सा॒ध्या वै दे॒वाः सु॑व॒र्गका॑मा ए॒तँ ष॑ड्रा॒त्रम् अ॑पश्य॒न्
तम् आह॑र॒न्
तेना॑यजन्त॒
ततो॒ वै ते सु॑व॒र्गं लो॒कम् आ॑य॒न्
य ए॒वं वि॒द्वाँसः॑ षड्रा॒त्रम् आस॑ते सुव॒र्गम् ए॒व लो॒कं य॑न्ति
देवस॒त्त्रं वै ष॑ड्रा॒त्रः
प्र॒त्यक्षँ॒ ह्य् ए॑तानि॑ पृ॒ष्ठानि॒
य ए॒वं वि॒द्वाँसः॑ षड्रा॒त्रम् आस॑ते सा॒क्षाद् ए॒व दे॒वता॑ अ॒भ्यारो॑हन्ति
षड्रा॒त्रो भ॑वति॒
षड् वा ऋ॒तवः॑
षाट् पृ॒ष्ठानि॑ ॥
पृ॒ष्ठैर् ए॒वर्तू॑न् अ॒न्वारो॑हन्त्य् ऋ॒तुभिः॑ संवत्स॒रम् \
ते सं॑वत्स॒र ए॒व प्रति॑ तिष्ठन्ति
बृहद्रथंत॒राभ्यां॑ यन्ति \
इ॒यं वाव र॑थंत॒रम् अ॒सौ बृ॒हत् \
आ॒भ्याम् ए॒व य॑न्ति॒ \
अथो॑ अ॒नयो॑र् ए॒व प्रति॑ तिष्ठन्ति \
ए॒ते वै य॒ज्ञस्या॑ञ्ज॒साय॑नी स्रुती
ताभ्या॑म् ए॒व सु॑व॒र्गं लो॒कं य॑न्ति
त्रि॒वृद् अ॑ग्निष्टो॒मो भ॑वति॒
तेज॑ ए॒वाव॑ रुन्धते
पञ्चद॒शो भ॑वति \
इन्द्रि॒यम् ए॒वाव॑ रुन्धते
सप्तद॒शः ॥
भ॒व॒ति॒ \
अ॒न्नाद्य॒स्याव॑रुद्ध्यै॒ \
अथो॒ प्रैव तेन॑ जायन्ते \
एकविँ॒शो भ॑वति॒ प्रति॑ष्ठित्यै॒ \
अथो॒ रुच॑म् ए॒वात्मन् द॑धते
त्रिण॒वो भ॑वति॒ विजि॑त्यै
त्रयस्त्रिँ॒शो भ॑वति॒
प्रति॑ष्ठित्यै
सदोहविर्धा॒निन॑ ए॒तेन॑ षड्रा॒त्रेण॑ यजेरन् \
आश्व॑त्थी हवि॒र्धानं॒ चाग्नी॑ध्रं च भवत॒स्
तद् धि सु॑व॒र्ग्यम् \
च॒क्रीव॑ती भवतः
सुव॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै \
उ॒लूख॑लबुध्नो॒ यूपो॑ भवति॒
प्रति॑ष्ठित्यै
प्राञ्चो॑ यान्ति
प्राङ् इ॑व॒ हि सु॑व॒र्गः ॥
लो॒कः
सर॑स्वत्या यान्ति \
ए॒ष वै दे॑व॒यानः॒ पन्था॒स्
तम् ए॒वान्वारो॑हन्ति \
आ॒क्रोश॑न्तो यान्ति॒ \
अव॑र्तिम् ए॒वान्यस्मि॑न् प्रति॒षज्य॑ प्रति॒ष्ठां ग॑छन्ति
य॒दा दश॑ श॒तं कु॒र्वन्त्य् अथैक॑म् उ॒त्थान॑म् \
श॒तायुः॒ पुरु॑षः श॒तेन्द्रि॑यस् \
आयु॑ष्य् ए॒वेन्द्रि॒ये प्रति॑ तिष्ठन्ति
य॒दा श॒तँ स॒हस्रं॑ कु॒र्वन्त्य् अथैक॑म् उ॒त्थान॑म् \
स॒हस्र॑सम्मितो॒ वा अ॒सौ लो॒कस् \
अ॒मुम् ए॒व लो॒कम् अ॒भि ज॑यन्ति
य॒दैषा॑म् प्र॒मीये॑त य॒दा वा॒ जीये॑र॒न्न् अथैक॑म् उ॒त्थान॑म् \
तद् धि ती॒र्थम् ॥
कु॒सु॒रु॒बिन्द॒ औद्दा॑लकिर् अकामयत
पशु॒मान्त् स्या॒म् इति॒
स ए॒तँ स॑प्तरा॒त्रम् आह॑र॒त्
तेना॑यजत॒
तेन॒ वै स याव॑न्तो ग्रा॒म्याः प॒शव॒स् तान् अवा॑रुन्द्ध॒
य ए॒वं वि॒द्वान्त् स॑प्तरा॒त्रेण॒ यज॑ते॒ याव॑न्त ए॒व ग्रा॒म्याः प॒शव॒स् तान् ए॒वाव॑ रुन्द्धे
सप्तरा॒त्रो भ॑वति
स॒प्त ग्रा॒म्याः प॒शवः॑ स॒प्तार॒ण्याः स॒प्त छन्दाँ॑सि \
उ॒भय॒स्याव॑रुद्ध्यै
त्रि॒वृद् अ॑ग्निष्टो॒मो भ॑वति॒
तेजः॑ ॥
ए॒वाव॑ रुन्द्धे
पञ्चद॒शो भ॑वति \
इन्द्रि॒यम् ए॒वाव॑ रुन्द्धे
सप्तद॒शो भ॑वति \
अ॒न्नाद्य॒स्याव॑रुद्ध्यै॒ \
अथो॒ प्रैव तेन॑ जायते \
एकविँ॒शो भ॑वति॒
प्रति॑ष्ठित्यै॒ \
अथो॒ रुच॑म् ए॒वात्मन् ध॑त्ते
त्रिण॒वो भ॑वति॒
विजि॑त्यै
पञ्चविँ॒शो॑ऽग्निष्टो॒मो भ॑वति प्र॒जाप॑ते॒र् आप्त्यै॑
महाव्र॒तवा॑न् अ॒न्नाद्य॒स्याव॑रुद्ध्यै
विश्व॒जित् सर्व॑पृष्ठोऽतिरा॒त्रो भ॑वति॒
सर्व॑स्या॒भिजि॑त्यै॒
यत् प्र॒त्यक्ष॒म् पूर्वे॒ष्व् अहः॑सु पृ॒ष्ठान्य् उ॑पे॒युः प्र॒त्यक्ष॑म् ॥
वि॒श्व॒जिति॒ यथा॑ दु॒ग्धाम् उ॑प॒सीद॑त्य् ए॒वम् उ॑त्त॒मम् अहः॑ स्यात् \
नैक॑रा॒त्रश् च॒न स्या॑त् \
बृ॒ह॒द्र॒थ॒न्त॒रे पूर्वे॒ष्व् अहः॒सूप॑ यन्ति \
इ॒यं वाव र॑थंत॒रम् अ॒सौ बृ॒हत् \
आ॒भ्याम् ए॒व न य॒न्त्य् अथो॑ अ॒नयो॑र् ए॒व प्रति॑ तिष्ठन्ति॒
यत् प्र॒त्यक्षं॑ विश्व॒जिति॑ पृ॒ष्ठान्य् उ॑प॒यन्ति॒ यथा॒ प्रत्तां॑ दु॒हे ता॒दृग् ए॒व तत् ॥
बृह॒स्पति॑र् अकामयत
ब्रह्मवर्च॒सी स्या॒म् इति॒
स ए॒तम् अ॑ष्टरा॒त्रम् अ॑पश्य॒त्
तम् आह॑र॒त्
तेना॑यजत॒
ततो॒ वै स ब्र॑ह्मवर्च॒स्य् अ॑भवत् \
य ए॒वं वि॒द्वान् अ॑ष्टरा॒त्रेण॒ यज॑ते ब्रह्मवर्च॒स्य् ए॑व भ॑वति \
अष्टरा॒त्रो भ॑वति \
अ॒ष्टाक्ष॑रा गाय॒त्री
गा॑य॒त्री ब्र॑ह्मवर्च॒सम् \
गा॒य॒त्रि॒यैव ब्र॑ह्मवर्च॒सम् अव॑ रुन्द्धे \
अष्टरा॒त्रो भ॑वति॒
चत॑र्सो॒ वै दिश॑स् \
चत॑र्सो॒ऽवान्त॑रदि॒शास् \
दि॒ग्भ्य ए॒व ब्र॑ह्मवर्च॒सम् अव॑ रुन्द्धे ॥
त्रि॒वृद् अ॑ग्निष्टो॒मो भ॑वति॒
तेज॑ ए॒वाव॑ रुन्द्धे
पञ्चद॒शो भ॑वति \
इन्द्रि॒यम् ए॒वाव॑ रुन्द्धे
सप्तद॒शो भ॑वत्य् अ॒न्नाद्य॒स्याव॑रुद्ध्यै॒ \
अथो॒ प्रैव तेन॑ जायते \
एकविँ॒शो भ॑वति॒
प्रति॑ष्ठित्यै॒ \
अथो॒ रुच॑म् ए॒वात्मन् ध॑त्ते
त्रिण॒वो भ॑वति॒
विजि॑त्यै
त्रयस्त्रिँ॒शो भ॑वति॒
प्रति॑ष्ठित्यै
पञ्चविँ॒शो॑ऽग्निष्टो॒मो भ॑वति प्र॒जाप॑ते॒र् आप्त्यै॑
महाव्र॒तवा॑न् अ॒न्नाद्य॒स्याव॑रुद्ध्यै
विश्व॒जित् सर्व॑पृष्ठोऽतिरा॒त्रो भ॑वति॒
सर्व॑स्या॒भिजि॑त्यै ॥
प्र॒जाप॑तिः प्र॒जा अ॑सृजत
ताः सृ॒ष्टाः क्षुधं॑ न्य् आ॑यन् \
स ए॒तं न॑वरा॒त्रम् अ॑पश्य॒त्
तम् आह॑र॒त्
तेना॑यजत॒
ततो॒ वै प्र॒जाभ्यो॑ऽकल्पत॒
यर्हि॑ प्र॒जाः क्षुधं॑ नि॒गछे॑यु॒स् तर्हि॑ नवरा॒त्रेण॑ यजेत \
इ॒मे हि वा ए॒तासां॑ लो॒का अकॢ॑प्ता॒ अथै॒ताः क्षुधं॒ नि ग॑छन्ति \
इ॒मान् ए॒वाभ्यो॑ लो॒कान् क॑ल्पयति
तान् कल्प॑मानान् प्र॒जाभ्योऽनु॑ कल्पते॒
कल्प॑न्ते ॥
अ॒स्मा॒ इ॒मे लो॒का ऊर्ज॑म् प्र॒जासु॑ दधाति
त्रिरा॒त्रेणै॒वेमं लो॒कं क॑ल्पयति त्रिरा॒त्त्रेणा॒न्तरि॑क्षं त्रिरा॒त्रेणा॒मुं लो॒कम् \
यथा॑ गु॒णे गु॒णम् अ॒न्वस्य॑त्य् ए॒वम् ए॒व तल् लो॒के लो॒कम् अन्व् अ॑स्यति॒ धृत्या॒ अशि॑थिलम्भावाय॒
ज्योति॒र् गौर् आयु॒र् इति॑ ज्ञा॒ता स्तोमा॑ भवन्ति \
इ॒यं वाव ज्योति॑र् अ॒न्तरि॑क्षं॒ गौर् अ॒साव् आयु॑स् \
ए॒ष्व् ए॑व लो॒केषु॒ प्रति॑ तिष्ठन्ति
ज्ञात्रं॑ प्र॒जानां॑ ॥
ग॒छ॒ति॒
न॒व॒रा॒त्रो भ॑वति \
अभिपू॒र्वम् ए॒वास्मि॒न् तेजो॑ दधाति॒
यो ज्योगा॑मयावी॒ स्यात् स न॑वरा॒त्रेण॑ यजेत
प्रा॒णा हि वा ए॒तस्याधृ॑तास् \
अथै॒तस्य॒ ज्योग् आ॑मयति प्रा॒णान् ए॒वास्मि॑न् दाधारस् \
अ॒त यदी॒तासु॒र् भव॑ति जी॒वत्य् ए॒व ॥
प्र॒जाप॑तिर् अकामयत॒
प्र जा॑ये॒येति॒
स ए॒तं दश॑होतारम् अपश्य॒त्
तम् अ॑जुहो॒त्
तेन॑ दशरा॒त्रम् अ॑सृजत॒
तेन॑ दशरा॒त्रेण॒ प्राजा॑यत
दशरा॒त्राय॑ दीक्षि॒ष्यमा॑णो॒ दश॑होतारं जुहुयात् \
दश॑होत्रै॒व द॑शरा॒त्रँ सृ॑जत॒
तेन॑ दशरा॒त्रेण॒ प्र जा॑यते
वैरा॒जो वा ए॒ष य॒ज्ञो यद् द॑शरा॒त्रस् \
य ए॒वं वि॒द्वान् द॑शरा॒त्रेण॒ यज॑ते वि॒राज॑म् ए॒व ग॑छति
प्राजाप॒त्यो वा ए॒ष य॒ज्ञो यद् द॑शरा॒त्रः ॥
य ए॒वं वि॒द्वान् द॑शरा॒त्रेण॒ यज॑ते॒ प्रैव॑ जायते॒ \
इन्द्रो॒ वै स॒दृङ् दे॒वता॑भिर् आसी॒त्
स न व्या॒वृत॑म् अगछ॒त्
स प्र॒जाप॑ति॒म् उपा॑धाव॒त्
तस्मा॑ ए॒तं द॑शरा॒त्रम् प्राय॑छ॒त्
तम् आह॑र॒त्
तेना॑यजत॒
ततो॒ वै सो॑ऽन्याभि॑र् दे॒वता॑भिर् व्या॒वृत॑म् अगछत् \
य ए॒वं वि॒द्वान् द॑शरा॒त्रेण॒ यज॑ते व्या॒वृत॑म् ए॒व पा॒प्मना॒ भ्रातृ॑व्येण गछति
त्रिक॒कुद् वै ॥
ए॒ष य॒ज्ञो यद् द॑शरा॒त्रः
क॒कुत् प॑ञ्चद॒शः क॒कुद् ए॑कविँ॒शः क॒कुत् त्र॑यस्त्रिँ॒शस् \
य ए॒वं वि॒द्वान् द॑शरा॒त्रेण॒ यज॑ते त्रिक॒कुद् ए॒व स॑मा॒नाना॑म् भवति॒
यजा॑मनः पञ्चद॒शो यज॑मान एकविँ॒शो यज॑मानस् त्रयस्त्रिँ॒शः पुर॒ इत॑रास् \
अ॒भि॒च॒र्यमा॑णो दशरा॒त्रेण॑ यजेत
देवपु॒रा ए॒व पर्य् ऊ॑हते॒
तस्य॒ न कुत॑श् च॒नोपा॑व्या॒धो भ॑वति॒
नैन॑म् अभि॒चर॑न्त् स्तृणुते
देवासु॒राः संय॑त्ता आस॒न्
ते दे॒वा ए॒ताः ॥
दे॒व॒पु॒रा अ॑पश्य॒न् यद् द॑शरा॒त्रस्
ताः पर्य् औ॑हन्त॒
तेषां॒ न कुत॑श् च॒नोपा॑व्या॒धो॑ऽभव॒त्
ततो॑ दे॒वा अभ॑व॒न् परासु॑रास् \
यो भ्रातृ॑व्यवा॒न्त् स्यात् स द॑शरा॒त्रेण॑ यजेत
देवपु॒रा ए॒व पर्य् ऊ॑हते॒
तस्य॒ न कुत॑श् च॒नोपा॑व्या॒धो भ॑वति॒
भव॑त्य् आ॒त्मना॒ परा॑स्य॒ भ्रातृ॑व्यो भवति॒
स्तोम॒ स्तोम॒स्योप॑स्तिर् भवति
भ्रातृ॑व्यम् ए॒वोप॑स्तिं कुरुते
जा॒मि वै ॥
ए॒तत् कु॑र्वन्ति॒ यज् ज्यायाँ॑सँ॒ स्तोम॑म् उ॒पेत्य॒ कनी॑याँसम् उप॒यन्ति॒
यद् अ॑ग्निष्टोमसा॒मान्य् अ॒वस्ता॑च् च प॒रस्ता॑च् च॒ भव॒न्त्य् अजा॑मित्वाय
त्रि॒वृद् अ॑ग्निष्टो॒मो॑ऽग्नि॒ष्टुद् आ॑ग्ने॒यीषु॑ भवति॒
तेज॑ ए॒वाव॑ रुन्द्धे
पञ्चद॒श उ॒क्थ्य॑ ऐ॒न्द्रीषु॑ \
इन्द्रि॒यम् ए॒वाव॑ रुन्द्धे
त्रि॒वृद् अ॑ग्निष्टो॒मो वै॑श्वदे॒वीषु॒
पुष्टि॑म् ए॒वाव॑ रुन्द्धे
सप्तद॒शो॑ऽग्निष्टो॒मः प्रा॑जाप॒त्यासु॑ तीव्रसो॒मस् \
अ॒न्नाद्य॒स्याव॑रुद्ध्यै॒ \
अथो॒ प्रैव तेह॑ जायते ॥
ए॒क॒विँ॒श उ॒क्थ्यः॑ सौ॒रीषु॒ प्रति॑ष्ठियै॒ \
अथो॒ रुच॑म् ए॒वात्मन् ध॑त्ते
सप्तद॒शो॑ऽग्निष्टो॒मः प्रा॑जाप॒त्यासू॑पह॒व्य॑स् \
उ॒प॒ह॒वम् ए॒व ग॑छति
त्रिण॒वाव् अ॑ग्निष्टो॒माव् अ॒भित॑ ऐ॒न्द्रीषु॒
विजि॑त्यै
त्रयस्त्रिँ॒श उ॒क्थ्यो॑ वैश्वदे॒वीषु॒
प्रति॑ष्ठित्यै
विश्व॒जित् सर्व॑पृष्ठोऽतिरा॒त्रो भ॑वति॒
सर्व॑स्या॒भिजि॑त्यै ॥
ऋ॒तवो॒ वै प्र॒जाका॑माः प्र॒जां नावि॑न्दन्त॒
ते॑ऽकामयन्त
प्र॒जाँ सृ॑जेमहि प्र॒जाम् अव॑ रुन्धीमहि प्र॒जां वि॑न्देमहि प्र॒जाव॑न्तः स्या॒मेति॒
त ए॒तम् ए॑कादशरा॒त्रम् अ॑पश्य॒न्
तम् आह॑र॒न्
तेना॑यजन्त॒
ततो॒ वै ते प्र॒जाम् अ॑सृजन्त प्र॒जाम् अवा॑रुन्धत प्र॒जाम् अ॑विन्दन्त प्र॒जाव॑न्तोऽभव॒न्
त ऋ॒तवो॑ऽभव॒न्
तद् आ॑र्त॒वाना॑म् आर्तव॒त्वम्
ऋ॑तू॒नां वा ए॒ते पु॒त्रास्
तस्मा॑त् ॥
आ॒र्त॒वा उ॑च्यन्ते॒
य ए॒वं वि॒द्वाँस॑ एकादशरा॒त्रम् आस॑ते प्र॒जाम् ए॒व सृ॑जन्ते प्र॒जाम् अव॑ रुन्धते प्र॒जां वि॑न्दन्ते प्र॒जाव॑न्तो भवन्ति॒
ज्योति॑र् अतिरा॒त्रो भ॑वति॒
ज्योति॑र् ए॒व पु॒रस्ता॑द् दधते
सुव॒र्गस्य॑ लो॒कस्यानु॑ख्यात्यै
पृष्ठ्यः॑ षड॒हो भ॑वति॒
षड् वा ऋ॒तवः॒ षट् पृ॒ष्ठानि॑
पृ॒ष्ठैर् ए॒वर्तून् अ॒न्वारो॑हन्त्य् ऋ॒तुभिः॑ संवत्स॒रम् \
ते सं॑वत्स॒र ए॒व प्रति॑ तिष्ठन्ति
चतुर्विँ॒शो भ॑वति॒
चतु॑र्विँशत्यक्षरा गाय॒त्री ॥
गा॒य॒त्रम् ब्र॑ह्मवर्च॒सम् \
गा॒य॒त्रि॒याम् ए॒व ब्र॑ह्मवर्च॒से प्रति॑ तिष्ठन्ति
चतुश्चत्वारिँ॒शो भ॑वति॒
चतु॑ष्चत्वारिँशदक्षरा { त्रि॒ष्टुग् ^ त्रि॒ष्तुभ् }
इ॒न्द्रि॒यं { त्रि॒ष्टुप् ^ त्रि॒ष्टुभ् }
त्रि॒ष्टुभ्य् ए॒वेन्द्रि॒ये प्रति॑ तिष्ठन्ति \
अष्टाचत्वारिँ॒शो भ॑वति \
अ॒ष्टाच॑त्वारिँशदक्षरा॒ जग॑ती
जाग॑ताः प॒शव॑स् \
जग॑त्याम् ए॒व प॒शुषु॒ प्रति॑ तिष्ठन्ति \
एकादशरा॒त्रो भ॑वति॒
पञ्च॒ वा ऋ॒तव॑ आर्त॒वाः पञ्च॑ \
ऋ॒तुष्व् ए॒वार्त॒वेषु॑ संवत्स॒रे प्र॑ति॒ष्ठाय॑ प्र॒जाम् अव॑ रुन्धते \
अतिरा॒त्राव् अ॒भितो॑ भवतः
प्र॒जाय॑ति॒ परि॑गृहीत्यै ॥
ऐ॒न्द्र॒वा॒य॒वाग्रा॑न् गृह्णीया॒द् यः का॒मये॑त
यथापू॒र्वम् प्र॒जाः क॑ल्पेर॒न्न् इति॑
य॒ज्ञस्य॒ वै कॢप्ति॒म् अनु॑ प्र॒जाः क॑ल्पन्ते य॒ज्ञस्याकॢ॑प्ति॒म् अनु॒ न क॑ल्पन्ते
यथापू॒र्वम् ए॒व प्र॒जाः क॑ल्पयति॒
न ज्यायाँ॑सं॒ कनी॑या॒न् अति॑ क्रामति \
ऐन्द्रवाय॒वाग्रा॑न् गृह्णीयाद् आमया॒विनः॑
प्रा॒णेन॒ वा ए॒ष व्य् ऋध्य॒ते॒ यस्या॒मय॑ति
प्रा॒ण ऐ॑न्द्रवाय॒वः
प्रा॒णेनै॒वैनँ॒ सम् अ॑र्धयति
मैत्रावरु॒णाग्रा॑न् गृह्णीर॒न् येषां॑ दीक्षि॒ताना॑म् प्र॒मीये॑त ॥
प्रा॒णा॒पा॒नाभ्यां॒ वा ए॒ते व्य् ऋध्य॒न्ते॒ येषां॑ दीक्षि॒ताना॑म् प्र॒मीय॑ते
प्राणापा॒नौ मि॒त्रावरु॑णौ
प्राणापा॒नाव् ए॒व मु॑खतः॒ परि॑ हरन्ते \
आश्वि॒नाग्रा॑न् गृह्णीतानुजाव॒रस् \
अ॒श्विनौ॒ वै दे॒वाना॑म् आनुजाव॒रौ प॒श्चेवाग्र॒म् पर्य् ऐ॑ताम्
अ॒श्विना॑व् ए॒तस्या॑ दे॒वता॒ य आ॑नुजाव॒रस्
ताव् ए॒वैन॒म् अग्र॒म् परि॑ णयतः
शु॒क्राग्रा॑न् गृह्णीत ग॒तश्रीः॑ प्रति॒ष्ठाका॑मस् \
अ॒सौ वा आ॑दि॒त्यः शु॒क्र ए॒षोऽन्त॑स् \
अन्त॑म् मनु॒ष्यः॑ ॥
श्रि॒यै ग॒त्त्वा नि व॑र्तते॒ \
अन्ता॑द् ए॒वान्त॒म् आ र॑भते॒
न ततः॒ पापी॑यान् भवति
म॒न्थ्य॑ग्रान् गृह्णीताभि॒चर॑न् \
आ॒र्त॒पा॒त्रं वा ए॒तद् यन् म॑न्थिपा॒त्रम्
मृ॒त्युनै॒वैनं॑ ग्राहयति
ता॒जग् आर्ति॒म् आर्छ॑ति \
आग्रय॒णाग्रा॑न् गृह्णीत॒ यस्य॑ पि॒ता पि॑ताम॒हः पुण्यः॒ स्याद् अथ॒ तन् न प्रा॑प्नु॒यात् \
वा॒चा वा ए॒ष इ॑न्द्रि॒येण॑ व्य् ॑र्?ध्यते॒ यस्य॑ पि॒ता पि॑ताम॒हः पुण्यः॑ ॥
भव॒त्य् अथ॒ तन् न प्रा॒प्नोति॒ \
उर॑ इवै॒तद् य॒ज्ञस्य॒ वाग् इ॑व॒ यद् आ॑ग्रय॒णस् \
वा॒चैवैन॑म् इन्द्रि॒येण॒ सम् अ॑र्धयति॒
न ततः॒ पापी॑यान् भवति \
उ॒क्थ्या॑ग्रान् गृह्णीताभिच॒र्यमा॑णः॒
सर्वे॑षां॒ वा ए॒तत् पात्रा॑णाम् इन्द्रि॒यं यद् उ॑क्थ्यपा॒त्रम् \
सर्वे॑णै॒वैन॑म् इन्द्रि॒येणा॑ति॒ प्र यु॑ङ्क्ते॒
सर॑स्वत्य् अ॒भि नो॑ नेषि॒ वस्य॒ इति॑ पुरो॒रुचं॑ कुर्यात् \
वाग् वै ॥
सर॑स्वती वा॒चैवैन॒म् अति॒ प्र यु॑ङ्क्ते
मा त्वत् क्षेत्रा॒ण्य् अर॑णानि ग॒न्मेत्य् आ॑ह
मृ॒त्योर् वै क्षेत्रा॒ण्य् अर॑णानि॒
तेनै॒व मृ॒त्योः क्षेत्रा॑णि॒ न ग॑छति
पू॒र्णान् ग्रहा॑न् गृह्णीयाद् आमया॒विनः॑
प्रा॒णान् वा ए॒तस्य॒ शुग् ऋ॑छति॒ यस्या॒मय॑ति
प्रा॒णा ग्रहाः॑
प्रा॒णान् ए॒वास्य॑ शु॒चो मु॑ञ्चति \
उ॒त यदी॒तासु॒र् भव॑ति॒ जीव॑त्य् ए॒व
पू॒र्णान् ग्रहा॑न् गृह्णीया॒द् यर्हि॑ प॒र्जन्यो॒ न वर्षे॑त्
प्रा॒णान् वा ए॒तर्हि॑ प्र॒जानाँ॑ शुग् ऋछति॒ यर्हि॑ प॒र्जन्यो॑ न॒ वर्ष॑त्
प्रा॒णा ग्रहाः॑
प्रा॒णान् ए॒व प्र॒जानाँ॑ शु॒चो मु॑ञ्चति
ता॒जक् प्र व॑र्षति ॥
गा॒य॒त्रो वा ऐ॑न्द्रवाय॒वस् \
गा॒य॒त्रम् प्रा॑य॒णीय॒म् अह॑र् \
तस्मा॑त् प्राय॒णीयेऽह॑न्न् ऐन्द्रवाय॒वो गृ॑ह्यते॒
स्व ए॒वैन॑म् आ॒यत॑ने गृह्णाति॒
त्रैष्टु॑भो॒ वै शु॒क्रस्
त्रैष्टु॑भम् द्वि॒तीय॒म् अह॑र् \
तस्मा॑द् द्वि॒तीयेऽह॑ञ् छु॒क्रो गृ॑ह्यते॒
स्व ए॒वैन॑म् आ॒यत॑ने गृह्णाति
जाग॑तो॒ वा आ॑ग्रय॒णस् \
जाग॑तं तृ॒तीय॒म् अह॑र् \
तस्मा॑त् तृ॒तीयेऽह॑न्न् आग्रय॒णो गृ॑ह्यते॒
स्व ए॒वैन॑म् आ॒यत॑ने गृह्णाति \
ए॒तद् वै ॥
य॒ज्ञम् आ॑प॒द् यच् छन्दाँ॑स्य् आ॒प्नोति॒
यद् आ॑ग्रय॒णः श्वो गृ॒ह्यते॒ यत्रै॒व य॒ज्ञम् अदृ॑श॒न् तत॑ ए॒वैन॒म् पुनः॒ प्र यु॑ङ्क्ते॒
जग॑न्मुखो॒ वै द्वि॒तीय॑स् त्रिरा॒त्रस् \
जाग॑त आग्रय॒णस् \
यच् च॑तु॒र्थेऽह॑न्न् आग्रय॒णो गृ॒ह्यते॒ स्व ए॒वैन॑म् आ॒यत॑ने गृह्णाति॒ \
अथो॒ स्वम् ए॒व छन्दोऽनु॑ प॒र्याव॑र्तन्ते
राथं॑तरो॒ वा ऐ॑न्द्रवाय॒वस् \
राथं॑तरम् पञ्च॒मम् अह॑र् \
तस्मा॑त् पञ्च॒मेऽह॑न् ॥
ऐ॒न्द्र॒वा॒य॒वो गृ॑ह्यते॒
स्व ए॒वैन॑म् आ॒यत॑ने गृह्णाति
बार्ह॑तो॒ वै शु॒क्रस् \
बार्ह॑तँ ष॒ष्ठम् अह॑र् \
तस्मा॑त् ष॒ष्ठेऽह॑ञ् छु॒क्रो गृ॑ह्यते॒
स्व ए॒वैन॑म् आ॒यत॑ने गृह्णाति \
ए॒तद् वै द्वि॒तीयं॑ य॒ज्ञम् आ॑प॒द् यच् छन्दाँ॑स्य् आ॒प्नोति॒
यच् छु॒क्रः श्वो गृ॒ह्यते॒ यत्रै॒व य॒ज्ञम् अदृ॑श॒न् तत॑ ए॒वैन॒म् पुनः॒ प्र यु॑ङ्क्ते
त्रि॒ष्टुङ्मु॑खो॒ वै तृ॒तीय॑स् त्रिरा॒त्रस्
त्रैष्टु॑भः ॥
शु॒क्रस् \
यत् स॑प्त॒मेऽह॑ञ् छु॒क्रो गृ॒ह्यते॒ स्व ए॒वैन॑म् आ॒यत॑ने गृह्णाति॒ \
अथो॒ स्वम् ए॒व छन्दोऽनु॑ प॒र्याव॑र्तन्ते
वाग् वा आ॑ग्रय॒णस् \
वाग् अ॑ष्ट॒मम् अह॑र् \
तस्मा॑द् अष्ट॒मेऽह॑न्न् आग्रय॒णो गृ॑ह्यते॒
स्व ए॒वैन॑म् आ॒यत॑ने गृह्णाति
प्रा॒णो वा ऐ॑न्द्रवाय॒वः
प्रा॒णो न॑व॒मम् अह॑र् \
तस्मा॑न् नव॒मेऽह॑न्न् ऐन्द्रवाय॒वो गृ॑ह्यते॒
स्व ए॒वैन॑म् आ॒यत॑ने गृह्णाति \
ए॒तत् ॥
वै त्रि॒तीयं॑ य॒ज्ञम् आ॑प॒द् यच् छन्दाँ॑स्य् आप्नोति॒
यद् ऐ॑न्द्रवाय॒वः श्वो गृ॒ह्यते॒ यत्रै॒व य॒ज्ञम् अदृश॒न् तत॑ ए॒वैन॒म् पुनः॒ प्र यु॑ङ्क्ते॒ \
अथो॒ स्वम् ए॒व छन्दोऽनु॑ प॒र्याव॑र्तन्ते
प॒थो वा ए॒ते ध्य् अप॑थेन यन्ति॒ ये॑ऽन्येनै॑न्द्रवाय॒वात् प्र॑ति॒पद्य॑न्ते॒ \
अन्तः॒ खलु॒ वा ए॒ष य॒ज्ञस्य॒ यद् द॑श॒मम् अह॑र्
दश॒मेऽह॑न्न् ऐन्द्रवाय॒वो गृ॑ह्यते
य॒ज्ञस्य॑ ॥
ए॒वान्तं॑ ग॒त्वाप॑था॒त् पन्था॒म् अपि॑ यन्ति॒ \
अथो॒ यथा॒ वही॑यसा प्रति॒सारं॒ वह॑न्ति ता॒दृग् ए॒व तत् \
छन्दाँ॑स्य् अ॒न्यो॑ऽन्यस्य लो॒कम् अ॑भ्य॒ अ॑ध्यायन्
तान्य् ए॒तेनै॒व दे॒वा व्य् अ॑वाहयन् \
ऐ॒न्द्र॒वा॒य॒वस्य॒ वा ए॒तद् आ॒यत॑नं॒ यच् च॑तु॒र्थम् अह॑र् \
तस्मि॑न्न् आग्रय॒णो गृ॑ह्यते॒
तस्मा॑द् आग्रय॒णस्या॒यत॑ने नव॒मेऽह॑न्न् ऐन्द्रवाय॒वो गृ॑ह्यते
शु॒क्रस्य॒ वा ए॒तद् आ॒यत॑नं॒ यत् प॑ञ्च॒मम् ॥
अह॑र् \
तस्मि॑न्न् ऐन्द्रवाय॒वो गृ॑ह्यते॒
तस्मा॑द् ऐन्द्रवाय॒वस्या॒यत॑ने सप्त॒मेऽह॑ञ् छु॒क्रो गृ॑ह्यते \
आग्रय॒णस्य॒ वा ए॒तद् आ॒यत॑नं॒ यत् ष॒ष्ठम् अह॑र् \
तस्मै॑ञ् छु॒क्रो गृ॑ह्यते॒
तस्मा॑च् छु॒क्रस्या॒यत॑नेऽष्ट॒मेऽह॑न्न् आग्रय॒णो गृ॑ह्यते॒
छन्दाँ॑स्य् ए॒व तद् वि वा॑हयति॒
प्र वस्य॑सो विवा॒हम् आ॑प्नोति॒ य ए॒वं वेद॒ \
अथो॑ दे॒वता॑भ्य ए॒व य॒ज्ञे सं॒विदं॑ दधाति॒
तस्मा॑द् इ॒दम् अ॒न्यो॑ऽन्यस्मै॑ दधाति ॥
प्र॒जाप॑तिर् अकामयत॒
प्र जा॑ये॒येति॒
स ए॒तं द्वा॑दशरा॒त्रम् अ॑पश्य॒त्
तम् आह॑र॒त्
तेना॑यजत॒
ततो॒ वै स प्राजा॑यत॒
यः का॒मये॑त॒
प्र जा॑ये॒येति॒
स द्वा॑दशरा॒त्रेण॑ यजेत॒
प्रैव जा॑यते
ब्रह्मवा॒दिनो॑ वदन्ति \
अग्निष्टो॒मप्रा॑यणा य॒ज्ञा अथ॒ कस्मा॑द् अतिरा॒त्रः पूर्वः॒ प्र यु॑ज्यत॒ इति॒
चक्षु॑षी॒ वा ए॒ते य॒ज्ञस्य॒ यद् अ॑तिरा॒त्रौ क॒नीनि॑के अग्निष्टो॒मौ
यत् ॥
अ॒ग्नि॒ष्टो॒मं पूर्व॑म् प्रयुञ्जी॒रन् ब॑हि॒र्धा क॒नीनि॑के दध्यु॒स्
तस्मा॑द् अतिरा॒त्रः पूर्वः॒ प्र यु॑ज्यते॒
चक्षु॑षी ए॒व य॒ज्ञे धि॒त्वा म॑ध्य॒तः क॒नीनि॑के॒ प्रति॑ दधति॒
यो वै गा॑य॒त्रीं ज्योतिः॑पक्षां॒ वेद॒ ज्योति॑षा भा॒सा सु॑व॒र्गं लो॒कम् ए॑ति
याव् अ॑ग्निष्टो॒मौ तौ प॒क्षौ
येऽन्त॑रे॒ऽष्टाव् उ॑क्थ्या॑ः॑ स आ॒त्मा \
ए॒षा वै गा॑य॒त्री ज्योतिः॑पक्षा॒
य ए॒वं वेद॒ ज्योति॑षा भा॒सा सु॑व॒र्गं लो॒कम् ॥
ए॒ति॒
प्र॒जाप॑ति॒र् वा ए॒ष द्वा॑दश॒धा विहि॑तो॒ यद् द्वा॑दशरा॒त्रस् \
याव् अ॑तिरा॒त्रौ तौ प॒क्षौ
येऽन्त॑रे॒ऽष्टाव् उ॑क्थ्या॑ः॑ स आ॒त्मा
प्र॒जाप॑ति॒र् वावैष सन्त् सद् ध॒ वै स॒त्त्रेण॑ स्पृणोति
प्रा॒णा वै सत्
प्रा॒णान् ए॒व स्पृ॑णोति॒
सर्वा॑सां॒ वा ए॒ते प्र॒जाना॑म् प्रा॒णैर् आ॑सते॒ ये स॒त्त्रम् आस॑ते॒
तस्मा॑त् पृछन्ति॒
किम् ए॒ते स॒त्त्रिण॒ इति॑
प्रि॒यः प्र॒जाना॒म् उत्थि॑तो भवति॒ य ए॒वं वेद॑ ॥
न वा ए॒षो॑ऽन्यतो॑वैश्वानरः सुव॒र्गाय॑ लो॒काय॒ प्राभ॑वत् \
ऊ॒र्ध्वो ह॒ वा ए॒ष आत॑त आसी॒त्
ते दे॒वा ए॒तं वै॑श्वान॒रम् पर्य् औ॑हन्त् सुव॒र्गस्य॑ लो॒कस्य॒ प्रभू॑त्यै \
ऋ॒तवो॒ वा ए॒तेन॑ प्र॒जाप॑तिम् अयाजय॒न्
तेष्व् आ॑र्ध्नो॒द् अधि॒ तत् \
ऋ॒ध्नोति॑ ह॒ वा ऋ॒त्विक्षु॒ य ए॒वं वि॒द्वान् द्वा॑दशा॒हेन॒ यज॑ते॒
ते॑ऽस्मिन्न् ऐछन्त॒
स रस॒म् अह॑ वस॒न्ताय॒ प्राय॑छत् ॥
यवं॑ ग्री॒ष्मायौष॑धीर् व॒र्षाभ्यो॑ व्री॒हीञ् छ॒रदे॑ माषति॒लौ हे॑मन्तशिशि॒राभ्या॑म् \
तेनेन्द्र॑म् प्र॒जाप॑तिर् अयाजय॒त्
ततो॒ वा इन्द्र॒ इन्द्रो॑ऽभव॒त्
तस्मा॑द् आहुस् \
आ॒नु॒जा॒व॒रस्य॑ य॒ज्ञ इति॒
स ह्य् ए॑तेनाग्रेऽय॑जत \
ए॒ष ह॒ वै कु॒णप॑म् अत्ति॒ यः स॒त्त्रे प्र॑तिगृ॒ह्णाति॑ पुरुषकुण॒पम् अ॑श्वकुण॒पम् \
गौर् वा अन्न॑म् \
येन॒ पात्रे॒णान्न॒म् बिभ्र॑ति॒ यत् तन् न नि॒र्णेनि॑जति॒ ततोऽधि॑ ॥
मलं॑ जायते॒ \
एक॑ ए॒व य॑जेत॒ \
एको॒ हि प्र॒जाप॑ति॒र् आर्ध्नो॑त् \
द्वाद॑श रात्रीर् दीक्षि॒तः स्या॑त् \
द्वाद॑श॒ मासाः॑ संवत्स॒रः
सं॑वत्स॒रः प्र॒जाप॑तिः
प्र॒जाप॑ति॒र् { वावैष ^ वावैषस् }
ए॒ष ह॒ त्वै जा॑यते॒ यस् तप॒सोऽधि॒ जाय॑ते
चतु॒र्धा वा ए॒तास् ति॒स्रस्ति॑स्रो॒ रात्र॑यो॒ यद् द्वाद॑शोऽप॒सद॑स् \
याः प्र॑थ॒मा य॒ज्ञं ताभिः॒ सम् भ॑रति
या द्वि॒तीया॑ य॒ज्ञं ताभि॒र् आ र॑भते ॥
यास् तृ॒तीयाः॒ पात्रा॑णि॒ ताभि॒र् निर् णे॑निक्ते
याश् च॑तु॒र्थीर् अपि॒ ताभि॑र् आ॒त्मान॑म् अन्तर॒तः शु॑न्धते॒
यो वा अ॑स्य प॒शुम् अत्ति॑ माँ॒सँ सो॑ऽत्ति॒
यः पु॑रो॒डाश॑म् म॒तिष्कँ॒ { स ^ सस् }
यः प॑रिवा॒पम् पुरी॑षँ॒ { स ^ सस् }
य आज्य॑म् म॒ज्जानँ॒ { स ^ सस् }
यः सोमँ॒ स्वेदँ॒ सस् \
अपि॑ ह॒ वा अ॑स्य शीर्ष॒ण्या॑ नि॒ष्पदः॒ प्रति॑ गृह्णाति॒ यो द्वा॑दशा॒हे प्र॑तिगृ॒ह्णाति॒
तस्मा॑द् द्वादशा॒हेन॒ न याज्य॑म् पा॒प्मनो॒ व्यावृ॑त्त्यै ॥
एक॑स्मै॒ स्वाहा॑
द्वाभ्याँ॒ स्वाहा॑
त्रि॒भ्यः स्वाहा॑
च॒तुर्भ्यः॒ स्वाहा॑
प॒ञ्चभ्यः॒ स्वाहा॑
ष॒ड्भ्यः स्वाहा॑
स॒प्तभ्यः॒ स्वाहा॑ \
अष्टा॒भ्यः स्वाहा॑
न॒वभ्यः॒ स्वाहा॑
द॒शभ्यः॒ स्वाहा॑ \
एकाद॒शभ्यः॒ स्वाहा॑
द्वाद॒शभ्यः॒ स्वाहा॑
त्रयोद॒शभ्यः॒ स्वाहा॑
चतुर्द॒शभ्यः॒ स्वाहा॑
पञ्चद॒शभ्यः॒ स्वाहा॑
षोड॒शभ्यः॒ स्वाहा॑
सप्तद॒शभ्यः॒ स्वाहा॑ \
अष्टाद॒शभ्यः॒ स्वाहा॒ \
एका॒न् न विँ॑श॒त्यै स्वाहा॒
नव॑विँशत्यै॒ स्वाहा॒ \
एका॒न् न च॑त्वारिँ॒शते॒ स्वाहा॒
नव॑चत्वारिँशते॒ स्वाहा॒ \
एका॒न् न ष॒ष्ट्यै स्वाहा॒
नव॑षष्ट्यै॒ स्वाहा॒ \
एका॒न् नाशी॒त्यै स्वाहा॒
नवा॑शीत्यै॒ स्वाहा॒ \
एका॒न् न श॒ताय॒ स्वाहा॑
श॒ताय॒ स्वाहा॑
द्वाभ्याँ॑ श॒ताभ्याँ॒ स्वाहा॒
सर्व॑स्मै॒ स्वाहा॑ ॥
एक॑स्मै॒ स्वाहा॑
त्रि॒भ्यः स्वाहा॑
प॒ञ्चभ्यः॒ स्वाहा॑
स॒प्तभ्यः॒ स्वाहा॑
न॒वभ्यः॒ स्वाहा॑ \
एकाद॒शभ्यः॒ स्वाहा॑
त्रयोदा॒सभ्यः॒ स्वाहा॑
पञ्चद॒शभ्यः॒ स्वाहा॑
सप्तद॒शभ्यः॒ स्वाहा॒ \
एका॒न् न विँ॑श॒त्यै स्वाहा॒
नव॑विँ॒सत्यै॒ स्वाहा॒ \
एका॒न् न च॑त्वारिँ॒शते॒ स्वाहा॒
नव॑चत्वारिँशते॒ स्वाहा॒ \
एका॒न् न ष॒ष्ट्यै स्वाहा॒
नव॑षष्ट्यै॒ स्वाहा॒ \
एका॒न् नाशी॒त्यै स्वाहा॒
नवा॑शीत्यै॒ स्वाहा॒ \
एका॒न् न श॒ताय॒ स्वाहा॑
श॒ताय॒ स्वाहा॒
सर्व॑स्मै॒ स्वाहा॑ ॥
द्वाभ्याँ॒ स्वाहा॑
च॒तुर्भ्यः॒ स्वाहा॑
ष॒ड्भ्यः स्वाहा॑ \
अष्टा॒भ्यः स्वाहा॑
द॒शभ्यः॒ स्वाहा॑
द्वाद॒शभ्यः॒ स्वाहा॑
चतुर्द॒शभ्यः॒ स्वाहा॑
षोड॒शभ्यः॒ स्वाहा॑ \
अष्टाद॒शभ्यः॒ स्वाहा॑
विँश॒त्यै स्वाहा॑ \
अ॒ष्टान॑वत्यै॒ स्वाहा॑
श॒ताय॒ स्वाहा॒
सर्व॑स्मै॒ स्वाहा॑ ॥
त्रि॒भ्यः स्वाहा॑
प॒ञ्चभ्यः॒ स्वाहा॑
स॒प्तभ्यः॒ स्वाहा॑
न॒वभ्यः॒ स्वाहा॑ \
एकाद॒शभ्यः॒ स्वाहा॑
त्रयोदा॒सभ्यः॒ स्वाहा॑
पञ्चद॒शभ्यः॒ स्वाहा॑
सप्तद॒शभ्यः॒ स्वाहा॒ \
एका॒न् न विँ॑श॒त्यै स्वाहा॒
नव॑विँ॒सत्यै॒ स्वाहा॒ \
एका॒न् न च॑त्वारिँ॒शते॒ स्वाहा॒
नव॑चत्वारिँशते॒ स्वाहा॒ \
एका॒न् न ष॒ष्ट्यै स्वाहा॒
नव॑षष्ट्यै॒ स्वाहा॒ \
एका॒न् नाशी॒त्यै स्वाहा॒
नवा॑शीत्यै॒ स्वाहा॒ \
एका॒न् न श॒ताय॒ स्वाहा॑
श॒ताय॒ स्वाहा॒
सर्व॑स्मै॒ स्वाहा॑ ॥
च॒तुर्भ्यः॒ स्वाहा॑ \
अष्टा॒भ्यः स्वाहा॑
द्वाद॒शभ्यः॒ स्वाहा॑
षोड॒शभ्यः॒ स्वाहा॑
विँश॒त्यै स्वाहा॒
षण्ण॑वत्यै॒ स्वाहा॑
श॒ताय॒ स्वाहा॒
सर्व॑स्मै॒ स्वाहा॑ ॥
प॒ञ्चभ्यः॒ स्वाहा॑
द॒शभ्यः॒ स्वाहा॑
पञ्चद॒शभ्यः॒ स्वाहा॑
विँश॒त्यै स्वाहा॑
पञ्चनवत्यै॒ स्वाहा॑
श॒ताय॒ स्वाहा॒
सर्व॑स्मै॒ स्वाहा॑ ॥
द॒शभ्यः॒ स्वाहा॑
विँश॒त्यै स्वाहा॑
त्रिँ॒शते॒ स्वाहा॑
चत्वारिँ॒शते॒ स्वाहा॑
पञ्चा॒शते॒ स्वाहा॑
ष॒ष्ट्यै स्वाहा॑
सप्त॒त्यै स्वाहा॑ \
अशी॒त्यै स्वाहा॑
नव॒त्यै स्वा॑हा
श॒ताय॒ स्वाहा॒
सर्व॑स्मै॒ स्वाहा॑ ॥
विँ॒श॒त्यै स्वाहा॑
चत्वारिँ॒शते॒ स्वाहा॑
ष॒ष्ट्यै स्वाहा॑ \
अशी॒त्यै स्वाहा॑
श॒ताय॒ स्वाहा॒
सर्व॑स्मै॒ स्वाहा॑ ॥
प॒ञ्चा॒शते॒ स्वाहा॑
श॒ताय॒ स्वाहा॑
द्वाभ्याँ॑ श॒ताभ्याँ॒ स्वाहा॑
त्रि॒भ्यः श॒तेभ्यः॒ स्वाहा॑
च॒तुर्भ्यः॑ श॒तेभ्यः॒ स्वाहा॑
प॒ञ्चभ्यः॑ श॒तेभ्यः॒ स्वाहा॑
ष॒ड्भ्यः श॒तेभ्यः॒ स्वाहा॑
स॒प्तभ्यः॑ श॒तेभ्यः॒ स्वाहा॑ \
अष्टा॒भ्यः श॒तेभ्यः॒ स्वाहा॑
न॒वभ्यः॑ श॒तेभ्यः॒ स्वाहा॑
स॒हस्रा॑य॒ स्वाहा॒
सर्व॑स्मै॒ स्वाहा॑ ॥
श॒ताय॒ स्वाहा॑
स॒हस्रा॑य॒ स्वाहा॑ \
अ॒युता॑य॒ स्वाहा॑
नि॒युता॑य॒ स्वाहा॑
प्र॒युता॑य॒ स्वाहा॒ \
अर्बु॑दाय॒ स्वाहा॒
न्य॑र्बुदाय॒ स्वाहा॑
समु॒द्राय॒ स्वाहा॒
मध्या॑य॒ स्वाहा॒ \
अन्ता॑य॒ स्वाहा॑
परा॒र्धाय॒ स्वाहा॑ \
उ॒षसे॒ स्वाहा॒
व्यु॑ष्ट्यै॒ स्वाहा॑ \
उदेष्य॒ते स्वाहा॑ \
उद्य॒ते स्वाहा॒ \
उदि॑ताय॒ स्वाहा॑
सुव॒र्गाय॒ स्वाहा॑
लो॒काय॒ स्वाहा॒
सर्व॑स्मै॒ स्वाहा॑ ॥