प्रा॒चीन॑वँशं करोति

देवमनु॒ष्या दिशो॒ व्य् अ॑भजन्त

प्राचीं॑ दे॒वा द॑क्षि॒णा पि॒तरः॑ प्र॒तीची॑म् मनु॒ष्या॑ उदी॑चीँ रु॒द्रास् \

यत् प्रा॒चीन॑वँशं क॒रोति॑ देवलो॒कम् ए॒व तद् यज॑मान उ॒पाव॑र्तते॒

परि॑ श्रयति \

अ॒न्तर्हि॑तो॒ हि दे॑वलो॒को म॑नुष्यलो॒कात् \

नास्माल् लो॒कात् स्वे॑तव्यम् इ॒वेत्य् आ॑हुः॒

को हि तद् वेद॒ यद्य् अ॒मुष्मिँ॑ लो॒केऽस्ति॑ वा॒ न वेति॑

धि॒क्ष्व् अ॑तीका॒शान् क॑रोति ॥

उ॒भयो॑र् लो॒कयो॑र् अ॒भिजि॑त्यै

केशश्म॒श्रु व॑पते न॒खानि॒ नि कृ॑न्तते

मृ॒ता वा ए॒षा त्वग् अ॑मे॒ध्या यत् के॑शश्म॒श्रु

मृ॒ताम् ए॒व त्वच॑म् अमे॒ध्याम् अ॑प॒हत्य॑ य॒ज्ञियो॑ भू॒त्वा मेध॒म् उपै॑ति॒ \

अङ्गि॑रसः सुव॒र्गं लो॒कम् यन्तो॒ऽप्सु दी॑क्षात॒पसी॒ प्रावे॑शयन् \

अ॒प्सु स्ना॑ति

सा॒क्षाद् ए॒व दी॑क्षात॒पसी॒ अव॑ रुन्द्धे

ती॒र्थे स्ना॑ति

ती॒र्थे हि ते ताम् प्रावे॑शयन्

ती॒र्थे स्ना॑ति ॥

ती॒र्थम् ए॒व स॑मा॒नाना॑म् भवति \

अ॒पो॑ऽश्नाति \

अन्तर॒त ए॒व मेध्यो॑ भवति

वास॑सा दीक्षयति

सौ॒म्यं वै क्षौमं॑ दे॒वत॑या॒

सोम॑म् ए॒ष दे॒वता॒म् उपै॑ति॒ यो दीक्ष॑ते॒

सोम॑स्य त॒नूर् अ॑सि त॒नुव॑म् मे पा॒हीत्य् आ॑ह

स्वाम् ए॒व दे॒वता॒म् उपै॑ति॒ \

अथो॑ आ॒शिष॑म् ए॒वैतां आ शा॑स्ते \

अ॒ग्नेस् तू॑षा॒धान॑म् \

वा॒योर् वा॑त॒पान॑म्

पितृ॒णां नी॒विस् \

ओष॑धीनाम् प्रघा॒तः ॥

आ॒दि॒त्याना॑म् प्राचीनता॒नस् \

विश्वे॑षां दे॒वाना॒म् ओतु॑स् \

नक्ष॑त्राणाम् अतीका॒शास्

तद् वा ए॒तत् स॑र्वदेव॒त्यं॑ यद् वास॑स् \

यद् वास॑सा दी॒क्षय॑ति॒ सर्वा॑भिर् ए॒वैनं॑ दे॒वता॑भिर् दीक्षयति

ब॒हिःप्रा॑णो॒ वै म॑नु॒ष्य॑स्

तस्याश॑नम् प्रा॒णस् \

अ॒श्नाति॒ सप्रा॑ण ए॒व दी॑क्षते \

आशि॑तो भवति

यावा॑न् ए॒वास्य॑ प्रा॒णस् तेन॑ स॒ह मेध॒म् उपै॑ति

घृ॒तं दे॒वाना॒म्

मस्तु॑ पितृ॒णाम् \

निष्प॑क्वम् मनु॒ष्या॑णाम् \

तद् वै ॥

ए॒तत् स॑र्वदेव॒त्यं॑ यन् नव॑नीतम् \

यन् नव॑नीतेनाभ्य॒ङ्क्ते सर्वा॑ ए॒व दे॒वताः॑ प्रीणाति॒

प्रच्यु॑तो॒ वा ए॒षो॑ऽस्माल् लो॒काद् अग॑तो देवलो॒कं यो दी॑क्षि॒तस् \

अ॒न्त॒रेव॒ नव॑नीतम् \

तस्मा॒न् नव॑नीतेना॒भ्य् अ॑ङ्क्ते \

अनुलो॒मम् \

यजु॑षा

व्यावृ॑त्त्यै॒ \

इन्द्रो॑ वृ॒त्रम् अ॑ह॒न्

तस्य॑ क॒नीनि॑का॒ परा॑पत॒त्

तद् आञ्ज॑नम् अभवत् \

यद् आ॒ङ्क्ते चक्षु॑र् ए॒व भ्रातृ॑व्यस्य वृङ्क्ते॒

दक्षि॑ण॒म् पूर्व॒म् आङ्क्ते॑ ॥

स॒व्यँ हि पूर्व॑म् मनु॒ष्या॑ आ॒ञ्जते॒

न नि धा॑वते

नीव॒ हि म॑नु॒ष्या॑ धाव॑न्ते॒

पञ्च॒ कृत्व॒ आङ्क्ते॒

पञ्चा॑क्षरा प॒ङ्क्तिः

पाङ्क्तो॑ य॒ज्ञस् \

य॒ज्ञम् ए॒वाव॑ रुन्द्धे॒

परि॑मित॒म् आङ्क्ते॒ \

अप॑रिमितँ॒ हि म॑नु॒ष्या॑ आ॒ञ्जते॒

सतू॑ल॒याङ्क्ते॒ \

अप॑तूलया॒ हि म॑नु॒ष्या॑ आ॒ञ्जते॑

व्यावृ॑त्त्यै॒

यद् अप॑तूलयाञ्जी॒त वज्र॑ इव स्या॒त्

सतू॑ल॒याङ्क्ते॑ मित्र॒त्वाय॑ ॥

इन्द्रो॑ वृ॒त्रम् अ॑हन् \

सो॑ऽपो॑ऽभ्य्य् अ॑म्रियत

तासां॒ यन् मेध्यं॑ य॒ज्ञियँ॒ सदे॑व॒म् आसी॒त् तद् अपोद् अ॑क्राम॒त्

ते द॒र्भा अ॑भव॒न्

यद् द॑र्भपुञ्जी॒लैः प॒वय॑ति॒ या ए॒व मेध्या॑ य॒ज्ञियाः॒ सदे॑वा॒ आप॒स् ताभि॑र् ए॒वैन॑म् पवयति

द्वाभ्या॑म् पवयति \

अहोरा॒त्राभ्या॑म् ए॒वैन॑म् पवयति

त्रि॒भिः प॑वयति॒

त्रय॑ इ॒मे लो॒कास् \

ए॒भिर् ए॒वैनं॑ लो॒कैः प॑वयति

प॒ञ्चभिः॑ ॥

प॒व॒य॒ति॒

पञ्चा॑क्षरा प॒ङ्क्तिः

पाङ्क्तो॑ य॒ज्ञस् \

य॒ज्ञायै॒वैन॑म् पवयति

ष॒ड्भिः प॑वयति॒

षड् वा ऋ॒तव॑स् \

ऋ॒तुभि॑र् ए॒वैन॑म् पवयति

स॒प्तभिः॑ पवयति

स॒प्त छन्दाँ॑सि॒

छन्दो॑भिर् ए॒वैन॑म् पवयति

न॒वभिः॑ पवयति॒

नव॒ वै पुरु॑षे प्रा॒णाः

सप्रा॑णम् ए॒वैन॑म् पवयति॒ \

एक॑विँशत्या पवयति॒

दश॒ हस्त्या॑ अ॒ङ्गुल॑यो॒ दश॒ पद्या॑ आ॒त्मैक॑विँ॒शस् \

यावा॑न् ए॒व पुरु॑ष॒स् तम् अप॑रिवर्गम् ॥

प॒व॒य॒ति॒

चि॒त्पति॑स् त्वा पुना॒त्व् इत्य् आ॑ह॒

मनो॒ वै चि॒त्पति॑स् \

मन॑सै॒वैन॑म् पवयति

वा॒क्पति॑स् त्वा पुना॒त्व् इत्य् आ॑ह

वा॒चैवैन॑म् पवयति

दे॒वस् त्वा॑ सवि॒ता पु॑ना॒त्व् इत्य् आ॑ह

सवितृप्रसू॒त ए॒वैन॑म् पवयति॒

तस्य॑ ते पवित्रपते प॒वित्रे॑ण॒ यस्मै॒ कम् पु॑ने॒ तच् छ॑केय॒म् इत्य् आ॑ह \

आ॒शिष॑म् ए॒वैताम् आ शा॑स्ते ॥

याव॑न्तो॒ वै दे॒वा य॒ज्ञायापु॑नत॒ त ए॒वाभ॑व॒न्

य ए॒वं वि॒द्वान् य॒ज्ञाय॑ पुनी॒ते भव॑त्य् ए॒व

ब॒हिः प॑वयि॒त्वान्तः प्र पा॑दयति

मनुष्यलो॒क ए॒वैन॑म् पवयि॒त्वा पू॒तं दे॑वलो॒कम् प्र ण॑यति॒ \

अदी॑क्षित॒ एक॑याहु॒त्येत्य् आ॑हुः

स्रु॒वेण॒ चत॑स्रो जुहोति दीक्षित॒त्वाय॑ स्रु॒चा प॑ञ्च॒मीम्

पञ्चाक्ष॑रा पङ्कि॒तिः

पाङ्क्तो॑ य॒ज्ञस् \

य॒ज्ञम् ए॒वाव॑ रुन्द्धे \

आकू॑त्यै प्र॒युजे॒ऽग्नये॑ ॥

स्वाहेत्य् आ॑ह \

आकू॑त्या॒ हि पुरु॑षो य॒ज्ञम् अ॒भि प्र॑यु॒ङ्क्ते

यजे॒येति॑

मे॒धायै॒ मन॑से॒ऽग्नये॒ स्वाहेत्य् आ॑ह

मे॒धया॒ हि मन॑सा॒ पुरु॑षो य॒ज्ञम् अ॑भि॒गछ॑ति॒

सर॑स्वत्यै पू॒ष्णे॑ऽग्नये॒ स्वाहेत्य् आ॑ह

वाग् वै सर॑स्वती पृथि॒वी पू॒षा

वा॒चैव पृ॑थि॒व्या य॒ज्ञम् प्र यु॑ङ्क्ते \

आपो॑ देवीर् बृहतीर् विश्वशम्भुव॒ इत्य् आ॑ह

या वै वर्ष्या॒स् ताः ॥

आपो॑ दे॒वीर् बृ॑ह॒तीर् वि॒श्वश॑म्भुवस् \

यद् ए॒तद् यजु॒र् न ब्रू॒याद् दि॒व्या आपो॑ऽशान्ता इ॒मं लो॒कम् आ ग॑छेयुस् \

आपो॑ देवीर् बृहतीर् विश्वशम्भुव॒ इत्य् आ॑ह \

अ॒स्मा ए॒वैना॑ लो॒काय॑ शमयति॒

तस्मा॑च् छा॒न्ता इ॒मं लो॒कम् आ ग॑छन्ति

द्यावा॑पृथि॒वी इत्य् आ॑ह

द्यावा॑पृथि॒व्योर् हि य॒ज्ञस् \

उ॒र्व् अ॑न्तरि॑क्ष॒म् इत्य् आ॑ह \

अ॒न्तरि॑क्षे॒ हि य॒ज्ञस् \

बृह॒स्पति॑र् नो ह॒विषा॑ वृधातु ॥

इत्य् आ॑ह॒

ब्रह्म॒ वै दे॒वाना॒म् बृह॒स्पति॑स् \

ब्रह्म॑णै॒वास्मै॑ य॒ज्ञम् अव॑ रुन्द्धे॒

यद् ब्रू॒यात् \

वि॒धे॒र् इति॑ यज्ञस्था॒णुम् ऋ॑छेत् \

वृ॒धा॒त्व् इत्य् आ॑ह यज्ञस्था॒णुम् ए॒व परि॑ वृणक्ति

प्र॒जाप॑तिर् य॒ज्ञम् अ॑सृजत॒

सो॑ऽस्मात् सृ॒ष्टः परा॑ङ् ऐ॒त्

स प्र यजु॒र् अव्ली॑ना॒त् प्र साम॒

तम् ऋग् उद् अ॑यछत् \

यद् ऋग् उ॒दय॑छ॒त् तद् औ॑द्ग्रह॒णस्यौ॑द्ग्रहण॒त्वम्

ऋ॒चा ॥

जु॒हो॒ति॒ य॒ज्ञस्योद्य॑त्यै \

अनु॒ष्टुप् छन्द॑सा॒म् उद् अ॑यछ॒द् इत्य् आ॑हु॒स्

तस्मा॑द् अनु॒ष्टुभा॑ जुहोति

य॒ज्ञस्योद्य॑त्यै

द्वाद॑श वात्सब॒न्धान्य् उद् अ॑यछ॒न्न् इत्य् आ॑हु॒स्

तस्मा॑द् द्वाद॒शभि॑र् वात्सबन्ध॒विदो॑ दीक्षयन्ति

सा वा ए॒षर्ग् { अ॑नु॒ष्टुग् ^ अ॑नु॒ष्तुभ् }

वाग् { अ॑नु॒ष्टुग् ^ अ॑नु॒ष्तुभ् }

यद् ए॒तय॒र्चा दी॒क्षय॑ति वा॒चैवैनँ॒ सर्व॑या दीक्षयति॒

विश्वे॑ दे॒वस्य॑ ने॒तुर् इत्य् आ॑ह सावि॒त्र्य् ए॑तेन॒

मर्तो॑ वृणीत स॒ख्यम् ॥

इत्य् आ॑ह पितृदेव॒त्यै॑तेन॒

विश्वे॑ रा॒य इ॑षुध्य॒सीत्य् आ॑ह वैश्वदे॒व्य् ए॑तेन॑

द्यु॒म्नं वृ॑णीत पु॒ष्यस॒ इत्य् आ॑ह पौ॒ष्ण्य् ए॑तेन॑

सा वा ए॒षर्क् स॑र्वदेव॒त्या॑

यद् ए॒तय॒र्चा दी॒क्षय॑ति॒ सर्वा॑भिर् ए॒वैनं॑ दे॒वता॑भिर् दीक्षयति

स॒प्ताक्ष॑रम् प्रथ॒मम् प॒दम् अ॒ष्टाक्ष॑राणि॒ त्रीणि॑

यानि॒ त्रीणि॒ तान्य् अ॒ष्टाव् उप॑ यन्ति

यानि॑ च॒त्वारि॒ तान्य् अ॒ष्टौ

यद् अ॒ष्ताक्ष॑रा॒ तेन॑ ॥

गा॒य॒त्री

यद् एका॑दशाक्षरा॒ तेन॑ { त्रि॒ष्टुग् ^ त्रि॒ष्टुभ् }

यद् द्वाद॑शाक्षरा॒ तेन॒ जग॑ती॒ सावा॑ ए॒षर्क् सर्वा॑णि॒ छन्दाँ॑सि॒

यद् ए॒तय॒र्चा दी॒क्षय॑ति॒ सर्वे॑भिर् ए॒वैनं॒ छन्दो॑भिर् दीक्षयति

स॒प्ताक्ष॑रम् प्रथ॒मम् प॒दम् \

स॒प्तप॑दा शक्वरी

प॒शवः॒ शक्व॑री

प॒शून् ए॒वाव॑ रुन्द्धे॒ \

एक॑स्माद् अ॒क्षरा॒द् अना॑प्तम् प्रथ॒मम् प॒दम् \

तस्मा॒द् यद् वा॒चोऽना॑प्तं॒ तन् म॑नु॒ष्या॑ उप॑ जीवन्ति

पू॒र्णया॑ जुहोति

पू॒र्ण इ॑व॒ हि प्र॒जाप॑तिः

प्र॒जाप॑ते॒र् आप्त्यै॑

न्यू॑नया जुहोति

न्यू॑ना॒द् धि प्र॒जाप॑तिः प्र॒जा असृ॑जत प्र॒जानाँ॒ सृष्ट्यै॑ ॥

ऋ॒क्सा॒मे वै दे॒वेभ्यो॑ य॒ज्ञायाति॑ष्ठमाने॒ कृष्णो॑ रू॒पं कृ॒त्वाप॒क्रम्या॑तिष्ठताम् \

ते॑ऽमन्यन्त॒

यं वा इ॒मे उ॑पाव॒र्त्स्यतः॒ स इ॒दं भ॑विष्य॒तीति॒ ते उपा॑मन्त्रय॒न्त् ते अ॑होरा॒त्रयो॑र् महि॒मान॑म् अपनि॒धाय॑ दे॒वान् उ॒पाव॑र्तेताम्

ए॒ष वा ऋ॒चो वर्णो॒ यच् छु॒क्लं कृ॒ष्णाजि॒नस्य॑ \

ए॒ष साम्नो॒ यत्कृ॒ष्णम्

ऋ॑क्सा॒मयोः॑ शिल्पे स्थ॒ इत्य् आ॑ह \

ऋक्सा॒मे ए॒वाव॑ रुन्धे \

ए॒षः ॥

वा अह्नो॒ वर्णो॒ यच् छु॒क्लं कृ॑ष्णाजि॒नस्यै॒ष रात्रि॑या॒ यत् कृ॒ष्णं यद् ए॒वैन॑यो॒स् तत्र॒ न्य॑क्तं॒ तद् ए॒वाव॑ रुन्द्धे

कृष्णाजि॒नेन॑ दीषयति॒ ब्रह्म॑णो॒ वा ए॒तद् रू॒पं यत् कृ॑ष्णाजि॒नम् ब्रह्म॑णै॒वैनं॑ दीक्षयति \

इ॒मां धियँ॒ शिक्ष॑माणस्य दे॒वेत्य् आ॑ह यथाय॒जुर् ए॒वैतत् \

गर्भो॒ वा ए॒ष यद् दी॑क्षि॒त उल्बं॒ वासः॒ प्रोर्णु॑ते॒ तस्मा॑त् ॥

गर्भाः॒ प्रावृ॑ता जायन्ते॒

न पु॒रा सोम॑स्य क्र॒याद् अपो॑र्ण्वीत॒ यत् पु॒रा सोम॑स्य क्र॒याद् अ॑पोर्ण्वी॒त गर्भाः॑ प्र॒जाना॑म् परा॒पातु॑काः स्युः

क्री॒ते सोमेऽपो॑र्णुते॒ जाय॑त ए॒व तद् अथो॒ यथा॒ वसी॑याँसम् प्रत्यपोर्णु॒ते ता॒दृग् ए॒व तद्

अङ्गि॑रसः सुव॒र्गं लो॒कं यन्त॒ ऊर्जं॒ व्य् अ॑भजन्त॒ ततो॒ यद् अ॒त्यशि॑ष्यत॒ ते श॒रा अ॑भव॒न्न् ऊर्ग् वै श॒रा यच् छ॑र॒मयी॑ ॥

मेख॑ला॒ भव॒त्य् ऊर्ज॑म् ए॒वाव॑ रुन्द्धे

मध्य॒तः सं न॑ह्यति मध्य॒त ए॒वास्मा॒ ऊर्जं॑ दधाति॒ तस्मा॑न् मध्य॒त ऊ॒र्जा भु॑ञ्जते \

ऊ॒र्ध्वं वै पुरु॑षस्य॒ नाभ्यै॒ मेध्य॑म् अवा॒चीन॑म् अमे॒ध्यं यन् म॑ध्य॒तः सं॒नह्य॑ति॒ मेध्यं॑ चै॒वास्या॑मे॒ध्यं च॒ व्याव॑र्तयति॒ \

इन्द्रो॑ वृ॒त्राय॒ वज्र॒म् प्राह॑र॒त् स त्रे॒धा व्य् अ॑भव॒त् स्फ्यस् तृती॑यँ॒ रथ॒स् तृती॑यं॒ यूप॒स् तृती॑यम् ॥

ये॑ऽन्तःश॒रा अशी॑र्यन्त॒ ते श॒रा अ॑भव॒न् तच् छ॒राणाँ॑ शर॒त्वम्

वज्रो॒ वै श॒राः क्षुत् खलु॒ वै म॑नु॒ष्य॑स्य॒ भ्रातृ॑व्यो॒ यच् छ॑र॒मयी॒ मेख॑ला॒ भव॑ति॒ वज्रे॑णै॒व सा॒क्षात् क्षुध॒म् भ्रातृ॑व्यम् मध्य॒तोऽप॑ हते

त्रि॒वृद् भ॑वति त्रि॒वृद् वै प्रा॒णस् त्रि॒वृत॑म् ए॒व प्रा॒णम् म॑ध्य॒तो यज॑माने दधाति

पृ॒थ्वी भ॑वति॒ रज्जू॑नां॒ व्यावृ॑त्त्यै॒

मेख॑लया॒ यज॑मानं दीक्षयति॒ योक्त्रे॑ण॒ पत्नी॑म् मिथुन॒त्वाय॑ ॥

य॒ज्ञो दक्षि॑णाम् अ॒भ्य् अ॑ध्याय॒त् ताँ सम् अ॑भव॒त् तद् इन्द्रो॑ऽचाय॒त् सो॑ऽमन्यत॒ यो वा इ॒तो ज॑नि॒ष्यते॒ स इ॒दम् भ॑विष्य॒तीति॒ ताम् प्रावि॑श॒त् तस्या॒ इन्द्र॑ ए॒वाजा॑यत॒

सो॑ऽमन्यत॒

यो वै मद् इ॒तोऽप॑रो जनि॒ष्यते॒ स इ॒दम् भ॑विष्य॒तीति॒ तस्या॑ अनु॒मृश्य॒ योनि॒म् आछि॑न॒त् सा सू॒तव॑शाभव॒त् तत् सू॒त व॑शायै॒ जन्म॑ ॥

ताँ हस्ते॒ न्य् अ॑वेष्टयत॒ ताम् मृ॒गेषु॒ न्य् अ॑दधा॒त् सा कृ॑ष्णविषा॒णाभ॑व॒द् इन्द्र॑स्य॒ योनि॑र् असि॒ मा मा॑ हिँसी॒र् इति॑ कृष्णविषा॒णाम् प्र य॑छति॒ सयो॑निम् ए॒व य॒ज्ञं क॑रोति॒ सयो॑निं॒ दक्षि॑णाँ॒ सयो॑नि॒म् इन्द्रँ॑ सयोनि॒त्वाय॑

कृ॒ष्यै त्वा सु॑स॒स्याया॒ इत्य् आ॑ह॒ तस्मा॑द् अकृष्टप॒च्या ओष॑धयः पच्यन्ते

सुपिप्प॒लाभ्य॒स् त्वौष॑धीभ्य॒ इत्य् आ॑ह॒ तस्मा॒द् ओष॑धयः॒ फलं॑ गृह्णन्ति॒

यद् धस्ते॑न ॥

क॒ण्डू॒येत॑ पामन॒म्भावु॑काः प्र॒जाः स्यु॒र् यत् स्मये॑त नग्न॒म्भावु॑काः

कृष्णविषा॒णया॑ कण्डूयतेऽपि॒गृह्य॑ स्मयते प्र॒जानां॑ गोपी॒थाय॒

न पु॒रा दक्षि॑णाभ्यो॒ नेतोः॑ कृष्णविषा॒णाम् अव॑ चृते॒द् यत् पु॒रा दक्षि॑णाभ्यो॒ नेतोः॑ कृष्णविषा॒णाम् अव॑चृ॒तेद् योनिः॑ प्र॒जाना॑म् परा॒पातु॑का स्यात् \

नी॒तासु॒ दक्षि॑णासु॒ चात्वा॑ले कृष्णविषा॒णाम् प्रास्य॑ति॒ योनि॒र् वै य॒ज्ञस्य॒ चात्वा॑लं॒ योनिः॑ ऋष्णविषा॒णा योना॑व् ए॒व योनिं॑ दधाति य॒ज्ञस्य॑ सयोनि॒त्वाय॑ ॥

वाग् वै दे॒वेभ्योऽपा॑क्राम॒द् यज्ञा॒याति॑ष्ठमाना॒ सा वन॒स्पती॒न् प्रावि॑श॒त् सैषा वाग् वन॒स्पति॑षु वदति॒ या दु॑न्दु॒भौ या तूण॑वे॒ या वीणा॑याम् \

यद् दी॑क्षितद॒ण्डम् प्र॒यछ॑ति॒ वाच॑म् ए॒वाव॑ रुन्द्धे॒ \

औदु॑म्बरो भव॒त्य् ऊर्ग् वा उ॑दु॒म्बर॒ ऊर्ज॑म् ए॒वाव॑ रुन्द्धे॒

मुखे॑न॒ सम्मि॑तो भवति मुख॒त ए॒वास्मा॒ ऊर्जं॑ दधाति॒ तस्मा॑न् मुख॒त ऊ॒र्जा भु॑ञ्जते ॥

क्री॒ते सोमे॑ मैत्रावरु॒णाय॑ द॒ण्डम् प्र य॑छति मैत्रावरु॒णो हि पु॒रस्ता॑द् ऋ॒त्विग्भ्यो॒ वाचं॑ वि॒भज॑ति॒ ताम् ऋ॒त्विजो॒ यज॑माने॒ प्रति॑ ष्ठापयन्ति

स्वाहा॑ य॒ज्ञम् मन॒सेत्य् आ॑ह॒ मन॑सा॒ हि पुरु॑षो य॒ज्ञम् अ॑भि॒गछ॑ति

स्वाहा॒ द्व्यावा॑पृथि॒व्यीभ्या॒म् इत्य् आ॑ह॒ द्यावा॑पृथि॒व्योर् हि य॒ज्ञः

स्वाहो॒रोर् अ॒न्तरि॑क्षा॒द् इत्य् आ॑हा॒न्तरि॑क्षे॒ हि य॒ज्ञः स्वाहा॑ य॒ज्ञं वाता॒द् आर॑भ॒ इत्य् आ॑हा॒यम् ॥

वाव यः पव॑ते॒ स य॒ज्ञस् तम् ए॒व सा॒क्षाद् आ र॑भते

मु॒ष्टी क॑रोति॒ वाचं॑ यछति य॒ज्ञस्य॒ धृत्यै॒ \

अदी॑क्षिष्टा॒यम् ब्रा॑ह्म॒ण इति॒ त्रिर् उ॑पाँ॒श्व् आ॑ह दे॒वेभ्य॑ ए॒वैन॒म् प्राह॒ त्रिर् उ॒च्चैर् उ॒भये॑भ्य ए॒वैनं॑ देवमनु॒ष्येभ्यः॒ प्राह॒

न पु॒रा नक्ष॑त्रेभ्यो॒ वाचं॒ वि सृ॑जेत् \

यत् पु॒रा नक्ष॑त्रेभ्यो॒ वाचं॑ विसृ॒जेद् य॒ज्ञं वि छि॑न्द्यात् ॥

उदि॑तेषु॒ नक्ष॑त्रेषु व्र॒तं कृ॑णु॒तेति॒ वाचं॒ वि सृ॑जति य॒ज्ञव्र॑तो॒ वै दी॑क्षि॒तो य॒ज्ञम् ए॒वाभि वाचं॒ वि सृ॑जति॒

यदि॑ विसृ॒जेद् वै॑ष्ण॒वीम् ऋच॒म् अनु॑ ब्रूयाद् य॒ज्ञो वै विष्णु॑र् य॒ज्ञेनै॒व य॒ज्ञँ सं त॑नोति॒

दैवीं॒ धिय॑म् मनामह॒ इत्य् आ॑ह य॒ज्ञम् ए॒व तन् म्र॑दयति

सुपा॒रा नो॑ अस॒द् वश॒ इत्य् आ॑ह॒ व्यु॑ष्टिम् ए॒वाव॑ रुन्द्धे ॥

ब्र॒ह्म॒वा॒दिनो॑ वदन्ति

होत॒व्यं॑ दीक्षि॒तस्य॑ गृ॒हासि॒ न हो॑त॒व्या3म् इति॑

ह॒विर् वै दी॑क्षि॒तो यज् जु॑हु॒याद् यज॑मानस्याव॒दाय॑ जुहुया॒द् यन् न जु॑हु॒याद् य॑ज्ञप॒रुर् अ॒न्तर् इ॑या॒द् ये दे॒वा मनो॑जाता मनो॒युज॒ इत्य् आ॑ह

प्रा॒णा वै दे॒वा मनो॑जाता मनो॒युज॒स्

तेष्व् ए॒व प॒रोऽक्षं॑ जुहोति॒

तन् नेव॑ हु॒तं नेवाहु॑तम् \

स्व॒पन्तं॒ वै दी॑क्षि॒तँ रक्षाँ॑सि जिघाँसन्त्य् अ॒ग्निः ॥

खलु॒ वै र॑क्षो॒हाग्ने॒ त्वँ सु जा॑गृहि व॒यँ सु म॑न्दिषीम॒हीत्य् आ॑हा॒ग्निम् ए॒वाधि॒पां कृ॒त्वा स्व॑पिति॒

रक्ष॑सा॒म् अप॑हत्यै \

अव्र॒त्यम् इ॑व॒ वा ए॒ष क॑रोति॒ यो दी॑क्षि॒तः स्वपि॑ति॒ त्वम् अ॑ग्ने व्रत॒पा अ॒सीत्य् आ॑हा॒ग्निर् वै दे॒वानां॑ व्र॒तप॑तिः॒ स ए॒वैनं॑ व्र॒तम् आल॑म्भयति

दे॒व आ मर्त्ये॒ष्व् एत्य् आ॑ह

दे॒वः ॥

ह्य् ए॑ष सन् मर्त्ये॑षु॒

त्वं य॒ज्ञेष्व् ईड्य॒ इत्य् आ॑है॒तँ हि यज्ञे॒ष्व् ईड॑ते॒ \

अप॒ वै दी॑क्षि॒तात् सु॑षु॒पुष॑ इन्द्रि॒यं दे॒वताः॑ क्रामन्ति॒

विश्वे॑ दे॒वा अ॒भि माम् आव॑वृत्र॒न्न् इत्य् आ॑ह \

इन्द्रि॒येणै॒वैनं॑ दे॒वता॑भिः॒ सं न॑यति॒

यद् ए॒तद् यजु॒र् न ब्रू॒याद् याव॑त ए॒व प॒शून् अ॒भि दीक्षे॑त॒ ताव॑न्तोऽस्य प॒शवः॑ स्यू॒ रास्वेय॑त् ॥

सो॒मा भूयो॑ भ॒रेत्य् आ॒हाप॑रिमितान् ए॒व प॒शून् अव॑ रुन्द्धे

च॒न्द्रम् अ॑सि॒ मम॒ भोगा॑य भ॒वेत्य् आ॑ह

यथादेव॒तम् ए॒वैनाः॒ प्रति॑ गृह्णाति

वा॒यवे॑ त्वा॒ वरु॑णाय॒ त्वेति॒ यद् ए॒वम् ए॒ता नानु॑दि॒शेद् अय॑था देवतं॒ दक्षि॑णा गमये॒द् आ दे॒वता॑भ्यो वृश्च्येत॒

यद् ए॒वम् ए॒ता अ॑नुदि॒शति॑ यथादेव॒तम् ए॒व दक्षि॑णा गमयति॒ न दे॒वता॑भ्य॒ आ वृ॑श्च्यते

देवी॑र् आपो अपां नपा॒द् इत्य् आ॑ह॒

यद् वो॒ मेध्यं॑ य॒ज्ञियँ॒ सदे॑वं॒ तद् वो॒ माव॑ क्रमिष॒म् इति॒ वावैतद् आ॑ह॒ \

अछि॑न्नं॒ तन्तु॑म् पृथि॒व्या अनु॑ गेष॒म् इत्य् आ॑ह॒ सेतु॑म् ए॒व कृ॒त्वात्य् ए॑ति ॥

दे॒वा वै दे॑व॒यज॑नम् अध्यव॒साय॒ दिशो॒ न प्राजा॑न॒न् ते॑ऽन्यो॑ऽन्यम् उपा॑धावन्

त्वया॒ प्र जा॑नाम॒ त्वयेति॒ तेदि॑त्याँ॒ सम् अ॑ध्रियन्त॒

त्वया॒ प्र जा॑ना॒मेति॒ साब्र॑वी॒द् वरं॑ वृणै॒ मत्प्रा॑यणा ए॒व वो॑ य॒ज्ञा मदु॑दयना अस॒न्न् इति॒

तस्मा॑द् आदि॒त्यः प्रा॑य॒णीयो॑ य॒ज्ञाना॑म् आदि॒त्य उ॑दय॒नीयः॒

पञ्च॑ दे॒वता॑ यजति॒ पञ्च॒ दिशो॑ दि॒शाम् प्रज्ञा॑त्यै ॥

अथो॒ पञ्चा॑क्षरा प॒ङ्क्तिः पाङ्क्तो॑ य॒ज्ञो य॒ज्ञम् ए॒वाव॑ रुन्द्धे॒

पथ्याँ॑ स्व॒स्तिम् अ॑यज॒न् प्राची॑म् ए॒व तया॒ दिश॒म् प्राजा॑नन्न् अ॒ग्निना॑ दक्षि॒णा सोमे॑न प्र॒तीचीँ॑ सवि॒त्रोदी॑ची॒म् अदि॑त्यो॒र्ध्वाम्

पथ्याँ॑ स्व॒स्तिं य॑जति॒ प्राची॑म् ए॒व तया॒ दिश॒म् प्र जा॑नाति॒

पथ्याँ॑ स्व॒स्तिम् इ॒ष्ट्वाग्नीषोमौ॑ यजति॒ चक्षु॑षी॒ वा ए॒ते य॒ज्ञस्य॒ यद् अ॒ग्नीषोमौ॒ ताभ्या॑म् ए॒वानु॑ पश्यति ॥

अ॒ग्नीषोमा॑व् इ॒ष्ट्वा स॑वि॒तारं॑ यजति सवितृप्रसू॒त ए॒वानु॑ पश्यति

सवि॒तार॑म् इ॒ष्ट्वादि॑तिं यजती॒यं वा अदि॑तिर् अ॒स्याम् ए॒व प्र॑ति॒ष्ठायानु॑ पश्यति॒ \

अदि॑तिम् इ॒ष्ट्वा मा॑रु॒तीम् ऋच॑म् अ॒न्वाह॑ वि॒शां कॢप्त्यै॑

ब्रह्मवा॒दिनो॑ वदन्ति

प्रया॒जव॑द् अननूया॒जम् प्रा॑य॒णीयं॑ का॒र्य॑म् अनूया॒जव॑त् ॥

अ॒प्र॒या॒जम् उ॑दय॒नीय॒म् इति॑ \

इ॒मे वै प्र॑या॒जा अ॒मी अ॑नूया॒जाः सैव सा य॒ज्ञस्य॒ संत॑ति॒स्

तत् तथा॒ न का॒र्य॑म् आ॒त्मा वै प्र॑या॒जाः प्र॒जानू॑या॒जा यत् प्र॑या॒जान् अ॑न्तरि॒याद् आ॒त्मान॑म् अ॒न्तर् इ॑या॒द् यद् अ॑नूया॒जान् अ॑न्तरि॒यात् प्र॒जाम् अ॒न्तर् इ॑या॒द् यतः॒ खलु॒ वै य॒ज्ञस्य॒ वित॑तस्य॒ न क्रि॒यते॒ तद् अनु॑ य॒ज्ञः परा॑ भवति

य॒ज्ञम् प॑रा॒भव॑न्तं॒ यज॑मा॒नोऽनु॑ ॥

परा॑ भवति

प्रया॒जव॑द् ए॒वानू॑या॒जव॑त् प्राय॒णीयं॑ का॒र्य॑म् प्रया॒जव॑द् अनूया॒जव॑द् उदय॒नीयं॒ नात्मान॑म् अन्त॒रेति॒ न प्र॒जां न य॒ज्ञः प॑रा॒भव॑ति॒ न यज॑मानः

प्रा॒य॒णीय॑स्य निष्का॒स उ॑दय॒नीय॑म् अ॒भि निर् व॑पति॒ सैव सा य॒ज्ञस्य॒ संत॑तिस् \

याः प्रा॑य॒णीय॑स्य या॒ज्या॑ यत् ता उ॑दय॒नीय॑स्य या॒ज्याः॑ कु॒र्यात् परा॑ङ् अ॒मुं लो॒कम् आ रो॑हेत् प्र॒मायु॑कः स्यात् \

याः प्रा॑य॒णीय॑स्य पुरोऽनुवा॒क्या॑स् ता उ॑दय॒नीय॑स्य या॒ज्याः॑ करोत्य् अ॒स्मिन्न् ए॒व लो॒के प्रति॑ तिष्ठति ॥

क॒द्रूश् च॒ वै सु॑प॒र्णी चा॑त्मरू॒पयो॑र् अस्पर्धेताम् \

सा क॒द्रूः सु॑प॒र्णीम् अ॑जयत्

साब्र॑वीत्

तृ॒तीय॑स्याम् इ॒तो दि॒वि सोम॒स् तम् आ ह॑र॒ तेना॒त्मानं॒ निष्क्री॑णी॒ष्वेति॑ \

इ॒यं वै क॒द्रूर् अ॒सौ सु॑प॒र्णी

छन्दाँ॑सि सौपर्णे॒याः

साब्र॑वीत् \

अ॒स्मै वै पि॒तरौ॑ पु॒त्रान् बि॑भृतस् तृ॒तीय॑स्याम् इ॒तो दि॒वि सोम॒स् तम् आ ह॑र॒ तेना॒त्मानं॒ निष् क्री॑णीष्व ॥

इति॑ मा क॒द्रूर् अ॑वोच॒द् इति॒

जग॒त्य् उद् अ॑पत॒च् चतु॑र्दशाक्षरा स॒ती

साप्रा॑प्य॒ न्य् अ॑वर्तत॒

तस्यै॒ द्वे अ॒क्षरे॑ अमीयेताम् \

सा प॒शुभि॑श् च दी॒क्षया॒ चाग॑छ॒त्

तस्मा॒ज् जग॑ती॒ छन्द॑साम् पश॒व्य॑तमा॒

तस्मा॑त् पशु॒मन्तं॑ दी॒क्षोप॑ नमति

त्रि॒ष्टुग् उद् अ॑पत॒त् त्रयो॑दशाक्षरा स॒ती

साप्रा॑प्य॒ न्य् अ॑वर्तत॒

तस्यै॒ द्वे अ॒क्षरे॑ अमीयेताम् \

सा दक्षि॑णाभिश् च ॥

तप॑सा॒ चाग॑छ॒त्

तस्मा॑त् त्रि॒ष्टुभो॑ लो॒के माध्यं॑दिने॒ सव॑ने॒ दक्षि॑णा नीयन्ते \

ए॒तत् खलु॒ वाव तप॒ इत्य् आ॑हु॒र् यः स्वं ददा॒तीति॑

गाय॒त्र्य् उद् अ॑पत॒च् चतु॑रक्षरा स॒त्य् अ॑जया॒ ज्योति॑षा॒

तम् अ॑स्या अ॒जाभ्य् अ॑रुन्द्ध॒

तद् अ॒जाया॑ अज॒त्वम् \

सा सोमं॒ चाह॑रच् च॒त्वारि॑ चा॒क्षरा॑णि

साष्टाक्ष॑रा॒ सम् अ॑पद्यत

ब्रह्मवा॒दिनो॑ वदन्ति ॥

कस्मा॑त् स॒त्याद् {F गा॑य॒त्री} {W गा॑यत्री} {ग्लोस् गा॒य॒त्री} कनि॑ष्ठा॒ छन्द॑साँ स॒ती य॑ज्ञमु॒खम् परी॑या॒येति॒

यद् ए॒वादः॒ सोम॒म् आह॑र॒त् तस्मा॑द् यज्ञमु॒खम् पर्य् ऐ॒त्

तस्मा॑त् तेज॒स्विनी॑तमा

प॒द्भ्यां द्वे सव॑ने स॒मगृ॑ह्णा॒न् मुखे॒नैक॑म् \

यम् मुखे॑न स॒मगृ॑ह्णा॒त् तद् अ॑धय॒त्

तस्मा॒द् द्वे सव॑ने शु॒क्रव॑ती प्रातःसव॒नं च॒ माध्यं॑दिनं च॒

तस्मा॑त् तृतीयसव॒न ऋ॑जी॒षम् अ॒भि षु॑ण्वन्ति

धी॒तम् इ॑व॒ हि मन्य॑न्ते ॥

आ॒शिर॒म् अव॑ नयति सशुक्र॒त्वायाथो॒ सम् भ॑रत्य् ए॒वैन॒त्

तँ सोम॑म् आह्रि॒यमा॑णं गन्ध॒र्वो वि॒श्वाव॑सुः॒ पर्य् अ॑मुष्णा॒त्

स ति॒स्रो रात्रीः॒ परि॑मुषितोऽवस॒त्

तस्मा॑त् ति॒स्रो रात्रीः॑ क्री॒तः सोमो॑ वसति॒

ते दे॒वा अ॑ब्रुवन् \

स्त्रीका॑मा॒ वै ग॑न्ध॒र्वा स्त्रि॒या निष् क्री॑णा॒मेति॒

ते वाचँ॒ स्त्रिय॒म् एक॑हायनीं कृ॒त्वा तया॒ निर् अ॑क्रीणन् \

सा रो॒हिद् रू॒पं कृ॒त्वा ग॑न्ध॒र्वेभ्यः॑ ॥

अ॒प॒क्रम्या॑तिष्ठ॒त्

तद् रो॒हितो॒ जन्म॒

ते दे॒वा अ॑ब्रुवन् \

अप॑ यु॒ष्मद् अक्र॑मी॒न् नास्मान् उ॒पाव॑र्तते॒ वि ह्व॑यामहा॒ इति॒

ब्रह्म॑ गन्ध॒र्वा अव॑द॒न्न् अगा॑यन् दे॒वाः

सा दे॒वान् गाय॑त उ॒पाव॑र्तत॒

तस्मा॒द् गाय॑न्तँ॒ स्त्रियः॑ कामयन्ते

कामु॑का एनँ॒ स्त्रियो॑ भवन्ति॒ य ए॒वं वेदाथो॒ य ए॒वं वि॒द्वान् अपि॒ जन्ये॑षु॒ भव॑ति॒ तेभ्य॑ ए॒व द॑दत्य् उ॒त यद् ब॒हुत॑याः ॥

भव॑न्ति॒ \

एक॑हायन्या क्रीणाति

वा॒चैवैनँ॒ सर्व॑या क्रीणाति॒

तस्मा॒द् एक॑हायना मनु॒ष्या॑ वाचं॑ वदन्ति॒ \

अकू॑ट॒याक॑र्ण॒याक॑ण॒याश्लो॑ण॒यास॑प्तशफया क्रीणाति॒

सर्व॑यै॒वैनं॑ क्रीणाति॒

यच् छ्वे॒तया॑ क्रीणी॒याद् दु॒श्चर्मा॒ यज॑मानः स्यात् \

यत् कृ॒ष्णया॑नु॒स्तर॑णी स्यात्

प्र॒मायु॑को॒ यज॑मानः स्यात् \

यद् द्वि॑रू॒पया॒ वात्र॑घ्नी स्या॒त्

स वा॒न्यं जि॑नी॒यात् तं वा॒न्यो जि॑नीयात् \

अ॒रु॒णया॑ पिङ्गा॒क्ष्या क्री॑णाति \

ए॒तद् वै सोम॑स्य रू॒पम् \

स्वयै॒वैनं॑ दे॒वत॑या क्रीणाति ॥

तद् धिर॑ण्यम् अभव॒त्

तस्मा॑द् अ॒द्भ्यो हिर॑ण्यम् पुनन्ति

ब्रह्मवा॒दिनो॑ वदन्ति॒

कस्मा॑त् स॒त्याद् अ॑न॒स्थिके॑न प्र॒जाः प्र॒वीय॑न्तेऽस्थ॒न्वती॑र् जायन्त॒ इति॒

यद् धिर॑ण्यं घृ॒ते॑ऽव॒धाय॑ जु॒होति॒ तस्मा॑द् अन॒स्थिके॑न प्र॒जाः प्र वी॑यन्तेऽस्थ॒न्वती॑र् जायन्ते \

ए॒तद् वा अ॒ग्नेः प्रि॒यं धाम॒ यद् घृ॒तं तेजो॒ हिर॑ण्यम्

इ॒यं ते॑ शुक्र त॒नूर् इ॒दं वर्च॒ इत्य् आ॑ह॒

सते॑जसम् ए॒वैनँ॒ सत॑नुम् ॥

क॒रो॒ति॒ \

अथो॒ सम् भ॑रत्य् ए॒वैन॑म् \

यद् अब॑द्धम् अवद॒ध्याद् गर्भाः॑ प्र॒जाना॑म् परा॒पातु॑काः स्युस् \

ब॒द्धम् अव॑ दधाति॒ गर्भा॑णां॒ धृत्यै॑

निष्ट॒र्क्य॑म् बध्नाति

प्र॒जाना॑म् प्र॒जन॑नाय

वाग् वा ए॒षा यत् सो॑म॒क्रय॑णी

जूर् अ॒सीत्य् आ॑ह॒

यद् धि मन॑सा॒ जव॑ते॒ तद् वा॒चा वद॑ति

धृ॒ता मन॒सेत्य् आ॑ह॒

मन॑सा॒ हि वाग् धृ॒ता

जुष्टा॒ विष्ण॑व॒ इत्य् आ॑ह ॥

य॒ज्ञो वै विष्णु॑स् \

य॒ज्ञायै॒वैनां॒ जुष्टां॑ करोति॒

तस्या॑स् ते स॒त्यस॑वसः प्रस॒व इत्य् आ॑ह

सवि॒तृप्र॑सूताम् ए॒व वाच॒म् अव॑ रुन्द्धे

काण्डे॑काण्डे॒ वै क्रि॒यमा॑णे य॒ज्ञँ रक्षाँ॑सि जिघाँसन्ति \

ए॒ष खलु॒ वा अर॑क्षोहतः॒ पन्था॒ यो॑ऽग्नेश् च॒ सूर्य॑स्य च

सूर्य॑स्य॒ चक्षु॒र् आरु॑हम् अ॒ग्नेर् अ॒क्ष्णः क॒नीनि॑का॒म् इत्य् आ॑ह॒

य ए॒वार॑क्षोहतः॒ पन्था॒स् तँ स॒मारो॑हति

वाग् वा ए॒षा यत् सो॑म॒क्रय॑णी॒

चिद् अ॑सि म॒नासीत्य् आ॑ह

शास्त्य् ए॒वैना॑म् ए॒तत्

तस्मा॑च् छि॒ष्टाः प्र॒जा जा॑यन्ते॒

चिद् अ॒सीत्य् आ॑ह॒

यद् धि मन॑सा चे॒तय॑ते॒ तद् वा॒चा वद॑ति

म॒नासीत्य् आ॑ह॒

यद् धि मन॑साभि॒गछ॑ति॒ तत् क॒रोति॑

धीर् अ॒सीत्य् आ॑ह॒

यद् धि मन॑सा॒ ध्याय॑ति॒ तद् वा॒चा ॥

वद॑ति॒

दक्षि॑णा॒सीत्य् आ॑ह॒

दक्षि॑णा॒ ह्य् ए॑षा

य॒ज्ञिया॒सीत्य् आ॑ह

य॒ज्ञिया॑म् ए॒वैनां॑ करोति

क्ष॒त्रिया॒सीत्य् आ॑ह

क्ष॒त्रिया॒ ह्य् ए॑षा \

अदि॑तिर् अस्य् उभ॒यतः॑शी॒र्ष्णीत्य् आ॑ह॒

यद् ए॒वादि॒त्यः प्रा॑य॒णीयो॑ य॒ज्ञाना॑म् आदि॒त्य उ॑दय॒नीय॒स् तस्मा॑द् ए॒वम् आ॑ह॒

यद् अब॑द्धा॒ स्याद् अय॑ता स्यात् \

यत् प॑दिब॒द्धानु॒स्तर॑णी स्यात्

प्र॒मायु॑को॒ यज॑मानः स्यात् ॥

यत् क॑र्णगृही॒ता वार्त्र॑घ्नी स्या॒त्

स वा॒न्यं जि॑नी॒यात् तं वा॒न्यो जि॑नीयात् \

मि॒त्रस् त्वा॑ प॒दि ब॑ध्ना॒त्व् इत्य् आ॑ह

मि॒त्रो वै शि॒वो दे॒वाना॑म् \

तेनै॒वैना॑म् प॒दि ब॑ध्नाति

पू॒षाध्व॑नः पा॒त्व् इत्य् आ॑ह \

इ॒यं वै पू॒षा \

इ॒माम् ए॒वास्या॑ अधि॒पाम् अ॑कर् \

सम॑ष्ट्यै॒ \

इन्द्रा॒याध्य॑क्षा॒येत्य् आ॑ह॒ \

इन्द्र॑म् ए॒वास्या॒ अध्य॑क्षं करोति ॥

अनु॑ त्वा मा॒ता म॑न्यता॒म् अनु॑ पि॒तेत्य् आ॑ह॒ \

अनु॑मतयै॒वैन॑या क्रीणाति

सा दे॑वि दे॒वम् अछे॒हीत्य् आ॑ह

दे॒वी ह्य् ए॑षा दे॒वः सोम॑स् \

इन्द्रा॑य॒ सोम॒म् इत्य् आ॑ह॒ \

इन्द्रा॑य॒ हि सोम॑ आह्रि॒यते॒

यद् ए॒तद् यजु॒र् न ब्रू॒यात् परा॑च्य् ए॒व सो॑म॒क्रय॑णीयात् \

रु॒द्रस् त्वा व॑र्तय॒त्व् इत्य् आ॑ह

रु॒द्रो वै क्रू॒रः ॥

दे॒वाना॑म् \

तम् ए॒वास्यै॑ प॒रस्ता॑द् दधा॒त्य् आवृ॑त्त्यै

क्रू॒रम् इ॑व॒ वा ए॒तत् क॑रोति॒ यद् रु॒द्रस्य॑ की॒र्तय॑ति

मि॒त्रस्य॑ प॒थेत्य् आ॑ह

शान्त्यै॑

वा॒चा वा ए॒ष वि क्री॑णीते॒ यः सो॑म॒क्रय॑ण्या

स्व॒स्ति सोम॑सखा॒ पुन॒र् एहि॑ स॒ह र॒य्येत्य् आ॑ह

वाचै॒व वि॒क्रीय॒ पुन॑र् आ॒त्मन् वाचं॑ धत्ते॒ \

अनु॑पदासुकास्य॒ वाग् भ॑वति॒ य ए॒वं वेद॑ ॥

षट् प॒दान्य् अनु॒ नि क्रा॑मति

षड॒हं वाङ् नाति॑ वदति \

उ॒त सं॑वत्स॒रस्याय॑ने॒ याव॑त्य् ए॒व वाक् ताम् अव॑ रुन्द्धे

सप्त॒मे प॒दे जु॑होति

स॒प्तप॑दा॒ शक्व॑री

प॒शवः॑ शक्वरी

प॒शून् ए॒वाव॑ रुन्द्धे

स॒प्त ग्रा॒म्याः प॒शवः॑ स॒प्तार॒ण्याः स॒प्त छन्दाँ॑सि \

उ॒भय॒स्याव॑रुद्ध्यै॒

वस्व्य् अ॑सि रु॒द्रासीत्य् आ॑ह

रू॒पम् ए॒वास्या॑ ए॒तन् म॑हि॒मान॑म् ॥

व्याच॑ष्टे

बृह॒स्पति॑स् त्वा सु॒म्ने र॑ण्व॒त्व् इत्य् आ॑ह॒

ब्रह्म॒ वै दे॒वाना॒म् बृह॒स्पति॑स् \

ब्रह्म॑णै॒वास्मै॑ प॒शून् अव॑ रुन्द्धे

रु॒द्रो वसु॑भि॒र् आ चि॑के॒त्व् इत्य् आ॑ह \

आवृ॑त्त्यै

पृथि॒व्यास् त्वा॑ मू॒र्धन्न् आ जि॑घर्मि देव॒यज॑न॒ इत्य् आ॑ह

पृथि॒व्या ह्य् ए॑ष मू॒र्धा यद् दे॑व॒यज॑न॒म्

इडा॑याः प॒द इत्य् आ॑ह॒ \

इडा॑यै॒ ह्य् ए॑तत् प॒दं यत् सो॑म॒क्रय॑ण्यै

घृ॒तव॑ति॒ स्वाहा॑ ॥

इत्य् आ॑ह॒

यद् ए॒वास्यै॑ प॒दाद् घृ॒तम् अपी॑ड्यत॒ तस्मा॑द् ए॒वम् आ॑ह॒

यद् अ॑ध्व॒र्युर् अ॑न॒ग्नाव् आहु॑तिं जुहु॒याद् अ॒न्धो॑ऽध्व॒र्युः भ॑वति॒ न य॒ज्ञँ रक्षाँ॑सि घ्नन्ति

काण्डे॑काण्डे॒ वै क्रि॒यमा॑णे य॒ज्ञँ रक्षाँ॑सि जिघाँसन्ति॒

परि॑लिखितँ॒ रक्षः॒ परि॑लिखिता॒ अरा॑तय॒ इत्य् आ॑ह॒

रक्ष॑सा॒म् अप॑हत्यै ॥

इ॒दम् अ॒हँ रक्ष॑सो ग्री॒वा अपि॑ कृन्तामि॒ यो॑ऽस्मान् द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्म इत्य् आ॑ह॒

द्वौ वाव पुरु॑षौ॒ यं चै॒व द्वेष्टि॒ यश् चै॑नं॒ द्वेष्टि॒ तयो॑र् ए॒वान॑न्तरायं ग्री॒वाः कृ॑न्तति

प॒शवो॒ वै सो॑म॒क्रय॑ण्यै प॒दम् \

या॒व॒त्त्मू॒तँ सं व॑पति

प॒शून् ए॒वाव॑ रुन्द्धे \

अ॒स्मे राय॒ इति॒ सं व॑पति \

आ॒त्मान॑म् ए॒वाध्व॒र्युः ॥

प॒शुभ्यो॒ नान्तर् ए॑ति॒

त्वे राय॒ इति॒ यज॑मानाय॒ प्र य॑छति॒

यज॑मान ए॒व र॒यिं द॑धाति॒

तोते॒ राय॒ इति॒ पत्नि॑यास् \

अ॒र्धो वा ए॒ष आ॒त्मनो॒ यत् पत्नी॒

यथा॑ गृ॒हेषु॑ निध॒त्ते ता॒दृग् ए॒व तत्

त्वष्ती॑मती ते सपे॒येत्य् आ॑ह॒

त्वष्टा॒ वै प॑शू॒नाम् मि॑थु॒नानाँ॑ रूप॒कृत् \

रू॒पम् ए॒व प॒शुषु॑ दधाति \

अ॒स्मै वै लो॒काय॒ गार्ह॑पत्य॒ आ धी॑यते॒ऽमुष्मा॑ आहव॒नीय॑स् \

यद् गार्ह॑पत्य उप॒वपे॑द् अ॒स्मिँ लो॒के प॑शु॒मान्त् स्या॑त् \

यद् आ॑हव॒नीये॒ऽमुष्मिँ॑ लो॒के प॑शु॒मान्त् स्या॑त् \

उ॒भयो॒र् उप॑ वपति \

उ॒भयो॑र् ए॒वैनं॑ लो॒कयोः॑ पशु॒मन्तं॑ करोति ॥

ब्र॒ह्म॒वा॒दिनो॑ वदन्ति

वि॒चित्यः॒ सोमा3 न वि॒चित्या3 इति॒

सोमो॒ वा ओष॑धीनाँ॒ राजा॒

तस्मि॒न् यद् आप॑न्नं ग्रसि॒तम् ए॒वास्य॒ तत् \

यद् वि॑चिनु॒याद् यथा॑स्या॑द् ग्रसि॒तं नि॑ष्खि॒दति॑ ता॒दृग् ए॒व तत् \

यन् न वि॑चिनु॒याद् यथा॒क्षन्न् आप॑न्नं वि॒धाव॑ति ता॒दृग् ए॒व तत्

क्षोधु॑लोऽध्व॒र्युः स्यात् क्षो॑धुको॒ यज॑मानः॒

सोम॑विक्रयि॒न्त् सोमँ॑ शोध॒येत्य् ए॒व ब्रू॑यात् \

यदीत॑रम् ॥

यदीत॑रम् उ॒भये॑नै॒व सो॑मविक्र॒यिण॑म् अर्पयति॒

तस्मा॑त् सोमविक्र॒यी क्षो॑धुकस् \

अ॒रु॒णो ह॑ स्मा॒हौप॑वेशिः

सोम॒क्रय॑ण ए॒वाहं तृ॑तीयसव॒नम् अव॑ रुन्ध॒ इति॑

पशू॒नां चर्म॑न् मिमीते प॒शून् ए॒वाव॑ रुन्द्धे

प॒शवो॒ हि तृ॒तीयँ॒ सव॑नम् \

यं का॒मये॑त \

अप॒शुः स्या॒द् इत्य् ऋ॑क्ष॒तस् तस्य॑ मिमीत \

ऋ॒क्षं वा अ॑पश॒व्यम्

अ॑प॒शुर् ए॒व भ॑वति॒

यं का॒मये॑त

पशु॒मान्त् स्या॑त् ॥

इति॑ लोम्म॒तस् तस्य॑ मिमीत \

ए॒तद् वै प॑शू॒नाँ रू॒पम् \

रू॒पेणै॒वास्मै॑ प॒शून् अव॑ रुन्द्धे

पशु॒मान् ए॒व भ॑वति \

अ॒पाम् अन्ते॑ क्रीणाति॒

सर॑सम् ए॒वैनं॑ क्रीणाति \

अ॒मात्यो॒ऽसीत्य् आ॑ह \

अ॒मैवैनं॑ कुरुते

शु॒क्रस् ते॒ ग्रह॒ इत्य् आ॑ह

शु॒क्रो ह्य् अ॑स्य॒ ग्रह॑स् \

अन॒साछ॑ याति

महि॒मान॑म् ए॒वास्याछ॑ याति॒ \

अन॑सा ॥

अछ॑ याति॒

तस्मा॑द् अनोवा॒ह्यँ॑ स॒मे जीव॑नम् \

यत्र॒ खलु॒ वा ए॒तँ शी॒र्ष्णा हर॑न्ति॒

तस्मा॑च् छीर्षहा॒र्यं॑ गि॒रौ जीव॑नम्

अ॒भि त्यं दे॒वँ स॑वि॒तार॒म् इत्य् अति॑छन्दस॒र्चा मि॑मीते॒ \

अति॑छन्दा॒ वै सर्वा॑णि॒ छन्दाँ॑सि॒

सर्वे॑भिर् ए॒वैनं॒ छन्दो॑भिर् मिमीते॒

वर्ष्म॒ वा ए॒षा छन्द॑सां॒ यद् अति॑छन्दास् \

यद् अति॑छन्दस॒र्चा मिमी॑ते॒ वर्ष्मै॒वैनँ॑ समा॒नानां॑ करोति॒ \

एक॑यैकयो॒त्सर्ग॑म् ॥

मि॒मी॒तेऽया॑तयाम्नियायातयाम्नियै॒वैन॑म् मिमीते॒

तस्मा॒न् नाना॑ {F वी॒र्या॑} {W वीर्या} अ॒ङ्गुल॑यः॒

सर्वा॑स्व् अङ्गु॒ष्ठम् उप॒ नि गृ॑ह्णाति॒

तस्मा॑त् स॒माव॑द्वीर्यो॒ऽन्याभि॑र् अ॒ङ्गुलि॑भि॒स्

तस्मा॒त् सर्वा॒ अनु॒ सं च॑रति॒

यत् स॒ह सर्वा॑भि॒र् मिमी॑त॒ सँश्लि॑ष्टा अ॒ङ्गुल॑यो जायेरन् \

एक॑यैकयो॒त्सर्ग॑म् मिमीते॒

तस्मा॒द् विभ॑क्ता जायन्ते॒

पञ्च॒ कृत्वो॒ यजु॑षा मिमीते॒

पञ्चा॑क्षरा प॒ङ्क्तिः

पाङ्क्तो॑ य॒ज्ञस् \

य॒ज्ञम् ए॒वाव॑ रुन्द्धे॒

पञ्च॒ कृत्व॑स् तू॒ष्णीम् ॥

दश॒ सम् प॑द्यन्ते॒

दशा॑क्षरा { वि॒राड् ^ वि॒राज् }

अन्नं॑ { वि॒राड् ^ वि॒राज् }

वि॒राजै॒वान्नाद्य॒म् अव॑ रुन्द्धे॒

यद् यजु॑षा॒ मिमी॑ते भू॒तम् ए॒वाव॑ रुन्द्धे॒

यत् तू॒ष्णीम् भ॑विष्य॒त्

यद् वै तावा॑न् ए॒व सोमः॒ स्याद् याव॑न्त॒म् मिमी॑ते॒ यज॑मानस्यै॒व स्या॒न् नापि॑ सद॒स्या॑नाम्

प्र॒जाभ्य॒स् त्वेत्य् उप॒ सम् ऊ॑हति

सद॒स्या॑न् ए॒वान्वाभ॑जति

वास॒सोप॑ नह्यति

सर्वदेव॒त्यं॑ वै ॥

वासः॒

सर्वा॑भिर् ए॒वैनं॑ दे॒वता॑भिः॒ सम् अ॑र्धयति

प॒शवो॒ वै सोमः॑

प्रा॒णाय॒ त्वेत्य् उप॑ नह्यति

प्रा॒णम् ए॒व प॒शुषु॑ दधाति

व्या॒नाय॒ त्वेत्य् अनु॑ शृन्थति

व्या॒नम् ए॒व प॒शुषु॑ दधाति॒

तस्मा॑त् स्व॒पन्त॑म् प्रा॒णा न ज॑हति ॥

यत् क॒लया॑ ते श॒फेन॑ ते क्रीणा॒नीति॒ पणे॒तागोअ॑र्घँ॒ सोमं॑ कु॒र्याद् अगोअ॑र्घं॒ यज॑मान॒म् अगोअ॑र्घम् अध्व॒र्युम् \

गोस् तु म॑हि॒मानं॒ नाव॑ तिरेत् \

गवा॑ ते क्रीणा॒नीत्य् ए॒व ब्रू॑यात् \

गोअ॒र्घम् ए॒व सोमं॑ क॒रोति॑ गोअ॒र्घं यज॑मानं गोअ॒र्घम् अ॑ध्व॒र्युम् \

न गोर् म॑हि॒मान॒म् अव॑ तिरति \

अ॒जया॑ क्रीणाति॒

सत॑पसम् ए॒वैनं॑ क्रीणाति॒

हिर॑ण्येन क्रीणाति॒

सशु॑क्रम् ए॒व ॥

ए॒नं॒ क्री॒णा॒ति॒

धे॒न्वा क्री॑णाति

साशि॑रम् ए॒वैनं॑ क्रीणाति \

ऋष॒भेण॑ क्रीणाति॒

सेन्द्र॑म् ए॒वैनं॑ क्रीणाति \

अन॒डुहा॑ क्रीणाति॒

वह्नि॒र् वा अ॑न॒ड्वान्

वह्नि॑नै॒व वह्नि॑ य॒ज्ञस्य॑ क्रीणाति

मिथु॒नाभ्यां॑ क्रीणाति

मिथु॒नस्याव॑रुद्ध्यै

वास॑सा क्रीणाति

सर्वदेव॒त्यं॑ वै वासः॒ सर्वा॑भ्य ए॒वैनं॑ दे॒वता॑भ्यः क्रीणाति॒

दश॒ सम् प॑द्यन्ते॒

दशा॑क्षरा वि॒राड् अन्नं॑ वि॒राड् वि॒राजै॒वान्नाद्य॒म् अव॑ रुन्द्धे ॥

तप॑सस् त॒नूर् अ॑सि प्र॒जाप॑ते॒र् वर्ण॒ इत्य् आ॑ह

प॒शुभ्य॑ ए॒व तद् अ॑ध्व॒र्युर् नि ह्नु॑त आ॒त्मनोऽना॑व्रस्काय॒ गछ॑ति॒ श्रिय॒म् प्र प॒शून् आ॑प्नोति॒ य ए॒वं वेद॑

शु॒क्रं ते॑ शु॒क्रेण॑ क्रीणा॒मीत्य् आ॑ह यथाय॒जुर् ए॒वैतत् \

दे॒वा वै येन॒ हिर॑ण्येन॒ सोम॒म् अक्री॑ण॒न् तत् अ॑भी॒षहा॒ पुन॒र् आद॑दत॒ को हि तेज॑सा विक्रे॒ष्यत॒ इति॒

येन॒ हिर॑ण्येन ॥

सोमं॑ क्रीणी॒यात् तद् अ॑भी॒षहा॒ पुन॒र् आ द॑दीत॒ तेज॑ ए॒वात्मन् ध॑त्ते \

अ॒स्मे ज्योतिः॑ सोमविक्र॒यिणि॒ तम॒ इत्य् आ॑ह॒

ज्योति॑र् ए॒व यज॑माने दधाति॒

तम॑सा॒ सोम॑विक्र॒यिण॑म् अर्पयति॒

यद् अनु॑पग्रथ्य ह॒न्याद् द॑न्द॒शूका॒स् ताँ समाँ॑ स॒र्पाः स्यु॑स् \

इ॒दम् अ॒हँ स॒र्पाणां॑ दन्द॒शूका॑नां ग्री॒वा उप॑ ग्रथ्ना॒मीत्य् आ॒हाद॑न्दशूका॒स् ताँ समाँ॑ स॒र्पा भ॑वन्ति॒ तम॑सा सोमविक्र॒यिणं॑ विध्यति

स्वान॑ ॥

भ्राजेत्य् आ॑है॒ते वा अ॒मुष्मिँ॑ लो॒के सोम॑म् अरक्ष॒न् तेभ्योऽधि॒ सोम॒म् आह॑र॒न्

यद् ए॒तेभ्यः॑ सोम॒क्रय॑णा॒न् नानु॑दि॒शेद् अक्री॑तोऽस्य॒ सोमः॑ स्या॒न् नास्यै॒ते॑ऽमुष्मिँ॑ लो॒के सोमँ॑ रक्षेयुस् \

यद् ए॒तेभ्यः॑ सोम॒क्रय॑णान् अनुदि॒शति॑ क्री॒तो॑ऽस्य॒ सोमो॑ भवत्य् ए॒ते॑ऽस्या॒मुष्मिँ॑ लो॒के सोमँ॑ रक्षन्ति ॥

वा॒रु॒णो वै क्री॒तः सोम॒ उप॑नद्धस् \

मि॒त्रो न॒ एहि॒ सुमि॑त्रधा॒ इत्य् आ॑ह

शान्त्यै॒ \

इन्द्र॑यो॒रुम् आ वि॑श॒ दक्षि॑ण॒म् इत्य् आ॑ह

दे॒वा वै यँ सोम॒म् अक्री॑ण॒न् तम् इन्द्र॑योरौ॒ दक्षि॑ण॒ आसा॑दयन् \

ए॒ष खलु॒ वा ए॒तर्हीन्द्रो॒ यो यज॑ते॒

तस्मा॑द् ए॒वम् अह॒ \

उद् आयु॑षा स्वा॒युषेत्य् आ॑ह

दे॒वता॑ ए॒वान्वा॒रभ्योत् ॥

ति॒ष्ठ॒ति॒ \

उ॒र्व् अ॑न्तरि॑क्ष॒म् अन्व् इ॒हीत्य् आ॑ह \

अन्तरिक्षदेव॒त्यो॑ ह्य् ए॑तर्हि॒ सोम॑स् \

अदि॑त्याः॒ सदो॒ऽस्य् अदि॑त्याः॒ सद॒ आ सी॒देत्य् आ॑ह

यथाय॒जुर् ए॒वैत॑त् \

वि वा ए॑नम् ए॒तद् अ॑र्धयति॒ यद् वा॑रु॒णँ सन्त॑म् मै॒त्रं क॒रोति॑

वारु॒ण्यर्चा सा॑दयति॒स्वयै॒वैनं॑ दे॒वत॑या॒ सम् अ॑र्धयति

वास॑सा प॒र्यान॑ह्यति

सर्वदेव॒त्यं॑ वै वासः॒

सर्वा॑भिर् ए॒व ॥

ए॒नं॒ दे॒वता॑भिः॒ सम् अ॑र्धयति॒ \

अथो॒ रक्ष॑सा॒म् अप॑हत्यै॒

वने॑षु॒ व्य् अ॑न्तरि॑क्षं तता॒नेत्य् आ॑ह॒

वने॑षु॒ हि व्य् अ॑न्तरि॑क्षं त॒तान्

वाज॒म् अर्व॒त्स्व् इत्य् आ॑ह

वाजँ॒ ह्य् अर्व॑त्सु॒

पयो॑ अघ्नि॒यास्व् इत्य् आ॑ह॒

पयो॒ ह्य् अ॑घ्नि॒यासु॑

हृ॒त्सु क्रतु॒म् इत्य् आ॑ह

हृ॒त्सु हि क्रतु॑म् \

वरु॑णो वि॒क्ष्व् अ॑ग्निम् इत्य् आ॑ह॒

वरु॑णो॒ हि वि॒क्ष्व् अ॑ग्निम् \

दि॒वि सूर्य॑म् ॥

इत्य् आ॑ह

दि॒वि हि सूर्य॑म् \

सोम॒म् अद्रा॒व् इत्य् आ॑ह

ग्रावा॑णो॒ वा अद्र॑य॒स्

तेषु॒ वा ए॒ष सोमं॑ दधाति॒ यो यज॑ते॒

तस्मा॑द् ए॒वम् आ॑ह॒ \

उद् उ॒ त्यं जा॒तवे॑दस॒म् इति॑ सौ॒र्यर्चा कृ॑ष्णाजि॒नम् प्र॒त्यान॑ह्यति॒

रक्ष॑सा॒म् अप॑हत्यै॒ \

उस्रा॒व् एतं॑ धूर्षाहा॒व् इत्य् आ॑ह

यथाय॒जुर् ए॒वैतत्

प्र च्य॑वस्व भुवस् पत॒ इत्य् आ॑ह

भू॒तानाँ॒ हि ॥

ए॒ष पति॑स् \

विश्वा॑न्य् अ॒भि धामा॒नीत्य् आ॑ह॒

विश्वा॑नि॒ ह्य् ए॑षोऽभि धामा॑नि प्र॒च्यव॑ते

मा त्वा॑ परिप॒री वि॑द॒द् इत्य् आ॑ह॒

यद् ए॒वादः सोमं॑ आह्रि॒यमा॑णं गन्ध॒र्वो वि॒श्वाव॑सुः प॒र्यमु॑ष्णा॒त् तस्मा॑द् ए॒वम् आ॑ह॒ \

अप॑रिमोषाय॒

यज॑मानस्य स्व॒स्त्यय॑न्य् अ॒सीत्य् आ॑ह॒

यज॑मानस्यै॒वैष य॒ज्ञस्या॑न्वार॒म्भस् \

अन॑वछित्त्यै॒

वरु॑णो॒ वा ए॒ष यज॑मानम् अ॒भ्य् ऐति॒ यत् ॥

क्री॒तः सोम॒ उप॑नद्धस् \

नमो॑ मि॒त्रस्य॒ वरु॑णस्य॒ चक्ष॒स् इत्य् आ॑ह

शान्त्यै॑ \

आ सोमं॑ वहन्ति \

अ॒ग्निना॒ प्रति॑ तिष्ठते॒

तौ स॒म्भव॑न्तौ॒ यज॑मानम् अ॒भि सम् भ॑वतः

पु॒रा खलु॒ वावैष मेधा॑या॒त्मान॑म् आ॒रभ्य॑ चरति॒ यो दी॑क्षि॒तस् \

यद् अ॑ग्नीषो॒मीय॑म् प॒शुम् आ॒लभ॑त आत्मनि॒ष्क्रय॑ण ए॒वास्य॒ { स ^ सस् }

तस्मा॒त् तस्य॒ नाश्य॑म्

पुरुषनि॒ष्क्रय॑ण इव॒ हि \

अथो॒ खल्व् आ॑हुस् \

अ॒ग्नीषोमा॑भ्यां॒ वा इन्द्रो॑ वृ॒त्रम् अ॑ह॒न्न् इति॒

यद् अ॑ग्नीषो॒मीय॑म् प॒शुम् आ॒लभ॑ते॒ वार्त्र॑घ्न ए॒वास्य॒ { स ^ सस् }

तस्मा॑द् व् आ॒श्य॑म् \

वा॒रु॒ण्यर्चा परि॑ चरति॒

स्वयै॒वैनं॑ दे॒वत॑या॒ परि॑ चरति ॥