प्र॒जन॑नं॒ ज्योति॑र् अ॒ग्निर् दे॒वता॑नां॒ ज्योति॑र् वि॒राट् छन्द॑सां॒ झोति॑स् \
वि॒राड् वा॒चो॑ऽग्नौ सं ति॑ष्ठते
वि॒राज॑म् अ॒भि सम् प॑द्यते॒
तस्मा॒त् तज् ज्योति॑र् उच्यते॒
द्वौ स्तोमौ॑ प्रातःसव॒नं व॑हतो॒ यथा॑ प्रा॒णश् चा॑पा॒नश् च॒
द्वौ माध्यं॑दिनँ॒ सव॑नं॒ यथा॒ चक्षु॑श् च॒ श्रोत्रं॑ च॒
द्वौ तृ॑तीयसव॒नं यथा॒ वाक् च॑ प्रति॒ष्ठा च॒
पुरु॑षसम्मितो॒ वा ए॒ष य॒ज्ञोऽस्थू॑रिः ॥
यं कामं॑ का॒मय॑ते॒ तम् ए॒तेना॒भ्य् अ॑श्नुते॒
सर्वँ॒ ह्य् अस्थु॑रिणाभ्यश्नु॒ते \
अ॑ग्निष्टो॒मेन॒ वै प्र॒जाप॑तिः प्र॒जा अ॑सृजत
ता अ॑ग्निष्टो॒मेनै॒व पर्य् अ॑गृह्णात्
तासा॒म् परि॑गृहीतानाम् अश्वत॒रोऽत्य् अ॑प्रवत॒
तस्या॑नु॒हाय॒ रेत॒ आद॑त्त॒
तद् ग॑र्द॒भे न्य् { अ॑मा॒र्ट् ^ अ॑मार्ज् }
तासा॒म् परि॑गृहीतानाम् अश्वत॒रोऽत्य् अ॑प्रवत॒
तस्या॑नु॒हाय॒ रेत॒ आद॑त्त॒
तद् ग॑र्द॒भे न्य् { अ॑मा॒र्ट् ^ अ॑मार्ज् }
तस्मा॑द् गर्द॒भो द्वि॒रेता॑स् \
अथो॑ आहुस् \
वड॑बायां॒ न्य् अ॑मा॒र्ड् इति॒
तस्मा॒द् वड॑बा द्वि॒रेता॑स् \
अथो॑ आहुस् \
ओष॑धीषु ॥
न्य् अ॑मा॒र्ड् इति॒
तस्मा॒द् ओष॑ध॒योऽन॑भ्यक्ता रेभन्ति॒ \
अथो॑ आहुः
प्र॒जासु॒ न्य् अ॑मा॒र्ड् इति॒
तस्मा॑द् य॒मौ जा॑येते॒
तस्मा॑द् अश्वत॒रो न प्र जा॑यत॒ आत्त॑रेता॒ हि
तस्मा॑द् ब॒र्हिष्य् अन॑वकॢप्तः
सर्ववेद॒से वा॑ स॒हस्रे॒ वाव॑कॢ॒प्तस् \
अति॒ ह्य् अप्र॑वत॒
य ए॒वं वि॒द्वान् अ॑ग्निष्टो॒मेन॒ यज॑ते॒ प्राजा॑ताः प्र॒जा ज॒नय॑ति॒ परि॒ प्रजा॑ता गृह्णाति॒
तस्मा॑द् आहुस् \
ज्ये॒ष्ठ॒य॒ज्ञ इति॑ ॥
प्र॒जाप॑ति॒र् वाव ज्येष्ठः॒
स ह्य् ए॑तेनाग्रेऽय॑जत
प्र॒जाप॑तिर् अकामयत॒
प्र जा॑ये॒येति॒
स मु॑ख॒तस् त्रि॒वृतं॒ निर् अ॑मिमीत॒
तम् अ॒ग्निर् दे॒वतान्व् अ॑सृज्यत गाय॒त्री छन्दो॑ रथंत॒रँ साम॑ ब्राह्म॒णो म॑नु॒ष्या॑णाम् अ॒जः प॑शू॒नाम् \
तस्मा॑त् ते॒ मुख्या॑स् \
मु॒ख॒तो ह्य् असृ॑ज्यन्त॒ \
उर॑सो बा॒हुभ्या॑म् पञ्चद॒शं निर् अ॑मिमीत॒
तम् इन्द्रो॑ दे॒वतान्व् अ॑सृज्यत त्रि॒ष्टुप् छन्दो॑ बृ॒हत् ॥
साम॑ राज॒न्यो॑ मनु॒ष्या॑णा॒म् अविः॑ पशू॒नाम् \
तस्मा॒त् ते वी॑र्या॑वन्तस् \
वी॒र्या॑द् ध्य् असृ॑ज्यन्त
मध्य॒तः स॑प्तद॒शं निर् अ॑मिमीत॒
तं विश्वे॑ दे॒वा दे॒वता॒ अन्व् अ॑सृज्यन्त॒ जग॑ती॒ छन्दो॑ वैरू॒पँ साम॒ वैश्यो॑ मनु॒ष्या॑णां॒ गावः॑ पशू॒नाम् \
तस्मा॒त् त आ॑द्या॑स् \
अ॒न्न॒धाना॒द् ध्य् असृ॑ज्यन्त॒
तस्मा॑द् भूयाँसो॒ऽन्येभ्य॑स् \
भूयि॑ष्ठा॒ हि दे॒वता॒ अन्व् असृ॑ज्यन्त
प॒त्त ए॑कविँ॒शं निर् अ॑मिमीत॒
तम् अ॑नु॒ष्टुप् छन्दः॑ ॥
अन्व् अ॑सृज्यत वैरा॒जँ साम॑ शू॒द्रो म॑नु॒ष्याणा॒म्
अश्वः॑ पशू॒नाम् \
तस्मा॒त् तौ भू॑तसंक्रा॒मिणा॒व् अश्व॑श् च शू॒द्रश् च॒
तस्मा॑च् छू॒द्रो य॒ज्ञेऽन॑वकॢप्तस् \
न हि दे॒वता॒ अन्व् असृ॑ज्यत॒
तस्मा॒त् पादा॒व् उप॑ जीवतः
प॒त्तो ह्य् असृ॑ज्येताम्
प्रा॒णा वै त्रि॒वृत् \
अ॒र्ध॒मा॒साः प॑ञ्चद॒शः
प्र॒जाप॑तिः सप्तद॒शस्
त्रय॑ इ॒मे लो॒कास् \
अ॒साव् आ॑दि॒त्य ए॑कविँ॒शस् \
ए॒तस्मि॒न् वा ए॒ते श्रि॒ता ए॒तस्मि॒न् प्रति॑ष्ठितास् \
य ए॒वं वेदै॒तस्मि॑न्न् ए॒व श्र॑यत ए॒तस्मि॒न् प्रति॑ तिष्ठति ॥
प्रा॒तः॒स॒व॒ने वै गा॑य॒त्रेण॒ छन्द॑सा तृ॒वृते॒ स्तोमा॑य॒ ज्योति॒र् दध॑द् एति
त्रि॒वृता॑ ब्रह्मवर्च॒सेन॑ पञ्चद॒शाय॒ ज्योति॒र् दध॑द् एति
पञ्चद॒शेनौज॑सा वी॒र्ये॑ण सप्तद॒शाय॒ ज्योति॒र् दध॑द् एति
सप्तद॒शेन॑ प्राजाप॒त्येन॑ प्र॒जन॑नेनैकविँ॒शाय॒ ज्योति॒र् दध॑द् एति॒
स्तोम॑ ए॒व तत् स्तोमा॑य॒ ज्योति॒र् दध॑द् एति॒ \
अथो॒ स्तोम॑ ए॒व स्तोम॑म् अ॒भि प्र ण॑यति
याव॑न्तो॒ वै स्तोमा॒स् ताव॑न्तः॒ कामा॑स्
ताव॑न्तो लो॒कास्
ताव॑न्ति॒ ज्योतीँ॑षि \
ए॒ताव॑त ए॒व स्तोमा॑न् ए॒ताव॑तः॒ कामा॑न् ए॒ताव॑तो लो॒कान् ए॒ताव॑न्ति॒ ज्योतीँ॒ष्य् अव॑ रुन्द्धे ॥
ब्र॒ह्म॒वा॒दिनो॑ वदन्ति॒
स त्वै य॑जेत॒ यो॑ऽग्निष्टो॒मेन॒ यज॑मा॒नोऽथ॒ सर्व॑स्तोमेन॒ यजे॒तेति॒
यस्य॑ त्रि॒वृत॑म् अन्त॒र्यन्ति॑ प्रा॒णाँस् तस्या॒न्तर्य॑न्ति
प्रा॒णेषु॒ मेऽप्य् अ॑स॒द् इति॒ खलु॒ वै य॒ज्ञेन॒ यज॑मानो यजते॒
यस्य॑ पञ्चद॒शम् अ॑न्त॒र्यन्ति॑ वी॒र्यं॑ तस्या॒न्तर् य॑न्ति
वी॒र्ये॑ मेऽप्य् अ॑स॒द् इति॒ खलु॒ वै य॒ज्ञेन॒ यज॑मानो यजते॒
यस्य॑ सप्तद॒शम् अ॑न्त॒र्यन्ति॑ ॥
प्र॒जां तस्या॒न्तर् य॑न्ति
प्र॒जाया॒म् मेऽप्य् अ॑स॒द् इति॒ खलु॒ वै य॒ज्ञेन॒ यज॑मानो यजते॒
यस्यै॑कविँ॒शम् अ॑न्त॒र्यन्ति॑ प्रति॒ष्ठां तस्या॒न्तर् य॑न्ति
प्रति॒ष्ठाया॒म् मेऽप्य् अ॑स॒द् इति॒ खलु॒ वै य॒ज्ञेन॒ यज॑मानो यजते॒
यस्य॑ त्रिण॒वम् अ॑न्त॒र्यन्त्य् ऋ॒तूँश् च॒ तस्य॑ नक्ष॒त्रियां॑ च वि॒राज॑म् अ॒न्तर् य॑न्ति \
ऋ॒तुषु॒ मेऽप्य् अ॑सन् नक्ष॒त्रिया॑यां च वि॒राजीति॑ ॥
खलु॒ वै य॒ज्ञेन॒ यज॑मानो यजते॒
यस्य॑ त्रयस्त्रिँ॒शम् अ॑न्त॒र्यन्ति॑ दे॒वता॒स् तस्या॒न्तर् य॑न्ति
दे॒वता॑सु॒ मेऽप्य् अ॑स॒द् इति॒ खलु॒ वै य॒ज्ञेन॒ यज॑मानो यजते॒
यो वै स्तोमा॑नाम् अव॒मम् प॑र॒मतां॒ गछ॑न्तं॒ वेद॑ पर॒मता॑म् ए॒व ग॑छति
त्रि॒वृद् वै स्तोमा॑नाम् अव॒मस् त्रि॒वृत् प॑र॒मस्
य ए॒वं वेद॑ पर॒मता॑म् ए॒व ग॑छति ॥
अङ्गि॑रसो॒ वै स॒त्त्रम् आ॑सत॒
ते सु॑व॒र्गं लो॒कम् आ॑य॒न्
तेषाँ॑ ह॒विष्माँ॑श् च हवि॒ष्कृच् चा॑हीयेताम् \
ताव् अ॑कामयेताम् \
सु॒व॒र्गं लो॒कम् इ॑या॒वेति॑
ताव् ए॒तं द्वि॑रा॒त्रम् अ॑पश्यताम् \
तम् आह॑रताम् \
तेना॑यजेताम् \
ततो॒ वै तौ॑ऽसुव॒र्गं लो॒कम् ऐ॑ताम् \
य ए॒वं वि॒द्वान् द्वि॑रा॒त्रेण॒ यज॑ते सुव॒र्गम् ए॒व लो॒कम् ए॑ति
ताव् ऐता॒म् पूर्वे॒णाह्नाग॑छता॒म् उत्त॑रेण ॥
अ॒भि॒प्ल॒वः पूर्व॒म् अह॑र् भवति॒ गति॒र् उत्त॑रम्
ज्योति॑ष्टोमोऽग्निष्टो॒मः पूर्व॒म् अह॑र् भवति॒ तेज॒स् तेनाव॑ रुन्द्धे॒
सर्व॑स्तोमोऽतिरा॒त्र उत्त॑रँ॒ सर्व॒स्याप्त्यै॒ सर्व॒स्याव॑रुद्ध्यै
गाय॒त्रम् पूर्वेह॒न्त् साम॑ भवति॒
तेजो॒ वै गा॑य॒त्री
गा॑य॒त्री ब्र॑ह्मवर्च॒सम् \
तेज॑ ए॒व ब्र॑ह्मवर्च॒सम् आ॒त्मन् ध॑त्ते॒
त्रैष्टु॑भ॒म् उत्त॑रे॒ \
ओजो॒ वै वी॒र्यं॑ { त्रि॒ष्टुग् ^ ब्रि॒ष्टुभ् }
ओज॑ ए॒व वी॒र्य॑म् आ॒त्मन् ध॑त्ते
रथंत॒रम् पूर्वे॑ ॥
अह॒न्त् साम॑ भवति \
इ॒यं वै र॑थंत॒रम्
अ॒स्याम् ए॒व प्रति॑ तिष्ठति
बृ॒हद् उत्त॑रे \
अ॒सौ वै बृ॒हत् \
अ॒मुष्या॑म् ए॒व प्रति॑ तिष्ठति॒
तद् आ॑हुः
क्व॑ जग॑ती चानु॒ष्टुप् चेति॑
वैखान॒सम् पूर्वेऽह॒न्त् साम॑ भवति॒ तेन॒ जग॑त्यै॒ नैति॑
षोड॒श्य् उत्त॑रे॒ तेना॑नु॒ष्टुभ॑स् \
अथा॑हुस् \
यत् स॑मा॒ने॑ऽर्धमा॒से स्याता॑म् अन्यत॒रस्याह्नो॑ वी॒र्य॑म् अनु॑ पद्ये॒तेति॑ \
अमावा॒या॑या॒म् पूर्व॒म् अह॑र् भव॒त्य् उत्त॑रस्मि॒न्न् उत्त॑रम् \
नानै॒वार्ध॑मा॒सयो॑र् भवतस् \
नाना॑वीर्ये भवतस् \
ह॒विष्म॑न्निधन॒म् पूर्व॒म् अह॑र् भवति हवि॒ष्कृन्नि॑धन॒म् उत्त॑रम्
प्रति॑ष्ठित्यै ॥
आपो॒ वा इ॒दम् अग्रे॑ सलि॒लम् आ॑सी॒त्
तस्मि॑न् प्र॒जाप॑तिर् वा॒युर् भू॒त्वाच॑र॒त्
स इ॒माम् अ॑पश्यत्
तां व॑रा॒हो भू॒त्वाह॑रत्
तां वि॒श्वक॑र्मा भू॒त्वा व्य् { अ॑मा॒र्ट् ^ अ॑मार्ज् }
साप्र॑थत
सा पृ॑थि॒व्य् अ॑भव॒त्
तत् पृ॑थि॒व्यै पृ॑थिवि॒त्वम् \
तस्या॑म् अश्राम्यत् प्र॒जाप॑तिः॒
स दे॒वान् अ॑सृजत॒ वसू॑न् रु॒द्रान् आ॑दि॒त्यान्
ते दे॒वाः प्र॒जाप्ति॑म् अब्रुवन्
प्र जा॑यामहा॒ इति॒
सो॑ऽब्रवीत् ॥
यथा॒हं यु॒ष्माँस् तप॑सासृक्ष्य् ए॒वं तप॑सि प्र॒जन॑नम् इछध्व॒म् इति॒
तेभ्यो॒ऽग्निम् आ॒यत॑न॒म् प्राय॑छत् \
ए॒तेना॒यत॑नेन श्राम्य॒तेति॒
ते॑ऽग्निना॒यत॑नेनाश्राम्य॒न्
ते सं॑वत्स॒र एकां॒ गाम् अ॑सृजन्त
तां वसु॑भ्यो रु॒द्रेभ्य॑ आदि॒त्येभ्यः॒ प्राय॑छन् \
ए॒ताँ र॑क्षध्व॒म् इति॑
तां वस॑वो रु॒द्रा आ॑दि॒त्या अ॑रक्षन्त
सा वसु॑भ्यो रु॒द्रेभ्य॑ आदि॒त्येभ्यः॒ प्राजा॑यत॒ त्रीणि॑ च ॥
श॒तानि॒ त्रय॑स्त्रिँशतं च॒ \
अथ॒ सैव स॑हस्रत॒म्य् अ॑भव॒त्
ते दे॒वाः प्र॒जाप॑तिम् अब्रुवन् \
स॒हस्रे॑ण नो याज॒येति॒
सो॑ऽग्निष्टो॒मेन॒ वसू॑न् अयाजय॒त्
त इ॒मं लो॒कम् अ॑जय॒न्
तच् चा॑ददुः॒
स उ॒क्थ्ये॑न रु॒द्रान् अ॑याजय॒त्
ते॑ऽन्तरि॑क्षम् अजय॒न्
तच् चा॑ददुः॒
सो॑ऽतिरा॒त्रेणा॑दि॒त्यान् अ॑याजय॒त्
ते॑ऽमुं लो॒कम् अ॑जय॒न्
तच् चा॑ददु॒स्
तद् अ॒न्तरि॑क्षम् ॥
व्यवै॑र्यत॒
तस्मा॑द् रु॒द्रा घातु॑कास् \
अ॒ना॒य॒त॒ना हि
तस्मा॑द् आहुः
शिथि॒लं वै म॑ध्य॒मम् अह॑स् त्रिरा॒त्रस्य॒ वि हि तद् अ॒वैर्य॒तेति॒
त्रैष्टु॑भम् मध्य॒मस्याह्न॒ आज्य॑म् भवति
सं॒याना॑नि सू॒क्तानि॑ शँसति
षोडशिनँ शँसति॒ \
अह्नो॒ धृत्या॒ अशि॑थिलम्भावाय॒
तस्मा॑त् त्रिरा॒त्रस्या॑ग्निष्टो॒म ए॒व प्र॑थ॒मम् अहः॑ स्या॒द् अथो॒क्थ्योऽथा॑तिरा॒त्रस् \
ए॒षां लो॒कानां॒ विधृ॑त्यै
त्रीणि॑त्रीणि श॒तान्य् अ॑नूचीना॒हम् अव्य॑वछिन्नानि ददाति ॥
ए॒षां लो॒काना॒म् अनु॒ संत॑त्यै
द॒शतं॒ न वि छि॑न्द्यात् \
वि॒राजं॒ नेद् वि॑छि॒नदा॒नीति॒ \
अथ॒ या स॑हस्रत॒म्य् आसी॒त् तस्या॒म् इन्द्र॑श् च॒ विष्णु॑श् च॒ व्याय॑छेताम् \
स इन्द्रो॑ऽमन्यत \
अ॒नया॒ वा इ॒दं विष्णुः॑ स॒हस्रं॑ वर्क्ष्यत॒ इति॒
तस्या॑म् अकल्पेताम् \
द्विभा॑ग॒ इन्द्र॒स् तृती॑ये॒ विष्णु॒स्
तद् वा ए॒षाभ्यनू॑च्यते \
उ॒भा जि॑ग्यथु॒र् इति॑
तां वा ए॒ताम् अ॑छावा॒कः ॥
ए॒व शँ॑सति॒ \
अथ॒ या स॑हस्रत॒मी सा होत्रे॑ दे॒येति॒
होता॑रं॒ वा अ॒भ्यति॑रिच्यते॒
यद् अ॑ति॒रिच्य॑ते॒ होताना॑प्तस्यापयि॒ता \
अथा॑हुस् \
उ॒न्ने॒त्रे देयेति॒ \
अति॑रिक्ता॒ वा ए॒षा स॒हस्र॑स्य॒ \
अति॑रिक्त उन्ने॒तर्त्विजा॒म्
अथा॑हुः॒
सर्वे॑भ्यः सद॒स्ये॑भ्यो॒ देयेति॒ \
अथा॑हुस् \
उ॒दा॒कृत्या॒ सा वशं॑ चरे॒द् इति॒ \
अथा॑हुस् \
ब्र॒ह्मणे॑ चा॒ग्नीधे॑ च॒ देयेति॑ ॥
द्विभा॑गम् ब्र॒ह्मणे॒ तृती॑यम् अ॒ग्नीधे॑ \
ऐ॒न्द्रो वै ब्र॒ह्मा वै॑ष्ण॒वो॑ऽग्नीध् \
यथै॒व ताव् अक॑ल्पेता॒म् इति॒ \
अथा॑हुस् \
या क॑ल्या॒णी ब॑हुरू॒पा सा देयेति॒ \
अथा॑हुस् \
या द्वि॑रू॒पोभ॒यतए॑नी॒ सा देयेति॑ स॒हस्र॑स्य॒ परि॑गृहीत्यै॒
तद् वा ए॒तत् स॒हस्र॒स्याय॑नम् \
स॒हस्रँ॑ स्तो॒त्रीयाः॑
स॒हस्रं॒ दक्षि॑णाः
स॒हस्र॑सम्मितः सुव॒र्गो लो॒कः
सु॑व॒र्गस्य॑ लो॒कस्या॒भिजि॑त्यै ॥
सोमो॒ वै स॒हस्र॑म् अविन्द॒त्
तम् इन्द्रोऽन्व् अ॑विन्द॒त्
तौ य॒मो न्याग॑छत्
ताव् अ॑ब्रवीत् \
अस्तु॒ मेऽत्रापीति॒ \
अस्तु॒ ही3 इत्य् अ॑ब्रूताम् \
स य॒म एक॑स्यां वी॒र्य॑म् पर्य् अ॑पश्यत् \
इ॒यं वा अ॒स्य स॒हस्र॑स्य वी॒र्य॑म् बिभ॒र्तीति॒ ताव् अ॑ब्रवीद् इ॒यम् ममास्त्व् ए॒तद् यु॒वयो॒र् इति॑
ताव् अ॑ब्रूताम् \
सर्वे॒ वा ए॒तद् ए॒तस्यां॑ वी॒र्य॑म् ॥
परि॑ पश्या॒मोऽँश॒म् आ ह॑रामहा॒ इति॒
तस्या॒म् अँश॒म् आह॑रन्त
ताम् अ॒प्सु प्रावे॑शयन् \
सोमा॑यो॒देहीति॑
सा रोहि॑णी पिङ्ग॒लैक॑हायनी रू॒पं कृ॒त्वा त्रय॑स्त्रिँशता च त्रि॒भिश् च॑ श॒तैः स॒होदैत् \
तस्मा॒द् रोहि॑ण्या पिङ्ग॒लयैक॑हायन्या॒ सोमं॑ क्रीणीयात् \
य ए॒वं वि॒द्वान् रोहि॑ण्या पिङ्ग॒लयैक॑हायन्या॒ सोमं॑ क्री॒णाति॒ त्रय॑स्त्रिँशता चै॒वास्य॑ त्रि॒भिश् च॑ ॥
श॒तैः सोमः॑ क्री॒तो भ॑वति॒
सुक्री॑तेन यजते
ताम् अ॒प्सु प्रावे॑शयन् \
इन्द्रा॑यो॒देहीति॑
सा रोहि॑णी लक्ष्म॒णा प॑ष्ठौ॒ही वार्त्र॑घ्नी रू॒पं कृ॒त्वा त्रय॑स्त्रिँशता च त्रि॒भिश् च॑ श॒तैः स॒होदैत्
तस्मा॒द् रोहि॑णीं लक्ष्म॒णाम् प॑ष्ठौ॒हीं वार्त्र॒घ्नीं द॑द्यात् \
य ए॒वं वि॒द्वान् रोहि॑णीं लक्ष्म॒णाम् प॑ष्ठौ॒हीं वार्त्र॑घ्नीं॒ ददा॑ति॒ त्रय॑स्त्रिँशच् चै॒वास्य॒ त्रीणि॑ च श॒तानि॒ सा द॒त्ता ॥
भ॒व॒ति॒
ताम् अ॒प्सु प्रावे॑शयन्
य॒मायो॒देहीति॑
सा जर॑ती मू॒र्खा त॑ज्जघ॒न्या रू॒पं कृ॒त्वा त्रय॑स्त्रिँशता च त्रि॒भिश् च॑ श॒तैः स॒होदैत्
तस्मा॒ज् जर॑तीम् मू॒र्खां त॑ज्जघ॒न्याम् अ॑नु॒स्तर॑णीं कुर्वीत॒
य ए॒वं वि॒द्वाञ् जर॒तीम् मू॒र्खां त॑ज्जघ॒न्याम् अ॑नु॒स्तर॑णीं कुरु॒ते त्रय॑स्त्रिँशच् चै॒वास्य॒ त्रीणि॑ च श॒तानि॒ सामुष्मिँ॑ लो॒के भ॑वति
वाग् ए॒व स॑हस्रत॒मी
तस्मा॑त् ॥
वरो॒ देयः॑
सा हि वरः॑
स॒हस्र॑म् अस्य॒ सा द॒त्ता भ॑वति॒
तस्मा॒द् वरो॒ न प्र॑ति॒गृह्यः॑
सा हि वरः॑
स॒हस्र॑म् अस्य॒ प्रति॑गृहीतम् भवति \
इ॒यं वर॒ इति॑ ब्रूयात् \
अथा॒न्याम् ब्रू॑यात् \
इ॒यम् ममेति॒
तथा॑स्य॒ तत् स॒हस्र॒म् अप्र॑तिगृहीतम् भवति \
उभयतए॒नी स्या॒त्
तद् आ॑हुस् \
अ॒न्य॒तए॒नी स्या॑त् स॒हस्र॑म् प॒रस्ता॒द् एत॒म् इति॒
यैव वरः॑ ॥
क॒ल्या॒णी रू॒पस॑मृद्धा॒ सा स्या॑त्
सा हि वरः॒
समृ॑द्ध्यै
ताम् उत्त॑रे॒णाग्नी॑ध्रम् पर्या॒णीया॑हव॒नीय॒स्यान्ते॑ द्रोणकल॒शम् अव॑ घ्रापयेत् \
आ जि॑घ्र क॒लश॑म् मह्य् उ॒रुधा॑रा॒ पय॑स्व॒त्य् आ त्वा॑ विश॒न्त्व् इन्द॑वः समु॒द्रम् इ॑व॒ सिन्ध॑वः
सा मा॑ स॒हस्र॒ आ भ॑ज प्र॒जया॑ प॒शुभिः॑ स॒ह पुन॒र् मा वि॑शताद् र॒यिर् इति॑
प्र॒जयै॒वैन॑म् प॒शुभी॑ र॒य्या सम् ॥
अ॒र्ध॒य॒ति॒
प्र॒जावा॑न् पशु॒मान् र॑यि॒मान् भ॑वति॒ य ए॒वं वेद॒
तया॑ स॒हाग्नी॑ध्रम् प॒रेत्य॑ पु॒रस्ता॑त् प्र॒तीच्यां॒ तिष्ठ॑न्त्यां जुहुयात् \
उ॒भा जि॑ग्यथु॒र् न परा॑ जयेथे॒ न परा॑ जिग्ये कत॒रश् च॒नैनोः॑ ।
इन्द्र॑श् च विष्णो॒ यद् अप॑स्पृधेथां त्रे॒धा स॒हस्रं॒ वि तद् ऐ॑रयेथा॒म् इति॑
त्रेधाविभ॒क्तं वै त्रि॑रा॒त्रे स॒हस्र॑म् \
सा॒ह॒स्रीम् ए॒वैनां॑ करोति
स॒हस्र॑स्यै॒वैना॒म् मात्रां॑ ॥
क॒रो॒ति॒
रू॒पाणि॑ जुहोति
रू॒पैर् ए॒वैनाँ॒ सम् अ॑र्धयति॒
तस्या॑ उपो॒त्थाय॒ कर्ण॒म् आ ज॑पेत् \
इडे॒ रन्तेऽदि॑ते॒ सर॑स्वति॒ प्रिये॒ प्रेय॑सि॒ महि॒ विश्रु॑त्य् ए॒तानि॑ ते अघ्निये॒ नामा॑नि
सु॒कृत॑म् मा दे॒वेषु॑ ब्रूता॒द् इति॑
दे॒वेभ्य॑ ए॒वैन॒म् आ वे॑दयति॒ \
अन्व् ए॑नं दे॒वा बु॑ध्यन्ते ॥
स॒ह॒स्र॒त॒म्या॑ वै यज॑मानः सुव॒र्गं लो॒कम् ए॑ति॒
सैनँ॑ सुव॒र्गं लो॒कं ग॑मयति
सा मा॑ सुव॒र्गं लो॒कं ग॑म॒येत्य् आ॑ह
सुव॒र्गम् ए॒वैनं॑ लो॒कं ग॑मयति
सा मा॒ ज्योति॑ष्मन्तं लो॒कं ग॑म॒येत्य् आ॑ह॒
ज्योति॑ष्मन्तम् ए॒वैनं॑ लो॒कं ग॑मयति
सा मा॒ सर्वा॒न् पुण्याँ॑ लो॒कान् ग॑म॒येत्य् आ॑ह॒
सर्वा॑न् ए॒वैन॒म् पुण्याँ॑ लो॒कान् ग॑मयति
सा ॥
मा॒ प्र॒ति॒ष्ठां ग॑मय प्र॒जया॑ प॒शुभिः॑ स॒ह पुन॒र् मा वि॑शताद् र॒यिर् इति॑ प्र॒जयै॒वैन॑म् प॒शुभी॑ र॒य्याम् प्रति॑ ष्ठापयति
प्र॒जावा॑न् पशु॒मान् र॑यि॒मान् भ॑वति॒ य ए॒वं वेद॑
ताम् अ॒ग्नीधे॑ वा ब्र॒ह्मणे॑ वा॒ होत्रे॑ वोद्गा॒त्रे वा॑ध्व॒र्यवे॑ वा दद्यात्
स॒हस्र॑म् अस्य॒ सा द॒त्ता भ॑वति
स॒हस्र॑म् अस्य॒ प्रति॑गृहीतम् भवति॒ यस् ताम् अवि॑द्वान् ॥
प्र॒ति॒गृ॒ह्णाति॑
ताम् प्रति॑ गृह्णीयात् \
एका॑सि॒ न स॒हस्र॒म्
एकां॑ त्वा भू॒ताम् प्रति॑ गृह्णामि॒ न स॒हस्र॒म्
एका॑ मा भू॒ता वि॑श॒ मा स॒हस्र॒म् इति॒ \
एका॑म् ए॒वैना॑म् भू॒ताम् प्रति॑ गृह्णाति॒ न स॒हस्रं॒ य ए॒वं वेद॑
स्यो॒नासि॑ सु॒षदा॑ सु॒शेवा॑ स्यो॒ना मा वि॑श सु॒षदा॒ मा वि॑श सु॒शेवा॒ मा वि॑श ॥
इत्य् आ॑ह
स्यो॒नैवैनँ॑ सु॒षदा॑ सु॒शेवा॑ भू॒त्वा वि॑शति॒ नैनँ॑ हिनस्ति
ब्रह्मवा॒दिनो॑ वदन्ति
स॒हस्रँ॑ सहस्रत॒म्य् अन्व् ए॒ती3 स॑हस्रत॒मीँ स॒हस्रा3म् इति॒
यत् प्राची॑म् उत्सृ॒जेत् स॒हस्रँ॑ सहस्रत॒म्य् अन्व् इ॑या॒त्
तत् स॒हस्र॑म् अप्रज्ञा॒त्रम् \
सु॒व॒र्गं लो॒कं न प्र जा॑नीयात्
प्र॒तीची॒म् उत् सृ॑जति
ताँ स॒हस्र॒म् अनु॑ प॒र्याव॑र्तते
सा प्र॑जान॒ती
सु॑व॒र्गं {F लो॒कम्} {W लो॒कं} ए॑ति॒
यज॑मानम् अ॒भ्य् उत् सृ॑जति
क्षि॒प्रे स॒हस्र॒म् प्र जा॑यते \
उत्त॒मा नी॒यते॑ प्रथ॒मा दे॒वान् ग॑छति ॥
अत्रि॑र् अददा॒द् और्वा॑य प्र॒जाम् पु॒त्रका॑माय॒
स रि॑रिचा॒नो॑ऽमन्यत॒ निर्वी॑र्यः शिथि॒लो या॒तया॑मा॒
स ए॒तं च॑तूरा॒त्रम् अ॑पश्य॒त्
तम् आह॑र॒त्
तेना॑यजत॒
ततो॒ वै तस्य॑ च॒त्वारो॑ वी॒रा आजा॑यन्त॒ सुहो॑ता॒ सूद्गा॑ता॒ स्व॑ध्वर्युः॒ सुस॑भेयस् \
य ए॒वं वि॒द्वाँश् च॑तूरा॒त्रेण॒ यज॑त॒ आस्य॑ च॒त्वारो॑ वी॒रा जा॑यन्ते॒ सुहो॑ता॒ सूद्गा॑ता॒ स्व॑ध्वर्युः॒ सुस॑भेयस् \
ये च॑तुर्विँ॒शाः पव॑माना ब्रह्मवर्च॒सं तत् ॥
य उ॒द्यन्त॒ स्तोमाः॒ श्रीः सा \
अत्रिँ॑ श्र॒द्धादे॑वं॒ यज॑मानं च॒त्वारि॑ वी॒र्या॑णि॒ नोपा॑नम॒न् तेज॑ इन्द्रि॒यम् ब्र॑ह्मवर्च॒सम् अ॒न्नाद्य॑म् \
स ए॒ताँश् च॒तुर॒श् चतु॑ष्टोमा॒न्त् सोमा॑न् अपश्यत्
तान् आह॑र॒त् तैर् अ॑यजत॒
तेज॑ ए॒व प्र॑थ॒मेनावा॑रुन्द्धेन्द्रि॒यं द्वि॒तीये॑न ब्रह्मवर्च॒सं तृ॒तीये॑ना॒न्नाद्यं॑ चतु॒र्थेन॒
य ए॒वं वि॒द्वाँश् च॒तुर॒श् चतु॑ष्टोमा॒न्त् सोमा॑न् आ॒हर॑ति॒ तैर् यज॑ते॒ तेज॑ ए॒व प्र॑थ॒मेनाव॑ रुन्द्ध इन्द्रि॒यं द्वि॒तीये॑न ब्रह्मवर्च॒सं तृ॒तीये॑ना॒न्नाद्यं॑ चतु॒र्थेन॑
याम् ए॒वात्रि॒र् ऋद्धि॒म् आर्ध्नो॒त् ताम् ए॒व यज॑माना ऋध्नोति ॥
ज॒मद॑ग्निः॒ पुष्टि॑कामश् चतूरा॒त्रेणा॑यजत॒
स ए॒तान् पोषाँ॑ अपुष्य॒त्
तस्मा॑त् पलि॒तौ जाम॑दग्नियौ॒ न सं जा॑नाते
ए॒तान् ए॒व पोषा॑न् पुष्यति॒ य ए॒वं वि॒द्वाँश् च॑तूरा॒त्रेण॒ यज॑ते
पुरोडा॒शिन्य॑ उप॒सदो॑ भवन्ति
प॒शवो॒ वै पु॑रो॒डाशः॑
प॒शून् ए॒वाव॑ रुन्द्धे॒ \
अन्नं॒ वै पु॑रो॒डाश॑स् \
अन्न॑म् ए॒वाव॑ रुन्द्धे \
अन्ना॒दः प॑शु॒मान् भ॑वति॒ य ए॒वं वि॒द्वाँश् च॑तूरा॒त्रेण॒ यज॑ते ॥
सं॒व॒त्स॒रो वा इ॒दम् एक॑ आसी॒त्
सो॑ऽकामयत \
ऋ॒तून्त् सृ॑जे॒येति॒
स ए॒तम् प॑ञ्चरा॒त्रम् अ॑पश्य॒त्
तम् आह॑र॒त् तेना॑यजत॒
ततो॒ वै स ऋ॒तून् अ॑सृजत॒
य ए॒वं वि॒द्वान् प॑ञ्चरा॒त्रेण॒ यज॑ते॒ प्रैव॑ जायते॒
त ऋ॒तवः॑ सृ॒ष्टा न व्याव॑र्तन्त॒
त ए॒तम् प॑ञ्चरा॒त्रम् अ॑पश्य॒न्
तम् आह॑र॒न्
तेना॑यजन्त॒
ततो॒ वै ते व्याव॑र्तन्त ॥
य ए॒वं वि॒द्वान् प॑ञ्चरा॒त्रेण॒ यज॑ते॒ वि पा॒प्मना॒ भ्रातृ॑व्ये॒णा व॑र्तते
सार्व॑सेनिः शौचे॒यो॑ऽकामयत
पशु॒मान्त् स्या॒म् इति॒
स ए॒तम् प॑ञ्चरा॒त्रम् आह॑र॒त्
तेना॑यजत॒
ततो॒ वै स स॒हस्र॑म् प॒शून् प्राप्नो॑त् \
य ए॒वं वि॒द्वान् पञ्च॑रा॒त्रेण॒ यज॑ते॒ प्र स॒हस्र॑म् प॒शून् आ॑प्नोति
बब॒रः प्रावा॑हणिर् अकामयत
वा॒चः प्र॑वदि॒ता स्या॒म् इति॒
स ए॒तम् प॑ञ्चरा॒त्रम् आ ॥
अ॒ह॒र॒त्
तेना॑यजत॒
ततो॒ वै स वा॒चः प्र॑वदि॒ताभ॑वत् \
य ए॒वं वि॒द्वान् प॑ञ्चरा॒त्रेण॒ यज॑ते प्रवदि॒तैव वा॒चो भ॑वति॒ \
अथो॑ एनं वा॒चस् पति॒र् इत्य् आ॑हुस् \
अना॑प्तश् चतूरा॒त्रोऽति॑रिक्तः षड्रा॒त्रोऽथ॒ वा ए॒ष स॑म्प्र॒ति य॒ज्ञो यत् प॑ञ्चरा॒त्रस् \
य ए॒वं वि॒द्वान् प॑ञ्चरा॒त्रेण॒ यज॑ते सम्प्र॒त्य् ए॑व य॒ज्ञेन॑ यजते
पञ्चरा॒त्रो भ॑वति॒
पञ्च॒ वा ऋ॒तवः॑ संवत्स॒रः ॥
ऋ॒तुष्व् ए॒व स॑म्वत्स॒रे प्रति॑ तिष्ठति॒ \
अथो॒ पञ्चा॑क्षरा प॒ङ्क्तिः
पाङ्क्तो॑ य॒ज्ञस् \
य॒ज्ञम् ए॒वाव॑ रुन्द्धे
त्रि॒वृद् अ॑ग्निष्टो॒मो भ॑वति॒
तेज॑ ए॒वाव॑ रुन्द्धे
पञ्चद॒शो भ॑वति \
इन्द्रि॒यम् ए॒वाव॑ रुन्द्धे
सप्तद॒शो भ॑वति \
अ॒न्नाद्य॒स्याव॑रुद्ध्यै॒ \
अथो॒ प्रैव तेन॑ जायते
पञ्चविँ॒शो॑ऽग्निष्टो॒मो भ॑वति प्र॒जाप॑ते॒र् आप्त्यै॑
महाव्र॒तवा॑न् अ॒न्नाद्य॒स्याव॑रुद्ध्यै
विश्व॒जित् सर्व॑पृष्ठोऽतिरा॒त्रो भ॑वति॒
सर्व॑स्या॒भिजि॑त्यै ॥
दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे॑ऽश्विनो॑र् बा॒हुभ्या॑म् पू॒ष्णो हस्ता॑भ्या॒म् आ द॑दे \
इ॒माम् अ॑गृभ्णन् रश॒नाम् ऋ॒तस्य॒ पूर्व॒ आयु॑षि वि॒दथे॑षु क॒व्या । तया॑ दे॒वाः सु॒तम् आ ब॑भूवुर् ऋ॒तस्य॒ साम॑न्त् स॒रम् आ॒रप॑न्ती ॥
अ॒भि॒धा अ॑सि॒ भुव॑नम् असि य॒न्तासि॑ ध॒र्तासि॒ सो॑ऽग्निं वै॑श्वान॒रँ सप्र॑थसं गछ॒ स्वाहा॑कृतः
पृथि॒व्यां य॒न्ता राड् य॒न्तासि॒ यम॑नो ध॒र्तासि॑ ध॒रुणः॑
कृ॒ष्यै त्वा॒ क्षेमा॑य त्वा र॒य्यै त्वा॒ पोषा॑य त्वा
पृथि॒व्यै त्वा॒न्तरि॑क्षाय त्वा दि॒वे त्वा॑
स॒ते त्वास॑ते त्वा॒द्भ्यस् त्वौष॑धीभ्यस् त्वा॒ विश्वे॑भ्यस् त्वा भू॒तेभ्यः॑ ॥
वि॒भूर् मा॒त्रा प्र॒भूः पि॒त्राश्वो॑ऽसि॒ हयो॒ऽस्य् अत्यो॑ऽसि॒ नरो॒ऽस्य् अर्वा॑सि॒ सप्ति॑र् असि वा॒ज्य् अ॑सि॒ वृषा॑सि नृ॒मणा॑ असि॒ ययु॒र् नामा॑स्य् आदि॒त्याना॒म् पत्वान्व् इ॑हि \
अ॒ग्नये॒ स्वाहा॒ स्वाहे॑न्द्रा॒ग्निभ्याँ॒ स्वाहा॑ प्र॒जाप॑तये॒ स्वाहा॒ विश्वे॑भ्यो दे॒वेभ्यः॒ स्वाहा॒ सर्वा॑भ्यो दे॒वेता॑भ्यस् \
इ॒ह धृतिः॒ स्वाहे॒ह विधृ॑तिः॒ स्वाहे॒ह रन्तिः॒ स्वाहे॒ह रम॑तिः॒ स्वाहा॑
भूर् अ॑सि भु॒वे त्वा॒ भव्या॑य त्वा भविष्य॒ते त्वा॑ विश्वेभ्यस् त्वा भू॒तेभ्य॑स् \
देवा॑ आशापाला ए॒तं दे॒वेभ्योऽश्व॒म् मेधा॑य॒ प्रोक्षि॑तं गोपायत ॥
आय॑नाय॒ स्वाहा॑
प्राय॑णाय॒ स्वाहा॑ \
उद्द्रा॒वाय॒ स्वाहा॒ \
उद्द्रु॑ताय॒ स्वाहा॑
शूका॒राय॒ स्वाहा॑
शूकृ॑ताय॒ स्वाहा॒
पला॑यिताय॒ स्वाहा॑ \
आ॒पला॑यिताय॒ स्वाहा॑ \
आ॒वल्ग॑ते॒ स्वाहा॑
परा॒वल्ग॑ते॒ स्वाहा॑ \
आय॒ते स्वाहा॑
प्रय॒ते स्वाहा॒
सर्व॑स्मै॒ स्वाहा॑ ॥
अ॒ग्नये॒ स्वाहा॒
सोमा॑य॒ स्वाहा॑
वा॒यवे॒ स्वाहा॑ \
अ॒पाम् मोदा॑य॒ स्वाहा॑
सवि॒त्रे स्वाहा॒
सर॑स्वत्यै॒ स्वाहा॒ \
इन्द्रा॑य॒ स्वाहा॑
बृह॒स्पत॑ये॒ स्वाहा॑
मि॒त्राय॒ स्वाहा॒
वरु॑णाय॒ स्वाहा॒
सर्व॑स्मै॒ स्वाहा॑ ॥
पृ॒थि॒व्यै स्वाहा॑ \
अ॒न्तरि॑क्षाय॒ स्वाहा॑
दि॒वे स्वाहा॑
सूर्या॑य॒ स्वाहा॑
च॒न्द्रम॑से॒ स्वाहा॒
नक्ष॑त्रेभ्यः॒ स्वाहा॑
प्राच्यै॑ दि॒शे स्वाहा॒
दक्षि॑णायै दि॒शे स्वाहा॑
प्र॒तीच्यै॑ दि॒शे स्वाहा॒ \
उदी॑च्यै दि॒शे स्वाहा॑ \
ऊ॒र्ध्वायै॑ दि॒शे स्वाहा॑
दि॒ग्भ्यः स्वाहा॑ \
अवान्तरदि॒शाभ्यः॒ स्वाहा॒
समा॑भ्यः॒ स्वाहा॑
श॒रद्भ्यः॒ स्वाहा॑ \
अहोरा॒त्रेभ्यः॒ स्वाहा॑ \
अर्धमा॒सेभ्यः॒ स्वाहा॑
मासे॑भ्यः॒ स्वाहा॑ \
ऋ॒तुभ्यः॒ स्वाहा॑
संवत्स॒राय॒ स्वाहा॒
सर्व॑स्मै॒ स्वाहा॑ ॥
अ॒ग्नये॒ स्वाहा॒
सोमा॑य॒ स्वाहा॑
सवि॒त्रे स्वाहा॒
सर॑स्वत्यै॒ स्वाहा॑
पू॒ष्णे स्वाहा॑
बृह॒स्पत॑ये॒ स्वाहा॑ \
अ॒पाम् मोदाय॒ स्वाहा॑
वा॒यवे॒ स्वाहा॑
मि॒त्राय॒ स्वाहा॒
वरु॑णाय॒ स्वाहा॒
सर्व॑स्मै॒ स्वाहा॑ ॥
पृ॒थि॒व्यै स्वाहा॑ \
अ॒न्तरि॑क्षाय॒ स्वाहा॑
दि॒वे स्वाहा॑ \
अ॒ग्नये॒ स्वाहा॒
सोमा॑य॒ स्वाहा॑
सूर्या॑य॒ स्वाहा॑
च॒न्द्रम॑से॒ स्वाहा॒ \
अह्ने॒ स्वाहा॑
रात्रि॑यै॒ स्वाहा॑ \
ऋ॒जवे॒ स्वाहा॑
सा॒धवे॒ स्वाहा॑
सुक्षि॒त्यै स्वाहा॑
क्षु॒धे स्वाहा॑ \
आशिति॒म्ने स्वाहा॒
रोगा॑य॒ स्वाहा॑
हि॒माय॒ स्वाहा॑
शी॒ताय॒ स्वाहा॑ \
आत॒पाय॒ स्वाहा॒ \
अर॑ण्याय॒ स्वाहा॑
सुव॒र्गाय॒ स्वाहा॑
लो॒काय॒ स्वाहा॒
सर्व॑स्मै॒ स्वाहा॑ ॥
भुवो॑ दे॒वानां॒ कर्म॑णा॒पस॒र्तस्य॑ प॒थ्या॑सि॒ वसु॑भिर् दे॒वेभि॑र् दे॒वत॑या गाय॒त्रेण॑ त्वा॒ छन्द॑सा युनज्मि वस॒न्तेन॑ त्व॒र्तुना॑ ह॒विषा॑ दीक्षयामि
रु॒द्रेभि॑र् दे॒वेभि॑र् दे॒वत॑या॒ त्रैष्टु॑भेन त्वा॒ छन्द॑सा युनज्मि ग्री॒ष्मेण॑ त्व॒र्तुना॑ ह॒विषा॑ दीक्षयामि \
आदि॒त्येभि॑र् दे॒वेभि॑र् दे॒वत॑या॒ जाग॑तेन त्वा॒ छन्द॑सा युनज्मि व॒र्षाभि॑र् त्व॒र्तुना॑ ह॒विषा॑ दीक्षयामि॒
विश्वे॑भिर् दे॒वेभि॑र् दे॒वत॒यानु॑ष्टुभेन त्वा॒ छन्द॑सा युनज्मि ॥
श॒रदा॑ त्व॒र्तुना॑ ह॒विषा॑ दीक्षयामि॒ \
अङ्गि॑रोभिर् दे॒वेभि॑र् दे॒वत॑या॒ पाङ्क्ते॑न त्वा॒ छन्द॑सा युनज्मि हेमन्तशिशि॒राभ्यां॑ त्व॒र्तुना॑ ह॒विषा॑ दीक्षयामि \
आहं दी॒क्षाम् अ॑रुहम् ऋ॒तस्य॒ पत्नीं॑ गाय॒त्रेण॒ छन्द॑सा॒ ब्रह्म॑णा च॒र्तँ स॒त्ये॑ऽधाँ स॒त्यम् ऋ॒ते॑ऽधाम् ॥
म॒हीम् ऊ॒ षु
सु॒त्रामा॑णम्
इ॒ह धृतिः॒ स्वाहा॑ \
इ॒ह विधृ॑तिः॒ स्वाहा॑ \
इ॒ह रन्तिः॒ स्वाहा॑ \
इ॒ह रम॑तिः॒ स्वाहा॑ ॥
ईं॒का॒राय॒ स्वाहा॑ \
ईंकृ॑ताय॒ स्वाहा॒
क्रन्द॑ते॒ स्वाहा॑ \
अव॒क्रन्द॑ते॒ स्वाहा॒
प्रोथ॑ते॒ स्वाहा॑
प्र॒प्रोथ॑ते॒ स्वाहा॑
ग॒न्धाय॒ स्वाह॑
घ्रा॒ताय॒ स्वाहा॑
प्रा॒णाय॒ स्वाहा॑
व्या॒नाय॒ स्वाहा॑ \
अपा॒नाय॒ स्वाहा॑
संदी॒यमा॑नाय॒ स्वाहा॒
संदि॑ताय॒ स्वाहा॑
विचृ॒त्यमा॑नाय॒ स्वाहा॒
विचृ॑त्ताय॒ स्वाहा॑
पलायि॒ष्यमा॑णाय॒ स्वाहा॒
पला॑यिताय॒ स्वाहा॑ \
उपरँस्य॒ते स्वाहा॒ \
उप॑रताय॒ स्वाहा॑
निवेक्ष्य॒ते स्वाहा॑
निवि॒शमा॑नाय॒ स्वाहा॒
निवि॑ष्टाय॒ स्वाहा॑
निषत्स्य॒ते स्वाहा॑
नि॒षीद॑ते॒ स्वाहा॒
निष॑ण्णाय॒ स्वाहा॑ ॥
आ॒सि॒ष्य॒ते स्वाहा॑ \
आसी॑नाय॒ स्वाहा॑ \
आसि॒ताय॒ स्वाहा॑
निपत्स्य॒ते स्वाहा॑
नि॒पद्य॑मानाय॒ स्वाहा॒
निप॑न्नाय॒ स्वाहा॑
शयिष्य॒ते स्वाहा॒
शया॑नाय॒ स्वाहा॑
शयि॒ताय॒ स्वाहा॑
सम्मीलिष्य॒ते स्वाहा॑
स॒म्मील॑ते॒ स्वाहा॒
सम्मी॑लिताय॒ स्वाहा॑
स्वप्स्य॒ते स्वाहा॑
स्वप॒ते स्वाहा॑
सु॒प्ताय॒ स्वाहा॑
प्रभोत्स्य॒ते स्वाहा॑
प्र॒बुध्य॑मानाय॒ स्वाहा॒
प्रबु॑द्धाय॒ स्वाहा॑
जागरिष्य॒ते स्वाहा॑
जाग्र॑ते॒ स्वाहा॑
जागरि॒ताय॒ स्वाहा॒
शुश्रू॑षमाणाय॒ स्वाहा॑
शृण्व॒ते स्वाहा॑
श्रु॒ताय॒ स्वाहा॑
वीक्षिष्य॒ते स्वाहा॑ ॥
वीक्ष॑माणाय॒ स्वाहा॑
वीक्षि॑ताय॒ स्वाहा॑
सँहास्य॒ते स्वाहा॑
स्मा॒जिहा॑नाय॒ स्वाहा॑ \
उ॒ज्जिहा॑नाय॒ स्वाहा॑
विवर्त्स्य॒ते स्वाहा॑
वि॒वर्त॑मानाय॒ स्वाहा॒
विवृ॑त्ताय॒ स्वाहा॑ \
उत्थास्य॒ते स्वाहा॑ \
उ॒त्तिष्ठ॑ते॒ स्वाहा॒ \
उत्थि॑ताय॒ स्वाहा॑
विधविष्य॒ते स्वाहा॑
विधून्वा॒नाय॒ स्वाहा॒
विधू॑ताय॒ स्वाहा॑ \
उत्क्रँस्य॒ते स्वाहा॑ \
उ॒त्क्राम॑ते॒ स्वाहा॒ \
उत्क्रा॑न्ताय॒ स्वाहा॑
चंक्रमिष्य॒ते स्वाहा॑
चंक्र॒म्यमा॑णाय॒ स्वाहा॑
चंक्रमि॒ताय॒ स्वाहा॑
कण्डूयिष्य॒ते स्वाहा॑
कण्डू॒यमा॑नाय॒ स्वाहा॑
कण्डूयि॒ताय॒ स्वाहा॑
निकषिष्य॒ते स्वाहा॑
नि॒कष॑माणाय॒ स्वाहा॒
निक॑षिताय॒ स्वाहा॒
यद् अत्ति॒ तस्मै॒ स्वाहा॒
यत् पिब॑ति॒ तस्मै॒ स्वाहा॒
यन् मेह॑ति॒ तस्मै॒ स्वाहा॒
यच् छकृ॑त् क॒रोति॒ तस्मै॒ स्वाहा॒
रेत॑से॒ स्वाहा॑
प्र॒जाभ्यः॒ स्वाहा॑
प्र॒जन॑नाय॒ स्वाहा॒
सर्व॑स्मै॒ स्वाहा॑ ॥
अ॒ग्नये॒ स्वाहा॑ वा॒यवे॒ स्वाहा॒ सूर्या॑य॒ स्वाहा॑ \
ऋ॒तम् अ॑स्य् ऋ॒तस्य॒र्तम् अ॑सि स॒त्यम् अ॑सि स॒त्यस्य॑ स॒त्यम् अ॑सि \
ऋ॒तस्य॒ पन्था॑ असि दे॒वानां॑ छा॒यामृत॑स्य॒ नाम॒ तत् स॒त्यं यत् त्वम् प्र॒जाप॑ति॒र् असि॒ \
अधि॒ यद् अ॑स्मिन् वा॒जिनी॑व॒ शुभ॒ स्पर्ध॑न्ते॒ दिवः॒ सूर्ये॑ण॒ विशो॒ऽपो वृ॑णा॒नः प॑वते क॒व्यन् प॒शुं न गो॒पा इर्यः॒ परि॑ज्मा ॥