
याः पञ्च॑ पञ्च॒ दिशः॑ दि॒क्ष्व् ए॑व प्रति॑ तिष्ठन्ति \
अतिरा॒त्राव् अ॒भितो॑ भवतस् \
इ॒न्द्रि॒यस्य॑ वी॒र्य॑स्य प्र॒जाय॑ति पशू॒नाम् परि॑गृहीत्यै ॥
प्र॒जाप॑तिर् अकामयत \
अन्ना॒दः स्या॒म् इति॒
स ए॒तँ स॑प्तदशरा॒त्रम् अ॑पश्य॒त्
तम् आह॑र॒त्
तेना॑यजत॒
ततो॒ वै सो॑ऽन्ना॒दो॑ऽभवत् \
य ए॒वं वि॒द्वाँसः॑ सप्तदशरा॒त्रम् आस॑तेऽन्ना॒दा ए॒व भ॑वन्ति
पञ्चा॒हो भ॑वति॒
पञ्च॒ वा ऋ॒तवः॑ संवत्स॒रस् \
ऋ॒तुष्व् ए॒व सं॑वत्स॒रे प्रति॑ तिष्ठन्ति॒ \
अथो॒ पञ्चा॑क्षरा प॒ङ्क्तिः
पाङ्क्तो॑ य॒ज्ञस् \
यज्ञ॑म् ए॒वाव॑ रुन्धते॒ \
अस॑त्त्रं॒ वा ए॒तत् ॥
यद् अ॑छन्दो॒मम् \
यच् छ॑न्दो॒मा भव॑न्ति॒ तेन॑ स॒त्त्रम् \
दे॒वता॑ ए॒व पृ॒ष्ठैर् अव॑ रुन्धते प॒शूञ् छ॑न्दो॒मैस् \
ओज॑स्य् ए॒व वी॒र्ये॑ प॒शुषु॒ प्रति॑ तिष्ठन्ति
सप्तदशरा॒त्रो भ॑वति
सप्तद॒शः प्र॒जाप॑तिः
प्र॒जाप॑ते॒र् आप्त्यै॑ \
अतिरा॒त्राव् अ॒भितो॑ भवतस् \
अ॒न्नाद्य॑स्य॒ परि॑गृहीत्यै ॥
सा वि॒राड् वि॒क्रम्या॑तिष्ठ॒द् ब्रह्म॑णा दे॒वेष्व् अन्ने॒नासु॑रेषु॒
ते दे॒वा अ॑कामयन्त \
उ॒भयँ॒ सं वृ॑ञ्जीमहि॒ ब्रह्म॒ चान्नं॒ चेति॒
त ए॒ता विँ॑श॒तिँ रात्री॑र् अपश्य॒न्
ततो॒ वै त उ॒भयँ॒ सम् अ॑वृञ्जत॒ ब्रह्म॒ चान्नं॑ च ब्रह्मवर्च॒सिनो॑ऽन्ना॒दा अ॑भव॒न्
य ए॒वं वि॒द्वाँस॑ ए॒ता आस॑त उ॒भय॑म् ए॒व सं वृ॑ञ्जते॒ ब्रह्म॒ चान्नं॑ च ॥
ब्र॒ह्म॒व॒र्च॒सिनो॑ऽन्ना॒दा भ॑वन्ति॒
द्वे वा ए॒ते वि॒राजौ॒
तयो॑र् ए॒व नाना॒ प्रति॑ तिष्ठन्ति
विँ॒शो वै पुरु॑षो॒ दश॒ हस्त्या॑ अ॒ङ्गुल॑यो॒ दश॑ पद्यास् \
यावा॑न् ए॒व पुरु॑ष॒स् तम् आ॒प्त्वोत् ति॑ष्ठन्ति॒
ज्योति॒र् गौर् आयु॒र् इति॑ त्र्य॒हा भ॑वन्ति \
इ॒यं वाव ज्योति॑र् अ॒न्तरि॑क्षं॒ गौर् अ॒साव् आयु॑स् \
इ॒मान् ए॒व लो॒कान् अ॒भ्यारो॑हन्ति \
अभिपू॒र्वं त्र्य॒हा भ॑वन्ति \
अभिपू॒र्वम् ए॒व सु॑व॒र्गम् ॥
लो॒कम् अ॒भ्यारो॑हन्ति॒
यद् अ॒न्यतः॑ पृ॒ष्ठानि॒
मध्ये॑ पृ॒ष्ठानि॑ भवन्ति सविवध॒त्वाय॑ ॥
ओजो॒ वै वी॒र्य॑म् पृ॒ष्ठानि॒ \
ओज॑ ए॒व वी॒र्य॑म् मध्य॒तो द॑धते
बृहद्रथंत॒राभ्यां॑ यन्ति \
इ॒यं वाव र॑थंत॒रम् अ॒सौ बृ॒हत् \
आ॒भ्याम् ए॒व य॑न्ति॒ \
अथो॑ अ॒नयो॑र् ए॒व प्रति॑ तिष्ठनि \
ए॒ते वै य॒ज्ञस्या॑ञ्ज॒साय॑नी स्रु॒ती
ताभ्या॑म् ए॒व सु॑व॒र्गं लो॒कं य॑न्ति॒
परा॑ञ्चो॒ वा ए॒ते सु॑व॒र्गं लो॒कम् अ॒भ्यारो॑हन्ति॒ ये प॑रा॒चीना॑नि पृ॒ष्ठान्य् उ॑प॒यन्ति॑
प्र॒त्यञ् त्र्य॒हो भ॑वति प्र॒त्यव॑रूढ्या॒ अथो॒ प्रति॑ष्ठियै \
उ॒भयो॑र् लो॒कयो॑र् ऋ॒द्ध्वोत् ति॑ष्ठन्ति \
अतिरा॒त्राव् अ॒भितो॑ भवतस् \
ब्र॒ह्म॒व॒र्च॒सस्या॒न्नाद्य॑स्य॒ परि॑ गृहीत्यै ॥
अ॒साव॑ आदि॒त्यो॑ऽस्मिँ लो॒क आ॑सी॒त्
तं दे॒वाः पृ॒ष्ठैः प॑रि॒गृह्य॑ सुव॒र्गं लो॒कम् अ॑गमय॒न्
परै॑र् अ॒वस्ता॒त् पर्य् अ॑गृह्णन् दिवाकी॒र्त्ये॑न सुव॒र्गे लो॒के प्रत्य् अ॑स्थापय॒न्
परैः॑ प॒रस्ता॒त् पर्य् अ॑गृह्णन् पृ॒ष्ठैर् उ॒पावा॑रोहन् \
स वा अ॒साव् आ॑दि॒त्यो॑ऽमुष्मिँ॑ लो॒के परै॑र् उभ॒यतः॒ परि॑गृहीतस् \
यत् पृ॒ष्ठानि॒ भव॑न्ति सुव॒र्गम् ए॒व तैर् लो॒कं यज॑माना यन्ति॒
परै॑र् अ॒वस्ता॒त् परि॑ गृह्णन्ति दिवाकी॒र्त्ये॑न ॥
सु॒व॒र्गे लो॒के प्रति॑ तिष्ठन्ति॒
परैः॑ प॒रस्ता॒त् परि॑ गृह्णन्ति पृ॒ष्ठैर् उ॒पाव॑रोहन्ति॒
यत् परे॑ प॒रस्ता॒न् न स्युः परा॑सुव॒र्गाल् लो॒कान् निष् प॑द्येरन्ञ्चः॒
यद् अ॒वस्ता॒न् न स्युः प्र॒जा निर् द॑हेयुस् \
अ॒भितो॑ दिवाकी॒र्त्य॑म् परः॑सामानो भवन्ति
सुव॒र्ग ए॒वैनाँ॑ लो॒क उ॑भ॒यतः॒ परि॑ गृह्णन्ति॒
यज॑माना॒ वै दि॑वाकी॒र्त्य॑म् \
सं॒व॒त्स॒रः परः॑सामानस् \
अ॒भितो॑ दिवाकी॒र्त्य॑म् परः॑सामानो भवन्ति
संवत्स॒र ए॒वोभ॒यतः॑ ॥
प्रति॑ तिष्ठन्ति
पृ॒ष्ठं वै दि॑वाकी॒र्त्य॑म् पा॒र्श्वे परः॑सामानस् \
अ॒भितो॑ दिवाकी॒र्त्य॑म् परः॑सामानो भवन्ति॒
तस्मा॒द् भितः॑ पृ॒ष्ठम् पा॒र्श्वे
भूयि॑ष्ठा॒ ग्रहा॑ गृह्यन्ते
भूयि॑ष्ठँ शस्यते
य॒ज्ञस्यै॒व तन् म॑ध्य॒तो ग्र॒न्थिं ग्र॑थ्न॒न्त्य् अवि॑स्रँसाय
स॒प्त गृ॑ह्यन्ते
स॒प्त वै शी॑र्ष॒ण्याः॑ प्रा॒णाः
प्रा॒णान् ए॒व यज॑मानेषु दधति॒
यत् प॑रा॒चीना॑नि पृ॒ष्थानि॒ भव॑न्त्य् अ॒मुम् ए॒व तैर् लो॒कम् अ॒भ्यारो॑हन्ति॒
यद् इ॒मं लो॒कं न ॥
प्र॒त्य॒व॒रोहे॑यु॒र् उद् वा॒ माद्ये॑यु॒र् यज॑मानाः॒ प्र वा॑ मीयेर॒न्
यत् प्र॑ती॒चीना॑नि पृ॒ष्ठानि॒ भव॑न्ति \
इ॒मम् ए॒व तैर् लो॒कम् प्र॒त्यव॑रोहन्ति॒ \
अथो॑ अ॒स्मिन्न् ए॒व लो॒के प्रति॑ तिष्ठ॒न्त्य् अनु॑न्मादाय॒ \
इन्द्रो॒ वा अप्र॑तिष्ठित आसी॒त्
स प्र॒जाप॑ति॒म् उपा॑धाव॒त्
तस्मा॑ ए॒तम् ए॑कविँशतिरा॒त्रम् प्राय॑छ॒त्
तम् आह॑र॒त्
तेना॑यजत॒
ततो॒ वै स प्रत्य् अ॑तिष्ठत् \
ये भु॑या॒जिनोऽप्र॑तिष्ठिताः ॥
स्युस् त ए॑कविँशतिरा॒त्रम् आ॑सीरन्
द्वाद॑श॒ मासाः॒ पञ्च॒र्तव॒स् त्रय॑ इ॒मे लो॒का अ॒साव् आ॑दि॒त्य ए॑कविँ॒शस् \
ए॒ताव॑न्तो॒ वै दे॑वलो॒कास्
तेष्व् ए॒व य॑थापू॒र्वम् प्रति॑ तिष्ठन्ति \
अ॒साव् आ॑दि॒त्यो न व्य् अ॑रोचत॒
स प्र॒जाप॑ति॒म् उपा॑धाव॒त्
तस्मा॑ ए॒तम् ए॑कविँशति रा॒त्रम् प्राय॑छ॒त्
तम् आह॑र॒त्
तेना॑यजत॒
ततो॒ वै सो॑ऽरोचत॒
य ए॒वं वि॒द्वाँस॑ एकविँशतिरा॒त्रम् आस॑ते॒ रोच॑न्त ए॒व \
ए॑क्विँशतिरा॒त्रो भ॑वति॒
रुग् वा ए॑कविँ॒शस् \
रुच॑म् ए॒व ग॑छ॒न्त्य् अथो॑ प्रति॒ष्ठाम् ए॒व
प्र॑ति॒ष्ठा ह्य् ए॑कविँ॒शस् \
अ॒ति॒रा॒त्राव् अ॒भितो॑ भवतो ब्रह्मवर्च॒सस्य॒ परि॑गृहीत्यै ॥
अ॒र्वाङ् य॒ज्ञः सं क्रा॑मत्व् अ॒मुष्मा॒द् अधि॒ माम् अ॒भि । ऋषी॑णां॒ यः पु॒रोहि॑तः ॥
निर्दे॑वं॒ निर्वी॑रं कृ॒त्वा विष्क॑न्धं॒ तस्मि॑न् हीयतां॒ यो॑ऽस्मान् द्वेष्टि॒ शरी॑रं यज्ञशम॒लं कुसी॑दं॒ तस्मि॑न्त् सीदतु॒ यो॑ऽस्मान् द्वेष्टि॑ ॥
यज्ञ॑ य॒ज्ञस्य॒ यत् तेज॒स् तेन॒ सं क्रा॑म॒ माम् अ॒भि । ब्रा॒ह्म॒णान् ऋ॒त्विजो॑ दे॒वान् य॒ज्ञस्य॒ तप॑सा॒ ते स॑वा॒हम् आ हु॑वे ॥
इ॒ष्टेन॑ प॒क्वम् उप॑ ॥
ते॒ हु॒वे॒ स॒वाहम् । सं ते॑ वृञ्जे सुकृ॒तँ सम् प्र॒जाम् प॒शून् ॥
प्रै॒षान्त् सा॑मिधे॒नीर् आ॑घा॒राव् आज्य॑भागा॒व् आश्रु॑तम् प्र॒त्याश्रु॑त॒म् आ शृ॑णामि ते । प्र॒या॒जा॒नू॒या॒जान्त् स्वि॑ष्ट॒कृत॒म् इडा॑म् आ॒शिष॒ आ वृ॑ञ्जे॒ सुवः॑ ॥
अ॒ग्निनेन्द्रे॑ण॒ सोमे॑न॒ सर॑स्वत्या॒ विष्णु॑ना दे॒वता॑भिः । या॒ज्या॒नु॒वा॒क्या॑भ्या॒म् उप॑ ते हुवे स्वा॒हं य॒ज्ञम् आ द॑दे ते॒ वष॑ट्कृतम् ॥
स्तु॒तँ श॒स्त्रम् प्र॑तिग॒रं ग्रह॒म् इडा॑म् आ॒शिषः॑ ॥
आ वृ॑ञ्जे॒ सुवः॑ । प॒त्नी॒सं॒या॒जान् उप॑ ते हुवे सवा॒हँ स॑मिष्टय॒जुर् आ द॑दे॒ तव॑ ॥
प॒शून्त् सु॒तम् पु॑रो॒डाशा॒न्त् सव॑ना॒न्य् ओत य॒ज्ञम् । दे॒वान्त् सेन्द्रा॒न् उप॑ ते हुवे सवा॒हम् अ॒ग्निमु॑खा॒न्त् सोम॑वतो॒ ये च॒ विश्वे॑ ॥
भू॒तम् भव्य॑म् भवि॒ष्यद् वष॒ट् स्वाहा॒ नम॑स् \
ऋक् साम॒ यजु॒र् वष॒ट् स्वाहा॒ नम॑स् \
गा॒य॒त्री त्रि॒ष्टुब् जग॑ती॒ वष॒ट् स्वाहा॒ नमः॑
पृथि॒व्य् अ॑न्तरि॑क्षं॒ द्यौर् वष॒ट् स्वाहा॒ नम॑स् \
अ॒ग्निर् वा॒युः सूर्यो॒ वष॒ट् स्वाहा॒ नमः॑
प्रा॒णो व्या॒नो॑ऽपा॒नो वष॒ट् स्वाहा॒ नम॑स् \
अन्नं॑ कृ॒षिर् वृष्टि॒र् वष॒ट् स्वाहा॒ नमः॑
पि॒ता पु॒त्रः पौत्रो॒ वष॒ट् स्वाहा॒ नम॑स् \
भूर् भुवः॒ सुव॒र् वष॒ट् स्वाहा॒ नमः॑ ॥
आ मे॑ गृ॒हा भ॑व॒न्त्व् आ प्र॒जा म॒ आ मा॑ य॒ज्ञो वि॑शतु वी॒र्या॑वान् । आपो॑ दे॒वीर् य॒ज्ञिया॒ मा वि॑शन्तु स॒हस्र॑स्य मा भू॒मा मा प्र हा॑सीत् ॥
आ मे॒ ग्रहो॑ भव॒त्व् आ पु॑रो॒रुक् स्तु॑तश॒स्त्रे मा वि॑शताँ स॒मीची॑ । आ॒दि॒त्या रु॒द्रा वस॑वो मे सद॒स्याः॑ स॒हस्र॑स्य मा भू॒मा मा प्र हा॑सीत् ॥
आ मा॑ग्निष्टो॒मो वि॑शतू॒क्थ्य॑श् चातिरा॒त्रो मा वि॑शत्व् आपिशर्व॒रः । ति॒रोअ॒ह्नि॒या॒ मा सुहु॑ता॒ आ वि॑शन्तु स॒हस्र॑स्य मा भू॒मा मा॒ प्र हा॑सीत् ॥
अ॒ग्निना॒ तपोऽन्व् अ॑भवत् \
वा॒चा ब्रह्म॑
म॒णिना॑ रू॒पाणि॒ \
इन्द्रे॑ण दे॒वान्
वाते॑न प्रा॒णान् \
सूर्ये॑ण॒ द्याम् \
च॒न्द्रम॑सा॒ नक्ष॑त्राणि
य॒मेन॑ पि॒तृन्
राज्ञा॑ मनु॒ष्या॑न्
फ॒लेन॑ नादे॒यान्
अ॑जग॒रेण॑ स॒र्पान्
व्या॒घ्रेणा॑र॒ण्यान् प॒शून् \
श्ये॒नेन॑ पत॒त्रिण॑स् \
वृष्णाश्वा॑न्
ऋष॒भेण॒ गास् \
ब॒स्तेना॒जास् \
वृ॒ष्णिनावी॑स् \
व्री॒हिणा॑न्नानि॒
यवे॒नौष॑धीस् \
न्य॒ग्रोधे॑न॒ वन॒स्पती॑न्
उदु॒म्बरे॒णोर्ज॑म् \
गा॒य॒त्रि॒या छन्दाँ॑सि
त्रि॒वृता॒ स्तोमा॑न्
ब्रा॒ह्म॒णेन॒ वाच॑म् ॥
स्वाहा॒धिम् आधी॑ताय॒ स्वाहा॒ स्वाहाधी॑त॒म्
मन॑से॒ स्वाहा॒ स्वाहा॒ मनः॑
प्र॒जाप॑तये॒ स्वाहा॑
काय॒ स्वाहा॒
कस्मै॒ स्वाहा॑
कत॒मस्मै॒ स्वाहा॒ \
अदि॑त्यै॒ स्वाहा॒ \
अदि॑त्यै म॒ह्यै॑ स्वाहा॒ \
अदि॑त्यै सुमृडी॒कायै॒ स्वाहा॒
सर॑स्वत्यै॒ स्वाहा॒
सर॑स्वत्यै बृह॒त्यै॑ स्वाहा॒
सर॑स्वत्यै पाव॒कायै॒ स्वाहा॑
पू॒ष्णे स्वाहा॑
पू॒ष्णे प्र॑प॒थ्या॑य॒ स्वाहा॑
पू॒ष्णे न॒रंधि॑षाय॒ स्वाहा॒
त्वष्ट्रे॒ स्वाहा॒
त्वष्ट्रे॑ तु॒रीपा॑य॒ स्वाहा॒
त्वष्ट्रे॑ पुरु॒रूपा॑य॒ स्वाहा॒
विष्ण॑वे॒ स्वाहा॒
विष्ण॑वे निखुर्य॒पाय॒ स्वाहा॒
विष्ण॑वे निभूय॒पाय॒ स्वाहा॑ ॥
द॒द्भ्यः स्वाहा॒
हनू॑भ्याँ { स्वाह्\ ^ स्वाहा॑ }
\ओष्ठा॑भ्याँ॒ स्वाहा॒
मुखा॑य॒ स्वाहा॑
नासि॑काभ्याँ॒ स्वाहा॑ \
अ॒क्षीभ्याँ॒ स्वाहा॒
कर्णा॑भ्याँ॒ स्वाहा॑
पा॒र इ॒क्षवो॑ऽवा॒र्ये॑भ्यः॒ पक्ष्म॑भ्यः॒ स्वाहा॑ \
अवा॒र इ॒क्षवः॑ पा॒र्ये॑भ्यः॒ पक्ष्म॑भ्यः॒ स्वाहा॑
शी॒र्ष्णे स्वाहा॑
भ्रू॒भ्याँ स्वाहा॑
ल॒लाटा॑य॒ स्वाहा॑
मू॒र्ध्ने स्वाहा॑
म॒स्तिष्का॑य॒ स्वाहा॒
केशे॑भ्यः॒ स्वाहा॒
वहा॑य॒ स्वाहा॑
ग्री॒वाभ्यः॒ स्वाहा॑
स्क॒न्धेभ्यः॒ स्वाहा॑
कीक॑साभ्यः॒ स्वाहा॑
पृ॒ष्टीभ्यः॒ स्वाहा॑
पाज॒स्या॑य॒ स्वाहा॑
पा॒र्श्वाभ्याँ॒ स्वाहा॑ ॥
अँसा॑भ्याँ॒ स्वाहा॑
दो॒षभ्याँ॒ स्वाहा॑
बा॒हुभ्याँ॒ स्वाहा॒
जङ्घा॑भ्याँ॒ स्वाहा॒
श्रोणी॑भ्याँ॒ स्वाहा॑ \
ऊ॒रुभ्याँ॒ स्वाहा॑ \
अष्ठी॒वद्भ्याँ॒ स्वाहा॒
जङ्घा॑भ्याँ॒ स्वाहा॑
भ॒सदे॒ स्वाहा॑
शिख॒ण्डेभ्यः॒ स्वाहा॑
वाल॒धाना॑य॒ स्वाहा॑ \
आ॒ण्डाभ्याँ॒ स्वाहा॒
शेपा॑य॒ स्वाहा॒
रेत॑से॒ स्वाहा॑
प्र॒जाभ्यः॒ स्वाहा॑
प्र॒जन॑नाय॒ स्वाहा॑
प॒द्भ्यः स्वाहा॑
श॒फेभ्यः॒ स्वाहा॒
लोम॑भ्यः॒ स्वाहा॑
त्व॒चे स्वाहा॒
लोहि॑ताय॒ स्वाहा॑
माँ॒साय॒ स्वाहा॑
स्नाव॑भ्यः॒ स्वाहा॑ \
अ॒स्थभ्यः॒ स्वाहा॑
म॒ज्जभ्यः॒ स्वाहा॒ \
अङ्गे॑भ्यः॒ स्वाहा॑ \
आ॒त्मने॒ स्वाहा॒
सर्व॑स्मै॒ स्वाहा॑ ॥
अ॒ञ्ज्ये॒ताय॒ स्वाहा॑ \
अञ्जिस॒क्थाय॒ स्वाहा॑
शिति॒पदे॒ स्वाहा॒
शिति॑ककुदे॒ स्वाहा॑
शिति॒रन्ध्रा॑य॒ स्वाहा॑
शितिपृ॒ष्ठाय॒ स्वाहा॑
शि॒त्यँसा॑य॒ स्वाहा॑
पुष्प॒कर्णा॑य॒ स्वाहा॑
शि॒त्योष्ठा॑य॒ स्वाहा॑
शिति॒भ्रवे॒ स्वाहा॒
शिति॑भसदे॒ स्वाहा॑
श्वे॒तानू॑काशाय॒ स्वाहा॑ \
अ॒ञ्जये॒ स्वाहा॑
ल॒लामा॑य॒ स्वाहा॒ \
असि॑तज्ञवे॒ स्वाहा॑
कृष्णै॒ताय॒ स्वाहा॑
रोहितै॒ताय॒ स्वाहा॑ \
अरुणै॒ताय॒ स्वाहा॑ \
ई॒दृशा॑य॒ स्वाहा॑
की॒दृशा॑य॒ स्वाहा॑
ता॒दृशा॑य॒ स्वाहा॑
स॒दृशा॑य॒ स्वाहा॒
विस॑दृशाय॒ स्वाहा॒
सुस॑दृ॒शाय॒ स्वाहा॑
रू॒पाय॒ स्वाहा॒
सर्व॑स्मै॒ स्वाहा॑ ॥
कृ॒ष्णाय॒ स्वाहा॑
श्वे॒ताय॒ स्वाहा॑
पि॒शंगा॑य॒ स्वाहा॑
सा॒रंगा॑य॒ स्वाहा॑ \
अरु॒णाय॒ स्वाहा॑
गौ॒राय॒ स्वाहा॑
ब॒भ्रवे॒ स्वाहा॑
नकु॒लाय॒ स्वाहा॒
रोहि॑ताय॒ स्वाहा॒
शोणा॑य॒ स्वाहा॑
श्या॒वाय॒ स्वाहा॑
श्या॒माय॒ स्वाहा॑
पाक॒लाय॒ स्वाहा॑
सुरू॒पाय॒ स्वाहा॒ \
अनु॑रूपाय॒ स्वाहा॒
विरू॑पाय॒ स्वाहा॒
सरू॑पाय॒ स्वाहा॒
प्रति॑रूपाय॒ स्वाहा॑
श॒बला॑य॒ स्वाहा॑
कम॒लाय॒ स्वाहा॑
पृश्न॑ये॒ स्वाहा॑
पृश्निस॒क्थाय॒ स्वाहा॒
सर्व॑स्मै॒ स्वाहा॑ ॥
ओष॑धीभ्यः॒ स्वाहा॑
मूले॑भ्यः॒ स्वाहा॑
तूले॑भ्यः॒ स्वाहा॑
काण्डे॑भ्यः॒ स्वाहा॒
वल्शे॑भ्यः॒ स्वाहा॒
पुष्पे॑भ्यः॒ स्वाहा॒
फले॑भ्यः॒ स्वाहा॑
गृही॒तेभ्यः॒ स्वाहा॒ \
अगृ॑हीतेभ्यः॒ स्वाहा॒ \
अव॑पन्नेभ्यः॒ स्वाहा॒
शया॑नेभ्यः॒ स्वाहा॒
सर्व॑स्मै॒ स्वाहा॑ ॥
वन॒स्पति॑भ्यः॒ स्वाहा॑
मूले॑भ्यः॒ स्वाहा॑
तूले॑भ्यः॒ स्वाहा॒
स्कन्धो॑भ्यः॒ स्वाहा॑
शाखा॑भ्यः॒ स्वाहा॑
प॒र्णेभ्यः॒ स्वाहा॒
पुष्पे॑भ्यः॒ स्वाहा॒
फले॑भ्यः॒ स्वाहा॑
गृही॒तेभ्यः॒ स्वाहा॒ \
अगृ॑हीतेभ्यः॒ स्वाहा॒ \
अव॑पन्नेभ्यः॒ स्वाहा॒
शया॑नेभ्यः॒ स्वाहा॑
शि॒ष्टाय॒ स्वाहा॒ \
अति॑शिष्टाय॒ स्वाहा॒
परि॑शिष्टाय॒ स्वाहा॒
सँशि॑ष्टाय॒ स्वाहा॒ \
उच्छि॑ष्टाय॒ स्वाहा॑
रि॒क्ताय॒ स्वाहा॒ \
अरि॑क्ताय॒ स्वाहा॒
प्ररि॑क्ताय॒ स्वाहा॒
सँरि॑क्ताय॒ स्वाहा॒ \
उद्रि॑क्ताय॒ स्वाहा॒
सर्व॑स्मै॒ स्वाहा॑ ॥