यद् उ॒भौ वि॒मुच्या॑ति॒थ्यं गृ॑ह्णी॒याद् य॒ज्ञं वि छि॑न्द्यात् \
यद् उ॒भाव् अवि॑मुच्य॒ यथाना॑गतायाति॒थ्यं क्रि॒यते॑ ता॒दृग् ए॒व तत् \
विमु॑क्तो॒ऽन्यो॑ऽन॒ड्वान् भव॒त्य् अवि॑मुक्तो॒ऽन्योऽथा॑ति॒थ्यं गृ॑ह्णाति य॒ज्ञस्य॒ संत॑त्यै॒
पत्न्य् अ॒न्वार॑भते॒
पत्नी॒ हि पारी॑णह्य॒स्येशे॒ पत्नि॑यै॒वानु॑मतं॒ निर् व॑पति॒
यद् वै पत्नी॑ य॒ज्ञस्य॑ करोति मिथु॒नं तत् \
अथो॒ पत्नि॑या ए॒व ॥
ए॒ष य॒ज्ञस्या॑न्वार॒म्भोऽन॑वछित्त्यै
याव॑द्भि॒र् वै राजा॑नुच॒रैर् आ॒गछ॑ति॒ सर्वे॑भ्यो॒ वै तेभ्य॑ आति॒थ्यं क्रि॑यते॒ छन्दाँ॑सि॒ खलु॒ वै सोम॑स्य॒ राज्ञो॑ऽनुच॒राणि॑ \
अ॒ग्नेर् आ॑ति॒थ्यम् अ॑सि॒ विष्ण॑वे॒ त्वेत्य् आ॑ह गायत्रि॒या ए॒वैतेन॑ करोति॒
सोम॑स्याति॒थ्यम् अ॑सि॒ विष्ण॑वे॒ त्वेत्य् आ॑ह त्रि॒ष्टुभ॑ ए॒वैतेन॑ करोति॒ \
अति॑थेर् आति॒थ्यम् अ॑सि॒ विष्ण॑वे॒ त्वेत्य् आ॑ह॒ जग॑त्यै ॥
ए॒वैतेन॑ करोति \
अ॒ग्नये॑ त्वा रायस्पोष॒दाव्ने॒ विष्ण॑वे॒ त्वेत्य् आ॑हानु॒ष्टुभ॑ ए॒वैतेन॑ करोति
श्ये॒नाय॑ त्वा सोम॒भृते॒ विष्ण॑वे॒ त्वेत्य् आ॑ह गायत्रि॒या ए॒वैतेन॑ करोति॒
पञ्च॒ कृत्वो॑ गृह्णाति॒ पञ्चा॑क्षरा प॒ङ्क्तिः पा॑ङ्क्तो य॒ज्ञो य॒ज्ञम् ए॒वाव॑ रुन्द्धे
ब्रह्मवा॒दिनो॑ वदन्ति॒
कस्मा॑त् स॒त्याद् गा॑यत्रि॒या उ॑भ॒यत॑ आति॒थ्यस्य॑ क्रियत॒ इति॒
यद् ए॒वादः सोम॒म् आ ॥
अह॑र॒त् तस्मा॑द् गायत्रि॒या उ॑भ॒यत॑ आति॒थ्यस्य॑ क्रियते पु॒रस्ता॑च् चो॒परि॑ष्टाच् च॒
शिरो॒ वा ए॒तद् य॒ज्ञस्य॒ यद् आ॑ति॒थ्यं नव॑कपालः पुरो॒डाशो॑ भवति॒ तस्मा॑न् नव॒धा शिरो॒ विष्यू॑तम् \
नव॑कपालः पुरो॒डाशो॑ भवति॒ ते त्रय॑स् त्रिकपा॒लास् त्रि॒वृता॒ स्तोमे॑न॒ सम्मि॑ता॒स् तेज॑स् त्रि॒वृत् तेज॑ ए॒व य॒ज्ञस्य॑ शी॒र्षन् द॑धाति॒
नव॑कपालः पुरो॒डाशो॑ भवति॒ ते त्रय॑स् त्रिकपा॒लास् त्रि॒वृता॑ प्रा॒णेन॒ सम्मि॑ता॒स् त्र्वृद् वै ॥
प्रा॒णस् त्रि॒वृत॑म् ए॒व प्रा॒णम् अ॑भिपू॒र्वं य॒ज्ञस्य॑ शी॒र्षन् द॑धाति
प्र॒जाप॑ते॒र् वा ए॒तानि॒ पक्ष्मा॑णि॒ यद् अ॑श्ववा॒ला ऐ॑क्ष॒वी ति॒रश्ची॒ यद् आश्व॑वालः प्रस्त॒रो भव॑त्य् ऐक्ष॒वी ति॒रश्ची॑ प्र॒जाप॑तेर् ए॒व तच् चक्षुः॒ सम् भ॑रति
दे॒वा वै या आहु॑ती॒र् अजु॑हवु॒स् ता असु॑रा नि॒ष्काव॑म् आद॒न् ते दे॒वाः का॑र्ष्म॒र्य॑म् अपश्यन् कर्म॒ण्यो॑ वै
कर्मै॑नेन कुर्वी॒तेति॒ ते का॑र्ष्मर्य॒मया॑न् परि॒धीन् ॥
अ॒कु॒र्व॒त॒ तैर् वै ते रक्षाँ॒स्य् अपा॑घ्नत॒
यत् का॑र्ष्मर्य॒मयाः॑ परि॒धयो॒ भव॑न्ति॒ रक्ष॑सा॒म् अप॑हत्यै॒
सँ स्प॑र्शयति॒ रक्ष॑सा॒म् अन॑न्ववचाराय॒
न पु॒रस्ता॒त् परि॑ दधात्य् आदि॒त्यो ह्य् ए॑वोद्यन् पु॒रस्ता॒द् रक्षाँ॑स्य् अप॒हन्ति॑ \
ऊ॒र्ध्वे स॒मिधा॒व् आ द॑धात्य् उ॒परि॑ष्टाद् ए॒व रक्षाँ॒स्य् अप॑हन्ति॒
यजु॑षा॒न्यां तू॒ष्णीम् अ॒न्याम् मि॑थुन॒त्वाय॒
द्वे आ द॑धाति द्वि॒पाद् यज॑मानः॒ प्रति॑ष्ठित्यै
ब्रह्मवा॒दिनो॑ वदन्ति ॥
अ॒ग्निश् च॒ वा ए॒तौ सोम॑श् च क॒था सोमा॑याति॒थ्यं क्रि॒यते॒ नाग्नय॒ इति॒
यद् अ॒ग्नाव् अ॒ग्निम् म॑थि॒त्वा प्र॒हर॑ति॒ तेनै॒वाग्नय॑ आति॒थ्यं क्रि॑यते॒ \
अथो॒ खल्व् आ॑हुर् अ॒ग्निः सर्वा॑ दे॒वता॒ इति॒ यद् ध॒विर् आ॒साद्या॒ग्निम् मन्थ॑ति ह॒व्यायै॒वास॑न्नाय॒ सर्वा॑ दे॒वता॑ जनयति ॥
दे॒वा॒सु॒राः संय॑त्ता आस॒न्
ते दे॒वा मि॒थो विप्रि॑या आस॒न्
ते॑ऽन्यो॑ऽन्यस्मै॒ ज्यैष्ठ्या॒याति॑ष्ठमानाः पञ्च॒धा व्य् अ॑क्रामन्न् अ॒ग्निर् वसु॑भिः॒ सोमो॑ रु॒द्रैर् इन्द्रो॑ म॒रुद्भि॒र् वरु॑ण आदि॒त्यैर् बृह॒स्पति॒र् विश्वै॑र् दे॒वैस्
ते॑ऽमन्यन्त॒ \
असु॑रेभ्यो॒ वा इ॒दम् भ्रातृ॑व्येभ्यो रध्यामो॒ यन् मि॒थो विप्रि॑याः॒ स्मो या न॑ इ॒माः प्रि॒यास् त॒नुव॒स् ताः स॒मव॑द्यामहै॒ ताभ्यः॒ स निर् ऋ॑छा॒द् यः ॥
नः॒ प्र॒थ॒मो॑ऽन्यो॑ऽन्यस्मै॒ द्रुह्या॒द् इति॒
तस्मा॒द् यः सता॑नूनप्त्रिणाम् प्रथ॒मो द्रुह्य॑ति॒ स आर्ति॒म् आर्छ॑ति॒
यत् ता॑नून॒प्त्रँ स॑मव॒द्यति॒ भ्रातृ॑व्याभिभूत्यै॒
भव॑त्य् आ॒त्मना॒ परा॑स्य॒ भ्रातृ॑व्यो भवति॒
पञ्च॒ कृत्वोऽव॑ द्यति
पञ्च॒धा हि ते तत् स॑म॒वाद्य॑न्त॒ \
अथो॒ पञ्चा॑क्षरा प॒ङ्क्तिः
पाङ्क्तो॑ य॒ज्ञस् \
य॒ज्ञम् ए॒वाव॑ रुन्द्धे \
आप॑तये त्वा गृह्णा॒मीत्य् आ॑ह
प्रा॒णो वै ॥
आप॑तिः
प्रा॒णम् ए॒व प्री॑णाति॒
परि॑पतय॒ इत्य् आ॑ह॒
मनो॒ वै परि॑पतिस् \
मन॑ ए॒व प्री॑णाति॒
तनू॒नप्त्र॒ इत्य् आ॑ह
त॒नुवो॒ हि ते ताः स॑म॒वाद्य॑न्त
शाक्व॒रायेत्य् आ॑ह॒
शक्त्यै॒ हि ते ताः स॑म॒वाद्य॑न्त॒
शक्म॒न्न् ओजि॑ष्ठा॒येत्य् आ॑ह॒ \
ओजि॑ष्ठँ॒ हि ते तद् आ॒त्मनः॑ सम॒वाद्य॑न्त॒ \
अना॑धृष्टम् अस्य अनाधृ॒ष्यम् इत्य् आ॑ह॒ \
अना॑धृष्टँ॒ ह्य् ए॑तद् अ॑नाधृ॒ष्यम् \
दे॒वाना॒म् ओजः॑ ॥
इत्य् आ॑ह
दे॒वानाँ॒ ह्य् ए॑तद् ओज॑स् \
अ॒भि॒श॒स्ति॒पा अ॑नभिशस्ते॒न्यम् इत्य् आ॑ह \
अभिशस्ति॒पा ह्य् ए॑तद् अ॑नभिशस्ते॒न्यम्
अनु॑ मे दी॒क्षां दी॒क्षाप॑तिर् मन्यता॒म् इत्य् आ॑ह
यथाय॒जुर् ए॒वैतत् \
घृ॒तं वै दे॒वा वज्रं॑ कृ॒त्वा सोम॑म् अघ्नन् \
अ॒न्ति॒कम् इ॑व॒ खलु॒ वा अ॑स्यै॒तच् च॑रन्ति॒ यत् ता॑नून॒प्त्रेण॑ प्र॒चर॑न्ति \
अँ॒शुरँ॑श्स् ते देव सो॒मा प्या॑यता॒म् इत्य् आ॑ह॒
यत् ॥
ए॒वास्या॑पुवा॒यते॒ यन् मीय॑ते॒ तद् ए॒वास्यै॒तेना प्या॑ययति \
आ तुभ्य॒म् इन्द्रः॑ प्यायता॒म् आ त्वम् इन्द्रा॑य प्याय॒स्वेत्य् आ॑ह \
उ॒भाव् ए॒वेन्द्रं॑ च॒ सोमं॒ चा प्या॑ययति \
आ प्या॑यय॒ सखी॑न्त् स॒न्या मे॒धयेत्य् आ॑ह \
ऋ॒त्विजो॒ वा अ॑स्य॒ सखा॑यस्
तान् ए॒वा प्या॑ययति
स्व॒स्ति ते॑ देव सोम सु॒त्याम् अ॑शीय ॥
इत्य् आ॑ह \
आ॒शिषं॑ ए॒वैताम् आ शा॑स्ते॒
प्र वा ए॒तेऽस्माल् लो॒काच् च्य॑वन्ते॒ ये सोम॑म् आप्या॒यय॑न्ति \
अन्तरिक्षदेव॒त्यो॑ हि सोम॒ आप्या॑यितस् \
एष्ता॒ रायः॒ प्रेषे भगा॒येत्य् आ॑ह
द्यावा॑पृथि॒वीभ्या॑म् ए॒व न॑म॒स्कृत्या॑स्मिँ लो॒के प्रति॑ तिष्ठन्ति
देवासु॒राः संय॑त्ता आस॒न्
ते दे॒वा बिभ्य॑तो॒ऽग्निम् प्रावि॑श॒न्
तस्मा॑द् आहुस् \
अ॒ग्निः सर्वा॑ दे॒वता॒ इति॒
ते ॥
अ॒ग्निम् ए॒व वरू॑थं कृ॒त्वासु॑रान् अ॒भ्य् अ॑भवन् \
अ॒ग्निम् इ॑व॒ खलु॒ वा ए॒ष प्र वि॑शति॒ यो॑ऽवान्तरदी॒क्षाम् उ॒पैति॑
भ्रातृ॑व्याभिभूत्यै॒
भव॑त्य् आ॒त्मना॒ परा॑स्य॒ भ्रातृ॑व्यो भवति \
आ॒त्मान॑म् ए॒व दी॒क्षया॑ पाति प्र॒जाम् अ॑वान्तरदी॒क्षया॑
संत॒राम् मेख॑लाँ स॒माय॑छते
प्र॒जा ह्य् आ॒त्मनोऽन्त॑रतरा
त॒प्तव्र॑तो भवति॒
मद॑न्तीभिर् मार्जयते॒
निर् ह्य् अ॑ग्निः शी॒तेन॒ वाय॑ति॒
समि॑द्ध्यै
या ते॑ अग्ने॒ रुद्रि॑या त॒नूर् इत्य् आ॑ह॒
स्वयै॒वैन॑द् दे॒वत॑या व्रतयति
सयोनि॒त्वाय॒ शान्त्यै॑ ॥
तेषा॒म् असु॑राणां ति॒स्रः पुर॑ आसन्न् अय॒स्मय्य् अ॑व॒माथ॑ रज॒ताथ॒ हरि॑णी
ता दे॒वा जेतुं॒ नाश॑क्नुव॒न् ता उ॑प॒सदै॒वाजि॑गीष॒न्
तस्मा॑द् आहु॒र् यश् चै॒वं वेद॒ यश् च॒ न \
उ॑प॒सदा॒ वै म॑हापु॒रं ज॑य॒न्तीति॒
त इषुँ॒ सम् अ॑स्कुर्वता॒ग्निम् अनी॑कँ॒ सोमँ॑ श॒ल्यं विष्णुं॒ तेज॑नम् \
ते॑ऽब्रुव॒न्
क इ॒माम् अ॑सिष्य॒तीति॑ ॥
रु॒द्र इत्य् अ॑ब्रुवन् रु॒द्रो वै क्रू॒रः सो॑ऽस्य॒त्व् इति॒
सो॑ऽब्रवीत् \
वरं॑ वृणा अ॒हम् ए॒व प॑शू॒नाम् अधि॑पतिर् असा॒नीति॒ तस्मा॑द् रु॒द्रः प॑शू॒नाम् अधि॑पतिस्
ताँ रु॒द्रोऽवा॑सृज॒त् स ति॒स्रः पुरो॑ भि॒त्त्वैभ्यो लो॒केभ्योऽसु॑रा॒न् प्राणु॑दत॒
यद् उ॑प॒सद॑ उपस॒द्यन्ते॒ भ्रातृ॑व्यपराणुत्तयै
नान्याम् आहु॑तिम् पु॒रस्ता॑ज् जुहुयात् \
यद् अ॒न्याम् आहु॑तिम् पु॒रस्ता॑ज् जुहु॒यात् ॥
अ॒न्यन् मुखं॑ कुर्यात्
स्रु॒वेना॑घा॒रम् आ घा॑रयति य॒ज्ञस्य॒ प्रज्ञत्यै॒
परा॑ङ् अति॒क्रम्य॑ जुहोति॒
परा॑च ए॒वैभ्यो लो॒केभ्यो॒ यज॑मानो॒ भ्रातृ॑व्या॒न् प्र णु॑दते॒
पुन॑र् अत्या॒क्रम्यो॑प॒सदं॑ जुहोति
प्र॒णुद्यै॒वैभ्यो लो॒केभ्यो॑ {F भ्रातृ॒व्याञ्} {W भ्रात्रि॒व्याञ्} {गोल्स् भ्रातृ॒व्याञ्} जि॒त्वा भ्रतृ॑व्यलो॒कम् अ॒भ्यारो॑हति
दे॒वा वै याः प्रा॒तर् उ॑प॒सद॑ उ॒पासी॑द॒न्न् अह्न॒स् ताभि॒र् असु॑रा॒न् प्राणु॑दन्त
याः सा॒यँ रात्रि॑यै॒ ताभि॑स् \
यत् सा॒यम्प्रा॑तर् उप॒सदः॑ ॥
उ॒प॒स॒द्यन्ते॑ऽहोरा॒त्राभ्या॑म् ए॒व तद् यज॑मानो॒ भ्रातृ॒व्यान् प्र णु॑दते
याः प्रा॒तर् या॑ज्या॑ः॑ स्युस् ताः सा॒यम् पु॑रोऽनुवा॒क्याः॑ कुर्या॒द् अया॑तयामत्वाय
ति॒स्र उ॑प॒सद॒ उपै॑ति॒ त्रय॑ इ॒मे लो॒का इ॒मान् ए॒व लो॒कान् प्री॑णाति॒
षट् सम् प॑द्यन्ते॒ षड् वा ऋ॒तव॑ ऋ॒तून् ए॒व प्री॑णाति॒ द्वाद॑शा॒हीने॒ सोम॒ उपै॑ति॒ द्वाद॑श॒ मासाः॑ संवत्स॒रः सं॑वत्स॒रम् ए॒व प्री॑णाति॒
चतु॑र्विँशतिः॒ सम् ॥
प॒द्य॒न्ते॒
चतु॑र्विँशतिर् अर्धमा॒सा अ॑र्धमा॒सान् ए॒व प्री॑णाति \
आरा॑ग्राम् अवान्तरदी॒क्षाम् उपे॑या॒द् यः का॒मये॑त \
अ॒स्मिन् मे लो॒केऽर्धु॑कँ स्या॒द् इत्य् एक॒म् अग्रेऽथे॒ द्वाव् अथ॒ त्रीन् अथ॑ च॒तुर॑ ए॒षा वा आरा॑ग्रावान्तरदी॒क्षास्मिन्न् ए॒वास्मै॑ लो॒केऽर्धु॑कम् भवति
प॒रोव॑रीयसीम् अवान्तरदी॒क्षाम् उपे॑या॒द् यः का॒मये॑त \
अ॒मुष्मि॒न् मे लो॒केऽर्धु॑कँ स्या॒द् इति॑ च॒तुरोऽग्रेऽथे॒ त्रीन् अथ॒ द्वाव् अथैक॑म् ए॒षा वै प॒रोव॑रीयस्य् अवानतरदी॒क्षामुष्मि॑न्न् ए॒वास्मै॑ लो॒केऽर्धु॑कम् भवति ॥
सु॒व॒र्गं वा ए॒ते लो॒कं य॑न्ति॒ य उ॑प॒सद॑ उप॒यन्ति॒
तेषां॒ य उ॒न्नय॑ते॒ हीय॑त ए॒व { स ^ सस् }
नोद् अ॑ने॒षीति॒ सून्नी॑यम् इव॒
यो वै स्वा॒र्थेतां॑ य॒ताँ श्रा॒न्तो हीय॑त उ॒त स नि॒ष्ट्याय॑ स॒ह व॑सति॒
तस्मा॑त् स॒कृद् उ॒न्नीय॒ नाप॑र॒म् उन्न॑येत
द॒ध्नोन् न॑येत \
ए॒तद् वै प॑शू॒नाँ रू॒पम् \
रू॒पेणै॒व प॒शून् अव॑ रुन्द्धे ॥
य॒ज्ञो दे॒वेभ्यो॒ निला॑यत॒ विष्णू॑ रू॒पं कृ॒त्वा
स पृ॑थि॒वीम् प्रावि॑श॒त्
तं दे॒वा हस्ता॑न्त् सँ॒रभ्यै॑छ॒न्
तम् इन्द्र॑ उ॒पर्यु॑प॒र्य् अत्य् अ॑क्राम॒त्
सो॑ऽब्रवी॒त्
को मा॒यम् उ॒पर्यु॑प॒र्य् अत्य् अ॑क्रमी॒द् इति॑ \
अ॒हं दु॒र्गे हन्तेत्य् अथ॒ कस् त्वम् इति॑ \
अ॒हं दु॒र्गाद् आह॒र्तेति॒
सो॑ऽब्रवीत् \
दु॒र्गे वै हन्ता॑वोचथा वरा॒हो॑ऽयं वा॑ममो॒षः ॥
स॒प्ता॒नां गि॑री॒णाम् प॒रस्ता॑द् वि॒त्तं वेद्य॒म् असु॑राणाम् बिभर्ति॒ तं ज॑हि॒ यदि॑ दु॒र्गे हन्तासीति॒
स द॑र्भपुञ्जी॒लम् उ॒द्वृह्य॑ स॒प्तगि॒रीन् भि॒त्त्वा तम् अ॑हन् \
सो॑ऽब्रवीत् \
दु॒र्गाद् वा आह॑र्तावोचथा ए॒तम् आ ह॒रेति॒
तम् ए॑भ्यो य॒ज्ञ ए॒व य॒ज्ञम् आह॑रत् \
यत् तद् वि॒त्तं वेद्य॒म् असु॑राणा॒म् अवि॑न्दन्त॒ तद् एकं॒ वेद्यै॑ वेदि॒त्वम्
असु॑राणाम् ॥
वा इ॒यम् अग्र॑ आसीत् \
याव॒द् आसी॑नः परा॒पश्य॑ति॒ ताव॑द् दे॒वाना॑म् \
ते दे॒वा अ॑ब्रुवन् \
अस्त्व् ए॒व नो॑ऽस्या॒म् अपीति॒
किय॑द् वो दास्याम॒ इति॑
याव॑द् इ॒यँ स॑लावृ॒की त्रिः प॑रि॒क्राम॑ति॒ ताव॑न् नो द॒त्तेति॒
स इन्द्रः॑ सलावृ॒की रू॒पं कृ॒त्वेमां त्रिः स॒र्वतः॒ पर्य् अ॑क्राम॒त्
तद् इ॒माम् अ॑विन्दन्त॒
यद् इ॒माम् अवि॑न्दन्त॒ तद् वेद्यै॑ वेदि॒त्वम् ॥
सा वा इ॒यँ सर्वै॒व वेदि॑स् \
इय॑ति शक्ष्या॒मीति॒ त्वा अ॑व॒माय॑ यजन्ते
त्रिँ॒शत् प॒दानि॑ प॒श्चात् ति॒रश्ची॑ भवति॒ षट्त्रिँ॑श॒त् प्राची॒ चतु॑र्विँशतिः पु॒रस्ता॑त् ति॒रश्ची॒
दश॑दश॒ सम् प॑द्यन्ते॒
दशा॑क्षरा { वि॒राद् ^ वि॒राज् }
अन्नं॑ { वि॒राद् ^ वि॒राज् }
वि॒राजै॒वान्नाद्य॒म् अव॑ रुन्द्धे॒ \
उद् ध॑न्ति॒
यद् ए॒वास्या॑ अमे॒ध्यं तद् अप॑ हन्ति॒ \
उद् ध॑न्ति॒
तस्मा॒द् ओष॑धयः॒ परा॑ भवन्ति
ब॒र्हि स्तृ॑णाति॒
तस्मा॒द् ओष॑धयः॒ पुन॒र् आ भ॑वन्ति॒ \
उत्त॑रम् ब॒र्हिष॑ उत्तरब॒र्हि स्तृ॑णाति
प्र॒जा वै ब॒र्हिर् यज॑मान उत्तरब॒र्हिस् \
यज॑मानम् ए॒वाय॑जमाना॒द् उत्त॑रं करोति॒
तस्मा॒द् यज॑मा॒नोऽय॑जमाना॒द् उत्त॑रः ॥
यद् वा अनी॑शानो भा॒रम् आ॑द॒त्ते वि वै स लि॑शते॒
यद् द्वाद॑श सा॒ह्नस्यो॑प॒सदः॒ स्युस् ति॒स्रो॑ऽहीन॑स्य य॒ज्ञस्य॒ विलो॑म क्रियेत
ति॒स्र ए॒व सा॒ह्नस्यो॑प॒सदो॒ द्वाद॑शा॒हीन॑स्य य॒ज्ञस्य॑ सवीर्य॒त्वायाथो॒ सलो॑म क्रियते
व॒त्सस्यैक॒ स्तनो॑ भा॒गी हि सोऽथैकँ॒ स्तनं॑ व्र॒तम् उपै॒त्य् अथ॒ द्वाव् अथ॒ त्रीन् अथ॑ च॒तुर॑ ए॒तद् वै ॥
क्षु॒रप॑वि॒ नाम॑ व्र॒तं येन॒ प्र जा॒तान् भ्रातृ॑व्यान् नु॒दते॒ प्रति॑ जनि॒ष्यमा॑णा॒न् अथो॒ कनी॑यसै॒व भूय॒ उपै॑ति
च॒तुरोऽग्रे॒ स्तना॑न् व्र॒तम् उपै॒त्य् अथ॒ त्रीन् अथ॒ द्वाव् अथैक॑म् ए॒तद् वै सु॑जघ॒नं नाम॑ व्र॒तं त॑प॒स्यँ॑ सुव॒र्ग्य॑म् अथो॒ प्रैव जा॑यते प्र॒जया॑ प॒शुभि॑स् \
य॒वा॒गू रा॑ज॒न्य॑स्य व्र॒तं क्रू॒रेव॒ वै य॑वा॒गूः क्रू॒र इ॑व ॥
रा॒ज॒न्यो॑ वज्र॑स्य रू॒पँ समृ॑द्ध्यै \
आ॒मिक्षा॒ वैश्य॑स्य पाकय॒ज्ञस्य॑ रू॒पम् पुष्ट्यै॒
पयो॑ ब्राह्म॒णस्य॒ तेजो॒ वै ब्रा॑ह्म॒णस् तेजः॒ पय॒स् तेज॑सै॒व तेजः॒ पय॑ आ॒त्मन् ध॑त्ते॒ \
अथो॒ पय॑सा॒ वै गर्भा॑ वर्धन्ते॒ गर्भ॑ इव॒ खलु॒ वा ए॒ष यद् दी॑क्षि॒तो यद् अ॑स्य॒ पयो॑ व्र॒तम् भव॑त्य् आ॒त्मान॑म् ए॒व तद् व॑र्धयति॒
त्रिव्र॑तो॒ वै मनु॑र् आसी॒द् द्विव्र॑ता॒ असु॑रा॒ एक॑व्रताः ॥
दे॒वास् \
प्रा॒तर् म॒ध्यंदि॑ने सा॒यं तन् मनो॑र् व्र॒तम् आ॑सीत् पाकय॒ज्ञस्य॑ रू॒पम् पुष्ट्यै॑
प्रा॒तश् च॑ सा॒यं चासु॑राणां निर्म॒ध्यं क्षु॒धो रू॒पं तत॑स् ते॒ परा॑भवन्
म॒ध्यंदि॑ने मध्यरा॒त्रे दे॒वानां॒ तत॒स् ते॑ऽभवन्त् सुव॒र्गं लो॒कम् आ॑य॒न्
यद् अ॑स्य म॒ध्यंदि॑ने मध्यरा॒त्रे व्र॒तम् भव॑ति मध्य॒तो वा अन्ने॑न भुञ्जते मध्य॒त ए॒व तद् ऊर्जं॑ धत्ते॒ भ्रातृ॑व्याभिभूत्यै॒
भव॑त्य् आ॒त्मना॑ ॥
परा॑स्य॒ भ्रातृ॑व्यो भवति॒
गर्भो॒ वा ए॒ष यद् दी॑क्षि॒तो योनि॑र् दीक्षितविमि॒तं यद् दी॑क्षि॒तो दी॑क्षितविमि॒तात् प्र॒वसे॒द् यथा॒ योने॒र् गर्भ॒ स्कन्द॑ति ता॒दृग् ए॒व तन् न प्र॑वस्त॒व्य॑म् आ॒त्मनो॑ गोपी॒थाय॑ \
ए॒ष वै व्या॒घ्रः कु॑लगो॒पो यद् अ॒ग्निस् तस्मा॒द् यद् दी॑क्षि॒तः प्र॒वसे॒त् स ए॑नम् ईश्व॒रो॑ऽनू॒त्थाय॒ हन्तो॒र् न प्र॑वस्त॒व्य॑म् आ॒त्मनो॒ गुप्त्यै॑
दक्षिण॒तः श॑य ए॒तद् वै यज॑मानस्या॒यत॑नँ॒ स्व ए॒वायत॑ने शये \
अ॒ग्निम् अ॑भ्या॒वृत्य॑ शये दे॒वता॑ ए॒व य॒ज्ञम् अ॑भ्या॒वृत्य॑ शये ॥
पु॒रोह॑विषि देव॒यज॑ने याजये॒द् यं का॒मये॑त॒ \
उपै॑न॒म् उत्त॑रो य॒ज्ञो न॑मेद् अ॒भि सु॑व॒र्गं लो॒कं ज॑ये॒द् इति॑ \
ए॒तद् वै पु॒रोह॑विर् देव॒यज॑नं॒ यस्य॒ होता॑ प्रातरनुवा॒कम् अ॑नुब्रु॒वन्न् अ॒ग्निम् अ॒प आ॑दि॒त्यम् अ॒भि वि॒पश्य॑ति॒ \
उपै॑न॒म् उत्त॑रो य॒ज्ञो न॑मत्य् अ॒भि सु॑व॒र्गं लो॒कं ज॑यति \
आ॒प्ते दे॑व॒यज॑ने याजये॒द् भ्रातृ॑व्यवन्त॒म्
पन्थां॒ वाधि॑स्पर्शयेत् क॒र्तं वा॑
याव॒न् नान॑से॒ यात॒वै ॥
न रथा॑यै॒तद् वा आ॒प्तं दे॑व॒यज॑नम्
आ॒प्नोत्य् ए॒व भ्रातृ॑व्यं॒ नैन॒म् भ्रातृ॑व्य आप्नोति॒ \
एको॑न्नते देव॒यज॑ने याजजेत् प॒शुका॑म॒म्
एको॑न्नता॒द् वै दे॑व॒यज॑ना॒द् अङ्गि॑रसः प॒शून् अ॑सृजन्त \
अन्त॒रा स॑दोहविर्धा॒ने उ॑न्न॒तँ स्या॑त् \
ए॒तद् वा एको॑न्नतं देव॒यज॑नम्
पशु॒मान् ए॒व भ॑वति
त्र्यु॑न्नते देव॒यज॑ने याजयेत् सुव॒र्गका॑मम् \
त्र्यु॑न्नता॒द् वै दे॑व॒यज॑ना॒द् अङ्गि॑रसः सुव॒र्गं लो॒कम् आ॑यन् \
अ॒न्त॒राह॑व॒नीयं॑ च हवि॒र्धानं॑ च ॥
उ॒न्न॒तँ स्या॑द् अन्त॒रा ह॑वि॒र्धानं॑ च॒ सद॑श् चान्त॒रा सद॑श् च॒ गार्ह॑पत्यं च \
ए॒तद् वै त्र्यु॑न्नतं देव॒यज॑नम् \
सु॒व॒र्गम् ए॒व लो॒कम् ए॑ति॒
प्रति॑ष्ठिते देव॒यज॑ने याजयेत् प्रति॒ष्ठाका॑मम्
ए॒तद् वै प्रति॑ष्ठितं देव॒यज॑नं॒ यत् स॒र्वतः॑ स॒मम्
प्रत्य् ए॒व ति॑ष्ठति॒
यत्रा॒न्याअ॒न्या॒ ओष॑धयो॒ व्यति॑षक्ताः॒ स्युस् तद् या॑जयेत् प॒शुका॑मम्
ए॒तद् वै प॑शू॒नाँ रू॒पम् \
रू॒पेणै॒वास्मै॑ प॒शून् ॥
अव॑ रुन्द्धे
पशु॒मान् ए॒व भ॑वति॒
निरृ॑तिगृहीते देव॒यज॑ने याजये॒द् यं का॒मये॑त॒
निरृ॑त्यास्य य॒ज्ञं ग्रा॑हयेय॒म् इति॑ \
ए॒तद् वै निरृ॑तिगृहीतं देव॒यज॑नं॒ यत् स॒दृश्यै॑ स॒त्या॑ ऋ॒क्षम् \
निरृ॑त्यै॒वास्य॑ य॒ज्ञं ग्रा॑हयति
व्यावृ॑त्ते देव॒यज॑ने याजयेद् व्या॒वृत्का॑मं॒ यम् पात्रे॑ वा॒ तल्पे॑ वा॒ मीमाँ॑सेरन्
प्रा॒चीन॒म् आह॑व॒नीया॑त् प्रव॒णँ स्या॑त् प्रती॒चीनं॒ गार्ह॑पत्याद् ए॒तद् वै व्यावृ॑त्तं देव॒यज॑नम् \
वि पा॒प्मना॒ भ्रातृ॑व्ये॒णा व॑र्तते॒
नैन॒म् पात्रे॒ न तल्पे॑ मीमाँसन्ते
का॒र्ये॑ देव॒यज॑ने याजये॒द् भूति॑कामम् \
का॒र्यो॑ वै पुरु॑षस् \
भव॑त्य् ए॒व ॥
तेभ्य॑ उत्तरवे॒दिः सिँ॒ही रू॒पं कृ॒त्वोभया॑न् अन्त॒राप॒क्रम्या॑तिष्ठ॒त्
ते दे॒वा अ॑मन्यन्त
यन्त॒रान् वा इ॒यम् उ॑पाव॒र्त्स्यति॒ त इ॒दम् भ॑विष्य॒न्तीति॑
ताम् उपा॑मन्त्रयन्त
साब्र॑वी॒द्
वरं॑ वृणै॒ सर्वा॒न् मया॒ कामा॒न् व्य् अ॑श्नवथ॒ पूर्वां॒ तु मा॒ग्नेर् आहु॑तिर् अश्नवता॒ इति॒
तस्मा॑द् उत्तरवे॒दिम् पूर्वा॑म् अ॒ग्नेर् व्याघा॑रयन्ति
वारे॑वृतँ॒ ह्य् अ॑स्यै॒
शम्य॑या॒ परि॑ मिमीते ॥
मात्रै॒वास्यै॒ साथो॑ यु॒क्तेनै॒व यु॒क्तम् अव॑ रुन्द्धे
वि॒त्ताय॑नी मे॒ऽसीत्य् आ॑ह
वि॒त्ता ह्य् ए॑ना॒न् आव॑त्
ति॒क्ताय॑नी मे॒ऽसीत्य् आ॑ह
ति॒क्तान् ह्य् ए॑ना॒न् आव॒त्
अव॑तान् मा नाथि॒तम् इत्य् आ॑ह
नाथि॒तान् ह्य् ए॑ना॒न् आव॒द्
अव॑तान् मा व्यथि॒तम् इत्य् आ॑ह
व्यथि॒तान् ह्य् ए॑ना॒न् आव॑द्
वि॒देर् अ॒ग्निर् नभो॒ नाम॑ ॥
अग्ने॑ अङ्गिर॒ इति॒ त्रिर् ह॑रति॒
य ए॒वैषु लो॒केष्व् अ॒ग्नय॑स्
तान् ए॒वाव॑ रुन्द्धे तू॒ष्णीं च॑तु॒र्थँ ह॑र॒त्य्
अनि॑रुक्तम् ए॒वाव॑ रुन्द्धे
सिँ॒हीर् अ॑सि महि॒षीर् अ॒सीत्य् आ॑ह
सिँ॒हीर् ह्य् ए॑षा रू॒पं कृ॒त्वोभया॑न् अन्त॒राप॒क्रम्याति॑ष्ठद्
उ॒रु प्र॑थस्वो॒रु ते॑ य॒ज्ञप॑तिः प्रथता॒म् इत्य् आ॑ह॒
यज॑मानम् ए॒व प्र॒जया॑ प॒शुभिः॑ प्रथयति
ध्रु॒वा ॥
अ॒सीति॒ सँ ह॑न्ति॒ धृत्यै॑ दे॒वेभ्यः॑ शुन्धस्वदे॒वेभ्यः॑ शुम्भ॒स्वेत्य् अव॑ चो॒क्षति॒ प्र च॑ किरति॒ शुद्ध्यै॑ \
इन्द्रघो॒षस् त्वा॒ वसु॑भिः पु॒रस्ता॑त् पा॒त्व् इत्य् आ॑ह दि॒ग्भ्य ए॒वैना॒म् प्रोक्ष॑ति
दे॒वाँश् चेद् उ॑त्तरवे॒दिर् उ॒पाव॑वर्ती॒हैव वि ज॑यामहा॒ इत्य् असु॑रा॒ वज्र॑म् उ॒द्यत्य॑ दे॒वान् अ॑भ्य् आ॑यन्त॒ तान् इ॑न्द्रघो॒षो वसु॑भिः पु॒रस्ता॒द् अप॑ ॥
अ॒नु॒द॒त॒ मनो॑जवाः पि॒तृभि॑र् दक्षिण॒तः प्रचे॑ता रु॒द्रैः प॒श्चाद् वि॒श्वक॑र्मादि॒त्यैर् उ॑त्तर॒तो
यद् ए॒वम् उ॑त्तरवेदिम् प्रो॒क्षति॑ दि॒ग्भ्य ए॒व तद् यज॑मानो॒ भ्रातृ॑व्या॒न् प्रणु॑दत॒
इन्द्रो॒ यती॑न्त् सालावृ॒केभ्यः॒ प्राय॑छ॒त् तान् द॑क्षिण॒त उ॑त्तरवे॒द्या आ॑द॒न्
यत् प्रोक्ष॑णीनाम् उ॒च्छिष्ये॑त॒ तद् द॑क्षिण॒त उ॑त्तरवे॒द्यै नि न॑ये॒द्
यद् ए॒व तत्र॑ क्रू॒रं तत् तेन॑ शमयति॒
यं द्वि॒ष्यात् तं ध्या॑येच् छु॒चैवैन॑म् अर्पयति
सोत्त॑रवे॒दिर् अ॑ब्रवी॒त्
सर्वा॒न् मया॒ कामा॒न् व्य् अ॑श्नव॒थेति॒
ते दे॒वा अ॑कामयन्त॒ \
असु॑रा॒न् भ्रातृ॑व्यान् अ॒भि भ॑वे॒मेति॒
तेऽजु॑हवुः
सिँ॒हीर् अ॑सि सपत्नसा॒ही स्वाहेति॒
तेऽस्रु॑रा॒न् भ्रातृ॑व्यान् अ॒भ्य् अ॑भव॒न्
तेऽसु॑रा॒न् भ्रातृ॑व्यान् अभि॒भूया॑कामयन्त
प्र॒जां वि॑न्देम॒हीति॒
ते॑ऽजुहवुः
सिँ॒हीर् अ॑सि सुप्रजा॒वनिः॒ स्वाहेति॒
ते प्र॒जाम् अ॑विन्दन्त॒
ते प्र॒जां वि॒त्त्वा ॥
अ॒का॒म॒य॒न्त॒
प॒शून् वि॑न्देम॒हीति॒
ते॑ऽजुहवुः
सिँ॒हीर् अ॑सि रायस्पोष॒वनिः॒ स्वाहेति॒
ते प॒शून् अ॑विन्दन्त॒
ते प॒शून् वि॒त्त्वाका॑मयन्त
प्रति॒ष्ठां वि॑न्देम॒हीति॒
ते॑ऽजुहवुः
सिँ॒हीर् अ॑स्य् आदित्य॒वनिः॒ स्वाहेति॒
त इ॒माम् प्र॑ति॒ष्ठाम् अ॑विन्दन्त॒
त इ॒माम् प्र॑ति॒ष्ठां वि॒त्त्वाका॑मयन्त
दे॒वता॑ आ॒शिष॒ उपे॑या॒मेति॒
ते॑ऽजुहवुः
सिँ॒हीर् अ॒स्य् आ व॑ह दे॒वान् दे॑वय॒ते ॥
यज॑मानाय॒ स्वाहेति॒
ते दे॒वता॑ आ॒शिष॒ उपा॑य॒न्
पञ्च॒ कृत्वो॒ व्याघा॑रयति॒
पञ्चा॑क्षरा प॒ङ्क्तिः
पाङ्क्तो॑ य॒ज्ञस् \
य॒ज्ञम् ए॒वाव॑ रुन्द्धे \
अ॒क्ष्ण्या व्याघा॑रयति॒
तस्मा॑द् अक्ष्ण॒या प॒शवोऽङ्गा॑नि॒ प्र ह॑रन्ति॒
प्रति॑ष्ठित्यै
भू॒तेभ्य॒स् त्वेति॒ स्रुच॒म् उद् गृ॑ह्णाति॒
य ए॒व दे॒वा भू॒तास् तेषां॒ तद् भा॑ग॒धेय॑म् \
तान् ए॒व तेन॑ प्रीणाति॒
पौतु॑द्रवान् परि॒धीन् परि॑ दधाति \
ए॒षाम् ॥
लो॒कानां॒ विधृ॑त्यै \
अ॒ग्नेस् त्रयो॒ ज्यायाँ॑सो॒ भ्रात॑र आस॒न्
ते दे॒वेभ्यो॑ ह॒व्यं वह॑न्तः॒ प्रामी॑यान्त॒
सो॑ऽग्निर् अ॑बिभेत् \
इ॒त्थं वाव स्य आर्ति॒म् आरि॑ष्य॒तीति॒
स निला॑यत॒
स यां वन॒स्पति॒ष्व् अव॑स॒त् ताम् पूतु॑द्रौ॒ याम् ओष॑धीषु॒ ताँ सु॑गन्धि॒तेज॑ने॒ याम् प॒शुषु॒ ताम् पेत्व॑स्यान्त॒रा शृङ्गे॒
तं दे॒वताः॑ प॒रिष॑म् ऐछ॒न्
तम् अन्व् अ॑विन्द॒न्
तम् अ॑ब्रुवन् ॥
उप॑ न॒ आ व॑र्तस्व ह॒व्यं नो॑ व॒हेति॒
सो॑ऽब्रवीत् \
वरं॑ वृणै॒ यद् ए॒व गृ॑ही॒तस्याहु॑तस्य बहिःपरि॒धि स्कन्दा॒त् तन् मे॒ भ्रातृ॑णाम् भाग॒धेय॑म् अस॒द् इति॒
तस्मा॒द् यद् गृ॑ही॒तस्याहु॑तस्य बहिःपरि॒धि स्कन्द॑ति॒ तेषां॒ तद् भा॑ग॒धेयं॒ तान् ए॒व तेन॑ प्रीणाति॒
सो॑ऽमन्यत \
अस्थ॒न्वन्तो॑ मे॒ पूर्वे॒ भ्रात॑रः॒ प्रामे॑षता॒स्थानि॑ शातया॒ इति॒
स यानि॑ ॥
अ॒स्थान्य् अशा॑तयत॒ तत् पूतु॑द्र्व् अभवत् \
यन् माँ॒सम् उप॑मृतं॒ तद् गुल्गु॑लु॒ यद् ए॒तान्त् स॑म्भा॒रान्त् स॒म्भर॑त्य् अ॒ग्निम् ए॒व तत् सम् भ॑रति \
अ॒ग्नेः पुरी॑षम् अ॒सीत्य् आ॑ह \
अ॒ग्नेर् ह्य् ए॑तत् पुरी॑षं॒ यत् सं॑भा॒रास् \
अथो॒ खल्व् आ॑हुस् \
ए॒ते वावैनं॒ ते भ्रात॑रः॒ परि॑ शेरे॒ यत् पौतु॑द्रवाः परि॒धय॒ इति॑ ॥
ब॒द्धम् अव॑ स्यति
वरुणपा॒शाद् ए॒वैने॑ मुञ्चति॒
प्र णे॑नेक्ति॒ मेध्ये॑ ए॒वैने॑ करोति
सावित्रि॒यर्चा हु॒त्वा ह॑वि॒र्धाने॒ प्र व॑र्तयति
सवि॒तृप्र॑सूत ए॒वैने॒ प्र व॑र्तयति॒
वरु॑णो॒ वा ए॒ष दु॒र्वाग् उ॑भ॒यतो॑ ब॒द्धो यद् अक्षः॒
स यद् उ॒त्सर्जे॒द् यज॑मानस्य गृ॒हान् अ॒भ्युत्स॑र्जेत्
सु॒वाग् दे॑व॒ दुर्याँ॒ आ व॒देत्य् आ॑ह
गृ॒हा वै दुर्याः॑
शान्त्यै॒
पत्नी॑ ॥
उपा॑नक्ति॒
पत्नी॒ हि सर्व॑स्य मि॒त्रम्
मि॑त्र॒त्वाय॒
यद् वै पत्नी॑ य॒ज्ञस्य॑ क॒रोति॑ मिथु॒नं तत् \
अथो॒ पत्नि॑या ए॒वैष य॒ज्ञस्या॑न्वार॒म्भोन॑वछित्त्यै॒
वर्त्म॑ना॒ वा अ॒न्वित्य॑ य॒ज्ञँ रक्षाँ॑सि जिघाँसन्ति
वैष्ण॒वीभ्या॒म् ऋग्भ्यां वर्त्म॑नोर् जुहोति
य॒ज्ञो वै विष्णु॑स् \
य॒ज्ञाद् ए॒व रक्षाँ॒स्य् अप॑ हन्ति॒
यद् अ॑ध्व॒र्युर् अ॑न॒ग्नाव् आहु॑तिं जुहु॒याद् अ॒न्धो॑ऽध्व॒र्युः स्या॒द् रक्षाँ॑सि य॒ज्ञँ ह॑न्युः ॥
हिर॑ण्यम् उ॒पास्य॑ जुहोति \
अग्नि॒वत्य् ए॒व जु॑होति
नान्धो॑ऽध्व॒र्युर् भव॑ति॒ न य॒ज्ञँ रक्षाँ॑सि घ्नन्ति
प्राची॒ प्रेत॑म् अध्व॒रं क॒ल्पय॑न्ती॒ इत्य् आ॑ह
सुव॒र्गम् ए॒वैने लो॒कं ग॑मयति॒ \
अत्र॑ रमेथां॒ वर्ष्म॑न् पृथि॒व्या इत्य् आ॑ह॒
वर्ष्म॒ ह्य् ए॑तत् पृ॑थि॒व्या यद् दे॑व॒यज॑नम् \
शिरो॒ वा ए॒तद् य॒ज्ञस्य॒ यद् ध॑वि॒र्धान॑म् \
दि॒वो वा॑ विष्णव् उ॒त वा॑ पृथि॒व्याः ॥
इत्य् आ॒शीर्प॑दय॒र्चा दक्षि॑णस्य हवि॒र्धान॑स्य मे॒थीं नि ह॑न्ति
शीर्ष॒त ए॒व य॒ज्ञस्य॒ यज॑मान आ॒शिषोऽव॑ रुन्द्धे
द॒ण्डो वा औ॑प॒रस् तृ॒तीय॑स्य हवि॒र्धान॑स्य वषट्का॒रेणा॑क्षम् अछिनत् \
यत् तृ॒तीयं॑ छ॒दिर् ह॑वि॒र्धान॑योर् उदाह्रि॒यते॑ तृ॒तीय॑स्य हवि॒र्धान॒स्याव॑रुद्ध्यै॒
शिरो॒ वा ए॒तद् य॒ज्ञस्य॒ यद् ध॑वि॒र्धान॑म् \
विष्णो॑ र॒राट॑म् असि॒विष्णोः॑ पृ॒ष्ठम् अ॒सीत्य् आ॑ह॒
तस्मा॑द् एताव॒द्धा शिरो॒ विष्यू॑तम् \
विष्णोः॒ स्यूर् अ॑सि॒ विष्णो॑र् ध्रु॒वम् अ॒सीत्य् आ॑ह
वैष्ण॒वँ हि दे॒वत॑या हवि॒र्धान॑म् \
यम् प्र॑थ॒मं ग्र॒न्थिं ग्र॑थ्नी॒यात् यत् तं न॑ विस्रँ॒सये॒द् अमे॑हेनाध्व॒र्युः प्र मी॑येत॒
तस्मा॒त् स वि॒स्रस्यः॑ ॥
दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒व इत्य् अभ्रि॒म् आ द॑त्ते॒ प्रसू॑त्यै \
अ॒श्विनो॑र् बा॒हुभ्या॒म् इत्य् आ॑ह \
अ॒श्विनौ॒ हि दे॒वाना॑म् अध्व॒र्यू आस्ता॑म्
पू॒ष्णो हस्ता॑भ्या॒म् इत्य् आ॑ह॒ यत्यै॒
वज्र॑ इव॒ वा ए॒षा यद् अभ्रि॒र् अभ्रि॑र् असि॒ नारि॑र् अ॒सीत्य् आ॑ह॒ शान्त्यै॑
काण्डे॑काण्डे॒ वै क्रि॒यमा॑णे य॒ज्ञँ रक्षाँ॑सि जिघाँसन्ति॒
परि॑लिखितँ॒ रक्षः॒ परि॑लिखिता॒ अरा॑तय॒ इत्य् आ॑ह॒ रक्ष॑सा॒म् अप॑हत्यै ॥
इ॒दम् अ॒हँ रक्ष॑सो ग्री॒वा अपि॑ कृन्तामि॒ यो॑ऽस्मान् द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्म इत्य् आ॑ह॒ द्वौ वाव पुरु॑षौ॒ यं चै॒व द्वेष्टि॒ यश् चै॑नं॒ द्वेष्टि॒ तयो॑र् ए॒वान॑न्तरायं ग्री॒वाः कृ॑न्तति
दि॒वे त्वा॒न्तरि॑क्षाय त्वा पृथि॒व्यै त्वेत्य् आ॑है॒भ्य ए॒वैनं॑ लो॒केभ्यः॑ प्रोक्षति
प॒रस्ता॑द् अ॒र्वाची॒म् प्रोक्ष॑ति॒ तस्मा॑त् ॥
प॒रस्ता॑द् अ॒र्वाची॑म् मनु॒ष्या॑ ऊर्ज॒म् उप॑ जीवन्ति
क्रू॒रम् इ॑व॒ वा ए॒तत् क॑रोति॒ यत् खन॑त्य् अ॒पोऽव॑ नयति॒ शान्त्यै॒
यव॑मती॒र् अव॑ नय॒त्य् ऊर्ग् वै यव॒ ऊर्ग् उ॑दु॒म्बर॑ ऊ॒र्जैवोर्जँ॒ सम् अ॑र्धयति॒
यज॑मानेन॒ सम्मि॒तौदु॑म्बरी भवति॒ यावा॑न् ए॒व यज॑मान॒स् ताव॑तीम् ए॒वास्मि॒न्न् ऊर्जं॑ दधाति॒
पितृ॒णाँ सद॑नम् अ॒सीति॑ ब॒र्हिर् अव॑ स्तृणाति पितृदेव॒त्य॑म् ॥
ह्य् ए॑तद् यन् निखा॑तम् \
यद् ब॒र्हिर् अन॑वस्तीर्य मिनु॒यात् पि॑तृदेव॒त्या॑ निखा॑ता स्याद् ब॒र्हिर् अ॑व॒स्तीर्य॑ मिनोत्य् अ॒स्याम् ए॒वैनां॑ मिनो॒त्य् अथो॑ स्वा॒रुह॑म् ए॒वैनां॑ करोति॒ \
उद् दिवँ॑ स्तभा॒नान्तरि॑क्षम् पृ॒णेत्य् आ॑है॒षां लो॒कानां॒ विधृ॑त्यै
द्युता॒नस् त्वा॑ मारु॒तो मि॑नो॒त्व् इत्य् आ॑ह द्युता॒नो ह॑ स्म॒ वै मा॑रु॒तो दे॒वाना॒म् औदु॑म्बरीम् मिनोति॒ तेनै॒व ॥
ए॒ना॒म् मि॒नो॒ति॒
ब्र॒ह्म॒वनिं॑ त्वा क्षत्र॒वनि॒म् इत्य् आ॑ह यथाय॒जुर् ए॒वैत॑त् \
घृ॒तेन॑ द्यावापृथिवी॒ आ पृ॑णेथा॒म् इत्य् औदु॑म्बर्यां जुहोति॒ द्यावा॑पृथि॒वी ए॒व रसे॑नानक्ति \
आ॒न्तम् अ॒न्वव॑स्रावयत्य् आ॒न्तम् ए॒व यज॑मानं॒ तेज॑सानक्ति \
ऐ॒न्द्रम् अ॒सीति॑ छ॒दिर् अधि॒ नि द॑धात्य् ऐ॒न्द्रँ हि दे॒वत॑या॒ सद॑स् \
वि॒श्व॒ज॒नस्य॑ छा॒येत्य् आ॑ह विश्वज॒नस्य॒ ह्य् ए॑षा छा॒या यत् सद॑स् \
नव॑छदि ॥
तेज॑स्कामस्य मिनुयात् त्रि॒वृता॒ स्तोमे॑न॒ सम्मि॑त॒म् तेज॑स् त्रि॒वृत् ते॑ज॒स्व्य् ए॑व भ॑वति॒ \
एका॑दशछदीन्द्रि॒यका॑म॒स्यैका॑दशाक्षरा तृ॒ष्टुग् इ॑न्द्रि॒यं त्रि॒ष्टुग् इ॑न्द्रिया॒व्य् ए॑व भ॑वति॒
पञ्च॑दशछदि॒ भ्रातृ॑व्यवतः पञ्चद॒शो वज्रो॒ भ्रातृ॑व्याभिभूत्यै
स॒प्तद॑शछदि प्र॒जाका॑मस्य सप्तद॒शः प्र॒जाप॑तिः प्र॒जाप॑ते॒र् आप्त्यै॒ \
एक॑विँशतिछदि {F प्रति॒ष्ठाका॑मस्यैकविँ॒श} {W प्र॑ति॒ष्ठाक॑मस्यैकविँ॒श} {गोल्स् प्र॒ति॒ष्ठाक॑मस्यैकविँ॒शस्} स्तोमा॑नाम् प्रति॒ष्ठा प्रति॑ष्ठित्यै \
उ॒दरं॒ वै सद॒ ऊर्ग् उ॑दु॒म्बरो॑ मध्य॒त औदु॑म्बरीम् मिनोति मध्य॒त ए॒व प्र॒जाना॒म् ऊर्जं॑ दधाति॒ तस्मा॑त् ॥
म॒ध्य॒त ऊ॒र्जा भु॑ञ्जते
यजमानलो॒के वै दक्षि॑णानि छ॒दीँषि॑ भ्रातृव्यलो॒क उत्त॑राणि॒ दक्षि॑णा॒न्य् उत्त॑राणि करोति॒ यज॑मानम् ए॒वाय॑जमाना॒द् उत्त॑रं करोति॒ तस्मा॒द् यज॑मा॒नोऽय॑जमाना॒द् उत्त॑रस् \
अ॒न्त॒र्व॒र्तान् क॑रोति॒ व्यावृ॑त्त्यै॒ तस्मा॒द् अर॑ण्यम् प्र॒जा उप॑ जीवन्ति॒
परि॑ त्वा गिर्वणो॒ गिर॒ इत्य् आ॑ह यथाय॒जुर् ए॒वैतत् \
इन्द्र॑स्य॒ स्यूर् अ॒सीन्द्र॑स्य ध्रु॒वम् अ॒सीत्य् आ॑है॒न्द्रँ हि दे॒वत॑या॒ सद॑स् \
यम् प्र॑थ॒मं ग्र॒न्थिं ग्र॑थ्नी॒याद् यत् तं न वि॑स्रँ॒सये॒द् अमे॑हेनाध्व॒र्युः प्र मी॑येत॒ तस्मा॒त् स वि॒स्रस्यः॑ ॥
शिरो॒ वा ए॒तद् य॒ज्ञस्य॒ यद् ध॑वि॒र्धान॑म् प्रा॒णा उ॑पर॒वास् \
ह॒वि॒र्धाने॑ खायन्ते॒
तस्मा॑च् छी॒र्षन् प्रा॒णास् \
अ॒धस्ता॑त् खायन्ते॒
तस्मा॑द् अ॒धस्ता॑च् छी॒र्ष्णः प्रा॒णास् \
र॒क्षो॒हणो॑ वलग॒हनो॑ वैष्ण॒वान् ख॑ना॒मीत्य् आ॑ह
वैष्ण॒वा हि दे॒वत॑योपर॒वास् \
असु॑रा॒ वै नि॒र्यन्तो॑ दे॒वाना॑म् प्रा॒णेषु॑ वल॒गान् न्य् अ॑खनन्
तान् बा॑हुमा॒त्रेऽन्व् अ॑विन्द॒न्
तस्मा॑द् बाहुमा॒त्राः खा॑यन्ते \
इ॒दम् अ॒हं तं व॑ल॒गं उद् व॑पामि ॥
यं नः॑ समा॒नो यम् अस॑मानो निच॒खानेत्य् आ॑ह॒
द्वौ वाव पुरु॑षौ॒ यश् चै॒व स॑मा॒नो यश् चास॑मानस् \
यम् ए॒वास्मै॒ तौ व॑ल॒गं नि॒खन॑स्त॒स् तम् ए॒वोद् व॑पति॒
सं तृ॑णत्ति॒
तस्मा॒त् संतृ॑ण्णा अन्तर॒तः प्रा॒णास् \
न सम् भि॑नत्ति॒
तस्मा॒द् अस॑म्भिन्नाः प्रा॒णास् \
अ॒पोऽव॑ नयति॒
तस्मा॑द् आ॒र्द्रा अ॑न्तर॒तः प्रा॒णास् \
यव॑मती॒र् अव॑ नयति ॥
ऊर्ग् वै यवः॑
प्रा॒णा उ॑पर॒वाः
प्रा॒णेष्व् ए॒वोर्जं॑ दधाति
ब॒र्हिर् अव॑ स्तृणाति॒
तस्मा॑ल् लोम॒शा अ॑न्तर॒तः प्रा॒णास् \
आज्ये॑न॒ व्याघा॑रयति॒
तेजो॒ वा आज्य॑म्
प्रा॒णा उ॑पर॒वाः
प्रा॒णेष्व् ए॒व तेजो॑ दधाति॒
हनू॒ वा ए॒ते य॒ज्ञस्य॒ यद् अ॑धि॒षव॑णे॒
न सं तृ॑णत्ति॒ \
असं॑तृण्णे॒ हि हनू॒
अथो॒ खलु॑ दीर्घसो॒मे सं॒तृद्ये॑
धृत्यै॒
शिरो॒ वा ए॒तद् य॒ज्ञस्य॒ यद् ध॑वि॒र्धान॑म् ॥
प्रा॒णा उ॑पर॒वा ह॒नू अ॑धि॒षव॑णे जि॒ह्वा चर्म॒ ग्रावा॑णो॒ दन्ता॒ मुख॑म् आहव॒नीयो॒ नासि॑कोत्तरवे॒दिर् उ॒दरँ॒ सद॑स् \
य॒दा खलु॒ वै जि॒ह्वया॑ द॒त्स्व् अधि॒ खाद॒त्य् अथ॒ मुखं॑ गछति
य॒दा मुखं॒ गछ॒त्य् अथो॒दरं॑ गछति॒
तस्मा॑द् धवि॒र्धाने॒ चर्म॒न्न् अधि॒ ग्राव॑भिर् अभि॒षुत्या॑हव॒नीये॑ हु॒त्वा प्र॒त्यञ्चः॑ प॒रेत्य॒ सद॑सि भक्षयन्ति॒
यो वै वि॒राजो॑ यज्ञमु॒खे दोहं॒ वेद॑
दु॒ह ए॒वैना॑म्
इ॒यं वै { वि॒राट् ^ वि॒राज् }
तस्यै॒ त्वक् चर्मोधो॑ऽधि॒षव॑णे॒ स्तना॑ उपर॒वा ग्रावा॑णो व॒त्सा ऋ॒त्विजो॑ दुहन्ति॒ सोमः॒ पय॑स् \
य ए॒वं वेद॑ दु॒ह ए॒वैना॑म् ॥