इन्द्रो॑ वृ॒त्राय॒ वज्र॒म् उद् अ॑यछ॒त्

स वृ॒त्रो वज्रा॒द् उद्य॑ताद् अबिभे॒त्

सो॑ऽब्रवीत् \

मा मे॒ प्र हा॒र् अस्ति॒ वा इ॒दम् मयि॑ वी॒र्यं॑ तत् ते॒ प्र दा॑स्या॒मीति॒

तस्मा॑ उ॒क्थ्य॑म् प्राय॑छ॒त्

तस्मै॑ द्वि॒तीय॒म् उद् अ॑यछ॒त्

सो॑ऽब्रवीत् \

मा मे॒ प्र हा॒र् अस्ति॒ वा इ॒दं मयि॑ वी॒र्यं॑ तत् ते॒ प्र दा॑स्या॒मीति॑ ॥

तस्मा॑ उ॒क्थ्य॑म् ए॒व प्राय॑छ॒त्

तस्मै॑ तृ॒तीय॒म् उद् अ॑यछ॒त्

तं विष्णु॒र् अन्व् अ॑तिष्ठत

ज॒हीति॒

सो॑ऽब्रवीत् \

मा मे॒ प्र हा॒र् अस्ति॒ वा इ॒दम् मयि॑ वी॒र्यं॑ तत् ते॒ प्र दा॑स्या॒मीति॒

तस्मा॑ उ॒क्थ्य॑म् ए॒व प्राय॑छ॒त्

तं निर्मा॑यम् भू॒तम् अ॑हन्

य॒ज्ञो हि तस्य॑ मा॒यासी॑त् \

यद् उ॒क्थ्यो॑ गृ॒ह्यत॑ इन्द्रि॒यम् ए॒व ॥

तद् वी॒र्यं॑ यज॑मानो॒ भ्रातृ॑व्यस्य वृङ्क्ते॒ \

इन्द्रा॑य त्वा बृ॒हद्व॑ते॒ वय॑स्वत॒ इत्य् आ॑ह॒ \

इन्द्रा॑य॒ हि स तम् प्राय॑छ॒त्

तस्मै॑ त्वा॒ विष्ण॑वे॒ त्वेत्य् आ॑ह॒

यद् ए॒व विष्णु॑र् अ॒न्वति॑ष्ठत

ज॒हीति॒ तस्मा॒द् विष्णु॑म् अ॒न्वाभ॑जति॒

त्रिर् निर् गृ॑ह्णाति॒

त्रिर् हि स तं तस्मै॒ प्राय॑छत् \

ए॒ष ते॒ योनिः॒ पुन॑र्हविर् अ॒सीत्य् आ॑ह॒

पुनः॑पुनः ॥

ह्य् अ॑स्मान् निर्गृ॒ह्णाति॒

चक्षु॒र् वा ए॒तद् य॒ज्ञस्य॒ यद् उ॒क्थ्य॑स्

तस्मा॑द् उ॒क्थ्यँ॑ हु॒तँ सोमा॑ अ॒न्वाय॑न्ति॒

तस्मा॑द् आ॒त्मा चक्षु॒र् अन्व् ए॑ति॒

तस्मा॒द् एकं॒ यन्त॑म् ब॒हवोऽनु॑ यन्ति॒

तस्मा॒द् एको॑ बहू॒नाम् भ॒द्रो भ॑वति॒

तस्मा॒द् एको॑ ब॒ह्वीर् जा॒या वि॑न्दते॒

यदि॑ का॒मये॑ताध्व॒र्युस् \

आ॒त्मानं॑ यज्ञयश॒सेना॑र्पयेय॒म् इत्य् अ॑न्त॒राह॑व॒नीयं॑ च हवि॒र्धानं॑ च॒ तिष्ठ॒न्न् अव॑ नयेत् ॥

आ॒त्मान॑म् ए॒व य॑ज्ञयश॒सेना॑र्पयति॒

यदि॑ का॒मये॑त॒

यज॑मानं यज्ञयश॒सेना॑र्पयेय॒म् इत्य् अ॑न्त॒रा स॑दोहविर्धा॒ने तिष्ठ॒न्न् अव॑ नयेत् \

यज॑मानम् ए॒व य॑ज्ञयश॒सेना॑र्पयति॒

यदि॑ का॒मये॑त

सद॒स्या॑न् यज्ञयश॒सेना॑रपयेय॒म् इति॒ सद॑ आ॒लभ्याव॑ नयेत्

सद॒स्या॑न् ए॒व य॑ज्ञयश॒सेना॑र्पयति ॥

आयु॒र् वा ए॒तद् य॒ज्ञस्य॒ यद् ध्रु॒वस् \

उ॒त्त॒मो ग्रहा॑णां गृह्यते॒ तस्मा॒द् आयुः॑ प्रा॒णाना॑म् उत्त॒मम्

मू॒र्धानं॑ दि॒वो अ॑र॒तिम् पृ॑थि॒व्या इत्य् आ॑ह

मू॒र्धान॑म् ए॒वैनँ॑ समा॒नानां॑ करोति

वैश्वान॒रम् ऋ॒ताय॑ जा॒तम् अ॒ग्निम् इत्य् आ॑ह

वैश्वान॒रँ हि दे॒वत॒यायु॑स् \

उ॒भ॒यतो॑वैश्वानरो गृह्यते॒

तस्मा॑द् उभ॒यतः॑ प्रा॒णास् \

अ॒धस्ता॑च् चो॒परि॑ष्टाच् च \

अ॒र्धिनो॒ऽन्ये ग्रहा॑ गृ॒ह्यन्ते॒ऽर्धी ध्रु॒वस्

तस्मा॑द् ॥

अ॒र्ध्य् अवा॑ङ् प्रा॒णो॑ऽन्येषा॑म् प्रा॒णाना॒म्

उपो॑प्ते॒ऽन्ये ग्रहाः॑ सा॒द्यन्तेऽनु॑पोप्ते ध्रु॒वस्

तस्मा॑द् अ॒स्थ्नान्याः प्र॒जाः प्र॑ति॒तिष्ठ॑न्ति माँ॒सेना॒न्यास् \

असु॑रा॒ वा उ॑त्तर॒तः पृ॑थि॒वीम् प॒र्याचि॑कीर्षन्

तां दे॒वा ध्रु॒वेणा॑दृँह॒न्

तद् ध्रु॒वस्य॑ ध्रुव॒त्वम् \

यद् ध्रु॒व उ॑त्तर॒तः सा॒द्यते॒ धृत्यै॑ \

आयु॒र् वा ए॒तद् य॒ज्ञस्य॒ यद् ध्रु॒व आ॒त्मा होता॒

यद् धो॑तृचम॒से ध्रु॒वम् अ॑व॒नय॑त्य् आ॒त्मन्न् ए॒व य॒ज्ञस्य॑ ॥

आयु॑र् दधाति

पु॒रस्ता॑द् उ॒क्थस्या॑व॒नीय॒ इत्य् आ॑हुः

पु॒रस्ता॑द् ध्य् आयु॑षो भु॒ङ्क्ते

म॑ध्य॒तो॑ऽव॒नीय॒ इत्य् आ॑हुस् \

म॒ध्य॒मेन॒ ह्य् आयु॑षो भु॒ङ्क्ते \

उ॑त्तरा॒र्धे॑ऽव॒नीय॒ इत्य् आ॑हुस् \

उ॒त्त॒मेन॒ ह्य् आयु॑षो भु॒ङ्क्ते

वै॑श्वदे॒व्याम् ऋ॒चि श॒स्यमा॑नाया॒म् अव॑ नयति

वैश्वदे॒व्यो॑ वै प्र॒जाः

प्र॒जास्व् ए॒वायु॑र् दधाति ॥

य॒ज्ञेन॒ वै दे॒वाः सु॑व॒र्गं लो॒कम् आ॑य॒न्

ते॑ऽमन्यन्त

मनु॒ष्या॑ नो॒ऽन्वाभ॑विष्य॒न्तीति॒

ते सं॑वत्स॒रेण॑ योपयि॒त्वा सु॑व॒र्गं लो॒कम् आ॑य॒न्

तम् ऋष॑य ऋतुग्र॒हैर् ए॒वानु॒ प्राजा॑न॒न्

यद् ऋ॑तुग्र॒हा गृ॒ह्यन्ते॑ सुव॒र्गस्य॑ लो॒कस्य॒ प्रज्ञा॑त्यै

द्वाद॑श गृह्यन्ते

द्वाद॑श॒ मासाः॑ संवत्स॒रः

सं॑वत्स॒रस्य॒ प्रज्ञात्यै॑

स॒ह प्र॑थ॒मौ गृ॑ह्येते स॒होत्त॒मौ

तस्मा॒द् द्वौद्वा॑व् ऋ॒तू

उ॑भ॒यतो॑मुखम् ऋतुपा॒त्रम् भ॑वति॒

कः ॥

हि तद् वेद॒ यत॑ ऋतू॒नाम् मुख॑म्

ऋ॒तुना॒ प्रेष्येति॒ षट् कृत्व॑ आह॒

षड् वा ऋ॒तव॑स् \

ऋ॒तून् ए॒व प्री॑णाति \

ऋ॒तुभि॒र् इति॑ च॒तुस् \

चतु॑ष्पद ए॒व प॒शून् प्री॑णाति॒

द्विः पुन॑र् ऋ॒तुना॑ह

द्वि॒पद॑ ए॒व प्री॑णाति \

ऋ॒तुना॒ प्रेष्येति॒ षट् कृत्व॑ आह॒र्तुभि॒र् इति॑ च॒तुस्

तस्मा॒च् चतु॑ष्पादः प॒शव॑ ऋ॒तून् उप॑ जीवन्ति॒

द्विः ॥

पुन॑र् ऋ॒तुना॑ह॒

तस्मा॑द् द्वि॒पाद॒श् चतु॑ष्पदः प॒शून् उप॑ जीवन्ति \

ऋ॒तुना॒ प्रेष्येति॒ षट् कृत्व॑ आह॒र्तुभि॒र् इति॑ च॒तुर् द्विः पुन॑र् ऋ॒तुना॑ह \

आ॒क्रम॑णम् ए॒व तत्

सेतुं॒ यज॑मानः कुरुते सुव॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै

नान्यो॑ऽन्यम् अनु॒ प्र प॑द्येत॒

यद् अ॒न्यो॑ऽनम् अ॑नुप्र॒पद्ये॑त॒र्तुर् ऋ॒तुम् अनु॒ प्र प॑द्येत॒र्तवो॒ मोहु॑काः स्युः ॥

प्रसि॑द्धम् ए॒वाध्व॒र्युर् दक्षि॑णेन॒ प्र प॑द्यते॒ प्रसि॑द्धम् प्रतिप्रस्था॒तोत्त॑रेण॒

तस्मा॑द् आदि॒त्यः षण् मा॒सो दक्षि॑णेनैति॒ षड् उत्त॑रेण \

उपया॒मगृ॑हीतोऽसि सँ॒सर्पो॑ऽस्य् अँहस्प॒त्याय॒ त्वेत्य् आ॑ह॒ \

अस्ति॑ त्रयो द॒शो मास॒ इत्य् आ॑हु॒स्

तम् ए॒व तत् प्री॑णाति ॥

सु॒व॒र्गाय॒ वा ए॒ते लो॒काय॑ गृह्यन्ते॒ यद् ऋ॑तुग्र॒हास् \

ज्योति॑र् इन्द्रा॒ग्नी

यद् ऐ॑न्द्रा॒ग्नम् ऋ॑तुपा॒त्रेण॑ गृ॒ह्णाति॒ ज्योति॑र् ए॒वास्मा॑ उ॒परि॑ष्टाद् दधाति

सुव॒र्गस्य॑ लो॒कस्यानु॑ख्यात्यै \

ओजो॒भृतौ॒ वा ए॒तौ दे॒वानां॒ यद् इ॑न्द्रा॒ग्नी

यद् ऐ॑न्द्रा॒ग्नो गृ॒ह्यत॒ ओज॑ ए॒वाव॑ रुन्द्धे

वैश्वदे॒वँ शु॑क्रपा॒त्रेण॑ गृह्णाति

वैश्वदे॒व्यो॑ वै प्र॒जास् \

अ॒साव् आ॑दि॒त्यः शु॒कस् \

यद् वै॑श्वदे॒वँ शु॑क्रपा॒त्रेण॑ गृ॒ह्णाति॒ तस्मा॑द् अ॒साव् आ॑दि॒त्यः ॥

सर्वाः॑ प्र॒जाः प्र॒त्यङ्ङ् उद् ए॑ति॒

तस्मा॒त् सर्व॑ ए॒व म॑न्यते

माम् प्रत्य् उद् अ॑गा॒द् इति॑

वैश्वदे॒वँ शु॑क्रपा॒त्रेण॑ गृह्णाति

वैश्वदे॒व्यो॑ वै प्र॒जास् \

तेजः॑ शु॒क्रस् \

यद् वै॑श्वदे॒वँ शु॑क्रपा॒त्रेण॑ गृ॒ह्णाति॑ प्र॒जास्व् ए॒व तेजो॑ दधाति ॥

इन्द्रो॑ म॒रुद्भिः॒ सांवि॑द्येन॒ माध्यं॑दिने॒ सव॑ने वृ॒त्रम् अ॑ह॒न्

यन् माध्यं॑दिने॒ सव॑ने मरुत्व॒तीया॑ गृ॒ह्यन्ते॒ वार्त्र॑घ्ना ए॒व ते यज॑मानस्य गृह्यन्ते॒

तस्य॑ वृ॒त्रं ज॒घ्नुष॑ ऋ॒तवो॑ऽमुह्य॒न्त् स ऋ॑तुपा॒त्रेण॑ मरुत्व॒तीया॑न् अगृह्णा॒त्

ततो॒ वै स ऋ॒तून् प्राजा॑नात् \

यद् ऋ॑तुपा॒त्रेण॑ मरुत्व॒तीया॑ गृ॒ह्यन्त॑ ऋतू॒नाम् प्रज्ञा॑त्यै॒

वज्रं॒ वा ए॒तं यज॑मानो॒ भ्रातृ॑व्याय॒ प्र ह॑रति॒ यन् म॑रुत्व॒तीया॒ उद् ए॒व प्र॑थ॒मेन॑ ॥

य॒छ॒ति॒ प्र ह॑रति द्वि॒तीये॑न स्तृणु॒ते तृ॒तीये॑न \

आयु॑धं॒ वा ए॒तद् यज॑मानः॒ सँस् कु॑रुते॒ यन् म॑रुत्व॒तीया॒ धनु॑र् ए॒व प्र॑थ॒मो ज्या द्वि॒तीय॒ इषु॑स् तृ॒तीयः॑

प्रत्य् ए॒व प्र॑थ॒मेन॑ धत्ते॒ वि सृ॑जति द्वि॒तीये॑न॒ विध्य॑ति तृ॒तीये॑न॒ \

इन्द्रो॑ वृ॒त्रँ ह॒त्वा परा॑म् परा॒वत॑म् अगछत् \

अपा॑राध॒म् इति॒ मन्य॑मानः॒

स हरि॑तोऽभव॒त्

स ए॒तान् म॑रुत्व॒तीया॑न् आत्म॒स्पर॑णान् अपश्यत्

तान् अ॑गृह्णीत ॥

प्रा॒णम् ए॒व प्र॑थ॒मेना॑स्पृणुतापा॒नं द्वि॒तीये॒नात्मानं॑ तृ॒तीये॑नात्म॒स्पर॑णा॒ वा ए॒ते यज॑मानस्य गृह्यन्ते॒ यन् म॑रुत्व॒तीयाः॑

प्रा॒णम् ए॒व प्र॑थ॒मेन॑ स्पृणुतेऽपा॒नं द्वि॒तीये॑ना॒त्मानं॑ तृ॒तीये॑न॒ \

इन्द्रो॑ वृ॒त्रम् अ॑ह॒न्

तं दे॒वा अ॑ब्रुवन्

म॒हान् वा अ॒यम् अ॑भू॒द् यो वृ॒त्रम् अव॑धी॒द् इति॒

तन् म॑हे॒न्द्रस्य॑ महेन्द्र॒त्वम् \

स ए॒तम् म॑हे॒न्द्रम् उ॑द्धा॒रम् उद् अ॑हरत वृ॒त्रँ ह॒त्वान्यासु॑ दे॒वता॒स्व् अधि॒

यन् म॑हे॒न्द्रो गृ॒ह्यत॑ उद्धा॒रम् ए॒व तं यज॑मान॒ उद् ध॑रते॒ऽन्यासु॑ प्र॒जास्व् अधि॑

शुक्रपा॒त्रेण॑ गृह्णाति

यजमानदेव॒त्यो॑ वै म॑हे॒न्द्रस् तेजः॑ शु॒क्रो यन् मा॑हे॒न्द्रँ शु॑क्रपा॒त्रेण॑ गृ॒ह्णाति॒ यज॑मान ए॒व तेजो॑ दधाति ॥

अदि॑तिः पु॒त्रका॑मा सा॒ध्येभ्यो॑ दे॒वेभ्यो॑ ब्रह्मौद॒नम् अ॑पच॒त्

तस्या॑ उ॒च्छेष॑णम् अददु॒स्

तत् प्राश्ना॑त्

सा रेतो॑ऽधत्त॒

तस्यै॑ च॒त्वार॑ आदि॒त्या अ॑जायन्त

सा द्वि॒तीय॑म् अपचत्

साम॑न्यत \

उ॒च्छेष॑णान् म इ॒मे॑ऽज्ञत॒ यद् अग्रे॑ प्राशि॒ष्यामी॒तो मे॒ वसी॑याँसो जनिष्यन्त॒ इति॑

साग्रे॒ प्राश्ना॑त्

सा रेतो॑ऽधत्त॒

तस्यै॑ व्य्॑र्?द्धम् आ॒ण्डम् अ॑जायत

सादि॒त्येभ्य॑ ए॒व ॥

तृ॒तीय॑म् अपचत् \

भोगा॑य म इ॒दँ श्रा॒न्तम् अ॒स्त्व् इति॒

ते॑ऽब्रुव॒न्

वरं॑ वृणामहै॒ योऽतो॒ जाया॑ता अ॒स्माकँ॒ स एको॑ऽस॒द् यो॑ऽस्य प्र॒जाया॒म् ऋध्या॑ता अ॒स्माक॒म् भोगा॑य भवा॒द् इति॒

ततो॒ विव॑स्वान् आदि॒त्यो॑ऽजायत॒

तस्य॒ वा इ॒यम् प्र॒जा यन् म॑नु॒ष्य॑स्

तास्व् एक॑ ए॒वर्द्धो यो यज॑ते॒

स दे॒वाना॒म् भोगा॑य भवति

दे॒वा {F वै य॒ज्ञात्} {W वै॑ य॒ज्ञाद्} {ग्लोस् वै य॒ज्ञात्} ॥

रु॒द्रम् अ॒न्तर् आ॑यन् \

स आ॑दि॒त्यान् अ॒न्वाक्र॑मत॒

ते द्वि॑देव॒त्या॑न् प्राप॑द्यन्त

तान् न प्रति॒ प्राय॑छ॒न्

तस्मा॒द् अपि॒ वध्य॒म् प्रप॑न्नं न॒ प्रति॒ प्र य॑छन्ति॒

तस्मा॒द् अपि॒ वध्य॒म् प्रप॑न्नं न॒ प्रति॒ प्र य॑छन्ति॒

तस्मा॑द् द्विदेव॒त्ये॑भ्य आदि॒त्यो निर् गृ॑ह्यते॒

यद् उ॒च्छेष॑णा॒द् अजा॑यन्त॒ तस्मा॑द् उ॒च्छेष॑णाद् गृह्यते

ति॒सृभि॑र् ऋ॒ग्भिर् गृ॑ह्णाति

मा॒ता पि॒ता पु॒त्रस् तद् ए॒व तन् मि॑थु॒नम्

उल्बं॒ गर्भो॑ ज॒रायु॒ तद् ए॒व तत् ॥

मि॒थु॒नम्

प॒शवो॒ वा ए॒ते यद् आ॑दि॒त्य ऊर्ग् दधि॑

द॒ध्ना म॑ध्य॒तः श्री॑णा॒त्य् ऊर्ज॑म् ए॒व प॑शू॒नाम् म॑ध्य॒तो द॑धाति

शृतात॒ङ्क्ये॑न

मेध्य॒त्वाय॒

तस्मा॑द् आ॒मा प॒क्वं दु॑हे

प॒शवो॒ वा ए॒ते यद् आ॑दि॒त्यः

प॑रिश्रित्य गृह्णाति

प्रति॒रुध्यै॒वास्मै॑ प॒शून् गृ॑ह्णाति

प॒शवो॒ वा ए॒ते यद् आ॑दि॒त्य ए॒ष रु॒द्रो यद् अ॒ग्निः

प॑रि॒श्रित्य॑ गृह्णाति रु॒द्राद् ए॒व प॒शून् अ॒न्तर् द॑धाति ॥

ए॒ष वै विव॑स्वान् आदि॒त्यो यद् उ॑पाँशु॒सव॑नः॒

स ए॒तम् ए॒व सो॑मपी॒थम् परि॑ शय॒ आ तृ॑तीयसव॒नात् \

विव॑स्व आदित्यै॒ष ते॑ सोमपी॒थ इत्य् आ॑ह॒

विव॑स्वन्तम् ए॒वादि॒त्यँ सो॑मपी॒थेन॒ सम् अ॑र्धयति

या दि॒व्या वृष्टि॒स् तया॑ त्वा श्रीणा॒मीति॒ वृष्टि॑कामस्य श्रीणीयात् \

वृष्टि॑म् ए॒वाव॑ रुन्द्धे॒

यदि॑ ता॒जक् प्र॒स्कन्दे॒द् वर्षु॑कः प॒र्जन्यः॑ स्यात् \

यदि॑ चि॒रम् अव॑र्षुकस् \

न सा॑दयति॒ \

अस॑न्ना॒द् धि प्र॒जाः प्र॒जाय॑न्ते

नानु॒ वष॑त् करोति॒

यद् अ॑नुवषट्कु॒र्याद् रु॒द्रम् प्र॒जा अ॒न्वव॑सृजेत् \

न हु॒त्वान्व् ई॑क्षेत॒

यद् अ॒न्वीक्षे॑त॒ चक्षु॑र् अय्स प्र॒मायु॑कँ स्या॒त्

तस्मा॒न् नान्वीक्ष्यः॑ ॥

अ॒न्त॒र्या॒म॒पा॒त्रेण॑ सावि॒त्रम् आ॑ग्रय॒णाद् गृ॑ह्णाति

प्र॒जाप॑ति॒र् वा ए॒ष यद् आ॑ग्रय॒णः

प्र॒जाना॑म् प्र॒जन॑नाय॒

न सा॑दयति॒ \

अस॑न्ना॒द् धि प्र॒जाः प्र॒जाय॑न्ते

नानु॒ वष॑ट् करोति॒

यद् अ॑नुवषट्कु॒र्याद् रु॒द्रम् प्र॒जा अ॒न्वव॑सृजेत् \

ए॒ष वै गा॑य॒त्रो दे॒वानां॒ यत् स॑वि॒ता \

ए॒ष गा॑यत्रि॒यै लो॒के गृ॑ह्यते॒ यद् आ॑ग्रय॒णस् \

यद् अ॑न्तर्यामपा॒त्रेण॑ सावि॒त्रम् आ॑ग्रय॒णाद् गृ॒ह्णाति॒ स्वाद् ए॒वैनं॒ योने॒र् निर् गृ॑ह्णाति॒

विश्वे॑ ॥

दे॒वास् तृ॒तीयँ॒ सव॑नं॒ नोद् अ॑यछ॒न्

ते स॑वि॒तार॑म् प्रातःसव॒नभा॑गँ॒ सन्तं॑ तृतीयसव॒नम् अ॒भि पर्य् अ॑णय॒न्

ततो॒ वै ते तृ॒तीयँ॒ सव॑न॒म् उद् अ॑यछ॒न्

यत् तृ॑तीयसव॒ने सा॑वि॒त्रो गृ॒ह्यते॑ तृ॒तीय॑स्य॒ सव॑न॒स्योद्य॑त्यै

सवितृपा॒त्रेण॑ वैश्वदे॒वं क॒लशा॑द् गृह्णाति

वैश्वदे॒व्यो॑ वै प्र॒जा

वै॑श्वदे॒वः क॒लशः॑

सवि॒ता प्र॑स॒वाना॑म् ईशे॒

यत् स॑वितृपा॒त्रेण॑ वैश्वदे॒वं क॒लशा॑द् गृ॒ह्णाति॑ सवि॒तृप्र॑सूत ए॒वास्मै॑ प्र॒जाः प्र ॥

ज॒न॒य॒ति॒

सोमे॒ सोम॑म् अ॒भि गृ॑ह्णाति॒

रेत॑ ए॒व तद् द॑धाति

सु॒शर्मा॑सि सुप्रतिष्ठा॒न इत्य् आ॑ह॒

सोमे॒ हि सोम॑म् अभिगृ॒ह्णाति॒

प्रति॑ष्ठित्यै \

ए॒तस्मि॒न् वा अपि॒ ग्रहे॑ मनु॒ष्ये॑भ्यो दे॒वेभ्यः॑ पि॒तृभ्यः॑ क्रियते

सु॒शर्मा॑सि सुप्रतिष्ठा॒न इत्य् आ॑ह

मनु॒ष्ये॑भ्य ए॒वैतेन॑ करोति

बृ॒हद् इत्य् आ॑ह

दे॒वेभ्य॑ ए॒वैतेन॑ करोति॒

नम॒ इत्य् आ॑ह

पि॒तृभ्य॑ ए॒वैतेन॑ करोति \

ए॒ताव॑ती॒र् {F वै} {W वै॑} दे॒वता॑स्

ताभ्य॑ ए॒वैनँ॒ सर्वा॑भ्यो गृह्णाति \

ए॒ष ते॒ योनि॒र् विश्वे॑भ्यस् त्वा दे॒वेभ्य॒ इत्य् आ॑ह

वैश्वदे॒वो ह्य् ए॑षः ॥

प्रा॒णो वा ए॒ष यद् उ॑पाँ॒शुस् \

यद् उ॑पाँशुपा॒त्रेण॑ प्रथ॒मश् चो॑त्त॒मश् च॒ ग्रहौ॑ गृ॒ह्येते॑ प्रा॒णम् ए॒वानु॑ प्र॒यन्ति॑ प्रा॒णम् अनूद् य॑न्ति

प्र॒जाप॑ति॒र् वा ए॒ष यद् आ॑ग्रय॒णः प्रा॒ण उ॑पाँ॒शुः पत्नीः॑ प्र॒जाः प्र ज॑नयन्ति॒

यद् उ॑पाँशुपा॒त्रेण॑ पात्नीव॒तम् आ॑ग्रय॒णाद् गृ॒ह्णाति॑ प्र॒जाना॑म् प्र॒जन॑नाय॒

तस्मा॑त् प्रा॒णम् प्र॒जा अनु॒ प्र जा॑यन्ते

दे॒वा वा इ॒तैतः॒ पत्नीः॑ सुव॒र्गम् ॥

लो॒कम् अ॑जिगाँस॒न्

ते सु॑व॒र्गं लो॒कं न प्राजा॑न॒न्

त ए॒तम् पा॑त्नीव॒तम् अ॑पश्य॒न्

तम् अ॑गृह्णत॒

ततो॒ वै ते सु॑व॒र्गं लो॒कम् प्राजा॑न॒न्

यत् पा॑त्नीव॒तो गृ॒ह्यते॑ सुव॒र्गस्य॑ लो॒कस्य॒ प्रज्ञा॑त्यै॒

स सोमो॒ नाति॑ष्ठत स्त्री॒भ्यो गृ॒ह्यमा॑ण॒स्

तं घृ॒तं वज्रं॑ कृ॒त्वाघ्न॒न्

तं निरि॑न्द्रियम् भू॒तम् अ॑गृह्ण॒न्

तस्मा॒त् स्त्रियो॒ निरि॑न्द्रिया॒ अदा॑यादी॒र् अपि॑ पा॒पात् पुँ॒स उप॑स्तितरम् ॥

व॒द॒न्ति॒

यद् घृ॒तेन॑ पात्नीव॒तँ श्री॒णाति॒ वज्रे॑णै॒वैनं॒ वशे॑ कृ॒त्वा गृ॑ह्णाति \

उपया॒मगृ॑हीतो॒ऽसीत्य् आ॑ह \

इ॒यं वा उ॑पया॒मस्

तस्मा॑द् इ॒माम् प्र॒जा अनु॒ प्र जा॑यन्ते

बृह॒स्पति॑सुतस्य त॒ इत्य् आ॑ह॒

ब्रह्म॒ वै दे॒वाना॒म् बृह॒स्पति॑स् \

ब्रह्म॑णै॒वास्मै॑ प्र॒जाः प्र ज॑नयति \

इन्दो॒ इत्य् आ॑ह॒

रेतो॒ वा इन्दु॑स् \

रेत॑ ए॒व तद् द॑धाति \

इन्द्रियाव॒ इति॑ ॥

आ॒ह॒

प्र॒जा वा इ॑न्द्रि॒यम्

प्र॒जा ए॒वास्मै॒ प्र ज॑नयति॒ \

अग्ना3 इत्य् आ॑ह \

अ॒ग्निर् वै रे॑तो॒धाः

पत्नी॑व॒ इत्य् आ॑ह

मिथुन॒त्वाय॑

स॒जूर् दे॒वेन॒ त्वष्ट्रा॒ सोम॑म् पि॒बेत्य् आ॑ह॒

त्वष्टा॒ वै प॑शू॒नाम् मि॑थु॒नानाँ॑ रूप॒कृत् \

रू॒पम् ए॒व प॑शुषु दधाति

दे॒वा वै त्वष्टा॑रम् अजिघाँसन् \

स पत्नीः॒ प्राप॑द्यत॒

तं न प्रति॒ प्राय॑छ॒न्

तस्मा॒द् अपि॑ ॥

वध्य॒म् प्रप॑न्नं॒ न प्रति॒ प्र य॑छन्ति॒

तस्मा॑त् पात्नीव॒ते त्वष्ट्त्रेऽपि॑ गृह्यते॒

न सा॑दयति॒ \

अस॑न्ना॒द् धि प्र॒जाः प्र॒जाय॑न्ते

नानु॒ वष॑ट् करोति॒

यद् अ॑नुवषट्कु॒र्याद् रु॒द्रम् प्र॒जा अ॒न्वव॑सृजेत् \

यन् नानु॑वषट्कु॒र्याद् अशा॑न्तम् अ॒ग्नीत् सोम॑म् भक्षयेत् \

उ॒पाँ॒श्व् अनु॒ वष॑ट् करोति॒

न रु॒द्रम् प्र॒जा अ॑न्ववसृ॒जति॑ शा॒न्तम् अ॒ग्नीत् सोम॑म् भक्षयति॒ \

अग्नी॒न् नेष्टु॑र् उ॒पस्थ॒म् आ सी॑द ॥

नेष्टः॒ पत्नी॑म् उ॒दान॒येत्य् आ॑ह \

अ॒ग्नीद् ए॒व नेष्ट॑रि॒ रेतो॒ दधा॑ति॒ नेष्टा॒ पत्नि॑याम्

उद्गा॒त्रा सं ख्या॑पयति

प्र॒जाप॑ति॒र् वा ए॒ष यद् उ॑द्गा॒ता

प्र॒जाना॑म् प्र॒जन॑नाय \

अ॒प उप॒ प्र व॑र्तयति॒

रेत॑ ए॒व तत् सि॑ञ्चति \

ऊ॒रुणोप॒ प्र व॑र्तयति \

ऊ॒रुणा॒ हि रेतः॑ सि॒च्यते॑

नग्नं॒क्रियो॒रुम् उप॒ प्र व॑र्तयति

य॒दा हि न॒ग्न ऊ॒रुर् भव॒त्य् अथ॑ मिथु॒नी भ॑वतस् \

अथ॒ रेतः॑ सिच्यते॒ \

अथ॑ प्र॒जाः प्र जा॑यन्ते ॥

इन्द्रो॑ वृ॒त्रम् अ॑ह॒न्

तस्य॑ शीर्षकपा॒लम् उद् औ॑ब्ज॒त्

स द्रो॑णकल॒शो॑ऽभव॒त्

तस्मा॒त् सोमः॒ सम् अ॑स्रव॒त्

स हा॑रियोज॒नो॑ऽभव॒त्

तं व्य् अ॑चिकित्सत् \

जु॒हवा॒नी3 मा हौ॒षा3म् इति॒

सो॑ऽमन्यत॒

यद् धो॒ष्याम्य् आ॒मँ हो॑ष्यामि॒ यन् न हो॒ष्यामि॑ यज्ञवेश॒सं क॑रिष्या॒मीति॒

तम् अ॑ध्रियत॒ होतु॑म् \

सो॑ऽग्निर् अ॑ब्रवीत् \

न मय्य् आ॒मँ हो॑ष्य॒सीति॒

तं धा॒नाभि॑र् अश्रीणात् ॥

तँ शृ॒तम् भू॒तम् अ॑जुहो॒त्

यद् धा॒नाभि॑र् हारियोज॒नँ श्री॒णाति॑ शृत॒त्वाय॑

शृ॒तम् ए॒वैन॑म् भू॒तं जु॑होति

ब॒ह्वीभिः॑ श्रीणाति \

ए॒ताव॑तीर् ए॒वास्या॒मुष्मिँ॑ लो॒के का॑म॒दुघा॑ भवन्ति॒ \

अथो॒ खल्व् आ॑हुस् \

ए॒ता वा इन्द्र॑स्य॒ पृश्न॑यः काम॒दुघा॒ यद् धा॑रियोज॒नीर् इति॒

तस्मा॑द् ब॒ह्वीभिः॑ श्रीणीयात् \

ऋ॒क्सा॒मे वा इन्द्र॑स्य॒ हरी॑ सोम॒पानौ॒

तयोः॑ परि॒धय॑ आ॒धान॑म् \

यद् अप्र॑हृत्य परि॒धीञ् जु॑हु॒याद् अ॒न्तरा॑धानाभ्याम् ॥

घा॒सम् प्र य॑छेत्

प्र॒हृत्य॑ परि॒धीञ् जु॑होति॒ निरा॑धानाभ्याम् ए॒व घा॒सम् प्र य॑छति \

उन्ने॒ता जु॑होति

या॒तया॑मेव॒ ह्य् ए॑तर्ह्य् अ॑ध्व॒र्युः स्व॒गाकृ॑तस् \

यद् अ॑ध्व॒र्युर् जु॑हु॒याद् यथा॒ विमु॑क्त॒म् पुन॑र् यु॒नक्ति॑ ता॒दृग् ए॒व तत् \

शी॒र्षन्न् अ॑धिनि॒धाय॑ जुहोति

शीर्ष॒तो हि स स॒मभ॑वत् \

वि॒क्रम्य॑ जुहोति

वि॒क्रम्य॒ हीन्द्रो॑ वृ॒त्रम् अह॑न् \

समृ॑द्ध्यै

प॒शवो॒ वै हा॑रियोज॒नीस् \

यत् स॑म्भि॒न्द्याद् अल्पाः॑ ॥

ए॒न॒म् प॒शवो॑ भु॒ञ्जन्त॒ उप॑ तिष्ठेर॒न्

यन् न स॑म्भि॒न्द्याद् ब॒हव॑ एनम् प॒शवोऽभु॑ञ्जन्त॒ उप॑ तिष्ठेर॒न्

मन॑सा॒ सम् बा॑धते \

उ॒भयं॑ करोति

ब॒हव॑ ए॒वैन॑म् प॒शवो॑ भु॒ञ्जन्त॒ उप॑ तिष्ठन्ते \

उन्ने॒तर्य् उ॑पह॒वम् इ॑छन्ते॒

य ए॒व तत्र॑ सोमपी॒थस् तम् ए॒वाव॑ रुन्धते \

उत्तरवे॒द्यां नि व॑पति

प॒शवो॒ वा उ॑त्तरवे॒दिः

प॒शवो॑ हारियोज॒नीः

प॒शुष्व् ए॒व प॒शून् प्रति॑ ष्ठापयन्ति ॥

ग्रहा॒न् वा अनु॑ प्र॒जाः प॒शवः॒ प्र जा॑यन्ते \

उपाँश्वन्तर्या॒माव् अ॑जा॒वयः॑

शु॒क्राम॒न्थिनौ॒ पुरु॑षास् \

ऋ॒तु॒ग्र॒हान् एक॑शफास् \

आ॒दि॒त्य॒ग्र॒हं गाव॑स् \

आ॒दि॒त्य॒ग्र॒हो भूयि॑ष्ठाभिर् ऋ॒ग्भिर् गृ॑ह्यते॒

तस्मा॒द् गावः॑ पशू॒नाम् भूयि॑ष्ठास् \

यत् त्रिर् उ॑पाँ॒शुँ हस्ते॑न विगृ॒ह्णाति॒

तस्मा॒द् द्वौ त्रीन् अ॒जा ज॒नय॒त्य् अथाव॑यो॒ भूय॑सीः

पि॒ता वा ए॒ष यद् आ॑ग्रय॒णः पु॒त्रः क॒लश॑स् \

यद् आ॑ग्रय॒ण उ॑प॒दस्ये॑त् क॒लशा॑द् गृह्णीयात् \

यथा॑ पि॒ता ॥

पु॒त्रं क्षि॒त उ॑प॒धाव॑ति ता॒दृग् ए॒व तत् \

यत् क॒लश॑ उप॒दस्ये॑द् आग्रय॒णाद् गृ॑ह्णीयात् \

यथा॑ पु॒त्रः पि॒तरं॑ क्षि॒त उ॑प॒धाव॑ति ता॒दृग् ए॒व तत् \

आ॒त्मा वा ए॒ष य॒ज्ञस्य॒ यद् आ॑ग्रय॒णस् \

यद् ग्रहो॑ वा क॒लशो॑ वोप॒दस्ये॑द् आग्रय॒णाद् गृ॑ह्णीयात् \

आ॒त्मन॑ ए॒वाधि॑ य॒ज्ञं निष् क॑रोति॒ \

अवि॑ज्ञातो॒ वा ए॒ष गृ॑ह्यते॒ यद् आ॑ग्रय॒णस् \

स्था॒ल्या गृ॒ह्णाति॑ वाय॒व्ये॑न जुहोति॒ तस्मा॑त् ॥

गर्भे॒णावि॑ज्ञातेन ब्रह्म॒हा \

अ॑वभृ॒थम् अव॑ यन्ति॒

परा॑ स्था॒लीर् अस्य॒न्त्य् उद् वा॑य॒व्या॑नि हरन्ति॒

तस्मा॒त् स्त्रियं॑ जा॒ताम् परा॑स्य॒न्त्य् उत् पुमाँ॑सँ हरन्ति॒

यत्पु॑रो॒रुच॒म् आह॒ यथा॒ वस्य॑स आ॒हर॑ति ता॒दृग् ए॒व तत् \

यद् ग्रहं॑ गृ॒ह्णाति॒ यथा॒ वस्य॑स आ॒हृत्य॒ प्राह॑ ता॒दृग् ए॒व तत् \

यत् सा॒दय॑ति॒ यथा॒ वस्य॑स उपनि॒धाया॑प॒क्राम॑ति ता॒दृग् ए॒व तत् \

यद् वै य॒ज्ञस्य॒ साम्ना॒ यजु॑षा क्रि॒यते॑ शिथि॒लं तत् \

यद् ऋ॒चा तद् दृ॒ढम्

पु॒रस्ता॑दुपयामा॒ यजु॑षा गृह्यन्त उ॒परि॑ष्टादुपयामा ऋ॒चा य॒ज्ञस्य॒ धृत्यै॑ ॥

प्रान्या॑नि॒ पात्रा॑णि यु॒ज्यन्ते॒ नान्यानि॑

यानि॑ परा॒चीना॑नि प्रयु॒ज्यन्ते॑ऽमुम् ए॒व तैर् लो॒कम् अ॒भि ज॑यति॒

परा॑ङ् इव॒ ह्य् अ॑सौ लो॒कस् \

यानि॒ पुनः॑ प्रयु॒ज्यन्त॑ इ॒मम् ए॒व तैर् लो॒कम् अ॒भि ज॑यति॒

पुनः॑पुनर् इव॒ ह्य् अ॑यं लो॒कः

प्रान्यानि॒ पात्रा॑णि यु॒ज्यन्ते॒ नान्यानि॑

यानि॑ परा॒चीना॑नि प्रयु॒ज्यन्ते॒ तान्य् अन्व् ओष॑धयः॒ परा॑ भवन्ति

यानि॒ पुनः॑ ॥

प्र॒यु॒ज्यन्ते॒ तान्य् अन्व् ओष॑धयः॒ पुन॒र् आ भ॑वन्ति

प्रान्यानि॒ पात्रा॑णि यु॒ज्यन्ते॒ नान्यानि॑

यानि॑ परा॒चीना॑नि प्रयु॒ज्यन्ते॒ तान्य् अन्व् आ॑र॒ण्याः प॒शवोऽर॑ण्य॒म् अप॑ यन्ति

यानि॒ पुनः॑ प्रयु॒ज्यन्ते॒ तान्य् अन्व् ग्रा॒म्याः प॒शवो॒ ग्राम॑म् उ॒पाव॑यन्ति॒

यो वै ग्रहा॑णां नि॒दानं॒ वेद॑ नि॒दान॑वान् भवति \

आज्य॒म् इत्य् उ॒क्थं तद् वै ग्रहा॑णां नि॒दान॑म् \

यद् उ॑पाँ॒शु शँस॑ति॒ तत् ॥

उ॒पाँ॒श्व॒न्त॒र्या॒मयो॑स् \

यद् उ॒च्चैस् तद् इत॑रेषां॒ ग्रहा॑णाम्

ए॒तद् वै ग्रहा॑णां नि॒दान॑म् \

य ए॒वं वेद॑ नि॒दान॑वान् भवति॒

यो वै ग्रहा॑णाम् मिथु॒नं वेद॒ प्र प्र॒जया॑ प॒शुभि॑र् मिथु॒नैर् जा॑यते

स्था॒लीभि॑र् अ॒न्ये ग्रहा॑ गृ॒ह्यन्ते॑ वाय॒व्यै॑र् अ॒न्ये \

ए॒तद् वै ग्रहा॑णाम् मिथु॒नम् \

य ए॒वं वेद॒ प्र प्र॒जया॑ प॒शुभि॑र् मिथु॒नैर् जा॑यते॒ \

इन्द्र॒स् त्वष्टुः॒ सोम॑म् अभी॒षहा॑पिब॒त्

स विष्व॑ङ् ॥

व्य् आ॑र्छ॒त्

स आ॒त्मन्न् आ॒रम॑णं॒ नावि॑न्द॒त्

स ए॒तान् अ॑नुसव॒नम् पु॑रो॒डाशा॑न् अपश्यत्

तान् निर् अ॑वप॒त्

तैर् वै स आ॒त्मन्न् आ॒रम॑णम् अकुरुत॒

तस्मा॑द् अनुसव॒नम् पु॑रो॒डाशा॒ निर् उ॑प्यन्ते॒

तस्मा॑द् अनुसव॒नम् पु॑रो॒डाशा॑ना॒म् प्राश्नी॑याद् आ॒त्मन्न् ए॒वारम॑णं कुरुते॒ नैनँ॒ सोमोऽति॑ पवते

ब्रह्मवा॒दिनो॑ वदन्ति॒

नर्चा न यजु॑षा प॒ङ्क्तिर् आ॑प्य॒तेऽथ॒ किं य॒ज्ञस्य॑ पाङ्क्त॒त्वम् इति॑

धा॒नाः क॑र॒म्भः प॑रिवा॒पः पु॑रो॒डाशः॑ पय॒स्या॑

तेन॑ प॒ङ्क्तिर् आ॑प्यते॒

तद् य॒ज्ञस्य॑ पाङ्क्त॒त्वम् ॥