य॒ज्ञेन॒ वै प्र॒जाप॑तिः प्र॒जा अ॑सृजत
ता उ॑प॒यड्भि॑र् ए॒वासृ॑जत॒
यद् उ॑प॒यज॑ उप॒यज॑ति प्र॒जा ए॒व तद् यज॑मानः सृजते
जघना॒र्धाद् अव॑ द्यति
जघना॒र्धाद् धि प्र॒जाः प्र॒जाय॑न्ते
स्थ॒वि॒म॒तोऽव॑ द्यति
स्थ॒वि॒म॒तो हि प्र॒जाः प्र॒जाय॑न्ते॒ \
अस॑म्भिन्द॒न्न् अव॑ द्यति प्रा॒णाना॒म् अस॑म्भेदाय॒
न प॒र्याव॑र्तयति॒
यत् प॑र्याव॒र्तये॑द् उदाव॒र्तः प्र॒जा ग्राहु॑कः स्यात्
समु॒द्रं ग॑छ॒ स्वाहेत्याह
रे॒तः ॥
ए॒व तद् द॑धाति \
अ॒न्तरि॑क्षं गछ॒ स्वाहेत्य् आ॑ह \
अ॒न्तरि॑क्षेणै॒वास्मै॑ प्र॒जाः प्र ज॑नयति \
अ॒न्तरि॑क्षँ॒ ह्य् अनु॑ प्र॒जाः प्र॒जाय॑न्ते
दे॒वँ स॑वि॒तारं॑ गछ॒ स्वाहेत्य् आ॑ह
सवि॒तृप्र॑सूत ए॒वास्मै॑ प्र॒जाः प्र ज॑नयति \
अहोरा॒त्रे ग॑छ॒ स्वाहेत्य् आ॑ह \
अहोरा॒त्राभ्या॑म् ए॒वास्मै॑ प्र॒जाः प्र ज॑नयति \
अहोरा॒त्रे ह्य् अनु॑ प्र॒जाः प्र॒जाय॑न्ते
मि॒त्रावरु॑णौ गछ॒ स्वाहा॑ ॥
इत्य् आ॑ह
प्र॒जास्व् ए॒व प्रजा॑तासु प्राणापा॒नौ द॑धाति॒
सोमं॑ गछ॒ स्वाहेत्य् आ॑ह
सौ॒म्या हि दे॒वत॑या प्र॒जास् \
य॒ज्ञं ग॑छ॒ स्वाहेत्य् आ॑ह
प्र॒जा ए॒व य॒ज्ञियाः॑ करोति॒
छन्दाँ॑सि गछ॒ स्वाहेत्य् आ॑ह
प॒शवो॒ वै छन्दाँ॑सि
प॒शून् ए॒वाव॑ रुन्द्धे
द्यावा॑पृथि॒वी ग॑छ॒ स्वाहेत्य् आ॑ह
प्र॒जा ए॒व प्रजा॑ता॒ द्यावा॑पृथि॒वीभ्या॑म् उभ॒यतः॒ परि॑ गृह्णाति॒
नभः॑ ॥
दि॒व्यं ग॑छ॒ स्वाहेत्य् आ॑ह
प्र॒जाभ्य॑ ए॒व प्रजा॑ताभ्यो॒ वृष्टिं॒ नि य॑छति \
अ॒ग्निं वै॑श्वान॒रं ग॑छ॒ स्वाहेत्य् आ॑ह
प्र॒जा ए॒व प्रजा॑ता अ॒स्याम् प्रति॑ ष्ठापयति
प्रा॒णानां॒ वा ए॒षोऽव॑ द्यति॒ यो॑ऽव॒द्यति॑ गु॒दस्य॒
मनो॑ मे॒ हार्दि॑ य॒छेत्य् आ॑ह
प्रा॒णान् ए॒व य॑थास्था॒नम् उप॑ ह्वयते
प॒शोर् वा आल॑ब्धस्य॒ हृद॑यँ शुग् ऋछति
सा हृ॑दयशू॒लम् ॥
अ॒भि सम् ए॑ति॒
यत् पृ॑थि॒व्याँ हृ॑दयशू॒लम् उ॑द्वा॒सये॑त् पृथि॒वीँ शु॒चार्प॑येत् \
यद् अ॒प्स्व् अ॑पः शु॒चार्प॑येत् \
शु॒ष्क॒स्य॒ चा॒र्द्रस्य॑ च सं॒धाव् उद् वा॑सयत्य् उ॒भय॑स्य॒ शान्त्यै॒
यं द्वि॒ष्यात् तं ध्या॑येत् \
शु॒चैवैन॑म् अर्पयति ॥
दे॒वा वै य॒ज्ञम् आग्नी॑ध्रे॒ व्य् अ॑भजन्त॒
ततो॒ यद् अ॒त्यशि॑ष्यत॒ तद् { अ॑ब्रुवन्न् ^ अब्रुवन् }
वस॑तु॒ नु न॑ इ॒दम् इति॒
तद् व॑सती॒वरी॑णां वसतीवरि॒त्वम् \
तस्मि॑न् प्रा॒तर् न सम् अ॑शक्नुव॒न्
तद् अ॒प्सु प्रावे॑शयन्
ता व॑सती॒वरी॑र् अभवन्
वसती॒वरी॑र् गृह्णाति
य॒ज्ञो वै व॑सती॒वरी॑स् \
य॒ज्ञम् ए॒वारभ्य॑ गृही॒त्वोप॑ वसति॒
यस्यागृ॑हीता अ॒भि नि॒म्रोचे॒द् अना॑रब्धोऽस्य य॒ज्ञः स्या॑त् ॥
य॒ज्ञं वि छि॑न्द्यात् \
ज्यो॒ति॒ष्या॑ वा गृह्णी॒याद् धिर॑ण्यं वाव॒धाय॒ सशु॑क्राणाम् ए॒व गृ॑ह्णाति॒
यो वा॑ ब्राह्म॒णो ब॑हुया॒जी तस्य॒ कुम्भ्या॑नां गृह्णीया॒त्
स हि गृ॑ही॒तव॑सतीवरीकस् \
व॒स॒ती॒वरी॑र् गृह्णाति
प॒शवो॒ वै व॑सती॒वरीः॑
प॒शून् ए॒वारभ्य॑ गृही॒त्वोप॑ वसति॒
यद् अ॑न्वी॒पं तिष्ठ॑न् गृह्णी॒यान् नि॒र्मार्गु॑का अस्मात् प॒शवः॑ स्युः
प्र॒ती॒पं तिष्ठ॑न् गृह्णाति
प्रति॒रुध्यै॒वास्मै॑ प॒शून् गृ॑ह्णाति॒ \
इन्द्रः॑ ॥
वृ॒त्रं अ॑हन् \
सो॑ऽपो॑ऽभ्य् अ॑म्रियत
तासां॒ यन् मेध्यं॑ य॒ज्ञियँ॒ सदे॑व॒म् आसी॒त् तद् अत्य् अ॑मुच्यत
ता वह॑न्तीर् अभव॒न्
वह॑न्तीनां गृह्णाति
या ए॒व मेध्या॑ य॒ज्ञियाः॒ सदे॑वा॒ आप॒स् तासा॑म् ए॒व गृ॑ह्णाति
नान्त॒मा वह॑न्ती॒र् अती॑यात् \
यद् अ॑न्त॒मा वह॑न्तीर् अती॒याद् य॒ज्ञम् अति॑ मन्येत॒
न स्था॑व॒राणां॑ गृह्णीयात् \
वरु॑णगृहीता॒ वै स्था॑व॒रास् \
यत् स्था॑व॒राणां॑ गृह्णी॒यात् ॥
वरु॑णेनास्य य॒ज्ञं ग्रा॑हयेत् \
यद् वै दिवा॒ भव॑त्य् अ॒पो रात्रिः॒ प्र वि॑शति॒
तस्मा॑त् ता॒म्रा आपो॒ दिवा॑ ददृश्रे॒
यन् नक्त॒म् भव॑त्य् अ॒पोऽहः॒ प्र वि॑शति॒
तस्मा॑च् च॒न्द्रा आपो॒ नक्तं॑ ददृश्रे
छा॒यायै॑ चा॒तप॑तश् च सं॒धौ गृ॑ह्णाति \
अहोरा॒त्रयो॑र् ए॒वास्मै॒ वर्णं॑ गृह्णाति
ह॒विष्म॑तीर् इ॒मा आप॒ इत्य् आ॑ह
ह॒विष्कृ॑तानाम् ए॒व गृ॑ह्णाति
ह॒विष्माँ॑ अस्तु ॥
सूर्य॒ इत्य् आ॑ह॒
सशु॑क्राणाम् ए॒व गृ॑ह्णाति \
अनु॒ष्टुभा॑ गृह्णाति
वाग् वा { अ॑नु॒ष्टुग् ^ अ॑नु॒ष्टुभ् }
वा॒चैवैनाः॒ सर्व॑या गृह्णाति॒
चतु॑ष्पदय॒र्चा गृ॑ह्णाति॒
त्रिः सा॑दयति
स॒प्त सम् प॑द्यन्ते
स॒प्तप॑दा॒ शक्व॑री
प॒शवः॒ शक्व॑री
प॒शून् ए॒वाव॑ रुन्द्धे \
अ॒स्मै वै लो॒काय॒ गार्ह॑पत्य॒ आ धी॑यते॒ऽमुष्मा॑ आहव॒नीय॑स् \
यद् गार्ह॑पत्य उपसा॒दये॑द् अ॒स्मिँ लो॒के प॑शु॒मान्त् स्या॑त् \
यद् आ॑हव॒नीये॒ऽमुष्मि॑न् ॥
लो॒के प॑शु॒मान्त् स्या॑त् \
उ॒भयो॒र् उप॑ सादयति \
उ॒भयो॑र् ए॒वैनं॑ लो॒कयोः॑ पशु॒मन्तं॑ करोति
स॒र्वतः॒ परि॑ हरति॒
रक्ष॑सा॒म् अप॑हत्यै \
इन्द्राग्नि॒योर् भा॑ग॒धेयी॒ स्थेत्य् आ॑ह
यथाय॒जुर् ए॒वैतत् \
आग्नी॑ध्र॒ उप॑ वासयति \
ए॒तद् वै य॒ज्ञस्याप॑राजितं॒ यद् आग्नी॑ध्रम् \
यद् ए॒व य॒ज्ञस्याप॑राजितं॒ तद् ए॒वैना॒ उप॑ वासयति॒
यतः॒ खलु॒ वै य॒ज्ञस्य॒ वित॑तस्य॒ न क्रि॒यते॒ तद् अनु॑ य॒ज्ञँ रक्षाँ॑स्य॒ अव॑ चरन्ति॒
यद् वह॑न्तीनां गृ॒ह्णाति॑ क्रि॒यमा॑नाम् ए॒व तद् य॒ज्ञस्य॑ शये॒
रक्ष॑सा॒म् अन॑न्ववचाराय॒
न ह्य् ए॑ता ई॒लय॑न्ति \
आ तृ॑तीयसव॒नात् परि॑ शेरे
य॒ज्ञस्य॒ संत॑त्यै ॥
ब्र॒ह्म॒वा॒दिनो॑ वदन्ति॒
स त्वा अ॑ध्व॒र्युः स्या॒द् यः सोम॑म् उपाव॒हर॒न्त् सर्वा॑भ्यो दे॒वता॑भ्य उपाव॒हरे॒द् इति॑
हृ॒दे त्वेत्य् आ॑ह मनु॒ष्ये॑भ्य ए॒वैतेन॑ करोति॒
मन॑से॒ त्वेत्य् आ॑ह पि॒तृभ्य॑ ए॒वैतेन॑ करोति दि॒वे त्वा॑ सू॒र्याय॒ त्वेत्य् आ॑ह दे॒वेभ्य॑ ए॒वैतेन॑ करोति \
ए॒ताव॑ती॒र् वै दे॒वता॒स् ताभ्य॑ ए॒वैनँ॒ सर्वा॑भ्य उ॒पाव॑हरति
पु॒रा वा॒चः ॥
प्रव॑दितोः प्रातरनुवा॒कम् उ॒पाक॑रोति॒ याव॑त्य् ए॒व वाक् ताम् अव॑ रुन्द्धे \
अ॒पोऽग्रे॑ऽभि॒व्याह॑रति य॒ज्ञो वा आपो॑ य॒ज्ञम् ए॒वाभि वाचं॒ वि सृ॑जति॒
सर्वा॑णि॒ छन्दाँ॒स्य् अन्व् आ॑ह प॒शवो॒ वै छन्दाँ॑सि प॒शून् ए॒वाव॑ रुन्द्धे
गायत्रि॒या तेज॑स्कामस्य॒ परि॑ दध्यात् त्रि॒ष्टुभे॑न्द्रि॒यका॑मस्य॒ जग॑त्या प॒शुका॑मस्यानु॒ष्टुभा॑ प्रति॒ष्ठाका॑मस्य प॒ङ्क्त्या य॒ज्ञका॑मस्य वि॒राजान्न॑कामस्य
श्रि॒णोत्व् अ॒ग्निः स॒मिधा॒ हव॑म् ॥
म॒ इत्य् आ॑ह सवि॒तृप्र॑सूत ए॒व दे॒वता॑भ्यो नि॒वेद्या॒पोऽछै॑ति \
अ॒प इ॑ष्य होत॒र् इत्य् आ॑हेषि॒तँ हि कर्म॑ क्रि॒यते॒
मैत्रा॑वरुणस्य चमसाध्वर्य॒व् आ द्र॒वेत्य् आ॑ह मै॒त्रावरु॑णौ॒ वा अ॒पां ने॒तारौ॒ ताभ्या॑म् ए॒वैना॒ अछै॑ति॒
देवी॑र् आपो अपां नपा॒द् इत्य् आ॒हाहु॑त्यै॒वैना॑ नि॒ष्क्रीय॑ गृह्णा॒त्य् अथो॑ ह॒विष्कृ॑तानाम् ए॒वाभिघृ॑तानां गृह्णाति ॥
कार्षि॑र् अ॒सीत्य् आ॑ह॒ शम॑लम् ए॒वासा॒म् अप॑ प्लावयति
समु॒द्रस्य॒ वोक्षि॑त्या॒ उन् न॑य॒ इत्य् आ॑ह॒ तस्मा॑द् अ॒द्यमा॑नाः पी॒यमा॑ना॒ आपो॒ न क्षी॑यन्ते॒
योनि॒र् वै य॒ज्ञस्य॒ चात्वा॑लं य॒ज्ञो व॑सती॒वरी॑र् होतृचम॒सं च॑ मैत्रावरुणचम॒सं च॑ सँ॒स्पर्श्य॑ वसती॒वरी॒र् व्यान॑यति य॒ज्ञस्य॑ सयोनि॒त्वाय॒ \
अथो॒ स्वाद् ए॒वैना॒ योनेः॒ प्र ज॑नयति॒ \
अध्व॒र्योऽवे॑र् { अ॒पा3 ^ अ॒पास् }
इत्य् आ॑ह \
उ॒तेम् अ॑नंनमुर् उ॒तेमाः प॑श्य॒ \
इति॒ वावैतद् आ॑ह॒
यद्य् अ॑ग्निष्टो॒मो जु॒होति॒ यद्य् उ॒क्थ्यः॑ परि॒धौ नि मा॑र्ष्टि॒ यद्य् अ॑तिरा॒त्रो यजु॒र् वद॒न् प्र प॑द्यते यज्ञक्रतू॒नां व्यावृ॑त्त्यै ॥
दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒व इति॒ ग्रावा॑ण॒म् आ द॑त्ते॒
प्रसू॑त्यै \
अ॒श्विनो॑र् बा॒हुभ्या॒म् इत्य् आ॑ह \
अ॒श्विनौ॒ हि दे॒वाना॑म् अध्व॒र्यू आस्ता॑म्
पू॒ष्णो हस्ता॑भ्या॒म् इत्य् आ॑ह॒ यत्यै॑
प॒शवो॒ वै सोमो॑ व्या॒न उ॑पाँशु॒सव॑नस् \
यद् उ॑पाँशु॒सव॑नम् अ॒भि मिमी॑ते व्या॒नम् ए॒व प॒शुषु॑ दधाति॒ \
इन्द्रा॑य॒ त्वेन्द्रा॑य॒ त्वेति॑ मिमीते॒ \
इन्द्रा॑य॒ हि सोम॑ आह्रि॒यते॒
पञ्च॒ कृत्वो॒ यजु॑षा मिमीते ॥
पञ्चा॑क्षरा प॒ङ्क्तिः
पाङ्क्तो॑ य॒ज्ञस् \
य॒ज्ञम् ए॒वाव॑ रुन्द्धे॒
पञ्च॒ कृत्व॒स् तूष्णी॑म् \
दश॒ सम् प॑द्यन्ते॒
दशा॑क्षरा { वि॒राड् ^ वि॒राज् }
अन्नं॑ { वि॒राड् ^ वि॒राज् }
वि॒राजै॒वान्नाद्य॒म् अव॑ रुन्द्धे
श्वा॒त्रा स्थ॑ वृत्र॒तुर॒ इत्य् आ॑ह \
ए॒ष वा अ॒पाँ सो॑मपी॒थस् \
य ए॒वं वेद॒ नाप्स्व् आर्ति॒म् आर्छ॑ति॒
यत् ते॑ सोम दि॒वि ज्योति॒र् इत्य् आ॑ह \
ए॒भ्य ए॒वैन॑म् ॥
लो॒केभ्यः॒ सम् भ॑रति॒
सोमो॒ वै राजा॒ दिशो॒ऽभ्य् अ॑ध्याय॒त्
स दिशोऽनु॒ प्रावि॑शत्
प्राग् अपा॒ग् उद॑ग् अध॒राग् इत्य् आ॑ह
दि॒ग्भ्य ए॒वैनँ॒ सम् भ॑र॒त्य् अथो॒ दिश॑ ए॒वास्मा॒ अव॑ रुन्द्धे॒ \
अम्ब॒ नि ष्व॒रेत्य् आ॑ह
कामु॑का एनँ॒ स्त्रियो॑ भवन्ति॒ य ए॒वं वेद॒
यत् ते॑ सो॒मादा॑भ्यं॒ नाम॒ जागृ॒वीति॑ ॥
आ॒ह॒ \
ए॒ष वै सोम॑स्य सोमपी॒थस् \
य ए॒वं वेद॒ न सौ॒म्याम् आर्ति॒म् आर्छ॑ति
घ्नन्ति॒ वा ए॒तत् सोमं॒ यद् अ॑भिषु॒ण्वन्ति॑ \
अँ॒शून् अप॑ गृह्णाति
त्राय॑त ए॒वैन॑म्
प्रा॒णा वा अँ॒शवः॑ प॒शवः॒ सोम॑स् \
अँ॒शून् पुन॒र् अपि॑ सृजति
प्रा॒णान् ए॒व प॒शुषु॑ दधाति॒
द्वौद्वा॒व् अपि॑ सृजति॒
तस्मा॒द् द्वौद्वौ॑ प्रा॒णाः ॥
प्रा॒णो वा ए॒ष यद् उ॑पाँशुस् \
यद् उ॑पाँ॒श्व॑ग्रा॒ ग्रहा॑ गृ॒ह्यन्ते॑ प्रा॒णम् ए॒वानु॒ प्र य॑न्ति \
अरु॒णो ह॑ स्मा॒हौप॑वेशिः
प्रा॒तः॒स॒व॒न ए॒वाहं य॒ज्ञँ सँ स्था॑पयामि॒ तेन॒ ततः॒ सँस्थि॑तेन चरा॒मीति॑ \
अ॒ष्टौ कृ॒तोऽग्रे॒ऽभि षु॑णोति \
अ॒ष्टाक्ष॑रा गाय॒त्री
गा॑य॒त्रम् प्रा॑तःसव॒नम्
प्रा॒तः॒स॒व॒नम् ए॒व तेना॑प्नोति॒ \
एका॑दश॒ कृत्वो॑ द्वि॒तीय॒म्
एका॑दशाक्षरा तृ॒ष्टुभ् \
त्रैष्टु॑भ॒म् माध्यं॑दिनम् ॥
सव॑नम्
माध्यं॑दिनम् ए॒व सव॑नं॒ तेना॑प्नोति
द्वाद॑श॒ कृत्व॑स् तृ॒तीय॑म् \
द्वाद॑शाक्षरा॒ जग॑ती
जाग॑तं तृतीयसव॒नम् \
तृ॒ती॒य॒स॒व॒नम् ए॒व तेना॑प्नोति \
ए॒ताँ ह॒ वाव स य॒ज्ञस्य॒ सँस्थि॑तिम् उवाच॒ \
अस्क॑न्दाय॒ \
अक्स॑न्नँ॒ हि तद् यद् य॒ज्ञस्य॒ सँस्थि॑तस्य॒ स्कन्द॑ति॒ \
अथो॒ खल्व् आ॑हुस् \
गा॒य॒त्री वाव प्रा॑तःसव॒ने नाति॒वाद॒ इति॒ \
अन॑तिवादुक एन॒म् भ्रातृ॑व्यो भवति॒ य ए॒वं वेद॒
तस्मा॑द् अ॒ष्टाव॑ष्टौ ॥
कृ॒त्वो॒ऽभि॒षुत्य॑म्
ब्र॒ह्म॒वा॒दिनो॑ वदनति
प॒वित्र॑वन्तो॒ऽन्ये ग्रहा॑ गृ॒ह्यन्ते॒ किम्प॑वित्र उपाँशु॒र् इति॑
वाक्प॑वित्र॒ इति॑ ब्रूयात् \
वा॒चस् पत॑ये पवस्व वाजि॒न्न् इत्य् आ॑ह
वा॒चैवैन॑म् पवयति
वृष्णो॑ अ॒स्ँशुभ्या॒म् इत्य् आ॑ह
वृष्णो॒ ह्य् ए॑ताव् अँ॒सू यौ सोम॑स्य॒
गभ॑स्तिपूत॒ इत्य् आ॑ह॒
गभ॑स्तिना॒ ह्य् ए॑नम् प॒वय॑ति
दे॒वो दे॒वाना॑म् प॒वित्र॑म् अ॒सीत्य् आ॑ह
दे॒वो ह्य् ए॑षः ॥
दे॒वाना॑म् प॒वित्र॑म् \
येषा॑म् भा॒गोऽसि॒ तेभ्य॒स् त्वेत्य् आ॑ह॒
येषाँ॒ ह्य् ए॑ष भा॒गस् तेभ्य॑ एनं गृह्णाति
स्वांकृ॑तो॒ऽसीत्य् आ॑ह
प्रा॒णम् ए॒व स्वम् अ॑कृत॒
मधु॑मतीर् न॒ इष॑स् कृ॒धीत्य् आ॑ह॒
सर्व॑म् ए॒वास्मा॑ इ॒दँ स्व॑दयति॒
विश्वे॑भ्यस् त्वेन्द्रि॒येभ्यो॑ दि॒व्येभ्यः॒ पार्थि॒वेभ्य॒ इत्य् आ॑ह \
उ॒भये॑ष्व् ए॒व दे॑वमनु॒ष्येषु॑ प्रा॒णान् द॑धाति॒
मन॑स् त्वा ॥
अ॒ष्ट्व् इत्य् आ॑ह॒
मन॑ ए॒वाश्नु॑ते \
उ॒र्व् अ॑न्तरि॑क्ष॒म् अन्व् इ॒हीत्य् आ॑ह \
अन्तरिक्षदेव॒त्यो॑ हि प्रा॒णः
स्वाहा॑ त्वा सुभवः॒ सूर्या॒येत्य् आ॑ह
प्रा॒णा वै स्वभ॑वसो दे॒वास्
तेष्व् ए॒व प॒रोऽक्षं॑ जुहोति
दे॒वेभ्य॑स् त्वा मरीचि॒पेभ्य॒ इत्य् आ॑ह \
आदि॒त्यस्य॒ वै र॒श्मयो॑ दे॒वा म॑रीचि॒पास्
तेषां॒ तद् भा॑ग॒धेय॑म् \
तान् ए॒व तेन॑ प्रीणाति॒
यदि॑ का॒मये॑त॒
वर्षु॑कः प॒र्जन्यः॑ ॥
स्या॒द् इति॒ नीचा॒ हस्ते॑न॒ नि मृ॑ज्यात् \
वृष्टि॑म् ए॒व नि य॑छति॒
यदि॑ का॒मये॑त॒ \
अव॑र्षुकः स्या॒द् इत्य् उ॑त्ता॒नेन॒ नि मृ॑ज्यात् \
वृष्टि॑म् ए॒वोद् य॑छति॒
यद्य् अ॑भि॒चरे॑द् अ॒मुं ज॒ह्य् अथ॑ त्वा होष्या॒मीति॑ ब्रूयात् \
आहु॑तिम् ए॒वैन॑म् प्रा॒प्सन् ह॑न्ति॒
यदि॑ दू॒रे स्याद् आ तमि॑तोस् तिष्ठेत्
प्रा॒णम् ए॒वास्या॑नु॒गत्य॑ हन्ति॒
यद्य् अ॑भि॒चरे॑द् अ॒मुष्य॑ ॥
त्वा॒ प्रा॒णे {F सा॑दया॒मीति॑} {W सादय॒मीति॑} {ग्लोस् सा॒द॒या॒मीति॑} सादयेत् \
अस॑न्नो॒ वै प्रा॒णः
प्रा॒णम् ए॒वास्य॑ सादयति
ष॒ड्भिर् अँ॒शुभिः॑ पवयति॒
षड् वा ऋ॒तव॑स् \
ऋ॒तुभि॑र् ए॒वैन॑म् पवयति॒
त्रिः प॑वयति॒
त्रय॑ इ॒मे लो॒कास् \
ए॒भिर् ए॒वैनं॑ लो॒कैः प॑वयति
ब्रह्मवा॒दिनो॑ वदन्ति॒
कस्मा॒द् सत्या॒त् त्रयः॑ पशू॒नाँ हस्ता॑दाना॒ इति॒
यत् त्रिर् उ॑पाँ॒शुँ हस्ते॑न विगृ॒ह्णाति॒
तस्मा॒द् त्रयः॑ पशू॒नाँ हस्ता॑दानाः॒ पुरु॑षो ह॒स्ती म॒र्कटः॑ ॥
दे॒वा वै यद् य॒ज्ञेऽकु॑र्वत॒ तद् असु॑रा अकुर्वत॒
ते दे॒वा उ॑पाँ॒शौ य॒ज्ञँ सँ॒स्थाप्य॑म् अपश्य॒न्
तम् उ॑पाँ॒शौ सम् अ॑स्थापय॒न्
तेऽसु॑रा॒ वज्र॑म् उ॒द्यत्य॑ दे॒वान् अ॑भ्य् आ॑यन्त॒
ते दे॒वा बिभ्य॑त॒ इन्द्र॒म् उपा॑धावन्
तान् इन्द्रो॑ऽन्तर्या॒मेणा॒न्तर् अ॑धत्त॒
तद् अ॑न्तर्या॒मस्या॑न्तर्याम॒त्वम् \
यद् अ॑न्तर्या॒मो गृ॒ह्यते॒ भ्रातृ॑व्यान् ए॒व तद् यज॑मानो॒ऽन्तर् ध॑त्ते \
अ॒न्तस् ते॑ ॥
द॒धा॒मि॒ द्यावा॑पृथि॒वी अ॒न्तर् उ॒र्व् अ॑न्तरि॑क्ष॒म् इत्य् आ॑ह \
ए॒भिर् ए॒व लो॒कैर् यज॑मानो॒ भ्रातृ॑व्यान् अ॒न्तर् ध॑त्ते॒
ते दे॒वा अ॑मन्यन्त॒ \
इन्द्रो॒ वा इ॒दम् अ॑भू॒द् यद् व॒यँ स्म इति॒
ते॑ऽब्रुव॒न्
मघ॑व॒न्न् अनु॑ न॒ आ भ॒जेति॑
स॒जोषा॑ दे॒वैर् अव॑रैः॒ परै॒श् चेत्य् अ॑ब्रवीत् \
ये चै॒व दे॒वाः परे॒ य चाव॑रे॒ तान् उ॒भया॑न् ॥
अ॒न्वाभ॑जत्
स॒जोषा॑ दे॒वैर् अव॑रैः॒ परै॒श् चेत्य् आ॑ह॒
ये चै॒व दे॒वाः परे॒ य चाव॑रे॒ तान् उ॒भया॑न् अ॒न्वाभ॑जति \
अन्तर्या॒मे म॑घवन् मादय॒स्वेत्य् आ॑ह
य॒ज्ञाद् ए॒व यज॑मानं॒ नान्तर् ए॑ति \
उपया॒मगृ॑हीतो॒ऽसीत्य् आ॑ह \
अपा॒नस्य॒ धृत्यै॒
यद् उ॒भाव् अ॑पवि॒त्रौ गृ॒ह्येया॑ताम् प्रा॒णम् अ॑पा॒नोऽनु॑ न्य् ॑र्?छेत्
प्र॒मायु॑कः स्यात्
प॒वित्र॑वान् अन्तर्या॒मो गृ॑ह्यते ॥
प्रा॒णा॒पा॒नयो॒र् विधृ॑त्यै
प्राणापा॒नौ वा ए॒तौ यद् उ॑पाँश्वन्तर्या॒मौ व्या॒न उ॑पाँशु॒सव॑नस् \
यं का॒मये॑त
प्र॒मायु॑कः स्या॒द् इत्य् असँ॑स्पृष्टौ॒ तस्य॑ सादयेत् \
व्या॒नेनै॒वास्य॑ प्राणापा॒नौ वि छि॑नत्ति
ता॒जक् प्रमी॑यते॒
यं का॒मये॑त॒
सर्व॒म् आयु॑र् इया॒द् इति॒ सँस्पृ॑ष्टौ॒ तस्य॑ सादयेत् \
व्या॒नेनै॒वास्य॑ प्राणापा॒नौ सं त॑नोति॒
सर्व॒म् आयु॑र् एति ॥
वाग् वा ए॒षा यद् ऐ॑न्द्रवाय॒वस् \
यद् ऐ॑न्द्रवाय॒वाग्रा॒ ग्रहा॑ गृ॒ह्यन्ते॒ वाच॑म् ए॒वानु॒ प्र य॑न्ति
वा॒युं दे॒वा अ॑ब्रुवन् \
सोमँ॒ राजा॑नँ हना॒मेति॒
सो॑ऽब्रवीत् \
वरं॑ वृणै॒ मद॑ग्रा ए॒व वो॒ ग्रहा॑ गृह्यान्ता॒ इति॒
तस्मा॑द् ऐन्द्रवाय॒वाग्रा॒ ग्रहा॑ गृह्यन्ते॒
तम् अ॑घ्नन् \
सो॑ऽपूय॒त्
तं दे॒वा नोपा॑धृष्णुव॒न्
ते वा॒युम् अ॑ब्रुवन् \
इ॒मं नः॑ स्वदय ॥
इति॒
सो॑ऽब्रवीत् \
वरं॑ वृणै मद्देव॒त्या॑न्य् ए॒व वः॒ पात्रा॑ण्य् उच्यान्ता॒ इति॒
तस्मा॑न् नानादेव॒त्या॑नि॒ सन्ति॑ वाय॒व्या॑न्य् उच्यन्ते॒
तम् ए॑भ्यो वा॒युर् ए॒वास्व॑दय॒त्
तस्मा॒द् यत् पूय॑ति॒ तत् प्र॑वा॒ते वि ष॑जन्ति
वा॒युर् हि तस्य॑ पवयि॒ता स्व॑दयि॒ता
तस्य॑ वि॒ग्रह॑णं॒ नावि॑न्दन् \
सादि॑तिर् अब्रवीत् \
वरं॑ वृणा॒ अथ॒ मया॒ वि गृ॑ह्णीध्वम् मद्देव॒त्या॑ ए॒व वः॒ सोमाः॑ ॥
स॒न्ना अ॑स॒न्न् इति॑ \
उपया॒मगृ॑हीतो॒ऽसीत्य् आ॑हादितिदेव॒त्या॑स् तेन॑
यानि॒ हि दा॑रु॒मया॑णि॒ पात्रा॑ण्य् अ॒स्यै तानि॒ योनेः॒ सम्भू॑तानि
यानि॑ मृ॒न्मया॑नि सा॒क्षात् तान्य् अ॒स्यै
तस्मा॑द् ए॒वम् आ॑ह
वाग् वै परा॒च्य् अव्या॑कृतावद॒त्
ते दे॒वा इन्द्र॑म् अब्रुवन् \
इ॒मां नो॒ वाचं॒ व्याकु॒र्व् इति॒
सो॑ऽब्रवीत् \
वरं॑ वृणै॒ मह्यं॑ चै॒वैष वा॒यवे॑ च स॒ह गृ॑ह्याता॒ इति॒
तस्मा॑द् ऐन्द्रवाय॒वः स॒ह गृ॑ह्यते
ताम् इन्द्रो॑ मध्य॒तो॑ऽव॒क्रम्य॒ व्याक॑रो॒त्
तस्मा॑द् इ॒यं व्याकृ॑ता॒ वाग् उ॑द्यते॒
तस्मा॑त् स॒कृद् इन्द्रा॑य मध्य॒तो गृ॑ह्यते॒ द्विर् वा॒यवे॒
द्वौ हि स वरा॒व् अवृ॑णीत ॥
मि॒त्रं दे॒वा अ॑ब्रुवन् \
सोमँ॒ राजा॑नँ हना॒मेति॒
सो॑ऽब्रवीत् \
नाहँ सर्व॑स्य॒ वा अ॒हम् मि॒त्रम् अ॒स्मीति॒
तम् अ॑ब्रुव॒न्
हना॑मै॒वेति॒
सो॑ऽब्रवीत् \
वरं॑ वृणै॒ पय॑सै॒व मे॒ सोमँ॑ श्रीण॒न्न् इति॒
तस्मा॑न् मैत्रावरु॒णम् पय॑सा श्रीणन्ति॒
तस्मा॑त् प॒शवो॑ऽपाक्रामन्
मि॒त्रः सन् क्रू॒रम् अ॑क॒र् इति॑
क्रू॒रम् इ॑व॒ खलु॒ वा ए॒षः ॥
क॒रो॒ति॒ यः सोमे॑न॒ यज॑ते॒
तस्मा॑त् प॒शवोऽप॑ क्रामन्ति॒
यन् मै॑त्रावरु॒णम् पय॑सा श्री॒णाति॑ प॒शुभि॑र् ए॒व तन् मि॒त्रँ स॑म॒र्धय॑ति प॒शुभि॒र् यज॑मानम्
पु॒रा खलु॒ वावैवम् मि॒त्रो॑ऽवेत् \
अप॒ मत् क्रू॒रं च॒क्रुषः॑ प॒शवः॑ क्रमिष्य॒न्तीति॒
तस्मा॑द् ए॒वम् अ॑वृणीत॒
वरु॑णं दे॒वा अ॑ब्रुवन्
त्वयाँ॑श॒भुवा॒ सोमँ॒ राजा॑नँ हना॒मेति॒
सो॑ऽब्रवीत् \
वरं॑ वृणै॒ मह्यं॑ च ॥
ए॒वैष मि॒त्राय॑ च स॒ह गृ॑ह्याता॒ इति॒
तस्मा॑न् मैत्रावरु॒णः स॒ह गृ॑ह्यते॒
तस्मा॒द् राज्ञा॒ राजा॑नम् अँश॒भुवा॑ घ्नन्ति वैश्येन॒ वैश्यँ॑ शू॒द्रेण॒ सूद्रम् \
न वा इ॒दं दिवा॒ न नक्त॑म् आसी॒द् अव्या॑वृत्तम् \
ते दे॒वा मि॒त्रावरु॑णाव् अब्रुवन् \
इ॒दं नो॒ वि वा॑सयत॒म् इति॑
ताव् अ॑ब्रूताम् \
वरं॑ वृणावहा॒ एक॑ ए॒वावत् पूर्वो॒ {F ग्रहो॑} {W ग्रहो} गृह्याता॒ इति॒
तस्मा॑द् ऐन्द्रवाय॒वः पूर्वो॑ मैत्रावरु॒णाद् गृ॑ह्यते
प्राणापा॒नौ ह्य् ए॑तौ यद् उ॑पाँश्वन्तर्या॒मौ
मि॒त्रोऽह॒र् अज॑नय॒द् वरु॑णो॒ रात्रि॑म् \
ततो॒ वा इ॒दं व्य् औ॑छत् \
यन् मै॑त्रावरु॒णो गृ॒ह्यते॒ व्यु॑ष्ट्यै ॥
य॒ज्ञस्य॒ शिरो॑ऽछिद्यत॒
ते दे॒वा अ॒श्विना॑व् अब्रुवन्
भि॒षजौ॒ वै स्थ॑ इ॒दं य॒ज्ञस्य॒ शिरः॒ प्रति॑ धत्त॒म् इति॑
ताव् अ॑ब्रूताम् \
वरं॑ वृणावहै॒ ग्रह॑ ए॒व ना॑व् अ॒त्रापि॑ गृह्यता॒म् इति॑
ताभ्या॑म् ए॒तम् आ॑श्वि॒नम् अ॑गृह्ण॒न्
ततो॒ वै तौ य॒ज्ञस्य॒ शिरः॒ प्रत्य् अ॑धताम् \
यद् आ॑श्वि॒नो गृ॒ह्यते॑ य॒ज्ञस्य॒ निष्कृ॑त्यै॒
तौ दे॒वा अ॑ब्रुवन् \
अपू॑तौ॒ वा इ॒मौ म॑नुष्यच॒रौ ॥
भि॒षजा॒व् इति॒
तस्मा॑द् ब्राह्म॒णेन॑ भेष॒जं न का॒र्य॑म् अपू॑तो॒ ह्य् ए॑षो॑ऽमे॒ध्यो यो { भि॒षक् ^ भि॒षज् }
तौ ब॑हिष्पवमा॒नेन॑ पवयि॒त्वा ताभ्या॑म् ए॒तम् आ॑श्वि॒नम् अ॑गृह्ण॒न्
तस्मा॑द् बहिष्पवमा॒ने स्तु॒त आ॑श्वि॒नो गृ॑ह्यते॒
तस्मा॑द् ए॒वं वि॒दुषा॑ बहिष्पवमा॒न उ॑प॒सद्यः॑ प॒वित्रं॒ वै ब॑हिष्पवमा॒न आ॒त्मान॑म् ए॒व प॑वयते॒
तयो॑स् त्रे॒धा भैष॑ज्यं॒ वि न्य् अ॑दधुस् \
अ॒ग्नौ तृती॑यम् अ॒प्सु तृती॑यम् ब्राह्म॒णे तृती॑यम् \
तस्मा॑द् उदपा॒त्रम् ॥
उ॒प॒नि॒धाय॑ ब्राह्म॒णं द॑क्षिण॒तो नि॒षाद्य॑ भेष॒जं कु॑र्यात् \
याव॑द् ए॒व भे॑ष॒जं तेन॑ करोति स॒मर्धु॑कम् अस्य कृ॒तम् भ॑वति
ब्रह्मवा॒दिनो॑ वदन्ति॒
कस्मा॑त् स॒त्याद् एक॑पात्रा द्विदेव॒त्या॑ गृ॒ह्यन्ते॑ द्वि॒पात्रा॑ हूयन्त॒ इति॒
यद् एक॑पात्रा गृ॒ह्यन्ते॒ तस्मा॒द् एको॑ऽन्तर॒तः प्रा॒णो द्वि॒पात्त्रा॑ हूयन्ते॒ तस्मा॒द् द्वौद्वौ॑ ब॒हिष्टा॑त् प्रा॒णाः
पा॒णा वा ए॒ते यद् द्वि॑देव॒त्याः॑ प॒शव॒ इडा॒ यद् इडा॒म् पूर्वां॑ द्विदेव॒त्ये॑भ्य उप॒ह्वये॑त ॥
प॒शुभिः॑ प्रा॒णान् अ॒न्तर् द॑धीत प्र॒मायु॑कः स्यात् \
द्वि॒दे॒व॒त्या॑न् भक्षयि॒त्वेडा॒म् उप॑ ह्वयते
प्रा॒णान् ए॒वात्मन् धि॒त्वा प॒शून् उप॑ ह्वयते
वाग् वा ऐ॑न्द्र वाय॒वश् चक्षु॑र् मैत्रावरु॒णः श्रोत्र॑म् आश्वि॒नः
पु॒रस्ता॑द् ऐन्द्रवाय॒वम् भ॑क्षयति॒ तस्मा॑त् पु॒रस्ता॑द् वा॒चा व॑दति
पु॒रस्ता॑न् मैत्रावरु॒णं तस्मा॑द् पु॒रस्ता॒च् चक्षु॑षा पश्यति स॒र्वतः॑ प्रै॒हार॑म् आश्वि॒नं तस्मा॑त् स॒र्वतः॒ श्रोत्रे॑ण शृणोति
प्रा॒णा वा ए॒ते यद् द्वि॑देव॒त्याः॑ ॥
अरि॑क्तानि॒ पात्रा॑णि सादयति॒
तस्मा॒द् अरि॑क्ता अन्तर॒तः प्रा॒णा यतः॒ खलु॒ वै य॒ज्ञस्य॒ वित॑तस्य॒ न क्रि॒यते॒ तद् अनु॑ य॒ज्ञँ रक्षाँ॒स्य् अव॑ चरन्ति॒
यद् अरि॑क्तानि॒ पात्रा॑णि सा॒दय॑ति क्रि॒यमा॑णम् ए॒व तद् य॒ज्ञस्य॑ शये॒ रक्ष॑सा॒म् अन॑न्ववचाराय॒
दक्षि॑णस्य हवि॒र्धान॒स्योत्त॑रस्यां वर्त॒न्याँ सा॑दयति वा॒च्य् ए॑व वाचं॑ दधाति \
आ तृ॑तीयसव॒नात् परि॑ शेरे य॒ज्ञस्य॒ संत॑त्यै
बृह॒स्पति॑र् दे॒वाना॑म् पु॒रोहि॑त॒ आसी॒च् छण्डा॒मर्का॒व् असु॑राणाम्
ब्रह्म॑ण्वन्तो दे॒वा आस॒न् ब्रह्म॑ण्व॒न्तोऽसु॑रा॒स्
ते॑ऽन्यो॑ऽन्यं नाश॑क्नुवन्न् अ॒भिभ॑वितुम् \
ते दे॒वाः शण्डा॒मर्का॒व् उपा॑मन्त्रयन्त
ताव् अ॑ब्रूताम् \
वरं॑ वृणावहै॒ ग्रहा॑व् ए॒व ना॒व् अत्रापि॑ गृह्येता॒म् इति॑
ताभ्या॑म् ए॒तौ शु॒क्राम॒न्थिना॑व् अगृह्ण॒न्
ततो॑ दे॒वा अभ॑व॒न् परासु॑रास् \
यस्यै॒वं वि॒दुषः॑ शु॒क्राम॒न्थिनौ॑ गृ॒ह्येते॒ भव॑त्य् आ॒त्मना॒ परा॑ ॥
अ॒स्य॒ भ्रात्रि॑व्यो भवति॒
तौ दे॒वा अ॑प॒नुद्या॒त्मन॒ इन्द्रा॑याजुहवुस् \
अप॑नुत्तौ॒ शण्डा॒मर्कौ॑ स॒हामुनेति॑ ब्रूया॒द् यं द्वि॒ष्यात् \
यम् ए॒व द्वेष्टि॒ तेनै॑नौ स॒हाप॑ नुदते॒
स प्र॑थ॒मः संकृ॑तिर् वि॒श्वक॒र्मेत्य् ए॒वैना॑व् आ॒त्मन॒ इन्द्रा॑याजुहवुस् \
इन्द्रो॒ ह्य् ए॑तानि॑ रू॒पाणि॒ करि॑क्र॒द् अच॑रत् \
अ॒सौ वा आ॑दि॒त्यः शु॒क्रश् च॒न्द्रमा॑ म॒न्थी \
अ॑पि॒गृह्य॒ प्राञ्चौ॒ निः ॥
क्रा॒म॒त॒स्
तस्मा॒त् प्राञ्चौ॒ यन्तौ॒ न प॑श्यन्ति
प्र॒त्यञ्चा॑व् आ॒वृत्य॑ जुहुत॒स्
तस्मा॑त् प्र॒त्यञ्चौ॒ यन्तौ॑ पश्यन्ति॒
चक्षु॑षी॒ वा ए॒ते य॒ज्ञस्य॒ यच् छु॒क्राम॒न्थिनौ॒ नासि॑कोत्तरवे॒दिस् \
अ॒भितः॑ परि॒क्रम्य॑ जुहुत॒स्
तस्मा॑द् अ॒भितो॒ नासि॑कां॒ चक्षु॑षी॒
तस्मा॒न् नासि॑कया॒ चक्षु॑षी॒ विधृ॑ते
स॒र्वतः॒ परि॑ क्रामतो॒ रक्ष॑सा॒म् अप॑हत्यै
दे॒वा वै याः प्राची॒र् आहु॑ती॒र् अजु॑हवु॒र् ये पु॒रस्ता॒द् असु॑रा॒ आस॒न् ताँस् ताभिः॒ प्र ॥
अ॒नु॒द॒न्त॒
याः प्र॒तीची॒र् ये प॒श्चाद् असु॑रा॒ आस॒न् ताँस् ताभि॒र् अपा॑नुदन्त
प्राची॑र् अ॒न्या आहु॑तयो हू॒यन्ते॑ प्र॒त्यञ्चौ॑ शु॒क्राम॒न्थिनौ॑
प॒श्चाच् चै॒व पु॒रस्ता॑च् च॒ यज॑मानो॒ भ्रातृ॑व्या॒न् प्र णु॑दते॒
तस्मा॒त् परा॑चीः प्र॒जाः प्र वी॑यन्ते प्र॒तीची॑र् जायन्ते
शु॒क्राम॒न्थिनौ॒ वा अनु॑ प्र॒जाः प्र जा॑यन्ते॒ऽत्त्रीश् चा॑द्या॑श् च
सु॒वीराः॑ प्र॒जाः प्र॑ज॒नय॒न् परी॑हि शु॒क्रः शु॒क्रशो॑चिषा ॥
सु॒प्र॒जाः प्र॒जाः प्र॑ज॒नय॒न् परी॑हि म॒न्थी म॒न्थिशो॑चि॒षेत्य् आ॑ह \
ए॒ता वै सु॒वीरा॒ या अत्त्री॑स् \
ए॒ताः सु॑प्र॒जा या आ॑द्या॑स् \
य ए॒वं वेदा॒त्त्र्य् अ॑स्य प्र॒जा जा॑यते॒ नाद्या॑
प्र॒जाप॑ते॒र् अक्ष्य् अ॑श्वय॒त्
तत् परा॑पत॒त्
तद् विक॑ङ्कत॒म् प्रावि॑श॒त्
तद् विक॑ङ्कते॒ नार॑मत॒
तद् यव॒म् प्रावि॑श॒त्
तद् यवे॑ऽरमत॒
तद् यव॑स्य ॥
य॒व॒त्वम् \
यद् वैक॑ङ्कतम् मन्थिपा॒त्रम् भव॑ति॒ सक्तु॑भिः श्री॒णाति॑ प्र॒जाप॑तेर् ए॒व तच् चक्षुः॒ सम् भ॑रति
ब्रह्मवा॒दिनो॑ वदन्ति॒
कस्मा॑त् स॒त्यान् म॑न्थिपा॒त्रँ सदो॒ नाश्नु॑त॒ इति॑ \
आर्तपा॒त्रँ हीति॑ ब्रूयात् \
यद् अ॑श्नुवी॒तान्धो॑ऽध्व॒र्युः स्याद् आर्ति॒म् आर्छे॒त्
तस्मा॒न् नाश्नु॑ते ॥
दे॒वा वै यद् य॒ज्ञेऽकु॑र्वत॒ तद् असु॑रा अकुर्वत॒
ते दे॒वा आ॑ग्रय॒णाग्रा॒न् ग्रहा॑न् अपश्यन्
तान् अ॑गृह्णत॒
ततो॒ वै तेऽग्र॒म् पर्य् आ॑य॒न्
यस्यै॒वं वि॒दुष॑ आग्रय॒णाग्रा॒ ग्रहा॑ गृ॒ह्यन्तेऽग्र॑म् ए॒व स॑मा॒नाना॒म् पर्य् ए॑ति
रु॒ग्णव॑त्य॒र्चा भ्रातृ॑व्यवतो गृह्णीयात् \
भ्रातृ॑व्यस्यै॒व रु॒क्त्वाग्रँ॑ समा॒नाना॒म् पर्य् ए॑ति॒
ये दे॒वा दि॒व्य् एका॑दश॒ स्थेत्य् आ॑ह ॥
ए॒ताव॑ती॒र् वै दे॒वता॒स् ताभ्य॑ ए॒वैनँ॒ सर्वा॑भ्यो गृह्णाति \
ए॒ष ते॒ योनि॒र् विश्वे॑भ्यस् त्वा दे॒वेभ्य॒ इति॑ आह
वैश्वदे॒वो ह्य् ए॑ष दे॒वत॑या
वाग् वै दे॒वेभ्य्योऽपा॑क्रामद् य॒ज्ञायाति॑ष्ठमाना॒ ते दे॒वा वा॒च्य् अप॑क्रान्तायां तू॒ष्णीं ग्रहा॑न् अगृह्णत॒ साम॑न्यत॒ वाग् अ॒न्तर् य॑न्ति॒ वै मेति॒ साग्र॑य॒णम् प्रत्य् आग॑छ॒त्
तद् आ॑ग्रय॒णस्या॑ग्रयण॒त्वम् ॥
तस्मा॑द् आग्रय॒णे वाग् वि सृ॑ज्यते॒
यत् तू॒ष्णीम् पूर्वे॒ ग्रहा॑ गृ॒ह्यन्ते॒ यथा॑ त्सा॒री \
इय॑ति म॒ आख॒ इय॑ति॒ नाप॑ रात्स्या॒मीत्य् उ॑पावसृ॒जत्य् ए॒वम् ए॒व तद् अ॑ध्व॒र्युर् आ॑ग्रय॒णं गृ॑ही॒त्वा य॒ज्ञम् आ॒रभ्य॒ वाचं॒ वि सृ॑जते॒
त्रिर् हिं क॑रोत्य् उद्गा॒तॄन् ए॒व तद् वृ॑णीते
प्र॒जाप॑ति॒र् वा ए॒ष यद् आ॑ग्रय॒णो यद् आ॑ग्रय॒णं गृ॑ही॒त्वा हिं॑क॒रोति॑ प्र॒जाप॑तिर् एव ॥
तत् प्र॒जा अ॒भि जि॑घ्रति॒
तस्मा॑द् व॒त्सं जा॒तं गौर् अ॒भि जि॑घ्रति \
आ॒त्मा वा ए॒ष य॒ज्ञस्य॒ यद् आ॑ग्रय॒णः सव॑नेसवने॒ऽभि गृ॑ह्णात्य् आ॒त्मन्न् ए॒व य॒ज्ञँ सं त॑नोति \
उपरिष्टा॒द् आ न॑यति॒ रेत॑ ए॒व तद् द॑धाति \
अ॒धस्ता॒द् उप॑ गृह्णाति॒ प्र ज॑नयत्य् ए॒व तत् \
ब्र॒ह्म॒वा॒दिनो॑ वदन्ति॒
कस्मा॑त् स॒त्याद् गा॑य॒त्री कनि॑ष्ठा॒ छन्द॑साँ स॒ती सर्वा॑णि॒ सव॑नानि वह॒तीति॑ \
ए॒ष वै गा॑यत्रि॒यै व॒त्सो यद् आ॑ग्रय॒णस् तम् ए॒व तद् अ॑भिनि॒वर्तँ॒ सर्वा॑णि॒ सव॑नानि वहति॒
तस्मा॑द् व॒त्सम् अ॒पाकृ॑तं॒ गौर् अ॒भि नि व॑र्तते ॥