चात्वा॑ला॒द् धिष्णि॑या॒न् उप॑ वपति॒
योनि॒र् वै य॒ज्ञस्य॒ चात्वा॑लं य॒ज्ञस्य॑ सयोनि॒त्वाय॑
दे॒वा वै य॒ज्ञम् परा॑जयन्त॒
तम् आग्नी॑ध्रा॒त् पुन॒र् अपा॑जयन् \
ए॒तद् वै य॒ज्ञस्याप॑राजितं॒ यद् आग्नी॑ध्रम् \
यद् आग्नी॑ध्रा॒द् धिष्णि॑यान् वि॒हर॑ति॒ यद् ए॒व य॒ज्ञस्याप॑राजितं॒ तत॑ ए॒वैन॒म् पुन॑स् तनुते
परा॒जित्ये॑व॒ खलु॒ वा ए॒ते य॑न्ति॒ ये ब॑हिष्पवमा॒नँ सर्प॑न्ति
बहिष्पवमा॒ने स्तु॒ते ॥
आ॒ह॒ \
अग्नी॑द् अ॒ग्नीन् वि ह॑र ब॒र्हि स्तृ॑नाहि पुरो॒डाशाँ॑ अ॒लं कु॒र्व् इति॑
य॒ज्ञम् ए॒वाप॒जित्य॒ पुन॑स् तन्वा॒ना य॑न्ति॒ \
अङ्गा॑रै॒र् द्वे सव॑ने॒ वि ह॑रति श॒लाका॑भिस् तृ॒तीय॑म् \
स॒शु॒क्र॒त्वाय॒ \
अथो॒ सम् भ॑रत्य् ए॒वैन॑द् \
धिष्णि॑या॒ वा अ॒मुष्मिँ॑ लो॒के सोम॑म् अरक्ष॒न्
तेभ्योऽधि॒ सोम॒म् आह॑र॒न्
तम् अ॑न्व॒वाय॒न् तम् पर्य् अ॑विश॒न्
य ए॒वं वेद॑ वि॒न्दते॑ ॥
प॒रि॒वे॒ष्टार॑म् \
ते सो॑मपी॒थेन॑ व्य् आ॑र्ध्यन्त॒
ते दे॒वेषु॑ सोमपी॒थम् ऐ॑छन्त
तान् दे॒वा अ॑ब्रुवन्
द्वेद्वे॒ नाम॑नी कुरुध्व॒म् अथ॒ प्र वा॒प्स्यथ॒ न वेति॑ \
अ॒ग्नयो॒ वा अथ॒ धिष्णि॑या॒स्
तस्मा॑द् द्वि॒नामा॑ ब्राह्म॒णोऽर्धु॑क॒स्
तेषां॒ ये नेदि॑ष्ठम् प॒र्यवि॑श॒न् ते सो॑मपी॒थम् प्राप्नु॑वन्न् आहव॒नीय॑ आग्नी॒ध्रीयो॑ हो॒त्रीयो॑ मार्जा॒लीय॒स्
तस्मा॒त् तेषु॑ जुह्वति \
अति॒हाय॒ वष॑ट् करोति॒
वि हि ॥
ए॒ते सो॑मपी॒थेनार्ध्य॑न्त
दे॒वा वै याः प्राची॑र् आहुती॒र् अजु॑हवु॒र् ये पु॒रस्ता॒द् असु॑रा॒ आस॒न् ताँस् ताभिः॒ प्राणु॑दन्त
याः प्र॒तीची॒र् ये प॒श्चाद् असु॑रा॒ आस॒न् ताँस् ताभि॒र् अपा॑नुदन्त
प्राची॑र् अ॒न्या आहु॑तयो हू॒यन्ते॑ प्र॒त्यङ्ङ् आसी॑नो॒ धिष्णि॑या॒न् व्याघा॑रयति
प॒श्चाच् चै॒व पु॒रस्ता॑च् च॒ यज॑मानो॒ भ्रातृ॑व्या॒न् प्र णु॑दते॒
तस्मा॒त् परा॑चीः प्र॒जाः प्र वी॑यन्ते प्र॒तीचीः॑ ॥
जा॒य॒न्ते॒
प्रा॒णा वा ए॒ते यद् धिष्णि॑यास् \
यद् अ॑ध्व॒र्युः प्र॒त्यङ् धिष्णि॑यान् अति॒सर्पे॑त् प्रा॒णान्त् सं क॑र्षेत्
प्र॒मायु॑कः स्यात् \
नाभि॒र् वा ए॒षा य॒ज्ञस्य॒ यद् धोता॑ \
ऊ॒र्ध्वः खलु॒ वै नाभ्यै॑ प्रा॒णोऽवा॑ङ् अपा॒नस् \
यद् अ॑ध्व॒र्युः प्र॒त्यङ् होता॑रम् अति॒सर्पे॑द् अपा॒ने प्रा॒णं द॑ध्यात् प्र॒मायु॑कः स्यात् \
नाध्व॒र्युर् उप॑ गायेत् \
वाग्वी॑र्यो॒ वा अ॑ध्व॒र्युस् \
यद् अ॑ध्व॒र्युर् उ॑प॒गाये॑द् उद्गा॒त्रे ॥
वाचँ॒ सम् प्र य॑छेद् उप॒दासु॑कास्य॒ वाक् स्या॑त् \
ब्र॒ह्म॒वा॒दिनो॑ वदन्ति
नासँ॑स्थिते॒ सोमे॑ऽध्व॒र्युः प्र॒त्यङ्क् सदोऽती॑या॒द् अथ॑ क॒था दा॑क्षि॒णानि॒ होतु॑म् एति॒ यामो॒ हि स तेषां॒ कस्मा॒ अह॑ दे॒वा यामं॒ वाया॑मं॒ वानु॑ ज्ञास्य॒न्तीति॒ \
उत्त॑रे॒णाग्नी॑ध्रम् प॒रीत्य॑ जुहोति दाक्षि॒णानि॒
न प्रा॒णान्त् सं क॑र्षति
न्य् अ॑न्ये धिष्णि॑या उ॒प्यन्ते॒ नान्ये
यान् नि॒वप॑ति॒ तेन॒ तान् प्री॑णाति
यान् न नि॒वप॑ति॒ यद् अ॑नुदि॒शति॒ तेन॒ तान् ॥
सु॒व॒र्गाय॒ वा ए॒तानि॑ लो॒काय॑ हूयन्ते॒ यद् वै॑सर्ज॒नानि॑
द्वाभ्यां॒ गार्ह॑पत्ये जुहोति
द्वि॒पाद् यज॑मानः
प्रति॑ष्ठित्यै \
आग्नी॑ध्रे जुहोति \
अ॒न्तरि॑क्ष ए॒वा क्र॑मते \
आहव॒नीये॑ जुहोति
सुव॒र्गम् ए॒वैनं॑ लो॒कं ग॑मयति
दे॒वान् वै सु॑व॒र्गं लो॒कं य॒तो रक्षाँ॑स्य् अजिघाँस॒न्
ते सोमे॑न॒ राज्ञा॒ रक्षाँ॑स्य् अप॒हत्या॒प्तुम् आ॒त्मानं॑ कृ॒त्वा सु॑व॒र्गं लो॒कम् आ॑य॒न्
रक्ष॑सा॒म् अनु॑पलाभाया \
आत्तः॒ सोमो॑ भव॒त्य् अथ॑ ॥
वै॒स॒र्ज॒नानि॑ जुहोति॒ रक्ष॑सा॒म् अप॑हत्यै॒
त्वँ सो॑म तनू॒कृद्भ्य॒ इत्य् आ॑ह
तनू॒कृद् ध्य् { ए॑ष ^ ए॑षस् }
द्वेषो॑भ्यो॒ऽन्यकृ॑तेभ्य॒ इत्य् आ॑ह \
अ॒न्यकृ॑तानि॒ हि रक्षाँ॑सि \
उ॒रु य॒न्तासि॒ वरू॑थ॒म् इत्य् आ॑ह \
उ॒रु ण॑स् कृ॒धीति॒ वावैतद् आ॑ह
षा॒णो अ॒प्तुर् आज्य॑स्य वे॒त्व् इत्य् आ॑ह \
अ॒प्तुम् ए॒व यज॑मानं कृ॒त्वा सु॑व॒र्गं लो॒कं ग॑मयति॒
रक्ष॑सा॒म् अनु॑पलाभाय \
आ सोमं॑ ददते ॥
आ ग्राव्ण॒ आ वा॑य॒व्या॑न्य् आ द्रो॑णकल॒शम्
उत् पत्नी॒म् आ न॑यन्ति॒ \
अन्व् अनाँ॑सि॒ प्र व॑र्तयन्ति
याव॑द् ए॒वास्यास्ति॒ तेन॑ स॒ह सु॑व॒र्गं लो॒कम् ए॑ति॒
नय॑वत्य॒र्चाग्नी॑ध्रे जुहोति
सुव॒र्गस्य॑ लो॒कस्या॒भिनी॑त्यै
ग्राव्णो॑ वाय॒व्या॑नि द्रोणकल॒शम् आग्नी॑ध्र॒ उप॑ वासयति॒
वि ह्य् ए॑नं॒ तैर् गृ॒ह्णते॒
यत् स॒होप॑वा॒सये॑द् अपुवा॒येत॑
सौ॒म्यर्चा प्र पा॑दयति॒
स्वया॑ ॥
ए॒वैनं॑ दे॒वत॑या॒ प्र पा॑दयति॒ \
अदि॑त्याः॒ सदो॒ऽस्य् अदि॑त्याः॒ सद॒ आ सी॒देत्य् आ॑ह
यथाय॒जुर् ए॒वैतत् \
यज॑मानो॒ वा ए॒तस्य॑ पु॒रा गो॒प्ता भ॑वति \
ए॒ष वो॑ देव सवितः॒ सोम॒ इत्य् आ॑ह
सवि॒तृप्र॑सूत ए॒वैनं॑ दे॒वता॑भ्यः॒ सम् प्र य॑छति \
ए॒तत् त्वँ सो॑म दे॒वो दे॒वान् उपा॑गा॒ इत्य् आ॑ह
दे॒वो ह्य् ए॑ष सन् ॥
दे॒वान् उ॒पैति॑ \
इ॒दम् अ॒हम् म॑नु॒ष्यो॑ मनु॒ष्या॑न् इत्य् आ॑ह
मनु॒ष्यो॑ ह्य् ए॑ष सन् म॑नु॒ष्या॑न् उ॒पैति॒
यद् ए॒तद् यजु॒र् न ब्रू॒याद् अप्र॑जा अप॒शुर् यज॑मानः स्यात्
स॒ह प्र॒जया॑ स॒ह रा॒यस् पोषे॒णेत्य् आ॑ह
प्र॒जयै॒व प॒शुभिः॑ स॒हेमं लो॒कम् उ॒पाव॑र्तते॒
नमो॑ दे॒वेभ्य॒ इत्य् आ॑ह
नमस्का॒रो हि दे॒वाना॑म् \
स्व॒धा पि॒तृभ्य॒ इत्य् आ॑ह
स्वधाका॒रो हि ॥
पि॒तृ॒णाम्
इ॒दम् अ॒हं निर् वरु॑णस्य॒ पाशा॒द् इत्य् आ॑ह
वरुणपा॒शाद् ए॒व निर् मु॑च्यते॒ \
अग्ने॑ व्रतपते \
आ॒त्मनः॒ पूर्वा॑ त॒नूर् आ॒देयेत्य् आ॑हुः॒
को हि तद् वेद॒ यद् वसी॑या॒न्त् स्वे वशे॑ भू॒ते पुन॑र् वा॒ ददा॑ति॒ न वेति॑
ग्रावा॑णो॒ वै सोम॑स्य॒ राज्ञो॑ मलिम्लुसे॒ना
य ए॒वं वि॒द्वान् ग्राव्ण॒ आग्नी॑ध्र उपवा॒सय॑ति॒ नैन॑म् मलिम्लुसे॒ना वि॑न्दति ॥
वै॒ष्ण॒व्यर्चा हु॒त्वा यूप॒म् अछै॑ति वैष्ण॒वो वै दे॒वत॑या॒ यूपः॒ स्वयै॒वैनं॑ दे॒वत॒याछै॒त्य्
अत्य् अ॒न्यान् अगां॒ नान्यान् उपा॑गा॒म् इत्य् आ॒हाति॒ ह्य् अ॑न्यान् एति॒ नान्यान् उ॒पैत्य् अ॒र्वाक् त्वा॒ परै॑र् अविदम् प॒रोव॑रै॒र् इत्य् आ॑हा॒र्वाग् घ्य् ए॑न॒म् परै॑र् वि॒न्दति॑ प॒रोव॑रै॒स् तं त्वा॑ जुषे ॥
वै॒ष्ण॒वं दे॑वय॒ज्याया॒ इत्य् आ॑ह देवय॒ज्यायै॒ ह्य् ए॑नं जु॒षते॑
दे॒वस् त्वा॑ सवि॒ता मध्वा॑न॒क्त्व् इत्य् आ॑ह॒ तेज॑सै॒वैन॑म् अन॒क्त्य् ओष॑धे त्रायस्वैनँ॒ स्वधि॑ते॒ मैनँ॑ हिँसी॒र् इत्य् आ॑ह॒ वज्रो॒ वै स्वधि॑तिः॒ शान्त्यै॒
स्वधि॑ते॒र् वृक्ष॑स्य॒ बिभ्य॑तः प्रथ॒मेन॒ शक॑लेन स॒ह तेजः॒ परा॑ पतति॒ यः प्र॑थ॒मः शक॑लः परा॒पते॒त् तम् अप्य् आ ह॑रे॒त् सते॑जसम् ॥
ए॒वैन॒म् आ ह॑रती॒मे वै लो॒का यूपा॑त् प्रय॒तो बि॑भ्यति॒ दिव॒म् अग्रे॑ण॒ माले॑खीर् अ॒न्तरि॑क्ष॒म् मध्ये॑न॒ मा हिँ॑सी॒र् इत्य् आ॑है॒भ्य ए॒वैनं॑ लो॒केभ्यः॑ शमयति॒
वन॑स्पते श॒तव॑ल्शो॒ वि रो॒हेत्य् आ॒व्रश्च॑ने जुहोति॒ तस्मा॑द् आ॒व्रश्च॑नाद् वृ॒क्षाणा॒म् भूयाँ॑स॒ उत् ति॑ष्ठन्ति
स॒हस्र॑वल्शा॒ वि व॒यँ रु॑हे॒मेत्य् आ॑हा॒शिष॑म् ए॒वैताम् आ शा॑स्ते \
अनक्षसङ्गम् ॥
वृ॒श्चे॒द् यद् अ॑क्षस॒ङ्गं वृ॒श्चेद् अ॑धई॒षं यज॑मानस्य प्र॒मायु॑कँ स्या॒द्
यं का॒मये॒ताप्र॑तिष्ठितः स्या॒द् इत्य् आ॑रो॒हं तस्मै॑ वृश्चेद् ए॒ष वै वन॒स्पती॑ना॒म् अप्र॑तिष्ठि॒तोप्र॑तिष्ठित ए॒व भ॑वति॒
यं का॒मये॑ताप॒शुः स्या॒द् इत्य् अ॑प॒र्णं तस्मै॒ शुष्का॑ग्रं वृश्चेद् ए॒ष वै वन॒स्पती॑नाम् अपश॒व्यो॑ऽप॒शुर् ए॒व भ॑वति॒
यं का॒मये॑त पशु॒मान्त् स्या॒द् इति॑ बहुप॒र्णं तस्मै॑ बहुशा॒खं वृ॑श्चेद् ए॒ष वै ॥
वन॒स्पती॑नाम् पश॒व्यः॑ पशु॒मान् ए॒व भ॑वति॒
प्रति॑ष्ठितं वृश्चेत् प्रति॒ष्ठाका॑मस्यै॒ष वै वन॒स्पती॑ना॒म् प्रति॑ष्ठितो॒ यः स॒मे भूम्यै॒ स्वाद् योने॑ रू॒ढः प्रत्य् ए॒व तिष्ठ॑ति॒ यः प्र॒त्यङ्ङ् उप॑नत॒स् तं वृ॑श्चे॒त् स हि मेध॑म् अ॒भ्य् उप॑नतः॒
पञ्चा॑रत्निं॒ तस्मै॑ वृश्चे॒द् यं का॒मये॒तोपै॑न॒म् उत्त॑रो य॒ज्ञो न॑मे॒द् इति॒ पञ्चा॑क्षरा प॒ङ्क्तिः पाङ्क्तो॑ य॒ज्ञ उपै॑न॒म् उत्त॑रो य॒ज्ञः ॥
न॒म॒ति॒
षड॑रत्निम् प्रति॒ष्ठाका॑मस्य॒ षड् वा ऋ॒तव॑ ऋ॒तुष्व् ए॒व प्रति॑ तिष्ठति
स॒प्तार॑त्निम् प॒शुका॑मस्य स॒प्तप॑दा॒ शक्व॑री प॒शवः॒ शक्व॑री प॒शून् ए॒वाव॑ रुन्द्धे॒
नवा॑रत्निं॒ तेज॑स्कामस्य त्रि॒व्रीता॒ स्तोमे॑न॒ सम्मि॑तं॒ तेज॑स् त्रि॒वीत् ते॑ज॒स्व्य् ए॑व भ॑वति॒ \
एका॑दशारत्निम् इन्द्रि॒यका॑म॒स्यैका॑दशाक्षरा तृ॒ष्टुग् इ॑न्द्रि॒यं त्रि॒ष्टुग् इ॑न्द्रिया॒व्य् ए॑व भ॑वति॒
पञ्च॑दशारत्नि॒म् भ्रातृ॑व्यवतः पञ्चद॒शो वज्रो॒ भ्रातृ॑व्याभिभूत्यै
स॒प्तद॑शारत्निम् प्र॒जाका॑मस्य सप्तद॒शः प्र॒जाप॑तिः प्र॒जाप॑ते॒र् आप्त्यै॒ \
एक॑विँशत्यरत्निम् प्रति॒ष्ठाका॑मस्यैकविँ॒श स्तोमा॑नाम् प्रति॒ष्ठा प्रति॑ष्ठित्यै \
अ॒ष्टाश्रि॑र् भवत्य् अ॒ष्टाक्ष॑रा गाय॒त्री तेजो॑ गाय॒त्री गा॑य॒त्री य॑ज्ञमु॒खं तेज॑सै॒व गा॑यत्रि॒या य॑ज्ञमु॒खेन॒ सम्मि॑तः ॥
पृ॒थि॒व्यै त्वा॒न्तरि॑क्षाय त्वा दि॒वे त्वेत्य् आ॑है॒भ्य ए॒वैनं॑ लो॒केभ्यः॒ प्रोक्ष॑ति॒
परा॑ञ्च॒म् प्रोक्ष॑ति॒ परा॑ङ् इव॒ हि सु॑व॒र्गो लो॒कः
क्रू॒रम् इ॑व॒ वा ए॒तत् क॑रोति॒ यत् खन॑त्य् अ॒पोव॑ नयति॒ शान्त्यै॒ यव॑मती॒र् अव॑ नय॒त्य् ऊर्ग् वै यवो॒ यज॑मानेन॒ यूपः॒ सम्मि॑तो॒ यावा॑न् ए॒व यज॑मान॒स् ताव॑तीम् ए॒वास्मि॒न्न् ऊर्जं॑ दधाति ॥
पि॒तृ॒णाँ सद॑नम् अ॒सीति॑ ब॒र्हिर् अव॑ स्तृणाति पितृदेव॒त्यँ॑ ह्य् ए॑तद् यन् निखा॑तं॒ यद् ब॒र्हिर् अन॑वस्तीर्य मिनु॒यात् पि॑तृदेव॒त्यो॑ निखा॑तः स्याद् ब॒र्हिर् अ॑व॒स्तीर्य॑ मिनोत्य् अ॒स्याम् ए॒वैन॑म् मिनोति
यूपशक॒लम् अवा॑स्यति॒ सते॑जसम् ए॒वैन॑म् मिनोति
दे॒वस् त्वा॑ सवि॒ता मध्वा॑न॒क्त्व् इत्य् आ॑ह॒ तेज॑सै॒वैन॑म् अनक्ति
सुपिप्प॒लाभ्य॒स् त्वौष॑धीभ्य॒ इति॑ च॒षाल॒म् प्रति॑ ॥
मु॒ञ्च॒ति॒ तस्मा॑च् छीर्ष॒त ओष॑धयः॒ फलं॑ गृह्णन्त्य्
अ॒नक्ति॒ तेजो॒ वा आज्यं॒ यज॑मानेनाग्नि॒ष्ठाश्रिः॒ सम्मि॑ता॒ यद् अ॑ग्नि॒ष्ठाम् अश्रि॑म् अ॒नक्ति॒ यज॑मानम् ए॒व तेज॑सानक्त्य्
आ॒न्तम् अ॑नक्त्य् आ॒न्तम् ए॒व यज॑मानं॒ तेज॑सानक्ति
स॒र्वतः॒ परि॑ मृश॒त्य् अप॑रिवर्गम् ए॒वास्मि॒न् तेजो॑ दधा॒त्य्
उद् दिवँ॑ स्तभा॒नान्तरि॑क्षम् पृ॒णेत्य् आ॑है॒षां लो॒कानां॒ विधृ॑त्यै
वैष्ण॒व्यर्चा ॥
क॒ल्प॒य॒ति॒ वै॒ष्ण॒वो वै दे॒वत॑या॒ यूपः॒ स्वयै॒वैनं॑ दे॒वत॑या कल्पयति
द्वाभ्यां॑ कल्पयति द्वि॒पाद् यज्मा॑नः॒ प्रति॑ष्ठित्यै॒
यं का॒मये॑त॒ तेज॑सैनं दे॒वता॑भिर् इन्द्रि॒येण॒ व्य् अ॑र्धयेय॒म् इत्य् अ॑ग्नि॒ष्ठां तस्याश्रिं॑ आहव॒नीया॑द् इ॒त्थं वे॒त्थं वाति॑ नावये॒त् तेज॑सै॒वैनं॑ दे॒वता॑भिर् इन्द्रि॒येण॒ व्य् अ॑र्धयति॒
यं का॒मये॑त॒ तेज॑सैनं दे॒वता॑भिर् इन्द्रि॒येण॒ सम् अ॑र्धयेय॒म् इति॑ ॥
अ॒ग्नि॒ष्ठां तस्याश्रि॑म् आहव॒नीये॑न॒ सम् मि॑नुया॒त् तेज॑सै॒वैनं॑ दे॒वता॑भिर् इन्द्रि॒येण॒ सम् अ॑र्धयति
ब्रह्म॒वनिं॑ त्वा क्षत्र॒वनि॒म् इत्य् आ॑ह यथाय॒जुर् ए॒वैतत्
परि॑ व्यय॒त्य् ऊर्ग् वै र॑श॒ना यज॑मानेन॒ यूपः॒ सम्मि॑तो॒ यज॑मानम् ए॒वोर्जा सम् अ॑र्धयति
नाभिद॒घ्ने परि॑ व्ययति नाभिद॒घ्न ए॒वास्मा॒ ऊर्जं॑ दधाति॒ तस्मा॑न् नाभिद॒घ्न ऊ॒र्जा भु॑ञ्जते॒
यं का॒मये॑तो॒र्जैन॑म् ॥
व्य् अ॑र्धयेय॒म् इत्य् ऊ॒र्ध्वां वा॒ तस्यावा॑चीं॒ वावो॑हेद् ऊ॒र्जैवैनं॒ व्य॑र्धयति॒
यदि॑ का॒मये॑त॒ वर्षु॑कः प॒र्जन्यः॑ स्या॒द् इत्य् अवा॑ची॒म् अवो॑हे॒द् वृष्टि॑म् ए॒व नि य॑छति॒ यदि॑ का॒मये॒ताव॑र्षुकः स्या॒द् इत्य् ऊ॒र्ध्वाम् उद् ऊ॑हे॒द् वृष्टि॑म् ए॒वोद् य॑छति
पितृ॒णां निखा॑तम् मनु॒ष्या॑णाम् ऊ॒र्ध्वं निखा॑ता॒द् आ र॑श॒नाया॒ ओष॑धीनाँ रश॒ना विश्वे॑षाम् ॥
दे॒वानां॑ ऊ॒र्ध्वँ र॑श॒नाया॒ आ च॒षाला॒द् इन्द्र॑स्य च॒षालँ॑ सा॒धाना॒म् अति॑रिक्तँ॒ स वा ए॒ष स॑र्व देव॒त्यो॑ यद् यूपो॒ यद् यूप॑म् मि॒नोति॒ सर्वा॑ ए॒व दे॒वताः॑ प्रीणाति
य॒ज्ञेन॒ वै दे॒वाः सु॑व॒र्गं लो॒कम् आ॑य॒न् ते॑ऽमन्यन्त मनु॒ष्या॑ नो॒ऽन्वाभ॑विष्य॒न्तीति॒ ते यूपे॑न योपयि॒त्वा सु॑व॒र्गं लो॒कम् आ॑य॒न् तम् ऋष॑यो॒ यूपे॑नै॒वानु॒ प्राजा॑न॒न् तद् यूप॑स्य यूप॒ त्वम् ॥
यद् यूप॑म् मि॒नोति॑ सुव॒र्गस्य॑ लो॒कस्य॒ प्रज्ञा॑त्यै
पु॒रस्ता॑न् मिनोति पु॒रस्ता॒द् धि य॒ज्ञस्य॑ प्रज्ञा॒यतेऽप्र॑ज्ञातँ॒ हि तद् यद् अति॑पन्न आ॒हुर् इ॒दं का॒र्य॑म् आसी॒द् इति॑ सा॒ध्या वै दे॒वा य॒ज्ञम् अत्य् अ॑मन्यन्त॒ तान् य॒ज्ञो नास्पृ॑श॒त् तान् यद् य॒ज्ञस्याति॑रिक्त॒म् आसी॒त् तद् अ॑स्पृश॒द् अति॑रिक्तं॒ वा ए॒तद् य॒ज्ञस्य॒ यद् अ॒ग्नाव् अ॒ग्निम् म॑थि॒त्वा प्र॒हर॒त्य् अति॑रिक्तम् ए॒तत् ॥
यूप॑स्य॒ यद् ऊ॒र्ध्वं च॒षाला॒त् तेषां॒ तद् भा॑ग॒धेयं॒ तान् ए॒व तेन॑ प्रीणाति
दे॒वा वै सँस्थि॑ते॒ सोमे॒ प्र स्रुचोह॑र॒न् प्र यूपं॒ ते॑ऽमन्यन्त यज्ञवेश॒सं वा इ॒दं कु॑र्म॒ इति॒ ते प्र॑स्त॒रँ स्रु॒चाँ नि॒ष्क्रय॑णम् अपश्य॒न्त् स्वरुं॒ यूप॑स्य॒ सँस्थि॑ते॒ सोमे॒ प्र प्र॑स्त॒रँ ह॑रति जु॒होति॑ स्व॒रुं अय॑ज्ञवेशसाय
सा॒ध्या वै दे॒वा अ॒स्मिँ लो॒क आ॑सन्
नान्यत् किं च॒न मि॒षत्
ते॑ऽग्निम् ए॒वाग्नये॒ मेधा॒याल॑भन्त॒
न ह्य् अ॑न्यद् आ॑ल॒म्भ्य॑म् अवि॑न्द॒न्
ततो॒ वा इ॒माः प्र॒जाः प्राजा॑यन्त॒
यद् अ॒ग्नाव् अ॒ग्निम् म॑थि॒त्वा प्र॒हर॑ति प्र॒जाना॑म् प्र॒जन॑नाय
रु॒द्रो वा ए॒ष यद् अ॒ग्निर् यज॑मानः प॒शुस् \
यत् प॒शुम् आ॒लभ्या॒ग्निम् मन्थे॑द् रु॒द्राय॒ यज॑मानम् ॥
अपि॑ दध्यात्
प्र॒मायु॑कः स्यात् \
अथो॒ खल्व् आ॑हुस् \
अ॒ग्निः सर्वा॑ दे॒वता॑ ह॒विर् ए॒तद् यत् प॒शुर् इति॒
यत् प॒शुम् आ॒लभ्या॒ग्निम् मन्थ॑ति ह॒व्यायै॒वास॑न्नाय॒ सर्वा॑ दे॒वता॑ जनयति \
उपा॒कृत्यै॒व मन्थ्य॒स्
तन् नेवाल॑ब्धं॒ नेवाना॑लब्धम्
अ॒ग्नेर् ज॒नित्र॑म् अ॒सीत्य् आ॑ह \
अ॒ग्नेर् ह्य् ए॑तज् ज॒नित्र॑म् \
वृष॑णौ स्थ॒ इत्य् आ॑ह
वृष॑णौ ॥
ह्य् ए॑तौ \
उ॒र्वश्य् अ॑स्य् आ॒युर् अ॒सीत्य् आ॑ह
मिथुन॒त्वाय॑
घृ॒तेना॒क्ते वृष॑णं दधाथा॒म् इत्य् आ॑ह
वृष॑णँ॒ ह्य् ए॑ते दधा॑ते॒ ये अ॒ग्निम् \
गा॒य॒त्रं छन्दोऽनु॒ प्र जा॑य॒स्वेत्य् आ॑ह॒
छन्दो॑भिर् ए॒वैन॒म् प्र ज॑नयति \
अ॒ग्नये॑ म॒थ्यमा॑ना॒यानु॑ ब्रू॒हीत्य् आ॑ह
सावि॒त्रीम् ऋच॒म् अन्व् आ॑ह
सवि॒तृप्र॑सूत ए॒वैन॑म् मन्थै
जा॒ताया॑नु ब्रूहि ॥
प्र॒ह्रि॒यमा॑ना॒यानु॑ ब्रू॒हीत्य् आ॑ह
काण्डे॑काण्ड ए॒वैनं॑ कृ॒यमा॑णे॒ सम् अ॑र्धयति
गाय॒त्रीः सर्वा॒ अन्व् आ॑ह
गाय॒त्रछ॑न्दा॒ वा अ॒ग्निः
स्वेनै॒वैनं॒ छन्द॑सा॒ सम् अ॑र्धयति \
अ॒ग्निः पु॒रा भव॑त्य् अ॒ग्निम् म॑थि॒त्वा प्र ह॑रति॒
तौ स॒म्भव॑न्तौ॒ यज॑मानम् अ॒भि सम् भ॑वतस् \
भव॑तं नः॒ सम॑नसा॒व् इत्य् आ॑ह
शान्त्यै॑
प्र॒हृत्य॑ जुहोति
जा॒तायै॒वास्मा॒ अन्न॒म् अपि॑ दधाति \
आज्ये॑न जुहोति \
ए॒तद् वा अ॒ग्नेः प्रि॒यं धाम॒ यद् आज्य॑म्
प्रि॒येणै॒वैनं॒ धाम्ना॒ सम् अ॑र्धय॒त्य् अथो॒ तेज॑सा ॥
इ॒षे त्वेति॑ ब॒र्हिर् आ द॑त्त इ॒छत॑ इव॒ ह्य् ए॑ष यो यज॑ते \
उप॒वीर् अ॒सीत्य् आ॒होप॒ ह्य् ए॑नान् आक॒रोति॒ \
उपो॑ दे॒वान् दैवी॒र् विशः॒ प्रागु॒र् इत्य् आ॑ह॒ दैवी॒र् ह्य् ए॑ता विशः॑ स॒तीर् दे॒वान् उ॑प॒यन्ति॒
वह्नी॑र् उ॒शिज॒ इत्य् आ॑ह॒र्त्विजो॒ वै वह्न॑य उ॒शिज॒स् तस्मा॑द् ए॒वम् आ॑ह
बृह॑स्पते धा॒रया॒ वसू॒नीति॑ ॥
आ॒ह॒ ब्रह्म॒ वै दे॒वाना॒म् बृह॒स्पति॒र् ब्रह्म॑णै॒वास्मै॑ प॒शून् अव॑ रुन्द्धे
ह॒व्या ते॑ स्वदन्ता॒म् इत्य् आ॑ह स्व॒दय॑त्य् ए॒वैना॑न्
दे॒व त्व॑ष्ट॒र् वसु॑ र॒ण्वेत्य् आ॑ह॒ त्वष्टा॒ वै प॑शू॒नाम् मि॑थु॒नानाँ॑ रूप॒कृद् रू॒पम् ए॒व प॒शुषु॑ दधाति॒
रेव॑ती॒ रम॑ध्व॒म् इत्य् आ॑ह प॒शवो॒ वै रे॒वतीः॑ प॒शून् ए॒वास्मै॑ रमयति
दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒व इति॑ ॥
र॒श॒नाम् आ द॑त्ते॒ प्रसू॑त्या अ॒श्विनो॑र् बा॒हुभ्या॒म् इत्य् आ॑हा॒श्विनौ॒ हि दे॒वाना॑म् अध्व॒र्यू आस्ता॑म् पू॒ष्णो हस्ता॑भ्या॒म् इत्य् आ॑ह॒ यत्यै॑ \
ऋ॒तस्य॑ त्वा देवहविः॒ पाशे॒ना र॑भ॒ इत्य् आ॑ह स॒त्यं वा ऋ॒तँ स॒त्येनै॒वैन॑म् ऋ॒तेना र॑भते \
अक्ष्ण॒या परि॑ हरति॒ वध्यँ॒ हि प्र॒त्यञ्च॑म् प्रतिमु॒ञ्चन्ति॒ व्यावृ॑त्त्यै॒
धर्षा॒ मानु॑षा॒न् इति॒ नि यु॑नक्ति॒ धृत्यै॑ \
अ॒द्भ्यः ॥
त्वौष॑धीभ्यः॒ प्रोक्षा॒मीत्य् आ॑हा॒द्भ्यो ह्य् ए॑ष ओष॑धीभ्यः स॒म्भव॑ति॒ यत् प॒शुस् \
अ॒पाम् पे॒रुर् अ॒सीत्य् आ॑है॒ष ह्य् अ॑पाम् पा॒ता यो मेधा॑यार॒भ्यते॑
स्वा॒त्तं चि॒त् सदे॑वँ ह॒व्यम् आपो॑ देवीः॒ स्वद॑तैन॒म् इत्य् आ॑ह स्व॒दय॑त्य् ए॒वैन॑म्
उ॒परि॑ष्टा॒त् प्रोक्ष॑त्य् उ॒परि॑ष्टाद् ए॒वैन॒म् मेध्यं॑ करोति पा॒यय॑त्य् अन्तर॒त ए॒वैन॒म् मेध्यं॑ क्रोत्य् अ॒धस्ता॒द् उपो॑क्षति स॒र्वत॑ ए॒वैन॒म् मेध्यं॑ करोति ॥
अ॒ग्निना॒ वै होत्रा॑ दे॒वा असु॑रान् अ॒भ्य् अ॑भवन्न् अ॒ग्नये॑ समि॒ध्यमा॑ना॒यानु॑ ब्रू॒हीत्य् आ॑ह॒ भ्रातृ॑व्याभिभूत्यै
स॒प्तद॑श सामिधे॒नीर् अन्व् आ॑ह सप्तद॒शः प्र॒जाप॑तिः प्र॒जाप॑ते॒र् आप्त्यै॑
स॒प्तद॒शान्व् आ॑ह॒ द्वाद॑श॒ मासाः॒ पञ्च॒र्तवः॒ स सं॑वत्स॒रः सं॑वत्स॒रम् प्र॒जा अनु॒ प्र जा॑यन्ते प्र॒जाना॑म् प्र॒जन॑नाय
दे॒वा वै सा॑मिधे॒नीर् अ॒नूच्य॑ य॒ज्ञं नान्व् अ॑पश्य॒न्त् स प्र॒जाप॑तिस् तू॒ष्णीम् आ॑घा॒रम् ॥
आघा॑रय॒त् ततो॒ वै दे॒वा य॒ज्ञम् अन्व् अ॑पश्य॒न् यत् तू॒ष्णीम् आ॑घा॒रम् आ॑घा॒रय॑ति य॒ज्ञस्यानु॑ख्यात्यै॒ \
असु॑रेषु॒ वै य॒ज्ञ आ॑सी॒त् तं दे॒वास् तू॑ष्णीँहो॒मेना॑वृञ्जत॒ यत् तू॒ष्णीम् आ॑घा॒रम् आ॑घा॒रय॑ति॒ भ्रातृ॑व्यस्यै॒व तद् य॒ज्ञं वृ॑ङ्क्ते
परि॒धीन्त् सम् मा॑र्ष्टि पु॒नात्य् ए॒वैना॒न् त्रिस्त्रिः॒ सम् मा॑र्ष्टि॒ त्र्या॑वृ॒द् धि य॒ज्ञोऽथो॒ रक्ष॑सा॒म् अप॑हत्यै॒ द्वाद॑श॒ सम् प॑द्यन्ते॒ द्वाद॑श ॥
मासाः॑ संवत्स॒रः सं॑वत्स॒रम् ए॒व प्री॑णा॒त्य् अथो॑ संवत्स॒रम् ए॒वास्मा॒ उप॑ दधाति सुव॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै॒
शिरो॒ वा ए॒तद् य॒ज्ञस्य॒ यद् आ॑घा॒रो॑ऽग्निः सर्वा॑ दे॒वता॑ यद् आघा॒रम् आ॑घा॒रय॑ति शीर्ष॒त ए॒व य॒ज्ञस्य॒ यज॑मानः॒ सर्वा॑ दे॒वता॒ अव॑ रुन्द्धे॒
शिरो॒ वा ए॒तद् य॒ज्ञस्य॒ यद् आ॑घा॒र आ॒त्मा प॒शुर् आ॑घा॒रम् आ॒घार्य॑ प॒शुँ सम् अ॑नक्त्य् आ॒त्मन्न् ए॒व य॒ज्ञस्य॑ ॥
शिरः॒ प्रति॑ दधाति॒
सं ते॑ प्रा॒णो वा॒युना॑ गछता॒म् इत्य् आ॑ह वायुदेव॒त्यो॑ वै प्रा॒णो वा॒याव् ए॒वास्य॑ प्रा॒णं जु॑होति॒ सं यज॑त्रै॒र् अङ्गा॑नि॒ सं य॒ज्ञप॑तिर् आ॒शिषेत्य् आ॑ह य॒ज्ञप॑तिम् ए॒वास्या॒शिषं॑ गमयति
वि॒श्वरू॑पो॒ वै त्वा॒ष्ट्र उ॒परि॑ष्टात् प॒शुम् अ॒भ्य् अ॑वमी॒त् तस्मा॑द् उ॒परि॑ष्टात् प॒शोर् नाव॑ द्यन्ति॒ यद् उ॒परि॑ष्टात् प॒शुँ स॑म॒नक्ति॒ मेध्य॑म् ए॒व ॥
ए॒नं॒ क॒रो॒ति॒ \
ऋ॒त्विजो॑ वृणीते॒ छन्दाँ॑स्य् ए॒व वृ॑णीते स॒प्त वृ॑णीते स॒प्त ग्रा॒म्याः प॒शवः॑ स॒प्तार॒ण्याः स॒प्त छन्दाँ॑स्य् उ॒भय॒स्याव॑रुद्ध्यै॒ \
एका॑दश प्रया॒जान् य॑जति॒ दश॒ वै प॒शोः प्रा॒णा आ॒त्मैका॑द॒शो यावा॑न् ए॒व प॒शुस् तम् प्र य॑जति
व॒पां एकः॒ परि॑ शय आ॒त्मैवात्मान॒म् परि॑ शये॒
वज्रो॒ वै स्वधि॑ति॒र् वज्रो॑ यूपशक॒लो घृ॒तं खलु॒ वै दे॒वा वज्रं॑ कृ॒त्वा सोम॑म् अघ्नन् घृ॒तेना॒क्तौ प॒शुं त्रा॑येथा॒म् इत्य् आ॑ह॒ वज्रे॑णै॒वैनं॒ वशे॑ कृ॒त्वा ल॑भते ॥
पर्य॑ग्नि करोति सर्व॒हुत॑म् ए॒वैनं॑ करो॒त्य् अस्क॑न्दा॒यास्क॑न्नं॒ हि तद् यद् धु॒तस्य॒ स्कन्द॑ति॒ त्रिः पर्य॑ग्नि करोति॒ त्र्या॑वृ॒द् धि य॒ज्ञोऽथो॒ रक्ष॑सा॒म् अप॑हत्यै
ब्रह्मवा॒दिनो॑ वदन्ति \
अन्वा॒रभ्यः॑ प॒शू3र् नान्वा॒रभ्या3 इति॑ मृ॒त्यवे॒ वा ए॒ष नी॑यते॒ यत् प॒शुस् तम् यद् अ॑न्वा॒रभे॑त प्र॒मायु॑को॒ यज॑मानः स्या॒द् अथो॒ खल्व् आ॑हुः
सुव॒र्गाय॒ वा ए॒ष लो॒काय॑ नीयते॒ यत् ॥
प॒शुर् इति॒ यन् नान्वा॒रभे॑त सुव॒र्गाल् लो॒काद् यज॑मानो हीयेत वपा॒श्रप॑णीभ्याम् अ॒न्वार॑भते॒ तन् नेवा॒न्वार॑ब्धं॒ नेवान॑न्वारब्ध॒म्
उप॒ प्रेष्य॑ होतर् ह॒व्या दे॒वेभ्य॒ इत्य् आ॑हेषि॒तँ हि कर्म॑ क्रि॒यते॒
रेव॑तीर् य॒ज्ञप॑तिं प्रिय॒धा वि॑श॒तेत्य् आ॑ह यथाय॒जुर् ए॒वैतद्
अ॒ग्निना॑ पु॒रस्ता॑द् एति॒ रक्ष॑सा॒म् अप॑हत्यै
पृथि॒व्याः सं॒पृचः॑ पा॒हीति॑ ब॒र्हिः ॥
उपा॑स्य॒त्य् अस्क॑न्दा॒यास्क॑न्नँ॒ हि तद् यद् ब॒र्हिषि॒ स्कन्द॒त्य् अथो॑ बर्हि॒षद॑म् ए॒वैनं॑ करोति॒
परा॒ङ् आ व॑र्ततेऽध्व॒र्युः प॒शोः सं॑ज्ञ॒प्यमा॑नात् प॒शुभ्य॑ ए॒व तन् नि ह्नु॑त आ॒त्मनोना॑व्रस्काय॒
गछ॑ति॒ श्रिय॒म् प्र प॒शून् आ॑प्नोति॒ य ए॒वं वेद॑
प॒श्चाल् लो॑का॒ वा ए॒षा प्राच्य् उ॒दानी॑यते॒ यत् पत्नी॒ नम॑स् त आता॒नेत्य् आ॑हादि॒त्यस्य॒ वै र॒श्मयः॑ ॥
आ॒ता॒नास् तेभ्य॑ ए॒व नम॑स् करोति \
अन॒र्वा प्रेहीत्य् आ॑ह॒ भ्रातृ॑व्यो॒ वा अर्वा॒ भ्रातृ॑व्यापनुत्त्यै
घृ॒तस्य॑ कु॒ल्याम् अनु॑ स॒ह प्र॒जया॑ स॒ह रा॒यस् पोषे॒णेत्य् आ॑हा॒शिष॑म् ए॒वैताम् आ शा॑स्ता॒ आपो॑ देवीः शुद्धायुव॒ इत्य् आ॑ह यथाय॒जुर् ए॒वैतत् ॥
प॒शोर् वा आल॑ब्धस्य प्रा॒णाञ् छुग् ऋ॑छति
वाक् त॒ आ प्या॑यताम् प्रा॒णस् त॒ आ प्या॑यता॒म् इत्य् आ॑ह प्रा॒णेभ्य॑ ए॒वास्य॒ शुचँ॑ शमयति
सा प्रा॒णेभ्योऽधि॑ पृथि॒वीँ शुक् प्र वि॑शति॒
शम् अहो॑भ्या॒म् इति॒ नि न॑यत्य् अहोरा॒त्राभ्या॑म् ए॒व पृ॑थि॒व्यै शुचँ॑ शमयति॒ \
ओष॑धे॒ त्राय॑स्वैनँ॒ स्वधि॑ते॒ मैनँ॑ हिँसी॒र् इत्य् आ॑ह॒ वर्जो॒ वै स्वधि॑तिः ॥
शान्त्यै॑
पार्श्व॒त आ छ्य॑ति मध्य॒तो हि म॑नु॒ष्या॑ आ॒छ्यन्ति॑ तिर॒श्चीन॒म् आ छ्य॑त्य् अनू॒चीनँ॒ हि म॑नु॒ष्या॑ आ॒छ्यन्ति॒ व्यावृ॑त्त्यै॒
रक्ष॑साम् भा॒गो॑ऽसीति॑ स्थ्विम॒तो ब॒र्हिर् अ॒क्त्वापा॑स्यत्य् अ॒स्नैव रक्षाँ॑सि नि॒रव॑दयते \
इ॒दम् अ॒हँ रक्षो॑ऽध॒मं तमो॑ नयामि॒ यो॑ऽस्मान् द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्म इत्य् आ॑ह॒ द्वौ वाव पुरु॑षौ॒ यं चै॒व ॥
द्वेष्टि॒ यश् चै॑नं॒ द्वेष्टि॒ ताव् उ॒भाव् अ॑ध॒मं तमो॑ नयति \
इ॒षे त्वेति॑ व॒पाम् उत् खि॑दती॒धत॑ इव॒ ह्य् ए॑ष यो यज॑ते॒
यद् उ॑पतृ॒न्द्याद् रु॒द्रो॑ऽस्य प॒शून् घातु॑कः स्या॒द् यन् नोप॑तृ॒न्द्याद् अय॑ता स्याद् अ॒न्ययो॑पतृ॒णत्त्य् अ॒न्यया॒ न धृत्यै॑
घृ॒तेन॑ द्यावापृथिवी॒ प्रोर्ण्वा॑था॒म् इत्य् आ॑ह॒ द्यावा॑पृथि॒वी ए॒व रसे॑नानक्ति॒ \
अछि॑न्नः ॥
रायः॑ सु॒वीर॒ इत्य् आ॑ह यथाय॒जुर् ए॒वैतत्
क्रू॒रम् इ॑व॒ वा ए॒तत् क॑रोति॒ यद् व॒पाम् उ॑त्खि॒दत्य् उ॒र्व् अ॑न्तरि॑क्ष॒म् अन्व् इ॒हीत्य् आ॑ह॒ शान्त्यै॒
प्र वा ए॒षो॑ऽस्माल् लो॒काच् च्य॑वते॒ यः प॒शुम् मृ॒त्यवे॑ नी॒यमा॑नम् अन्वा॒रभ॑ते वपा॒श्रप॑णी॒ पुन॑र् अ॒वार॑भते॒ऽस्मिन्न् ए॒व लो॒के प्रति॑ तिष्ठति \
अ॒ग्निना॑ पु॒रस्ता॑द् एति॒ रक्ष॑सा॒म् अप॑हत्या॒ अथो॑ दे॒वता॑ ए॒व ह॒व्येन॑ ॥
अन्व् ए॑ति
नान्त॒मम् अङ्गा॑र॒म् अति॑ हरे॒द् यद् अ॑न्त॒मम् अङ्गा॑रम् अति॒हरे॑द् दे॒वता॒ अति॑ मन्येत
वायो॒ वीहि॑ स्तो॒काना॒म् इत्य् आ॑ह॒ तस्मा॒द् विभ॑क्ता स्तो॒का अव॑ पद्यन्ते॒ \
अग्रं॒ वा ए॒तत् प॑शू॒नां यद् व॒पाग्र॒म् ओष॑धीनाम् ब॒र्हिर् अग्रे॑णै॒वाग्रँ॒ सम् अ॑र्धय॒त्य् अथो॒ ओष॑धीष्व् ए॒व प॒शून् प्रति॑ ष्ठापयति
स्वाहा॑कृतीभ्यः॒ प्रेष्येत्य् आ॑ह ॥
य॒ज्ञस्य॒ समि॑ष्ट्यै
प्राणापा॒नौ वा ए॒तौ प॑शू॒णां यत् पृ॑षदा॒ज्यम् आ॒त्मा व॒पा पृ॑षदा॒ज्यम् अ॑भि॒घार्य॑ व॒पाम् अ॒भि घा॑रयत्य् आ॒त्मन्न् ए॒व प॑शू॒नाम् प्रा॑णापा॒नौ द॑धाति
स्वाहो॒र्ध्वन॑भसम् मारु॒तं ग॑छत॒म् इत्य् आ॑हो॒र्ध्वन॑भा ह स्म॒ वै मा॑रु॒तो दे॒वानां॑ वपा॒श्रप॑णी॒ प्रह॑रति॒ तेनै॒वैने॒ प्र ह॑रति॒ विषू॑ची॒ प्र ह॑रति॒ तस्मा॒द् विष्व॑ञ्चौ प्राणापा॒नौ ॥
प॒शुम् आ॒लभ्य॑ पुरो॒डाशं॒ निर् व॑पति॒ समे॑धम् ए॒वैन॒म् आ ल॑भते
व॒पया॑ प्र॒चर्य॑ पुरो॒डाशे॑न॒ प्र च॑र॒त्य् ऊर्ग् वै पु॑रो॒डाश॒ ऊर्ज॑म् ए॒व प॑शू॒नाम् म॑ध्य॒तो द॑धा॒त्य् अथो॑ प॒शोर् ए॒व छि॒द्रम् अपि॑ दधाति
पृषदा॒ज्यस्यो॑प॒हत्य॒ त्रिः पृ॑छति
शृ॒तँ ह॒वी3ः श॑मित॒र् इति॒ त्रिष॑त्या॒ हि दे॒वा योऽशृ॑तँ शृ॒तम् आह॒ स एन॑सा
प्राणापा॒नौ वा ए॒तौ प॑शू॒नाम् ॥
यत् पृ॑षदा॒ज्यम् प॒शोः खलु॒ वा आल॑ब्धस्य॒ हृद॑यम् आ॒त्माभि सम् ए॑ति॒ यत् पृ॑षदा॒ज्येन॒ हृद॑यम् अभिघा॒रय॑त्य् आ॒त्मन्न् ए॒व प॑शू॒नाम् प्रा॑णापा॒नौ द॑धाति
प॒शुना॒ वै दे॒वाः सु॑व॒र्गं लो॒कम् आ॑य॒न् ते॑ऽमन्यन्त
मनु॒ष्या॑ नो॒ऽन्वाभ॑विष्य॒न्तीति॒ तस्य॒ शिर॑श् छि॒त्त्वा मेध॒म् प्राक्षा॑रय॒न्त् स प्र॒क्षो॑ऽभव॒त् तत् प्र॒क्षस्य॑ प्रक्ष॒त्वं यत् प्ल॑क्षशा॒खोत्त॑रब॒र्हिर् भव॑ति॒ समे॑धस्यै॒व ॥
प॒शोर् अव॑ द्यति
प॒शुं वै ह्रि॒यमा॑णँ॒ रक्षाँ॒स्य् अनु॑ सचन्तेऽन्त॒रा यूपं॑ चाहव॒नीयं॑ च हरति॒ रक्ष॑सा॒म् अप॑हत्यै
प॒शोर् वा आल॑ब्धस्य॒ मनोऽप॑ क्रामति
म॒नोता॑यै ह॒विषो॑ऽवदी॒यमा॑न॒स्यानु॑ ब्रू॒हीत्य् आ॑ह॒ मन॑ ए॒वास्याव॑ रुन्द्धे॒ \
एका॑दशाव॒दाना॒न्य् अव॑ द्यति॒ दश॒ वै प॒शोः प्रा॒णा आ॒त्मैका॑द॒शो यावा॑न् ए॒व प॒शुस् तस्याव॑ ॥
द्य॒ति॒
हृद॑य॒स्याग्रेऽव॑ द्य॒त्य् अथ॑ जि॒ह्वाया॒ अथ॒ वक्ष॑सो॒ यद् वै हृद॑येनाभि॒गछ॑ति॒ तज् जि॒ह्वया॑ वदति॒ यज् जि॒ह्वया॒ वद॑ति॒ तद् उर॒सोऽधि॒ निर् व॑दति \
ए॒तद् वै प॒शोर् य॑थापू॒र्वं यस्यै॒वम् अ॑व॒दाय॑ यथाका॒मम् उत्त॑रेषाम् अव॒द्यति॑ यथापू॒र्वम् ए॒वास्य॑ प॒शोर् अव॑त्तम् भवति
मध्य॒तो गु॒दस्याव॑ द्यति मध्य॒तो हि प्रा॒ण उ॑त्त॒मस्याव॑ द्यति ॥
उ॒त्त॒मो हि प्रा॒णो यदीत॑रं॒ यदीत॑रम् उ॒भय॑म् ए॒वाजा॑मि
जाय॑मानो॒ वै ब्रा॑ह्म॒णस् त्रि॒भिर् ऋ॑ण॒वा जा॑यते ब्रह्म॒चर्ये॒णर्षि॑भ्यो य॒ज्ञेन॑ दे॒वेभ्यः॑ प्र॒जया॑ पि॒तृभ्य॑ ए॒ष वा अ॑नृ॒णो यः पु॒त्री यज्वा॑ ब्रह्मचारिवा॒सी तद् अ॑व॒दानै॑र् ए॒वाव॑ दयते॒ तद् अ॑व॒दाना॑नाम् अवदान॒त्वम् \
दे॒वा॒सु॒राः संय॑त्ता आस॒न् ते दे॒वा अ॒ग्निम् अ॑ब्रुवन्
त्वया॑ वी॒रेणासु॑रान् अ॒भि भ॑वा॒मेति॑ ॥
सो॑ऽब्रवी॒द्
वरं॑ वृणै प॒शोर् उ॑द्धा॒रम् उद् ध॑रा॒ इति॒ स ए॒तम् उ॑द्धा॒रम् उद् अ॑हरत॒ दोः पू॑र्वा॒र्धस्य॑ गु॒दम् म॑ध्य॒तः श्रोणिं॑ जघना॒र्धस्य॒ ततो॑ दे॒वा अभ॑व॒न् परासु॑रा॒ यत् त्र्य॒ङ्गाणाँ॑ समव॒द्यति॒ भ्रातृ॑व्या॒भिभू॑त्यै॒ भव॑त्य् आ॒त्मना॒ परा॑स्य॒ भ्रातृ॑व्यो भवति \
अक्ष्ण॒याव॑ द्यति॒ तस्मा॑द् अक्ष्ण॒या प॒शवोऽङ्गा॑नि॒ प्र ह॑रन्ति॒ प्रति॑ष्ठित्यै ॥
मेद॑सा॒ स्रुचौ॒ प्रोर्णो॑ति॒ मेदो॑रूपा॒ वै प॒शवो॑ रू॒पम् ए॒व प॒शुषु॑ दधाति
यू॒षन्न् अ॑व॒धाय॒ प्रोर्णो॑ति॒ रसो॒ वा ए॒ष प॑शू॒नां यद् यू रस॑म् ए॒व प॒शुषु॑ दधाति
पा॒र्श्वेन॑ वसाहो॒मम् प्र यौ॑ति॒ मध्यं॒ वा ए॒तत् प॑शू॒नां यत् पा॒र्श्वँ रस॑ ए॒ष प॑शू॒नां यद् वसा॒ यत् पा॒र्श्वेन॑ वसाहो॒मम् प्र॒यौति॑ मध्य॒त ए॒व प॑शू॒नाँ रसं॑ दधाति
घ्नन्ति॑ ॥
वा ए॒तत् प॒शुं यत् सं॑ज्ञ॒पय॑न्त्य् ऐ॒न्द्रः खलु॒ वै दे॒वत॑या प्रा॒ण ऐ॒न्द्रो॑ऽपा॒न ऐ॒न्द्रः प्रा॒णो अङ्गेअ॑ङ्गे॒ नि दे॑ध्य॒द् इत्य् आ॑ह प्राणापा॒नाव् ए॒व प॒शुषु॑ दधाति॒
देव॑ त्वष्ट॒र् भूरि॑ ते॒ सँस॑म् ए॒त्व् इत्य् आ॑ह त्वा॒ष्ट्रा हि दे॒वत॑या प॒शव॑स् \
विषु॑रूपा॒ यत् सल॑क्ष्माणो॒ भव॒थेत्य् आ॑ह॒ विषु॑रूपा॒ ह्य् ए॑ते सन्तः॒ सल॑क्ष्माण ए॒तर्हि॒ हव॑न्ति
देव॒त्रा यन्त॑म् ॥
अव॑से॒ सखा॒योऽनु॑ त्वा मा॒ता पि॒तरो॑ मद॒न्त्व् इत्य् आ॒हानु॑मतम् ए॒वैन॑म् मा॒त्रा पि॒त्रा सु॑व॒र्गं लो॒कं ग॑मयति \
अर्ध॒र्चे व॑साहो॒मं जु॑होत्य् अ॒सौ वा अ॑र्ध॒र्च इ॒यम् अ॑र्ध॒च इ॒मे ए॒व रसे॑नानक्ति॒ दिशो॑ जुहोति॒ दिश॑ ए॒व रसे॑नान॒क्त्य् अथो॑ दि॒ग्भ्य ए॒वोर्जँ॒ रस॒म् अव॑ रुन्द्धे
प्राणापा॒नौ वा ए॒तौ प॑शू॒नां यत् पृ॑षदा॒ज्यं वा॑नस्प॒त्याः खलु॑ ॥
वै दे॒वत॑या प॒शवो॒ यत् पृ॑षदा॒ज्यस्यो॑प॒हत्याह॒
वन॒स्पत॒येऽनु॑ ब्रूहि॒ वन॒स्पत॑ये॒ प्रेष्येति॑ प्राणापा॒नाव् ए॒व प॒शुषु॑ दधाति \
अ॒न्यस्या॑न्यस्य समव॒त्तँ स॒मव॑द्यति॒ तस्मा॒न् नाना॑रूपाः प॒शव॑स् \
यू॒ष्णोप॑ सिञ्चति॒ रसो॒ वा ए॒ष प॑शू॒नां यद् यू रस॑म् ए॒व प॒शुषु॑ दधाति॒ \
इडा॒म् उप॑ ह्वयते प॒शवो॒ वा इडा॑ प॒शून् ए॒वोप॑ ह्वयते च॒तुर् उप॑ ह्वयते ॥
चतु॑ष्पादो॒ हि प॒शव॑स् \
यं का॒मये॑त \
अप॒शुः स्या॒द् इत्य् अ॑मे॒दस्कं॒ तस्मा॒ आ द॑ध्या॒न् मेदो॑रूपा॒ वै प॒शवो॑ रू॒पेणै॒वैन॑म् प॒शुभ्यो॒ निर् भ॑जत्य् अप॒शुर् ए॒व भ॑वति॒
यं का॒मये॑त
पशु॒ मान्त् स्या॒द् इति॒ मेद॑स्व॒त् तस्मा॒ आ द॑ध्या॒न् मेदो॑रूपा॒ वै प॒शवो॑ रू॒पेणै॒वास्मै॑ प॒शून् अव॑ रुन्द्धे पशु॒मान् ए॒व भ॑वति
प्र॒जाप॑तिर् य॒ज्ञम् अ॑सृज॒ स आज्य॑म् ॥
पु॒रस्ता॑द् असृजत प॒शुम् म॑ध्य॒तः पृ॑षदा॒ज्यम् प॒श्चात् तस्मा॒द् आज्ये॑न प्रया॒जा इ॑ज्यन्ते प॒शुना॑ प॒शुना॑ मध्य॒तः पृ॑षदा॒ज्येना॑नूया॒जास् तस्मा॑द् ए॒तन् मि॒श्रम् इ॑व पश्चात्सृ॒ष्टँ हि॒ \
एका॑दशानूया॒जान् य॑जति॒ दश॒ वै प॒शोः प्रा॒णा आ॒त्मैका॑द॒शो यावा॑न् ए॒व प॒शुस् तम् अनु॑ यजति
घ्नन्ति॒ वा ए॒तत् प॒शुं यत् सं॑ज्ञ॒पय॑न्ति प्राणापा॒नौ खलु॒ वा ए॒तौ प॑शू॒नां यत् पृ॑षदा॒ज्यं यत् पृ॑षदा॒ज्येना॑नूया॒जान् यज॑ति प्राणापा॒नाव् ए॒वा प॒शुषु॑ दधाति ॥