यो वा अय॑थादेवतम् अ॒ग्निं चि॑नु॒त आ दे॒वता॑भ्यो वृश्च्यते॒ पापी॑यान् भवति॒

यो य॑थादेव॒तं न दे॒वता॑भ्य॒ आ वृ॑श्च्यते॒ वसी॑यान् भवति \

आग्ने॒य्या गा॑यत्रि॒या प्र॑थ॒मां चिति॑म् अ॒भि मृ॑शेत् त्रि॒ष्टुभा॑ द्वि॒तीयां॒ जग॑त्या तृ॒तीया॑म् अनु॒ष्टुभा॑ चतु॒र्थीम् प॒ङ्क्त्या प॑ञ्च॒मीम् \

य॒था॒दे॒व॒तम् ए॒वाग्निं चि॑नुते॒ न दे॒वता॑भ्य॒ आ वृ॑श्च्यते॒ वसी॑यान् भवति॒ \

इडा॑यै॒ वा ए॒षा विभ॑क्तिः

प॒शव॒ इडा॑

प॒शुभि॑र् एनम् ॥

चि॒नु॒ते॒

यो वै प्र॒जाप॑तये प्रति॒प्रोच्या॒ग्निं चि॒नोति॒ नार्ति॒म् आर्छ॑ति॒ \

अश्वा॑व् अ॒भित॑स् तिष्ठेतां कृ॒ष्ण उ॑त्तर॒तः श्वे॒तो दक्षि॑णस्

ताव् आ॒लभ्येष्ट॑का॒ उप॑ दध्यात् \

ए॒तद् वै प्र॒जाप॑ते रू॒पम्

प्रा॒जा॒प॒त्योऽश्वः॑

सा॒क्षाद् ए॒व प्र॒जाप॑तये प्रति॒प्रोच्या॒ग्निं चि॑नोति॒ नार्ति॒म् आर्छ॑ति \

ए॒तद् वा अह्नो॑ रू॒पं यच् छ्वे॒तोऽश्वो॒ रात्रि॑यै कृ॒ष्णस् \

ए॒तद् अह्नः॑ ॥

रू॒पं यद् इष्ट॑का॒ रात्रि॑यै॒ पुरी॑ष॒म्

इष्ट॑का उपधा॒स्यञ् छ्वे॒तम् अश्व॑म् अ॒भि मृ॑शे॒त् पुरी॑षम् उपधा॒स्यन् कृ॒ष्णम्

अ॑होरा॒त्राभ्या॑म् ए॒वैनं॑ चिनुते

हिरण्यपा॒त्रम् मधोः॑ पू॒र्णं द॑दाति

मध॒व्यो॑ऽसा॒नीति॑

सौ॒र्या चि॒त्रव॒त्यावे॑क्षते

चि॒त्रम् ए॒व भ॑वति म॒ध्यंदि॑ने॒ \

अश्व॒म् अव॑ घ्रापयति \

अ॒सौ वा आ॑दि॒त्य इन्द्र॑ ए॒ष प्र॒जाप॑तिः

प्रा॒जा॒प॒त्योऽश्व॒स्

तम् ए॒व सा॒क्षाद् ऋ॑ध्नोति ॥

त्वाम् अ॑ग्ने वृष॒भं चेकि॑तान॒म् पुन॒र् युवा॑नम् ज॒नय॑न्न् उ॒पागा॑म् । अ॒स्थू॒रि णो॒ गार्ह॑पत्यानि सन्तु ति॒ग्मेन॑ नो॒ ब्रह्म॑णा॒ सँ शि॑शाधि ॥

प॒शवो॒ वा ए॒ते यद् इष्ट॑का॒श् चित्यां॑चित्याम् ऋष॒भम् उप॑ दधाति मिथु॒नम् ए॒वास्य॒ तद् य॒ज्ञे क॑रोति प्र॒जन॑नाय॒ तस्मा॑द् यू॒थे-यू॑थ ऋष॒भः

सं॑वत्स॒रस्य॑ प्रति॒मां यां त्वा॑ रात्र्य् उ॒पास॑ते । प्र॒जाँ सु॒वीरां॑ कृ॒त्वा विश्व॒म् आयु॒र् व्य् अ॑श्नवत् ॥

प्रा॒जा॒प॒त्याम् ॥

ए॒ताम् उप॑ दधाती॒यं वावैषैका॑ष्ट॒का यद् ए॒वैका॑ष्ट॒काया॒म् अन्नं॑ क्रि॒यते॒ तद् ए॒वैतयाव॑ रुन्द्धे \

ए॒षा वै प्र॒जाप॑तेः काम॒दुघा॒ तयै॒व यज॑मानो॒ऽमुष्मिँ॑ लो॒के॑ऽग्निं दु॑हे॒

येन॑ दे॒वा ज्योति॑षो॒र्ध्वा उ॒दाय॒न् येना॑दि॒त्या वस॑वो॒ येन॑ रु॒द्राः । येनाङ्गि॑रसो महि॒मान॑म् आन॒शुस् तेनै॑तु॒ यज॑मानः स्व॒स्ति ॥

सु॒व॒र्गाय॒ वा ए॒ष लो॒काय॑ ॥

ची॒य॒ते॒ यद् अ॒ग्निस् \

येन॑ दे॒वा ज्योति॑षो॒र्ध्वा उ॒दाय॒न्न् इत्य् उख्यँ॒ सम् इ॑न्द्ध॒ इष्ट॑का ए॒वैता उप॑ धत्ते वानस्प॒त्याः सु॑व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै

श॒तायु॑धाय श॒तवी॑र्याय श॒तोत॑येऽभिमाति॒षाहे॑ । श॒तं यो नः॑ श॒रदो॒ अजी॑ता॒न् इन्द्रो॑ नेष॒द् अति॑ दुरि॒तानि॒ विश्वा॑ ॥

ये च॒त्वारः॑ प॒थयो॑ देव॒याना॑ अन्त॒रा द्यावा॑पृथि॒वी वि॒यन्ति॑ । तेषां॒ यो अज्या॑नि॒म् अजी॑तिम् आ॒वहा॒त् तस्मै॑ नो देवाः ॥

परि॑ दत्ते॒ह सर्वे॑ ॥

ग्री॒ष्मो हे॑म॒न्त उ॒त नो॑ वस॒न्तः श॒रद् व॒र्षाः सु॑वि॒तं नो॑ अस्तु । तेषा॑म् ऋतू॒नाँ श॒तशा॑रदानां निवा॒त ए॑षां॒ अभ॑ये स्याम ॥

इ॒दु॒व॒त्स॒राय॑ परिवत्स॒राय॑ संवत्स॒राय॑ कृणुता बृ॒हन् नमः॑ । तेषां॑ व॒यँ सु॑म॒तौ य॒ज्ञिया॑नां॒ ज्योग् अजी॑ता॒ अह॑ताः स्याम ॥

भ॒द्रान् नः॒ श्रेयः॒ सम् अ॑नैष्ट देवा॒स् त्वया॑व॒सेन॒ सम् अ॑शीमहि त्वा । स नो॑ मयो॒भूः पि॑तो ॥

आ वि॑शस्व॒ शं तो॒काय॑ त॒नुवे॑ स्यो॒नः ॥

अज्या॑नीर् ए॒ता उप॑ दधात्य् ए॒ता वै दे॒वता॒ अप॑राजिता॒स् ता ए॒व प्र वि॑शति॒ नैव जी॑यते

ब्रह्मवा॒दिनो॑ वदन्ति॒

यद् अ॑र्धमा॒सा मासा॑ ऋ॒तवः॑ संवत्स॒र ओष॑धीः॒ पच॒न्त्य् अथ॒ कस्मा॑द् अ॒न्याभ्यो॑ दे॒वता॑भ्य आग्रय॒णं निर् उ॑प्यत॒ इति॑ \

ए॒ता हि तद् दे॒वता॑ उ॒दज॑य॒न् यद् ऋ॒तुभ्यो॑ नि॒र्वपे॑द् दे॒वता॑भ्यः स॒मदं॑ दध्यात् \

आ॒ग्र॒य॒णं नि॒रुप्यै॒ता आहु॑तीर् जुहोति \

अर्धमा॒सान् ए॒व मासा॑न् ऋ॒तून्त् सं॑वत्स॒रम् प्री॑णाति॒ न दे॒वता॑भ्यः स॒मद॑म् दधाति

भ॒द्रान् नः॒ श्रेयः॒ सम् अ॑नैष्ट दे॒वा इत्य् आ॑ह हु॒ताद्या॑य॒ यज॑मान॒स्याप॑राभावाय ॥

इन्द्र॑स्य॒ वज्रो॑ऽसि॒ वार्त्र॑घ्नस् तनू॒पा नः॑ प्रतिस्प॒शः । यो नः॑ पु॒रस्ता॑द् दक्षिण॒तः प॒श्चाद् उ॑त्तर॒तो॑ऽघा॒युर् अ॑भि॒दास॑त्य् ए॒तँ सोऽश्मा॑नम् ऋछतु ॥

दे॒वा॒सु॒राः संय॑त्ता आस॒न्

तेऽसु॑रा दि॒ग्भ्य आबा॑धन्त

तान् दे॒वा इष्वा॑ च॒ वज्रे॑ण॒ चापा॑नुदन्त॒

यद् व॒ज्रिणी॑र् उप॒दधा॒तीष्वा चै॒व तद् वज्रे॑ण च॒ यज॑मानो॒ भ्रातृ॑व्या॒न् अप॑ नुदते

दि॒क्षूप॑ ॥

द॒धा॒ति॒

दे॒व॒पु॒रा ए॒वैतास् त॑नू॒पानीः॒ पर्य् ऊ॑हते॒ \

अग्ना॑विष्णू सजोषसे॒मा व॑र्धन्तु वां॒ गिरः॑ । द्यु॒म्नैर् वाजे॑भि॒र् आ ग॑तम् ॥

ब्र॒ह्म॒वा॒दिनो॑ वदन्ति॒

यन् न दे॒वता॑यै॒ जुह्व॒त्य् अथ॑ किंदेव॒त्या॑ वसो॒र् धारेति॑ \

अ॒ग्निर् वसु॒स् तस्यै॒षा धारा॒

विष्णु॒र् वसु॒स् तस्यै॒षा धारा॑ \

आग्नावैष्ण॒व्यर्चा वसो॒र् धारां॑ जुहोति

भाग॒धेये॑नै॒वैनौ॒ सम् अ॑र्धयति॒ \

अथो॑ ए॒ताम् ॥

ए॒वाहु॑तिम् आ॒यत॑नवतीं करोति॒

यत्का॑म एनां जु॒होति॒ तद् ए॒वाव॑ रुन्द्धे

रु॒द्रो वा ए॒ष यद् अ॒ग्निस्

तस्यै॒ते त॒नुवौ॑ घो॒रान्या शि॒वान॒या

यच् छ॑तरु॒द्रीयं॑ जु॒होति॒ यैवास्य॑ घो॒रा त॒नूस् तां तेन॑ शमयति॒

यद् वसो॒र् धारां॑ जु॒होति॒ यैवास्य॑ शि॒वा त॒नूस् तां तेन॑ प्रीणाति॒

यो वै वसो॒र् धार॑यै ॥

प्र॒ति॒ष्ठां वेद॒ प्रत्य् ए॒व ति॑ष्ठति॒

यद् आज्य॑म् उ॒च्छिष्ये॑त॒ तम्सि॑न् ब्रह्मौद॒नम् प॑चे॒त्

तम् ब्रा॑ह्म॒णाश् च॒त्वारः॒ प्राश्नी॑युस् \

ए॒ष वा अ॒ग्निर् वै॑श्वान॒रो यद् ब्रा॑ह्म॒णस् \

ए॒षा खलु॒ वा अ॒ग्नेः प्रि॒या त॒नूर् यद् वै॑श्वान॒रः

प्रि॒याया॑म् ए॒वैनां॑ त॒नुवा॒म् प्रति॑ ष्ठापयति॒

चत॑स्रो धे॒नूर् द॑द्यात्

ताभि॑र् ए॒व यज॑मानो॒ऽमुष्मिँ॑ लो॒के॑ऽग्निं दु॑हे ॥

चित्तिं॑ जुहोमि॒ मन॑सा घृ॒तेन॒ \

इत्य् आ॑ह॒ \

अदा॑भ्या॒ वै नामै॒षाहु॑तिर् वैश्वकर्म॒णी

नैनं॑ चिक्या॒नम् भ्रातृ॑व्यो दभ्नोति॒ \

अथो॑ दे॒वता॑ ए॒वाव॑ रुन्द्धे॒ \

अग्ने॒ तम् अ॒द्य \

इति॑ प॒ङ्क्त्या जु॑होति

प॒ङ्क्त्याहु॑त्या यज्ञमु॒खम् आर॑भते

स॒प्त ते॑ अग्ने स॒मिधः॑ स॒प्त जि॒ह्वास् \

इत्य् आ॑ह॒

होत्रा॑ ए॒वाव॑ रुन्द्धे \

अ॒ग्निर् दे॒वेभ्योऽपा॑क्रामद् भाग॒धेय॑म् ॥

इ॒छमा॑न॒स्

तस्मा॑ ए॒तद् भा॑ग॒धेय॒म् प्राय॑छन् \

ए॒तद् वा अ॒ग्नेर् अ॑ग्निहो॒त्रम्

ए॒तर्हि॒ खलु॒ वा ए॒ष जा॒तो यर्हि॒ सर्व॑श् चि॒तस् \

जा॒तायै॒वास्मा॒ अन्न॒म् अपि॑ दधाति॒

स ए॑नम् प्री॒तः प्री॑णाति॒

वसी॑यान् भवति

ब्रह्मवा॒दिनो॑ वदन्ति॒ यद् ए॒ष गार्ह॑पत्यश् ची॒यतेऽथ॑ क्वा॑स्याह॑व॒नीय॒ इति॑ \

अ॒साव् आ॑दि॒त्य इति॑ ब्रूयात् \

ए॒तस्मि॒न् हि सर्वा॑भ्यो दे॒वता॑भ्यो॒ जुह्व॑ति ॥

य ए॒वं वि॒द्वान् अ॒ग्निं चि॑नु॒ते सा॒क्षाद् ए॒व दे॒वता॑ ऋध्नोति॒ \

अग्ने॑ यशस्वि॒न् यश॑से॒मम् अ॑र्प॒येन्द्रा॑वती॒म् अप॑चितीम् इ॒हा व॑ह । अ॒यम् मू॒र्धा प॑रमे॒ष्ठी सु॒वर्चाः॑ समा॒नाना॑म् उत्त॒मश्लो॑को अस्तु ॥

भ॒द्रम् पश्य॑न्त॒ उप॑ सेदु॒र् अग्रे॒ तपो॑ दी॒क्षाम् ऋष॑यः सुव॒र्विदः॑ । ततः॑ क्ष॒त्रम् बल॒म् ओज॑श् च जा॒तं अद् अ॒स्मै दे॒वा अ॒भि सं न॑मन्तु ॥

धा॒ता वि॑धा॒ता प॑र॒मा ॥

उ॒त सं॒दृक् प्र॒जाप॑तिः परमे॒ष्ठी वि॒राजा॑ । स्तोमा॒श् छन्दाँ॑सि नि॒विदो॑ म आहुर् ए॒तस्मै॑ रा॒ष्ट्रम् अ॒भि सं न॑माम ॥

अ॒भ्याव॑र्तध्व॒म् उप॒ मेत॑ सा॒कम् अ॒यँ शा॒स्ताधि॑पतिर् वो अस्तु । अ॒स्य वि॒ज्ञान॒म् अनु॒ सँ र॑भध्वम् इ॒मम् प॒श्चाद् अनु॑ जीवाथ॒ सर्वे॑ ॥

रा॒ष्ट्र॒भृत॑ ए॒ता उप॑ दधाति \

ए॒षा वा अ॒ग्नेश् चिती॑ राष्ट्र॒भृत्

तयै॒वास्मि॑न् रा॒ष्ट्रं द॑धाति

रा॒ष्ट्रम् ए॒व भ॑वति

नास्मा॑द् रा॒ष्ट्रम् भ्रँ॑शते ॥

यथा॒ वै पु॒त्रो जा॒तो म्रि॒यत॑ ए॒वं वा ए॒ष म्रि॑यते॒ यस्या॒ग्निर् उख्य॑ उ॒द्वाय॑ति॒

यन् नि॑र्म॒न्थ्यं॑ कु॒र्याद् वि छि॑न्द्या॒द् भ्रातृ॑व्यम् अस्मै जनये॒त्

स ए॒व पुनः॑ प॒रीध्यः॑

स्वाद् ए॒वैनं॒ योने॑र् जनयति

नास्मै॒ भ्रातृ॑व्यं जनयति॒

तमो॒ वा ए॒तं गृ॑ह्णाति॒ यस्या॒ग्निर् उख्य॑ उ॒द्वाय॑ति

मृ॒त्युस् तमः॑

कृ॒ष्णं वासः॑ कृ॒ष्णा धे॒नुर् दक्षि॑णा॒

तम॑सा ॥

ए॒व तमो॑ मृ॒त्युम् अप॑ हते॒

हिर॑ण्यं ददाति॒

ज्योति॒र् वै हिर॑ण्यम् \

ज्योति॑षै॒व तमोऽप॑ हते॒ \

अथो॒ तेजो॒ वै हिर॑ण्यम् \

तेज॑ ए॒वात्मन् ध॑त्ते॒

सुव॒र् न घ॒र्मः स्वाहा॒

सुव॒र् नार्कः स्वाहा॒

सुव॒र् न शु॒क्रः स्वाहा॒

सुव॒र् न ज्योतिः॒ स्वाहा॒

सुव॒र् न सूर्यः॒ स्वाहा॑ \

अ॒र्को वा ए॒ष यद् अ॒ग्निर् अ॒साव् आ॑दि॒त्यः ॥

अ॒श्व॒मे॒धस् \

यद् ए॒ता आहु॑तीर् जु॒होत्य् अ॑र्काश्वमे॒धयो॑र् ए॒व ज्योतीँ॑षि॒ सं द॑धाति \

ए॒ष ह॒ त्वा अ॑र्काश्वमे॒धी यस्यै॒तद् अ॒ग्नौ क्रि॒यते॑ \

आपो॒ वा इ॒दम् अग्रे॑ सलि॒लम् आ॑सी॒त्

स ए॒ताम् प्र॒जाप॑तिः प्रथ॒मां चिति॑म् अपश्य॒त् ताम् उपा॑धत्त॒ तद् इ॒यम् अ॑भव॒त्

तं वि॒श्वक॑र्माब्रवीत् \

उप॒ त्वाया॒नीति॒

नेह लो॒को॑ऽस्तीति॑ ॥

अ॒ब्र॒वी॒त्

स ए॒तां द्वि॒तीयां॒ चिति॑म् अपश्य॒त् ताम् उपा॑धत्त॒ तद् अ॒न्तरि॑क्षम् अभव॒त्

स य॒ज्ञः प्र॒जाप॑तिम् ब्रवीत् \

उप॒ त्वाया॒नीति॒

नेह लो॒को॑ऽस्तीत्य् अ॑ब्रवी॒त्

स वि॑श्वकर्माणम् अब्रवीत् \

उप॒ त्वाया॒नीति॒

केन॑ मो॒पैष्य॒सीति॒

दिश्या॑भि॒र् इत्य् अ॑ब्रवी॒त्

तम् दिश्या॑भिर् उ॒पैत्

ता उपा॑धत्त

ता दिशः॑ ॥

अ॒भ॒व॒न् \

स प॑रमे॒ष्ठी प्र॒जाप॑तिम् अब्रवीत् \

उप॒ त्वाया॒नीति॒

नेह लो॒को॑ऽस्तीत्य् अ॑ब्रवी॒त्

स वि॒श्वक॑र्माणं च य॒ज्ञं चा॑ब्रवीत् \

उप॑ वा॒म् आया॒नीति॒

नेह लो॒को॑ऽस्तीत्य् अ॑ब्रूताम् \

स ए॑तां तृ॒तीयां॒ चिति॑म् अपश्यत्

ताम् उपा॑धत्त॒

तद् अ॒साव् अ॑भव॒त्

स आ॑दि॒त्यः प्र॒जाप॑तिम् अब्रवीत् \

उप॑ त्वा ॥

आया॒नीति॒

नेह लो॒को॑ऽस्तीत्य् अ॑ब्रवी॒त्

स वि॒श्वक॑र्माणं च य॒ज्ञं चा॑ब्रवीत् \

उप॑ वा॒म् आया॒नीति॒

नेह लो॒को॑ऽस्तीत्य् अ॑ब्रूताम् \

स प॑रमे॒ष्ठिन॑म् अब्रवीत् \

उप॒ त्वाया॒नीति॒

केन॑ मो॒पैष्य॒सीति॑

लोकम्पृ॒णयेत्य् अ॑ब्रवी॒त्

तं लो॑कम्पृ॒णयो॒पैत्

तस्मा॒द् अया॑तयाम्नी लोकम्पृ॒णा \

अया॑तयामा॒ ह्य् अ॑सौ ॥

आ॒दि॒त्यस्

तान् ऋष॑योऽब्रुवन् \

उप॑ व॒ आया॒मेति॒

केन॑ न उ॒पैष्य॒थेति॑

भू॒म्नेत्य् अ॑ब्रुवन्

तान् द्वाभ्यां॒ चिती॑भ्याम् उ॒पाय॑न् \

स पञ्च॑चितीकः॒ सम् अ॑पद्यत॒

य ए॒वं वि॒द्वान् अ॒ग्निं चि॑नु॒ते भूया॑न् ए॒व भ॑वत्य् अ॒भीमाँ लो॒काञ् ज॑यति वि॒दुर् ए॑नं दे॒वास् \

अथो॑ ए॒तासा॑म् ए॒व दे॒वता॑नाँ॒ सायु॑ज्यं गछति ॥

वयो॒ वा अ॒ग्निर् यद् अ॑ग्नि॒चित् प॒क्षिणो॑ऽश्नी॒यात् तम् ए॒वाग्निम् अ॑द्या॒द् आर्ति॒म् आर्छे॑त्

संवत्स॒रं व्र॒तं च॑रेत्

संवत्स॒रँ हि व्र॒तं नाति॑

प॒शुर् वा ए॒ष यद् अ॒ग्निस् \

हि॒नस्ति॒ खलु॒ वै तम् प॒शुर् य ए॑नम् पु॒रस्ता॑त् प्र॒त्यञ्च॑म् उप॒चर॑ति॒

तस्मा॑त् प॒श्चात् प्राङ् उ॑प॒चर्य॑ आ॒त्मनोऽहिँ॑सायै॒

तेजो॑ऽसि॒ तेजो॑ मे यछ पृथि॒वीं य॑छ ॥

पृ॒थि॒व्यै मा॑ पाहि॒ ज्योति॑र् असि॒ ज्योति॑र् मे यछा॒न्तरि॑क्षं यछा॒न्तरि॑क्षान् मा पाहि॒ सुव॑र् असि॒ सुव॑र् मे यछ॒ दिवं॑ यछ दि॒वो मा॑ पाहि॒ \

इति॑ आहै॒ताभि॒र् वा इ॒मे लो॒का विधृ॑तास् \

यद् ए॒ता उ॑प॒दधा॑त्य् ए॒षां लो॒कानां॒ विधृ॑त्यै

स्वयमातृ॒ण्णा उ॑प॒धाय॑ हिरण्येष्ट॒का उप॑ दधाती॒मे वै लो॒काः स्व॑यमातृ॒ण्णा ज्योति॒र् हिर॑ण्यम् \

यत् स्व॑यमातृ॒ण्णा उ॑प॒धाय॑ ॥

हि॒र॒ण्ये॒ष्ट॒का उ॑प॒दधा॑ती॒मान् ए॒वैताभि॑र् लो॒काञ् ज्योति॑ष्मतः कुरु॒तेऽथो॑ ए॒ताभि॑र् ए॒वास्मा॑ इ॒मे लो॒काः प्र भा॑न्ति

यास् ते॑ अग्ने॒ सूर्ये॒ रुच॑ उद्य॒तो दिव॑म् आत॒न्वन्ति॑ र॒श्मिभिः॑ । ताभिः॒ सर्वा॑भी रु॒चे जना॑य नस् कृधि ॥

या वो॑ देवाः॒ सूर्ये॒ रुचो॒ गोष्व् अश्वे॑षु॒ या रुचः॑ । इन्द्रा॑ग्नी॒ ताभिः॒ सर्वा॑भी॒ रुचं॑ नो धत्त बृहस्पते ॥

रुचं॑ नो धेहि ॥

ब्रा॒ह्म॒णेषु॒ रुचँ॒ राज॑सु नस् कृधि । रुचं॑ वि॒श्ये॑षु शू॒द्रेषु॒ मयि॑ धेहि रु॒चा रुच॑म् ॥

द्वे॒धा वा अ॒ग्निं चि॑क्या॒नस्य॒ यश॑ इन्द्रि॒यं ग॑छत्य् अ॒ग्निं वा॑ चि॒तम् ई॑जा॒नं वा॒

यद् ए॒ता आहु॑तीर् जु॒होति॑ \

आ॒त्मन्न् ए॒व यश॑ इन्द्रि॒यं ध॑त्ते \

ईश्व॒रो वा ए॒ष आर्ति॒म् आर्तो॒र् यो॑ऽग्निं चि॒न्वन्न् अ॑धि॒क्राम॑ति॒

तत् त्वा॑ यामि॒ ब्रह्म॑णा॒ वन्द॑मानस् \

इति॑ वारु॒ण्यर्चा ॥

जु॒हु॒या॒च् छान्ति॑र् ए॒वैषाग्नेर् गुप्ति॑र् आ॒त्मन॑स् \

ह॒विष्कृ॑तो॒ वा ए॒ष यो॑ऽग्निं चि॑नु॒ते

यथा॒ वै ह॒वि स्कन्द॑त्य् ए॒वं वा ए॒ष स्क॑न्दति॒ यो॑ऽग्निं चि॒त्वा स्त्रि॑यम् उ॒पैति॑ मैत्रावरु॒ण्यामिक्ष॑या यजेत मैत्रावरु॒णता॑म् ए॒वोपै॑त्य् आ॒त्मनोऽस्क॑न्दाय॒

यो वा अ॒ग्निम् ऋ॑तु॒स्थां वेद॒र्तुरृ॑तुर् अस्मै॒ कल्प॑मान एति॒ प्रत्य् ए॒व ति॑ष्ठति

संवत्स॒रो वा अ॒ग्निः ॥

ऋ॒तु॒स्थास् तस्य॒ वस॑न्तः॒ शिरो॑ ग्री॒ष्मो दक्षि॑णः प॒क्षो व॒र्षाः पुछँ॑ श॒रद् उत्त॑रः प॒क्षो हे॑म॒न्तो मध्य॑म् पूर्वप॒क्षाश् चित॑योऽपरप॒क्षाः पुरी॑षम् अहोरा॒त्राणीष्त॑का ए॒ष वा अ॒ग्निर् ऋ॑तु॒स्था य ए॒वं वेद॒र्तुरृ॑तुर् अस्मै॒ कल्प॑मान एति॒ प्रत्य् ए॒व ति॑ष्ठै

प्र॒जाप॑ति॒र् वा ए॒तं ज्यैष्ठ्य॑कामो॒ न्य् अ॑धत्त॒

ततो॒ वै स ज्यैष्ठ्य॑म् अगछत् \

य ए॒वं वि॒द्वान् अ॒ग्निं चि॑नु॒ते ज्यैष्ठ्य॑म् ए॒व ग॑छति ॥

यद् आकू॑तात् स॒मसु॑स्रोद् धृ॒दो वा॒ मन॑सो वा॒ सम्भृ॑तं॒ चक्षु॑षो वा । तम् अनु॒ प्रेहि॑ सुकृ॒तस्य॑ लो॒कं यत्रर्ष॑यः प्रथम॒जा ये पु॑रा॒णाः ॥

ए॒तँ स॑धस्थ॒ परि॑ ते ददामि॒ यम् आ॒वहा॑च् छेव॒धिं जा॒तवे॑दाः । अ॒न्वा॒ग॒न्ता य॒ज्ञप॑तिर् वो॒ अत्र॒ तँ स॑म जानीत पर॒मे व्यो॑मन् ॥

जा॒नी॒ताद् ए॑नम् पर॒मे व्यो॑म॒न् देवाः॑ सधस्था वि॒द रू॒पम् अ॑स्य । यद् आ॒गछा॑त् ॥

प॒थिभि॑र् देव॒यानै॑र् इष्टापू॒र्ते कृ॑णुताद् आ॒विर् अ॑स्मै ॥

सम् प्र च्य॑वध्व॒म् अनु॒ सम् प्र या॒ताग्ने॑ प॒थो दे॑व॒याना॑न् कृणुध्वम् । अ॒स्मिन्त् स॒धस्थे॒ अध्य् उत्त॑रस्मि॒न् विश्वे॑ देवा॒ यज॑मानश् च सीदत ॥

प्र॒स्त॒रेण॑ परि॒धिना॑ स्रु॒चा वेद्या॑ च ब॒र्हिषा॑ । ऋ॒चेमं य॒ज्ञं नो॑ वह॒ सुव॑र् दे॒वेषु॒ गन्त॑वे ॥

यद् इ॒ष्टम् यत् प॑रा॒दानं॒ यद् द॒त्तं या च॒ दक्षि॑णा । तत् ॥

अ॒ग्निर् वै॑श्वकर्म॒णः सुव॑र् दे॒वेषु॑ नो दधत् ॥

येना॑ स॒हस्रं॒ वह॑सि॒ येना॑ग्ने सर्ववेद॒सम् । तेने॒मं य॒ज्ञं नो॑ वह॒ सुव॑र् दे॒वेषु॒ गन्त॑वे ॥

येना॑ग्ने॒ दक्षि॑णा यु॒क्ता य॒ज्ञं वह॑न्त्य् ऋ॒त्विजः॑ । तेने॒मं य॒ज्ञं नो॑ वह॒ सुव॑र् दे॒वेषु॒ गन्त॑वे ॥

येना॑ग्ने सु॒कृतः॑ प॒था मधो॒र् धारा॑ व्यान॒शुः । तेने॒मं य॒ज्ञं नो॑ वह॒ सुव॑र् दे॒वेषु॒ गन्त॑वे ॥

यत्र॒ धारा॒ अन॑पेता॒ मधो॑र् घृ॒तस्य॑ च॒ याः । तद् अ॒ग्निर् वै॑श्वकर्म॒णः सुव॑र् दे॒वेषु॑ नो दधत् ॥

यास् ते॑ अग्ने स॒मिधो॒ यानि॒ धाम॒ या जि॒ह्वा जा॑तवेदो॒ यो अ॒र्चिः । ये ते॑ अग्ने मे॒डयो॒ य इन्द॑व॒स् तेभि॑र् आ॒त्मानं॑ चिनुहि प्रजा॒नन् ॥

उ॒त्स॒न्न॒य॒ज्ञो वा ए॒ष यद् अ॒ग्निः किं वाहै॒तस्य॑ क्रि॒यते॒ किं वा॒ न यद् वा अ॑ध्व॒र्युर् अ॒ग्नेश् चि॒न्वन्न् अ॑न्त॒रेत्य् आ॒त्मनो॒ वै तद् अ॒न्तर् ए॑ति॒ यास् ते॑ अग्ने स॒मिधो॒ यानि॑ ॥

धामेत्य् आ॑है॒षा वा अ॒ग्नेः स्व॑यंचि॒तिर् अ॒ग्निर् ए॒व तद् अ॒ग्निं चि॑नोति॒ नाध्व॒र्युर् आ॒त्मनो॒ऽन्तर् ए॑ति॒

चत॑स्र॒ आशाः॒ प्र च॑रन्त्व् अ॒ग्नय॑ इ॒मं नो॑ य॒ज्ञं न॑यतु प्रजा॒नन् । घृ॒तम् पिन्व॑न्न् अ॒जरँ॑ सु॒वीर॒म् ब्रह्म॑ स॒मिद् भ॑व॒त्य् आहु॑तीनाम् ॥

सु॒व॒र्गाय॒ वा ए॒ष लो॒कायोप॑ धीयते॒ यत् कू॒र्मश् चत॑स्र॒ आशाः॒ प्र च॑रन्त्व् अ॒ग्नय॒ इत्य् आ॑ह ॥

दिश॑ ए॒वैतेन॒ प्र जा॑नाती॒मं नो॑ य॒ज्ञं न॑यतु प्रजा॒नन्न् इत्य् आ॑ह सुव॒र्गस्य॑ लो॒कस्या॒भिनी॑त्यै॒ ब्रह्म॑ स॒मिद् भ॑व॒त्य् आहु॑तीना॒म् इत्य् आ॑ह॒ ब्रह्म॑णा॒ वै दे॒वाः सु॑व॒र्गं लो॒कम् आ॑य॒न् यद् ब्रह्म॑ण्वत्योप॒दधा॑ति॒ ब्रह्म॑णै॒व तद् यज॑मानः सुव॒र्गं लो॒कम् ए॑ति

प्र॒जाप॑ति॒र् वा ए॒ष यद् अ॒ग्निस् तस्य॑ प्र॒जाः प॒शव॒श् छन्दाँ॑सि रू॒पँ सर्वा॒न् वर्णा॒न् इष्ट॑कानां कुर्याद् रू॒पेणै॑व प्र॒जाम् प॒शूञ् छन्दाँ॒स्य् अव॑ रु॒न्द्धेऽथो॑ प्र॒जाभ्य॑ ए॒वैन॑म् प॒शुभ्य॒श् छन्दो॑भ्योऽव॒रुद्ध्य॑ चिनुते ॥

मयि॑ गृह्णा॒म्य् अग्रे॑ अ॒ग्निँ रा॒यस् पोषा॑य सुप्रजा॒स्त्वाय॑ सु॒वीर्या॑य । मयि॑ प्र॒जाम् मयि॒ वर्चो॑ दधा॒म्य् अरि॑ष्टाः स्याम त॒नुवा॑ सु॒वीराः॑ ॥

यो नो॑ अ॒ग्निः पि॑तरो हृ॒त्स्व् अ॑न्तर् अम॑र्त्यो॒ मर्त्याँ॑ आवि॒वेश॑ । तम् आ॒त्मन् परि॑ गृह्णीमहे व॒यम् मा सो अ॒स्माँ अ॑व॒हाय॒ परा॑ गात् ॥

यद् अ॑ध्व॒र्युर् आ॒त्मन्न् अ॒ग्निम् अगृ॑हीत्वा॒ग्निं चि॑नु॒याद् यो॑ऽस्य॒ स्वोऽग्निस् तम् अपि॑ ॥

यज॑मानाय चिनुयाद् अ॒ग्निं खलु॒ वै प॒शवोऽनूप॑ तिष्ठन्तेऽप॒क्रामु॑का अस्मात् प॒शवः॑ स्यु॒र् मयि॑ गृह्णा॒म्य् अग्रे॑ अ॒ग्निम् इत्य् आ॑हा॒त्मन्न् ए॒व स्वम् अ॒ग्निं दा॑धार॒ नास्मा॑त् प॒शवोऽप॑ क्रामन्ति

ब्रह्मवा॒दिनो॑ वदन्ति॒ यन् मृच् चाप॑श् चा॒ग्नेर् अ॑ना॒द्यम् अथ॒ कस्मा॑न् मृ॒दा चा॒द्भिश् चा॒ग्निश् ची॑यत॒ इति॒ यद् अ॒द्भिः सं॒यौति॑ ॥

आपो॒ वै सर्वा॑ दे॒वता॑ दे॒वता॑भिर् ए॒वैनँ॒ सँ सृ॑जति॒ यन् मृ॒दा चि॒नोती॒यं वा अ॒ग्निर् वै॑श्वान॒रो॑ऽग्निनै॒व तद् अ॒ग्निं चि॑नोति

ब्रह्मवा॒दिनो॑ वदन्ति॒ यन् मृ॒दा चा॒द्भिश् चा॒ग्निश् ची॒यतेथ॒ कस्मा॑द् अ॒ग्निर् उ॑च्यत॒ इति॒ यच् छन्दो॑भिश् चि॒नोत्य् अ॒ग्नयो॒ वै छन्दाँ॑सि॒ तस्मा॑द् अ॒ग्निर् उ॑च्य॒तेऽथो॑ इ॒यं वा अ॒ग्निर् वै॑श्वान॒रो यत् ॥

मृ॒दा चि॒नोति॒ तस्मा॑द् अ॒ग्निर् उ॑च्यते

हिरण्येष्ट॒का उप॑ दधाति॒ ज्योति॒र् वै हिर॑ण्यं॒ ज्योति॑र् ए॒वास्मि॑न् दधा॒त्य् अथो॒ तेजो॒ वै हिर॑ण्यं॒ तेज॑ ए॒वात्मन् ध॑त्ते॒

यो वा अ॒ग्निँ स॒र्वतो॑मुखं चिनु॒ते सर्वा॑सु प्र॒जास्व् अन्न॑म् अत्ति॒ सर्वा॒ दिशो॒ऽभि ज॑यति गाय॒त्रीम् पु॒रस्ता॒द् उप॑ दधाति तृ॒ष्टुभं॑ दक्षिण॒तो जग॑तीम् प॒श्चाद् अ॑नु॒ष्टुभ॑म् उत्तर॒तः प॒ङ्क्तिम् मध्य॑ ए॒ष वा अ॒ग्निः स॒र्वतो॑मुख॒स् तं य ए॒वं वि॒द्वाँश् चि॑नु॒ते सर्वा॑सु प्र॒जास्व् अन्न॑म् अत्ति॒ सर्वा॒ दिशो॒ऽभि ज॑य॒त्य् अथो॑ दि॒श्य् ए॑व दिश॒म् प्र व॑यति॒ तस्मा॑द् दि॒शि दिक् प्रोता॑ ॥

प्र॒जाप॑तिर् अ॒ग्निम् अ॑सृजत॒

सो॑ऽस्मात् सृ॒ष्टः प्राङ् प्राद॑रव॒त् तस्मा॒ अश्व॒म् प्रत्य् आ॑स्य॒त्

स द॑क्षि॒णाव॑र्तत॒ तस्मै॑ वृ॒ष्णिम् प्रत्य् आ॑स्य॒त्

स प्र॒त्यङ्ङ् आव॑र्तत॒ तस्मा॑ ऋष॒भम् प्रत्य् आ॑स्य॒त्

स उद॒ङ्ङ् आव॑र्तत॒ तस्मै॑ ब॒स्तम् प्रत्य् आ॑स्य॒त्

स ऊ॒र्ध्वो॑ऽद्रव॒त् तस्मै॒ पुरु॑ष॒म् प्रत्य् आ॑स्यत् \

यत् प॑शुशी॒र्षाण्य् उ॑प॒दधा॑ति स॒र्वत॑ ए॒वैन॑म् ॥

अ॒व॒रुध्य॑ चिनुते \

ए॒ता वै प्रा॑ण॒भृत॒श् चक्षु॑ष्मती॒र् इष्ट॑का॒ यत् प॑शुशी॒र्षाणि॒

यत् प॑शुशी॒र्षाण्य् उ॑प॒दधा॑ति॒ ताभि॑र् ए॒व यज॑मानो॒ऽमुष्मिँ॑ लो॒के प्राणि॒त्य् अथो॒ ताभि॑र् ए॒वास्मा॑ इ॒मे लो॒काः प्र भा॑न्ति

मृ॒दाभि॒लिप्योप॑ दधाति मेध्य॒त्वाय॑

प॒शुर् वा ए॒ष यद् अ॒ग्निर् अन्न॑म् प॒शव॑स् \

ए॒ष खलु॒ वा अ॒ग्निर् यत् प॑शुशी॒र्षाणि॒

यं का॒मये॑त॒

कनी॑यो॒ऽस्यान्न॑म् ॥

स्याद् इति॑संत॒रां तस्य॑ पशुशी॒र्षाण्य् उप॑ दध्या॒त् कनी॑य ए॒वास्यान्न॑म् भवति॒

यं का॒मये॑त

स॒माव॑द् अ॒स्यान्नँ॑ स्या॒द् इति॑ मध्य॒तस् तस्योप॑ दध्यात् स॒माव॑द् ए॒वास्यान्न॑म् भवति॒

यं का॒मये॑त

भूयो॒ऽस्यान्नँ॑ स्या॒द् इत्य् अन्ते॑षु॒ तस्य॑ व्यु॒दूह्योप॑ दध्याद् अन्त॒त ए॒वास्मा॒ अन्न॒म् अव॑ रुन्द्धे॒ भूयो॒ऽस्यान्न॑म् भवति ॥

स्ते॒गान् दँष्ट्रा॑भ्याम्

म॒ण्डूका॒ञ् जम्भ्ये॑भिस् \

आद॑कां खा॒देन॑ \

ऊर्जँ॑ सँसूदेन॒ \

अर॑ण्यं॒ जाम्बी॑लेन

मृद॑म् ब॒र्स्वे॑भिः॒

शर्क॑राभि॒र् अव॑का॒म्

अव॑काभिः॒ शर्क॑राम्

उत्सा॒देन॑ जि॒ह्वाम्

अ॑वक्र॒न्देन॒ तालु॑म् \

सर॑स्वतीं जिह्वा॒ग्रेण॑ ॥

वाजँ॒ हनू॑भ्याम्

अ॒प आ॒स्ये॑न \

आदि॒त्याँ छ्मश्रु॑भिस् \

उ॒प॒या॒मम् अध॑रेणोष्ठेन॒

सद् उत्त॑रेण॒ \

अन्त॑रेणानूका॒शम्

प्र॒का॒शेन॒ बाह्य॑म् \

स्त॒न॒यि॒नुं नि॑र्बा॒धेन॑

सूर्या॒ग्नी चक्षु॑र्भ्याम् \

वि॒द्युतौ॑ क॒नान॑काभ्याम्

अ॒शनि॑म् म॒स्तिष्के॑ण॒

बल॑म् म॒ज्जभिः॑ ॥

कू॒र्माञ् छ॒फैस् \

अ॒छला॑भिः क॒पिञ्ज॑लान् \

साम॒ कुष्ठि॑काभिस् \

ज॒वं जङ्घा॑भिस् \

अ॒ग॒दं जानु॑भ्याम् \

वी॒र्यं॑ कु॒हाभ्या॑म्

भ॒यम् प्र॑चा॒लाभ्या॑म् \

गुहो॑पप॒क्षाभ्या॑म्

अ॒श्विना॒व् अँसा॑भ्या॒म्

अदि॑तिँ शी॒र्ष्णा

निरृ॑तिं॒ निर्जा॑ल्मकेन शी॒र्ष्णा ॥

योक्त्रं॒ गृध्रा॑भिस् \

यु॒गम् आन॑तेन

चि॒त्तम् मन्या॑भिः

संक्रो॒शान् प्रा॒णैः

प्र॒का॒शेन॒ त्वच॑म्

पराका॒शेनान्त॑राम्

म॒शका॒न् केशै॑स् \

इन्द्रँ॒ स्वप॑सा॒ वहे॑न

बृह॒स्पतिँ॑ श्कुनिसा॒देन॒

रथ॑म् उ॒ष्णिहा॑भिः ॥

मि॒त्रावरु॑णौ॒ श्रोणी॑भ्याम्

इन्द्रा॒ग्नी शि॑ख॒ण्डाभ्या॒म्

इन्द्रा॒बृह॒स्पती॑ ऊ॒रुभ्या॒म्

इन्द्रा॒विष्णू॑ अष्ठी॒वद्भ्या॑म् \

स॒वि॒तार॒म् पुछे॑न

गन्ध॒र्वाञ् छेपे॑न \

अप्स॒रसो॑ मु॒स्खाभ्या॒म्

पव॑मानम् पा॒युना॑

प॒वित्र॒म् पोत्रा॑भ्याम्

आ॒क्रम॑णँ स्थू॒राभ्या॑म्

प्र॒ति॒क्रम॑णं॒ कुष्ठा॑भ्याम् ॥

इन्द्र॑स्य क्रो॒डस् \

अदि॑त्यै पाज॒स्य॑म् \

दि॒शां ज॒त्रव॑स् \

जी॒मूता॑न् हृदयौप॒शाभ्या॑म्

अ॒न्तरि॑क्षम् पुरि॒तता॒

नभ॑ उद॒र्ये॑ण \

इन्द्रा॒णीम् प्ली॒ह्ना

व॒ल्मीका॑न् क्लो॒म्ना

गि॒रीन् प्ला॒शिभिः॑

समु॒द्रम् उ॒दरे॑ण

वैश्वान॒रम् भस्म॑ना ॥

पू॒ष्णो व॑नि॒ष्ठुस् \

अ॒न्धा॒हे स्थू॑रगु॒दा

स॒र्पान् गुदा॑भिस् \

ऋ॒तून् पृ॒ष्टीभि॑स् \

दिव॑म् पृ॒ष्ठेन॒

वसू॑नाम् प्रथ॒मा कीक॑सा

रु॒द्राणां॑ द्वि॒तीया॑ \

आदि॒त्यानां॑ तृ॒तीया॒ \

अङ्गि॑रसां चतु॒र्थी

सा॒ध्याना॑म् पञ्च॒मी

वि॑श्वेषां दे॒वानाँ॑ ष॒ष्ठी ॥

ओजो॑ ग्री॒वाभि॑स् \

निरृ॑तिम् अ॒स्थभि॑स् \

इन्द्रँ॒ स्वप॑सा॒ वहे॑न

रु॒द्रस्य॑ विच॒ल स्क॒न्धस् \

अ॒हो॒रा॒त्रयो॑र् द्वि॒तीय॑स् \

अ॒र्ध॒मा॒सानां॑ तृ॒तीय॑स् \

मा॒सां च॑तु॒र्थस् \

ऋ॒तू॒नाम् प॑ञ्च॒मः

सं॑वत्स॒रस्य॑ ष॒ष्ठः ॥

आ॒न॒न्दं न॒न्दथु॑ना

काम॑म् प्रत्या॒साभ्या॑म्

भ॒यँ शि॑ती॒मभ्या॑म्

प्र॒शिष॑म् प्रशा॒साभ्या॑म् \

सू॒र्या॒च॒न्द्र॒मसौ॒ वृक्या॑भ्याम् \

श्या॒म॒श॒ब॒लौ मत॑स्नाभ्याम् \

व्यु॑ष्टिँ रू॒पेण॒

निम्रु॑क्ति॒म् अरू॑पेण ॥

अह॑र् माँ॒सेन॑

रात्रि॒म् पीव॑सा \

अ॒पो यू॒षेण॑

घृ॒तँ रसे॑न्

श्यां वस॑या

दू॒षीका॑भिर् ह्रा॒दुनि॒म्

अश्रु॑भिः॒ पृष्वा॑म् \

दिवँ॑ रू॒पेण॒

नक्ष॑त्राणि॒ प्रति॑रूपेण

पृथि॒वीं चर्म॑णा

छ॒वीं छ॑व्या॑ \

उ॒पाकृ॑ताय॒ स्वाहा॑ \

आल॑ब्धाय॒ स्वाहा॑

हु॒ताय॒ स्वाहा॑ ॥

अ॒ग्नेः प॑क्ष॒तिः

सर॑स्वत्यै॒ निप॑क्षतिः॒

सोम॑स्य तृ॒तीया॑ \

अ॒पां च॑तु॒र्थी \

ओष॑धीनाम् पञ्च॒मी

सं॑वत्स॒रस्य॑ ष॒ष्ठी

म॒रुताँ॑ सप्त॒मी

बृह॒स्पते॑र् अष्ट॒मी

मि॒त्रस्य॑ नव॒मी

वरु॑णस्य दश॒मी \

इन्द्र॑स्यैकाद॒शी

विश्वे॑षां दे॒वानां॑ द्वाद॒शी

द्यावा॑पृथि॒व्योः पा॒र्श्वम् \

य॒मस्य॑ पाटू॒रः ॥

वा॒योः प॑क्ष॒तिः

सर॑स्वतो॒ निप॑क्षतिस् \

च॒न्द्रम॑सस् तृ॒तीया॒

नक्ष॑त्राणां चतु॒र्थी

स॑वि॒तुः प॑ञ्च॒मी

रु॒द्रस्य॑ ष॒ष्ठी

सर्पा॑णाँ सप्त॒मी \

अ॑र्य॒म्णो॑ऽष्ट॒मी

त्वष्टु॑र् नव॒मी धा॒तुर् द॑श॒मी \

इ॑न्द्रा॒ण्या ए॑काद॒शी \

अदि॑त्यै द्वाद॒शी

द्यावा॑पृथि॒व्योः पा॒र्श्वम् \

य॒म्यै॑ पाटू॒रः ॥

पन्था॑म् अनू॒वृग्भ्या॑म् \

संत॑तिँ स्नाव॒न्या॑भ्याम् \

शुका॑न् पि॒त्तेन॑

हरि॒माणं॑ य॒क्ना

हली॑क्ष्णान् पापव॒तेन॑

कू॒श्माञ् छक॑भिः

शव॒र्तान् ऊव॑ध्येन॒

शुनो॑ वि॒शस॑नेन

स॒र्पाँ लो॑हितग॒न्धेन॒

वयाँ॑सि पक्वग॒न्धेन॑

पि॒पीलि॑काः प्रशा॒देन॑ ॥

क्रमै॒र् अत्य् अ॑क्रमीद् वा॒जी विश्वै॑र् दे॒वैर् य॒ज्ञियैः॑ संविदा॒नः

स नो॑ नय सुकृ॒तस्य॑ लो॒कं तस्य॑ ते व॒यँ स्व॒धया॑ मदेम ॥

द्यौस् ते॑ पृ॒ष्ठम्

पृ॑थि॒वी स॒धस्थ॑म्

आ॒त्मान्तरि॑क्षम् \

स॒मु॒द्रो योनिः॑

सूर्य॑स् ते॒ चक्षु॑स् \

वातः॑ प्रा॒णस् \

च॒न्द्रमाः॒ श्रोत्र॑म्

मासा॑श् चार्धमा॒षाश् च॒ पर्वा॑णि \

ऋ॒तवोङ्गा॑नि

संवत्स॒रो म॑हि॒मा ॥

अ॒ग्निः प॒शुर् आ॑सी॒त्

तेना॑यजन्त॒

स ए॒तं लो॒कम् अ॑जय॒द् यस्मि॑न्न् अ॒ग्निः

स ते॑ लो॒कस्

तं जे॑ष्यसि॒ \

अथाव॑ जिघ्र

वा॒युः प॒शुर् आ॑सी॒त्

तेना॑यजन्त॒

स ए॒तं लो॒कम् अ॑जय॒द् यस्मि॑न् वा॒युः

स ते॑ लो॒कस्

तस्मा॑त् त्वा॒न्तर् ए॑ष्यामि॒ यदि॒ नाव॒जिघ्र॑सि \

आदि॒त्यः प॒शुर् आ॑सी॒त्

तेना॑यजन्त॒

स ए॒तं लो॒कम् अ॑जय॒द् यस्मि॑न्न् आदि॒त्यः

स ते॑ लो॒कस्

तं जे॑ष्यसि॒ यद्य् अ॑व॒जिघ्र॑सि ॥