हिर॑ण्यवर्णाः॒ शुच॑यः पाव॒का यासु॑ जा॒तः क॒श्यपो॒ यास्व् इन्द्रः॑ । अ॒ग्निं गर्भं॑ दधिरे॒ विरू॑पा॒स् ता न॒ आपः॒ शँ स्यो॒ना भ॑वन्तु ॥

यासाँ॒ राजा॒ वरु॑णो॒ याति॒ मध्ये॑ सत्यानृ॒ते अ॑व॒पश्य॒ञ् जना॑नाम् । म॒धु॒श्चुतः॒ शुच॑यो॒ याः पा॑व॒कास् ता न॒ आपः॒ शँ स्यो॑ना भवन्तु ॥

यासां॑ दे॒वा दि॒वि कृ॒ण्वन्ति॑ भ॒क्षं या अ॒न्तरि॑क्षे बहु॒धा भव॑न्ति । याः पृ॑थि॒वीम् पय॑सो॒ऽन्दन्ति॑ ॥

शु॒क्रास् ता न॒ आपः॒ शँ स्यो॒ना भ॑वन्तु ॥

शि॒वेन॑ मा॒ चक्षु॑षा पश्यतापः शि॒वया॑ त॒नुवोऽप॑ स्पृशत॒ त्वच॑म् मे । सर्वाँ॑ अ॒ग्नीँर् अ॑प्सु॒षदो॑ हुवे वो॒ मयि॒ वर्चो॒ बल॒म् ओजो॒ नि ध॑त्त ॥

यद् अ॒दः स॑म्प्रय॒तीर् अहा॒व् अन॑दता ह॒ते । तस्मा॒द् आ न॒द्यो॑ नाम॑ स्थ॒ ता वो॒ नामा॑नि सिन्धवः ॥

यत् प्रेषि॑ता॒ वरु॑णेन॒ ताः शीभँ॑ स॒मव॑ल्गत ॥

तद् आ॑प्नो॒द् इन्द्रो॑ वो य॒तीस् तस्मा॒द् आपो॒ अनु॑ स्थन ॥

अ॒प॒का॒मँ स्यन्द॑माना॒ अवी॑वरत वो॒ हिक॑म् । इन्द्रो॑ वः॒ शक्ति॑भिर् देवी॒स् तस्मा॒द् वार् णाम॑ वो हि॒तम् ॥

एको॑ दे॒वो अप्य् अ॑तिष्ठ॒त् स्यन्द॑माना यथाव॒शम् । उद् आ॑निषुर् म॒हीर् इति॒ तस्मा॑द् उद॒कम् उ॑च्यते ॥

आपो॑ भ॒द्रा घृ॒तम् इद् आ॑प आसुर् अ॒ग्नीषोमौ॑ बिभ्र॒त्य् आप॒ इत् ताः । ती॒व्रो रसो॑ मधु॒पृचा॑म् ॥

अ॒रं॒ग॒म आ मा॑ प्रा॒णेन॑ स॒ह वर्च॑सा गन् ॥

आद् इत् प॑श्याम्य् उ॒त वा॑ शृणो॒म्य् आ मा॒ घोषो॑ गछति॒ वाङ् न॑ आसाम् । मन्ये॑ भेजा॒नो अ॒मृत॑स्य॒ तर्हि॒ हिर॑ण्यवर्णा॒ अतृ॑पं यद् वः ॥

आपो॒ हि ष्ठा म॑यो॒भुव॒स् ता न॑ ऊ॒र्जे द॑धातन । म॒हे रणा॑य॒ चक्ष॑से ॥

यो वः॑ शि॒वत॑मो॒ रस॒स् तस्य॑ भाजयते॒ह नः॑ । उ॒श॒तीर् इ॑व मा॒तरः॑ ॥

तस्मा॒ अरं॑ गमाम वो॒ यस्य॒ क्षया॑य॒ जिन्व॑थ । आपो॑ ज॒नय॑था च नः ॥

दि॒वि श्र॑यस्वा॒न्तरि॑क्षे यतस्व पृथि॒व्या सम् भ॑व ब्रह्मवर्च॒सम् अ॑सि ब्रह्मवर्च॒साय॑ त्वा ॥

अ॒पां ग्रहा॑न् गृह्णाति \

ए॒तद् वाव रा॑ज॒सूयं॒ यद् ए॒ते ग्रहाः॑ स॒वो॑ऽग्निस् \

व॒रु॒ण॒स॒वो रा॑ज॒सूय॑म् अग्निस॒वश् चित्य॑स्

ताभ्या॑म् ए॒व सू॑यते॒ \

अथो॑ उ॒भाव् ए॒व लो॒काव् अ॒भि ज॑यति॒ यश् च॑ राजसू॒येने॑जा॒नस्य॒ यश् चा॑ग्नि॒चिते॑ \

आपो॑ भवन्ति \

आपो॒ वा अ॒ग्नेर् भ्रातृ॑व्यास् \

यद् अ॒पो॑ऽग्नेर् अ॒धस्ता॑द् उप॒दधा॑ति॒ भ्रातृ॑व्याभिभूत्यै॒

भव॑त्य् आ॒त्मना॒ परा॑स्य॒ भ्रातृ॑व्यो भवति \

अ॒मृत॑म् ॥

वा आप॒स्

तस्मा॑द् अ॒द्भिर् अव॑तान्तम् अ॒भि षि॑ञ्चन्ति

नार्ति॒म् आर्छ॑ति॒ सर्व॒म् आयु॑र् एति॒ यस्यै॒ता उ॑पधी॒यन्ते॒ य उ॑ चैना ए॒वं वेद॒ \

अन्नं॒ वा आपः॑

प॒शव॒ आप॑स् \

अन्न॑म् प॒शव॑स् \

अ॒न्ना॒दः प॑शु॒मान् भ॑वति॒ यस्यै॒ता उ॑पदी॒यन्ते॒ य उ॑ चैना ए॒वं वेद॑

द्वाद॑श भवन्ति

द्वाद॑श॒ मासाः॑ संवत्स॒रः

सं॑वत्स॒रेनै॒वास्मै॑ ॥

अन्न॒म् अव॑ रुन्द्धे

पात्रा॑णि भवन्ति

पात्रे॒ वा अन्न॑म् अद्यते॒

सयो॑न्य् ए॒वान्न॒म् अव॑ रुन्द्धे \

आ द्वा॑द॒शात् पुरु॑षा॒द् अन्न॑म् अ॒त्त्य् अथो॒ पात्रा॒न् न छि॑द्यते॒ यस्यै॒ता उ॑पधी॒यन्ते॒ य उ॑ चैना ए॒वं वेद॑

कु॒म्भाश् च॑ कु॒म्भीश् च॑ मिथु॒नानि॑ भवन्ति

मिथु॒नस्य॒ प्रजा॑त्यै॒

प्र प्र॒जया॑ प॒शुभि॑र् मिथु॒नैर् जा॑यते॒ यस्यै॒ता उ॑पधी॒यन्ते॒ य उ॑ ॥

चै॒ना॒ ए॒वं वेद॒

शुग् वा अ॒ग्निः

सो॑ऽध्व॒र्युं यज॑मानम् प्र॒जाः शु॒चार्प॑यति॒

यद् अ॒प उ॑प॒दधा॑ति॒ शुच॑म् ए॒वास्य॑ शमयति

नार्ति॒म् आर्छ॑त्य् अध्व॒र्युर् न यज॑मानः॒ शाम्य॑न्ति प्र॒जा यत्रै॒ता उ॑पधी॒यन्ते॑ \

अ॒पां वा ए॒तानि॒ हृद॑यानि॒ यद् ए॒ता आप॑स् \

यद् ए॒ता अ॒प उ॑प॒दधा॑ति दि॒व्याभि॑र् ए॒वैनाः॒ सँ सृ॑जति॒ वर्षु॑कः प॒र्जन्यः॑ ॥

भ॒व॒ति॒

यो वा ए॒तासा॑म् आ॒यत॑नं॒ कॢप्तिं॒ वेदा॒यत॑नवान् भवति॒ कल्प॑तेऽस्मै \

अनुसी॒तम् उप॑ दधाति \

ए॒तद् वा आ॑साम् आ॒यत॑नम् ए॒षा कॢप्ति॑स् \

य ए॒वं वेदा॒यत॑नवान् भवति॒ कल्प॑तेऽस्मै

द्वं॒द्वम् अ॒न्या उप॑ दधाति॒ चत॑स्रो॒ मध्ये॒ धृत्यै॒ \

अन्नं॒ वा इष्ट॑कास् \

ए॒तत् खलु॒ वै सा॒क्षाद् अन्नं॒ यद् ए॒ष च॒रुस् \

यद् ए॒तं च॒रुम् उ॑प॒दधा॑ति सा॒क्षात् ॥

ए॒वास्मा॒ अन्न॒म् अव॑ रुन्द्धे

मध्य॒त उप॑ दधाति

मध्य॒त ए॒वास्मा॒ अन्नं॑ दधाति॒

तस्मा॑न् मध्य॒तोऽन्न॑म् अद्यते

बार्हस्प॒त्यो भ॑वति॒

ब्रह्म॒ वै दे॒वाना॒म् बृह॒स्पति॑स् \

ब्रह्म॑णै॒वास्मा॒ अन्न॒म् अव॑ रुन्द्धे

ब्रह्मवर्च॒सम् अ॑सि ब्रह्मवर्च॒साय॒ त्वेत्य् आ॑ह

तेज॒स्वी ब्र॑ह्मवर्च॒सी भ॑वति॒ यस्यै॒ष उ॑पधी॒यते॒ य उ॑ चैनम् ए॒वं वेद॑ ॥

भू॒ते॒ष्ट॒का उप॑ दधाति॒ \

अत्रा॑त्र॒ वै मृ॒त्युर् जा॑यते॒

यत्र॑यत्रै॒व मृ॒त्युर् जाय॑ते॒ तत॑ ए॒वैन॒म् अव॑ यजते॒

तस्मा॑द् अग्नि॒चित् सर्व॒म् आयु॑ एति॒ सर्वे॒ ह्य् अ॑स्य मृ॒त्यवोऽवे॑ष्टा॒स्

तस्मा॑द् अग्नि॒चिन् नाभिच॑रित॒वै प्र॒त्यग् ए॑नम् अभिचा॒र स्तृ॑णुते

सू॒यते॒ वा ए॒ष यो॑ऽग्निं चि॑नु॒ते

दे॑वसु॒वाम् ए॒तानि॑ ह॒वीँषि॑ भवन्ति \

ए॒ताव॑न्तो॒ वै दे॒वानाँ॑ स॒वास्

त ए॒व ॥

अ॒स्मै॒ स॒वान् प्र य॑छन्ति॒

त ए॑नँ सुवन्ते

स॒वो॑ऽग्निर् व॑रुणस॒वो रा॑ज॒सूय॑म् ब्रह्मस॒वश् चित्य॑स् \

दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒व इत्य् आ॑ह

सवि॒तृप्र॑सूत ए॒वैन॒म् ब्रह्म॑णा दे॒वता॑भिर् अ॒भि षि॑ञ्चति॒ \

अन्न॑स्यान्नस्या॒भि षि॑ञ्चति॒ \

अन्न॑स्यान्न॒स्याव॑रुद्ध्यै

पु॒रस्ता॑त् प्र॒त्यञ्च॑म् अ॒भि षि॑ञ्चति

पु॒रस्ता॒द् धि प्र॑ती॒चीन॒म् अन्न॑म् अ॒द्यते॑

शीर्ष॒तो॑ऽभि षि॑ञ्चति

शीर्ष॒तो ह्य् अन्न॑म् अ॒द्यते॑ \

आ मुखा॑द् अ॒न्वव॑स्रावयति ॥

मु॒ख॒त ए॒वास्मा॑ अ॒न्नाद्यं॑ दधाति \

अ॒ग्नेस् त्वा॒ साम्रा॑ज्येना॒भि षि॑ञ्चा॒मीत्य् आ॑ह \

ए॒ष वा अ॒ग्नेः स॒वस्

तेनै॒वैन॑म् अ॒भि षि॑ञ्चति

बृह॒स्पते॑स् त्वा॒ साम्रा॑ज्येना॒भि षि॑ञ्चा॒मीत्य् आ॑ह॒

ब्रह्म॒ वै दे॒वाना॒म् बृह॒स्पति॑स् \

ब्रह्म॑णै॒वैन॑म् अ॒भि षि॑ञ्चति॒ \

इन्द्र॑स्य त्वा॒ साम्रा॑ज्येना॒भि षि॑ञ्चा॒मीत्य् आ॑ह \

इन्द्रि॒यम् ए॒वास्मि॑न्न् उ॒परि॑ष्टाद् दधाति \

ए॒तत् ॥

वै रा॑ज॒सूय॑स्य रू॒पम् \

य ए॒वं वि॒द्वान् अ॒ग्निं चि॑नु॒त उ॒भाव् ए॒व लो॒काव् अ॒भि ज॑यति॒ यश् च॑ राज॒सूये॑नेजा॒नस्य॒ यश् चा॑ग्नि॒चित॑स् \

इन्द्र॑स्य सुषुवा॒णस्य॑ दश॒धेन्द्रि॒यं वी॒र्य॑म् परा॑पत॒त्

तद् दे॒वाः सौ॑त्राम॒ण्या सम् अ॑भरन् \

सू॒यते॒ वा ए॒ष यो॑ऽग्निं चि॑नु॒ते \

अ॒ग्निं चि॒त्वा सौ॑त्राम॒ण्या य॑जेतेन्द्रि॒यम् ए॒व वी॒र्यँ॑ स॒म्भृत्या॒त्मन् ध॑त्ते ॥

स॒जूर् अब्दोऽया॑वभिः

स॒जूर् उ॒षा अरु॑णीभिः

स॒जूः सूर्य॒ एत॑श्चेन

स॒जोषा॑व् अ॒श्विना॒ दँसो॑भिः

स॒जूर् अ॒ग्निर् वै॑श्वान॒र इडा॑भिस् \

घृ॒तेन॒ स्वाहा॑

संवत्स॒रो वा अब्द॑स् \

मासा॒ अया॑वास् \

उ॒षा अरु॑णी

सूर्य॒ एत॑शस् \

इ॒मे अ॒श्विना॑

संवत्स॒रोऽग्निर् वै॑श्वान॒रः

प॒शव॒ इडा॑

प॒शवो॑ घृ॒तम् \

सं॒व॒त्स॒रम् प॒शवोऽनु॒ प्र जा॑यन्ते

संवत्स॒रेणै॒वास्मै॑ प॒शून् प्र ज॑नयति

दर्भस्त॒म्बे जु॑होति॒

यत् ॥

वा अ॒स्या अ॒मृतं॒ यद् वी॒र्यं॑ तद् द॒र्भास्

तस्मि॑ञ् जुहोति॒

प्रैव जा॑यतेऽन्ना॒दो भ॑वति॒ यस्यै॒वं जुह्व॑ति \

ए॒ता वै दे॒वता॑ अ॒ग्नेः पु॒रस्ता॑द्भागास्

ता ए॒व प्री॑णाति॒ \

अथो॒ चक्षु॑र् ए॒वाग्नेः पु॒रस्ता॒त् प्रति॑ दधाति॒ \

अन॑न्धो भवति॒ य ए॒वं वेद॑ \

आपो॒ वा इ॒दम् अग्रे॑ सलि॒लम् आ॑सी॒त्

स प्र॒जाप॑तिः पुष्करपर्णे॒ वातो॑ भू॒तो॑ऽलेलायत्

सः ॥

प्र॒ति॒ष्ठां नावि॑न्दत॒

स ए॒तद् अ॒पां कु॒लाय॑म् अपश्य॒त्

तस्मि॑न्न् अ॒ग्निम् अ॑चिनुत॒

तद् इ॒यम् अ॑भव॒त्

ततो॒ वै स प्रत्य् अ॑तिष्ठत् \

याम् पु॒रस्ता॑द् उ॒पाद॑धा॒त् तच् छिरो॑ऽभव॒त् सा प्राची॒ { दिग् ^ दिश् }

यां द॑क्षिण॒त उ॒पाद॑धा॒त् स दक्षि॑णः प॒क्षो॑ऽभव॒त् सा द॑क्षि॒णा { दिग् ^ दिश् }

याम् प॒श्चाद् उ॒पाद॑धा॒त् तत् पुछ॑म् अभव॒त् सा प्र॒तीची॒ { दिग् ^ दिश् }

याम् उ॑त्तर॒त उ॒पाद॑धात् ॥

स उत्त॑रः प॒क्षो॑ऽभव॒त् सोदी॑ची॒ { दिग् ^ दिश् }

याम् उ॒परि॑ष्टाद् उ॒पाद॑धा॒त् तत् पृ॒ष्ठम् अ॑भव॒त् सोर्ध्वा { दिग् ^ दिश् }

इ॒यम् वा अ॒ग्निः पञ्चे॑ष्टक॒स्

तस्मा॒द् यद् अ॒स्यां खन॑न्त्य् अ॒भीष्ट॑कां तृ॒न्दन्त्य् अ॒भि शर्क॑राम् \

सर्वा॒ वा इ॒यं वयो॑भ्यो॒ नक्तं॑ दृ॒शे दी॑प्यते॒

तस्मा॑द् इ॒मां वयाँ॑सि॒ नक्तं॒ नाध्य् आ॑सते॒

य ए॒वं वि॒द्वान् अ॒ग्निं चि॑नु॒ते प्रत्य् ए॒व ॥

ति॒ष्ठ॒त्य् अ॒भि दिशो॑ जयति \

आग्ने॒यो वै ब्रा॑ह्म॒णस्

तस्मा॑द् ब्राह्म॒णाय॒ सर्वा॑सु दि॒क्ष्व् अर्धु॑कम् \

स्वाम् ए॒व तद् दिश॒म् अन्व् ए॑ति \

अ॒पां वा अ॒ग्निः कु॒लाय॑म् \

तस्मा॒द् आपो॒ऽग्निँ हारु॑काः

स्वाम् ए॒व तद् योनि॒म् प्र वि॑शन्ति ॥

सं॒व॒त्स॒रम् उख्य॑म् भृ॒त्वा द्वि॒तीये॑ संवत्स॒र आ॑ग्ने॒यम् अ॒ष्टाक॑पालं॒ निर् व॑पेद् ऐ॒न्द्रम् एका॑दशकपालं वैश्वदे॒वं द्वाद॑शकपालम् बार्हस्प॒त्यं च॒रुं वै॑ष्ण॒वं त्रि॑कपा॒लम् \

त्रि॒तीये॑ संवत्स॒रे॑ऽभि॒जिता॑ यजेत॒

यद् अ॒ष्टाक॑पालो॒ भव॑त्य् अ॒ष्टाक्ष॑रा गाय॒त्र्य् आ॑ग्ने॒यं गा॑य॒त्रम् प्रा॑तःसव॒नम्

प्रा॒तः॒स॒व॒नम् ए॒व तेन॑ दाधार गाय॒त्रीं छन्द॑स् \

यद् एका॑दशकपालो॒ भव॒त्य् एका॑दशाक्षरा त्रि॒ष्टुग् ऐ॒न्द्रं त्रैष्टु॑भ॒म् माध्यं॑दिनँ॒ सव॑नम्

माध्यं॑दिनम् ए॒व सव॑नं॒ तेन॑ दाधार त्रि॒ष्टुभ॑म् ॥

छन्द॑स् \

यद् द्वाद॑शकपालो॒ भव॑ति॒ द्वाद॑शाक्षरा॒ जग॑ती वैश्वदे॒वं जाग॑तं तृतीयसव॒नम् \

तृ॒ती॒य॒स॒व॒नम् ए॒व तेन॑ दाधार॒ जग॑तीं॒ छन्द॑स् \

यद् बा॑र्हस्प॒त्यश् च॒रुर् भव॑ति॒ ब्रह्म॒ वै दे॒वाना॒म् बृह॒स्पति॑स् \

ब्रह्मै॒व तेन॑ दाधार॒

यद् वै॑ष्ण॒वस् त्रि॑कपा॒लो भव॑ति य॒ज्ञो वै विष्णु॑स् \

य॒ज्ञम् ए॒व तेन॑ दाधार॒

यत् तृ॒तीये॑ संवत्स॒रे॑ऽभि॒जिता॒ यज॑ते॒ऽभिजि॑त्यै॒

यत् सं॑वत्स॒रम् उख्य॑म् बि॒भर्ती॒मम् ए॒व ॥

तेन॑ लो॒कँ स्पृ॑णोति॒

यद् द्वि॒तीये॑ संवत्स॒रे॑ऽग्निं चि॑नु॒ते॑ऽन्तरि॑क्षम् ए॒व तेन॑ स्पृणोति॒

यत् तृ॒तीये॑ संवत्स॒रे यज॑ते॒ऽमुम् ए॒व तेन॑ लो॒कँ स्पृ॑णोति \

ए॒तं वै पर॑ {F आट्णा॒रः} {W आ॑त्णा॒रः} {ग्लोस् आ॒ट्णा॒रः} क॒क्षीवाँ॑ औशि॒जो वी॒तह॑व्यः श्राय॒सस् त्रस॑दस्युः पौरुकु॒त्स्यः प्र॒जाका॑मा अचिन्वत॒

ततो॒ वै ते स॒हस्रँ॑सहस्रम् पु॒त्रान् अ॑विन्दन्त॒

प्रथ॑ते प्र॒जया॑ प॒शुभि॒स् ताम् मात्रा॑म् आप्नोति॒ यां तेऽग॑छ॒न् य ए॒वं वि॒द्वान् अ॒ग्निं चि॑नु॒ते ॥

प्र॒जाप॑तिर् अ॒ग्निम् अ॑चिनुत॒

स क्षु॒रप॑विर् भू॒त्वाति॑ष्ठ॒त्

तं दे॒वा बिभ्य॑तो॒ नोपा॑य॒न्

ते छन्दो॑भिर् आ॒त्मानं॑ छादयि॒त्वोपा॑य॒न्

तच् छन्द॑सां छन्द॒स्त्वम्

ब्रह्म॒ वै छन्दाँ॑सि॒

ब्रह्म॑ण ए॒तद् रू॒पं यत् कृ॑ष्णाजि॒नम् \

कार्ष्णी॑ उपा॒नहा॒व् उप॑ मुञ्चते॒हन्दो॑भिर् ए॒वात्मानं॑ छादयि॒त्वाग्निम् उप॑ चरत्य् आ॒त्मनोऽहिँ॑सायै

देवनि॒धिर् वा ए॒ष नि धी॑यते॒ यद् अ॒ग्निः ॥

अ॒न्ये वा॒ वै नि॒धिम् अगु॑प्तं वि॒न्दन्ति॒ न वा॒ प्रति॒ प्र जा॑नाति \

उ॒खाम् आ क्रा॑मत्य् आ॒त्मान॑म् ए॒वाधि॒पां कु॑रुते॒ गुप्त्यै॒ \

अथो॒ खल्व् आहु॑स् \

नाक्रम्येति॑

नैरृ॒त्य् उ॑खा यद् आ॒क्रामे॒न् निरृ॑त्या आ॒त्मान॒म् अपि॑ दध्या॒त् तस्मा॒न् नाक्रम्या॑

पुरुषशी॒र्षम् उप॑ दधाति॒ गुप्त्यै॒ \

अथो॒ यथा॑ ब्रू॒यात् \

ए॒तन् मे॑ गोपा॒येति॑ ता॒दृग् ए॒व तत् ॥

प्र॒जाप॑ति॒र् वा अथ॑र्वा \

अ॒ग्निर् ए॒व द॒ध्यङ्ङ् आ॑थर्व॒णस्

तस्येष्ट॑का अ॒स्थानि॑ \

ए॒तँ ह॒ वाव तद् ऋषि॑र् अ॒भ्यनू॑वाच॒ \

इन्द्रो॑ दधी॒चो अ॒स्थभि॒र् इति॒

यद् इष्ट॑काभिर् अ॒ग्निं चि॒नोति॒ सात्मा॑नम् ए॒वाग्निं चि॑नुते

सात्मा॒मुष्मिँ॑ लो॒के भ॑वति॒ य ए॒वं वेद॒

शरी॑रं॒ वा ए॒तद् अ॒ग्नेर् यच् चित्य॑ आ॒त्मा वै॑श्वान॒रस् \

यच् चि॒ते वै॑श्वान॒रं जु॒होति॒ शरी॑रम् ए॒व सँ॒स्कृत्य॑ ॥

अ॒भ्यारो॑हति॒

शरी॑रं॒ वा ए॒तद् यज॑मानः॒ सँस् कु॑रुते॒ यद् अ॒ग्निं चि॑नु॒ते

यच् चि॒ते वै॑श्वान॒रं जु॒होति॒ शसी॑रम् ए॒व सँ॒स्कृत्या॒त्मना॒भ्यारो॑हति॒

तस्मा॒त् तस्य॒ नाव॑ द्यन्ति॒ जीव॑न्न् ए॒व दे॒वान् अप्य् ए॑ति

वैश्वान॒र्यर्चा पुरी॑ष॒म् उप॑ दधाति \

इ॒यं वा अ॒ग्निर् वै॑श्वान॒रस्

तस्यै॒षा चिति॒र् यत् पुरी॑षम्

अ॒ग्निम् ए॒व वै॑श्वान॒रं चि॑नुते \

ए॒षा वा अ॒ग्नेः प्रि॒या त॒नूर् यद् वै॑श्वान॒रः

प्रि॒याम् ए॒वास्य॑ त॒नुव॒म् अव॑ रुन्द्धे ॥

अ॒ग्नेर् वै दी॒क्षया॑ दे॒वा वि॒राज॑म् आप्नुवन्

ति॒स्रो रात्री॑र् दीक्षि॒तः स्या॑त्

त्रि॒पदा॑ { वि॒राट् ^ वि॒राज् }

वि॒राज॑म् आप्नोति॒

षड् रात्री॑र् दीक्षि॒तः स्या॒त्

षड् वा ऋ॒तवः॑ संवत्स॒रः

सं॑वत्स॒रो { वि॒राड् ^ वि॒राज् }

वि॒राज॑म् आप्नोति॒

दश॒ रात्री॑र् दीक्षि॒तः स्या॑त् \

दशा॑क्षरा { वि॒राड् ^ वि॒राज् }

वि॒राज॑म् आप्नोति

द्वाद॑श॒ रात्री॑र् दीक्षि॒तः स्या॑त् \

द्वाद॑श॒ मासाः॑ संवत्स॒रः

सं॑वत्स॒रो { वि॒राड् ^ वि॒राज् }

वि॒राज॑म् आप्नोति॒

त्रयो॑दश॒ रात्री॑र् दीक्षि॒तः स्या॑त्

त्रयो॑दश ॥

मासाः॑ संवत्स॒रः

सं॑वत्स॒रो { वि॒राड् ^ वि॒राज् }

पञ्च॑दश॒ रात्री॑र् दीक्षि॒तः स्या॒त्

पञ्च॑दश॒ वा अ॑र्धमा॒सस्य॒ रात्र॑यस् \

अ॒र्ध॒मा॒स॒शः सं॑वत्स॒र आ॑प्यते

संवत्स॒रो { वि॒राड् ^ वि॒राज् }

वि॒राज॑म् आप्नोति

स॒प्तद॑श॒ रात्री॑र् दीक्षि॒तः स्या॑त् \

द्वाद॑श॒ मासाः॒ पञ्च॒र्तवः॒ स सं॑वत्स॒रः

सं॑वत्स॒रो { वि॒राड् ^ वि॒राज् }

वि॒राज॑म् आप्नोति॒

चतु॑र्विँशतिँ॒ रात्री॑र् दीक्षि॒तः स्या॑त् \

चतु॑र्विँशतिर् अर्धमा॒साः सं॑वत्स॒रः

सं॑वत्स॒रो { वि॒राड् ^ वि॒राज् }

वि॒राज॑म् आप्नोति

त्रिँ॒शतँ॒ रात्री॑र् दीक्षि॒तः स्या॑त् ॥

त्रिँ॒शद॑क्षरा { वि॒राड् ^ वि॒राज् }

वि॒राज॑म् आप्नोति

मासं॑ दीक्षि॒तः स्या॑त् \

यो मासः॒ स सं॑वत्स॒रः

सं॑वत्स॒रो { वि॒राड् ^ वि॒राज् }

वि॒राज॑म् आप्नोति

च॒तुरो॑ मा॒सो दी॑क्षि॒तः स्या॑त् \

च॒तुरो॒ वा ए॒तम् मा॒सो वस॑वोऽबिभरु॒स् ते पृ॑थि॒वीम् आज॑यन् गाय॒त्रीं छन्द॑स् \

अ॒ष्टौ रु॒द्रास् ते॑ऽन्तरि॑क्ष॒म् आज॑यन् गाय॒त्रीं छन्द॑स् \

अ॒ष्टौ रु॒द्रास् ते॑ऽन्तरि॑क्ष॒म् आज॑यन् त्रि॒ष्टुभं॒ छन्द॑स् \

दे॒वाद॑शादि॒त्यास् ते दिव॒म् आज॑य॒ञ् जग॑तीं॒ छन्द॒स्

ततो॒ वै ते व्या॒वृत॑म् अगछञ् छ॒रैष्ठ्यं॑ दे॒वाना॑म् \

तस्मा॒द् द्वाद॑श मा॒सो भृ॒त्वाग्निं चि॑न्वीत

द्वाद॑श॒ मासाः॑ संवत्स॒रः

सं॑वत्स॒रो॑ऽग्निश् चित्य॒स्

तस्या॑होरा॒त्राणी॑ष्टकास् \

आ॒प्तेष्ट॑कम् एनं चिनु॒तेऽथो॑ व्या॒वृत॑म् ए॒व ग॑छति॒ श्रैष्ठ्यँ॑ समा॒नाना॑म् ॥

सु॒व॒र्गाय॒ वा ए॒ष लो॒काय॑ चीयते॒ यद् अ॒ग्निस्

तं य॒न् नान्वा॒रोहे॑त् सुव॒र्गाल् लो॒काद् यज॑मानो हीयेत

पृथि॒वीम् आक्र॑मिषम् प्रा॒णो मा॒ मा हा॑सीत् \

अ॒न्तरि॑क्ष॒म् आक्र॑मिषम् प्र॒जा मा॒ मा हा॑सीत् \

दिव॒म् आक्र॑मिषँ॒ सुव॑र् अगन्म॒ \

इत्य् आ॑ह \

ए॒ष वा अ॒ग्नेर् अ॑न्वारो॒हस्

तेनै॒वैन॑म् अ॒न्वारो॑हति

सुव॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै॒

यत् प॒क्षस॑म्मिताम् मिनु॒यात् ॥

कनी॑याँसं यज्ञक्र॒तुम् उपे॑या॒त् पापी॑यस्य् अस्या॒त्मनः॑ प्र॒जा स्या॑त् \

वेदि॑सम्मिताम् मिनोति

ज्यायाँ॑सम् ए॒व य॑ज्ञक्र॒तुम् उपै॑ति

नास्या॒त्मनः॒ पापी॑यसी प्र॒जा भ॑वति

साह॒स्रं चि॑न्वीत प्रथ॒मं चि॑न्वा॒नः

स॒हस्र॑सम्मितो॒ वा अ॒यं लो॒कस् \

इ॒मम् ए॒व लो॒कम् अ॒भि ज॑यति॒

द्विषा॑हस्रं चिन्वीत द्वि॒तीयं॑ चिन्वा॒नस् \

द्विषा॑हस्रं॒ वा अ॒न्तरि॑क्षम्

अ॒न्तरि॑क्षम् ए॒वाभि ज॑यति॒

त्रिषा॑हस्रं चिन्वीत तृ॒तीयं॑ चिन्वा॒नः ॥

त्रिषा॑हस्रो॒ वा अ॒सौ लो॒को॑ऽमुम् ए॒व लो॒कम् अ॒भि ज॑यति

जानुद॒घ्नं चि॑न्वीत प्रथ॒मं चि॑वा॒नस् \

गा॒य॒त्रि॒यैवेमं लो॒कम् अ॒भ्यारो॑हति

नाभिद॒घ्नं चि॑न्वीत द्वि॒तीयं॑ चिन्वा॒नस्

त्रि॒ष्टुभै॒वान्तरि॑क्षम् अ॒भ्यारो॑हति

ग्रीवद॒घ्नं चि॑न्वीत तृ॒तीयं॑ चिन्वा॒नस् \

जग॑त्यै॒वामुं लो॒कम् अ॒भ्यारो॑हति

नाग्निं चि॒त्वा रा॒माम् उपे॑याद् अयो॒नौ रेतो॑ धास्या॒मीति॒

न द्वि॒तीयं॑ चि॒त्वान्यस्य॒ स्त्रिय॑म् ॥

उपे॑यात् \

न तृ॒तीयं॑ चि॒त्वा कां च॒नोपे॑यात् \

रेतो॒ वा ए॒तन् नि ध॑त्ते॒ यद् अ॒ग्निं चि॑नु॒ते

यद् उ॑पे॒याद् रेत॑सा॒ व्य् ऋध्ये॒त॒ \

अथो॒ खल्व् आ॑हुस् \

अ॒प्र॒ज॒स्यं तद् यन् नोपे॒याद् इति॒

यद् रे॑तः॒सिचा॑व् उप॒दधा॑ति॒ ते ए॒व यज॑मानस्य॒ रेतो॑ बिभृत॒स्

तस्मा॒द् उपे॑या॒द् रेत॑सोऽस्कन्दाय

त्रीणि॒ वाव रेताँ॑सि पि॒ता पु॒त्रः पौत्रः॑ ॥

यद् द्वे रे॑तः॒सिचा॑व् उपद॒ध्याद् रेतो॒ऽस्य् वि छि॑न्द्यात्

ति॒स्र उप॑ दधाति॒ रेत॑सः॒ संत॑त्यै \

इ॒यं वाव प्र॑थ॒मा रे॑तः॒सिग् वाग् वा इ॒यं तस्मा॒त् पश्य॑न्ती॒माम् पश्य॑न्ति॒ वाचं॒ वद॑न्तीम्

अ॒न्तरि॑क्षं द्वि॒तीया॑ प्रा॒णो वा अ॒न्तरि॑क्षं॒ तस्मा॒न् नान्तरि॑क्ष॒म् पश्य॑न्ति॒ न प्रा॒णम्

अ॒सौ तृ॒तीया॒ चक्षु॒र् वा अ॒सौ तस्मा॒त् पश्य॑न्त्य् अ॒मूम् पश्य॑न्ति॒ चक्षु॑स् \

यजु॑षे॒मां च॑ ॥

अ॒मूंचोप॑ दधाति॒ मन॑सा मध्य॒माम्

ए॒षां लो॒कानां॒ कॢप्त्यै॒ \

अथो॑ प्रा॒णाना॑म्

इ॒ष्टो य॒ज्ञो भृगु॑भिर् आशी॒र्दा वसु॑भि॒स् तस्य॑ त इ॒ष्टस्य॑ वी॒तस्य॒ द्रवि॑णे॒ह भ॑क्षी॒येत्य् आ॑ह

स्तुतश॒स्त्रे ए॒वैतेन॑ दुहे

पि॒ता मा॑त॒रिश्वाछि॑द्रा प॒दा धा॒ अछि॑द्रा उ॒शिजः॑ प॒दानु॑ तक्षुः॒ सोमो॑ विश्व॒विन् ने॒ता ने॑ष॒द् बृह॒स्पति॑र् उक्थाम॒दानि॑ शँसिष॒द् इत्य् आ॑ह \

ए॒तद् वा अ॒ग्नेर् उ॒क्थम् \

तेनै॒वैन॒म् अनु॑ शँसति ॥

सू॒यते॒ वा ए॒षो॑ऽग्नी॒नां य उ॒खाया॑म् भ्रि॒यते॒

यद् अ॒धः सा॒दये॒द् गर्भाः॑ प्र॒पादु॑काः स्युस् \

अथो॒ यथा॑ स॒वात् प्र॑त्यव॒रोह॑ति ता॒दृग् ए॒व तत् \

आ॒स॒न्दी सा॑दयति॒ गर्भा॑णां॒ धृत्या॒ अप्र॑पादाय॒ \

अथो॑ स॒वम् ए॒वैनं॑ करोति॒

गर्भो॒ वा ए॒ष यद् उख्यो॒ योनिः॑ शि॒क्य॑म् \

यच् छि॑क्या॑द् उ॒खां नि॒रूहे॒द् योने॒र् गर्भं॒ निर् ह॑ण्या॒त्

षडु॑द्यामँ शि॒क्य॑म् भवति

षोढाविहि॒तो वै ॥

पुरु॑ष आ॒त्मा च॒ शिर॑श् च च॒त्वार्य् अङ्गा॑नि \

आ॒त्मन्न् ए॒वैन॑म् बिभर्ति

प्र॒जाप॑ति॒र् वा ए॒ष यद् अ॒ग्निस्

तस्यो॒खा चो॒लूख॑लं च॒ स्तनौ॑

ताव् अ॑स्य प्र॒जा उप॑ जीवन्ति॒

यद् उ॒खां चो॒लूख॑लं चोप॒दधा॑ति॒ ताभ्या॑म् ए॒व यज॑मानो॒ऽमुष्मिँ॑ लो॒के॑ऽग्निं दु॑हे

संवत्स॒रो वा ए॒ष यद् अ॒ग्निस्

तस्य॑ त्रेधाविहि॒ता इ॑ष्टकाः प्राजाप॒त्या वै॑ष्ण॒वीः ॥

वै॒श्व॒क॒र्म॒णी॒स् \

हो॒रा॒त्राण्य् ए॒वास्य॑ प्राजाप॒त्यास् \

यद् उख्य॑म् बि॒भर्ति॑ प्राजाप॒त्या ए॒व तद् उप॑ धत्ते॒

यत् स॒मिध॑ आ॒दधा॑ति वैष्ण॒वा वै वन॒स्पत॑यस् \

वै॒ष्ण॒वीर् ए॒व तद् उप॑ धत्ते॒

यद् इष्ट॑काभिर् अ॒ग्निं चि॒नोती॒यं वै वि॒श्वक॑र्मा

वैश्वकर्म॒णीर् ए॒व तद् उप॑ धत्ते॒

तस्मा॑द् आहुस्

त्रि॒वृद् अ॒ग्निर् इति॒

तं वा ए॒तं यज॑मान ए॒व चि॑न्वीत॒

यद् अ॑स्या॒न्यश् चि॑नु॒याद् यत् तं दक्षि॑णाभि॒र् न रा॒धये॑द् अ॒ग्निम् अ॑स्य वृञ्जीत॒

यो॑ऽस्या॒ग्निं चि॑नु॒यात् तं दक्षि॑णाभी राधयेत् \

अ॒ग्निम् ए॒व तत् स्पृ॑णोति ॥

प्र॒जाप॑तिर् अ॒ग्निम् अ॑चिनुत॒र्तुभिः॑ संवत्स॒रम् \

व॒स॒न्तेनै॒वास्य॑ पूर्वा॒र्धम् अ॑चिनुत

ग्री॒ष्मेण॒ दक्षि॑णम् प॒क्षम् \

व॒र्षाभिः॒ पुछ॑म् \

श॒रदोत्त॑रम् प॒क्षम् \

हे॒म॒न्तेन॒ मध्य॑म्

ब्रह्म॑णा॒ वा अ॑स्य॒ तत् पू॑र्वा॒र्धम् अ॑चिनुत

क्ष॒त्रेण॒ दक्षि॑णम् प॒क्षम्

प॒शुभिः॒ पुछ॑म् \

वि॒शोत्त॑रम् प॒क्षम्

आ॒शया॒ मध्य॑म् \

य ए॒वं वि॒द्वान् अ॒ग्निं चि॑नु॒त ऋ॒तुभि॑र् ए॒वैनं॑ चिनुते॒ \

अथो॑ ए॒तद् ए॒व सर्व॒म् अव॑ ॥

रु॒न्द्धे॒

शृ॒ण्वन्त्य् ए॑नम् अ॒ग्निं चि॑क्या॒नम्

अत्त्य् अन्न॑म् \

रोच॑ते \

इ॒यं वाव प्र॑थ॒मा चिति॒र् ओष॑धयो॒ वन॒स्पत॑यः॒ पुरी॑षम्

अ॒न्तरि॑क्षं द्वि॒तीया॒ वयाँ॑सि॒ पुरी॑षम्

अ॒सौ तृ॒तीया॒ नक्ष॑त्राणि॒ पुरी॑षम् \

य॒ज्ञश् च॑तु॒र्थी दक्षि॑णा॒ पुरी॑षम् \

यज॑मानः पञ्च॒मी प्र॒जा पुरी॑षम् \

यत् त्रिचि॑तीकं चिन्वी॒त य॒ज्ञं दक्षि॑णाम् आ॒त्मान॑म् प्र॒जाम् अ॒न्तर् इ॑या॒त्

तस्मा॒त् पञ्च॑चितीकश् चेत॒व्य॑स् \

ए॒तद् ए॒व सर्वँ॑ स्पृणोति॒

यत् ति॒स्रश् चित॑यः ॥

त्रि॒वृद् ध्य् अ॑ग्निस् \

यद् द्वे द्वि॒पाद् यज॑मानः॒ प्रति॑ष्ठित्यै॒

पञ्च॒ चित॑यो भवन्ति

पाङ्क्तः॒ पुरु॑षस् \

आ॒त्मान॑म् ए॒व स्पृ॑णोति॒

पञ्च॒ चित॑यो भवन्ति

प॒ञ्चभिः॒ पुरी॑षैर् अ॒भ्य् ऊ॑हति॒

दश॒ सम् प॑द्यन्ते॒

दशा॑क्षरो॒ वै पुरु॑षस् \

यावा॑न् ए॒व पुरु॑ष॒स् तँ स्पृ॑णोति॒ \

अथो॒ दशा॑क्षरा { वि॒राड् ^ वि॒राज् }

अन्नं॑ { वि॒राड् ^ वि॒राज् }

वि॒राज्य् ए॒वान्नाद्ये॒ प्रति॑ तिष्ठति

संवत्स॒रो वै ष॒ष्ठी चिति॑स् \

ऋ॒तवः॒ पुरी॑षम् \

षट् चित॑यो भवन्ति॒ षट् पुरी॑षाणि

द्वाद॑श॒ सम् प॑द्यन्ते

द्वाद॑श॒ मासाः॑ संवत्स॒रः

सं॑वत्स॒र ए॒व प्रति॑ तिष्ठति ॥

रोहि॑तो धू॒म्ररो॑हितः क॒र्कन्धु॑रोहित॒स् ते प्रा॑जाप॒त्यास् \

ब॒भ्रुर् अ॑रु॒णब॑भ्रुः॒ शुक॑बभ्रु॒स् ते रौ॒द्राः

श्येतः॑ श्येता॒क्षः श्येत॑ग्रीव॒स् ते पि॑तृदेव॒त्या॑स्

ति॒स्रः कृ॒ष्णा व॒शा वा॑रु॒ण्य॑स्

ति॒स्रः श्वे॒ता व॒शाः सौ॒र्य॑स् \

मै॒त्रा॒बा॒र्ह॒स्प॒त्या धू॒म्रल॑लामास् तूप॒राः ॥

पृश्नि॑स् तिर॒श्चीन॑पृश्निर् ऊ॒र्ध्वपृ॑श्नि॒स् ते मा॑रु॒ताः

फ॒ल्गूर् लो॑हितो॒र्णी ब॑ल॒क्षी ताः सा॑रस्व॒त्यः॑

पृष॑ती स्थू॒लपृ॑षती क्षु॒द्रपृ॑षती॒ ता वै॑श्वदे॒व्य॑स्

ति॒स्रः श्या॒मा व॒शाः पौ॒ष्णिय॑स्

ति॒स्रो रोहि॑णीर् व॒शा मै॒त्रिय॑स् \

ऐ॒न्द्रा॒बा॒र्ह॒स्प॒त्या अ॑रु॒णल॑लामास् तूप॒राः ॥

शि॒ति॒बा॒हुर् अ॒न्यतः॑शितिबाहुः सम॒न्तशि॑तिबाहु॒स् त ऐ॑न्द्रवाय॒वाः

शि॑ति॒रन्ध्रो॒ऽन्यतः॑शितिरन्ध्रः सम॒न्तशि॑तिरन्ध्र॒स् ते मै॑त्रावरु॒णाः

शु॒द्धवा॑लः स॒र्वशु॑द्धवालो म॒णिवा॑ल॒स् त आ॑श्वि॒नास्

ति॒स्रः शि॒ल्पा व॒शा वै॑श्वदे॒व्य॑स्

ति॒स्रः श्येनीः॑ परमे॒ष्ठिने॑

सोमापौ॒ष्णाः श्या॒मल॑लामास् तूप॒राः ॥

उ॒न्न॒त ऋ॑ष॒भो वा॑म॒नस् त ऐ॑न्द्रावरु॒णाः

शिति॑ककुच् छितिपृ॒ष्ठः शिति॑भस॒त् त ऐ॑न्द्राबार्हस्प॒त्याः

शि॑ति॒पाच् छि॒त्योष्ठः॑ शिति॒भ्रुस् त ऐ॑न्द्रावैष्ण॒वास्

ति॒स्रः सि॒ध्मा व॒शा वै॑श्वकर्म॒ण्य॑स्

ति॒स्रो धा॒त्रे पृ॑षोद॒रा ऐ॑न्द्रापौ॒ष्णाः श्येत॑ललामास् तूप॒राः ॥

क॒र्णास् त्रयो॑ या॒माः

सौ॒म्यास् त्रयः॑ श्वितिं॒गा अ॒ग्नये॒ यवि॑ष्ठाय॒ त्रयो॑ नकु॒लास्

ति॒स्रो रोहि॑णी॒स् त्र्यव्य॒स् ता वसू॑नाम् \

ति॒स्रो॑ऽरु॒णा दि॑त्यौ॒ह्य॑स् ता रु॒द्राणा॑म् \

सो॒मै॒न्द्रा ब॒भ्रुल॑लामास् तूप॒राः ॥

शु॒ण्ठास् त्रयो॑ वैष्ण॒वास् \

अ॒धी॒लो॒ध॒कर्णा॒स् त्रयो॒ विष्ण॑व उरुक्र॒माय॑

लप्सु॒दिन॒स् त्रयो॒ विष्ण॑व उरुगा॒याय॒

पञ्चा॑वीस् ति॒स्र आ॑दि॒त्याना॑म् \

त्रि॒व॒त्सास् ति॒स्रोऽङ्गि॑रसाम्

ऐन्द्रावैष्ण॒वा गौ॒रल॑लामास् तूप॒राः ॥

इन्द्रा॑य॒ राज्ञे॒ त्रयः॑ शितिपृ॒ष्ठास् \

इन्द्रा॑याधिरा॒जाय॒ त्रयः॒ शिति॑ककुदस् \

इन्द्रा॑य स्व॒राज्ञे॒ त्रयः॒ शिति॑भसदस्

ति॒स्रस् तु॑र्यौ॒ह्यः॑ सा॒ध्याना॑म् \

ति॒स्रः प॑ष्ठौ॒ह्यो॑ विश्वे॑षां दे॒वाना॑म्

आग्ने॒न्द्राः कृ॒ष्णल॑लामास् तूप॒राः ॥

अदि॑त्यै॒ त्रयो॑ रोहितै॒तास् \

इ॒न्द्रा॒ण्यै त्रयः॑ कृष्णै॒ताः

कु॒ह्वै॑ त्रयो॑ऽरुणै॒तास्

ति॒स्रो धे॒नवो॑ रा॒कायै॒

त्रयो॑ऽन॒ड्वाहः॑ सिनीवा॒ल्यास् \

आ॒ग्ना॒वै॒ष्ण॒वा रोहि॑तललामास् तूप॒राः ॥

सौ॒म्यास् त्रयः॑ पि॒शंगाः॒

सोमा॑य॒ राज्ञे॒ त्रयः॑ सा॒रंगाः॑

पार्ज॒न्या नभो॑रूपास्

ति॒स्रो॑ऽजा म॒ल्हा इ॑न्द्रा॒ण्यै

ति॒स्रो मे॒ष्य॑ आदि॒त्यास् \

{F द्या॒वा॒पृ॒थि॒या॑} {W द्वावापृथि॒या॑} मा॒लंगा॑स् तूप॒राः ॥

वा॒रु॒णास् त्रयः॑ कृ॒ष्णल॑लामास् \

वरु॑णाय॒ राज्ञे॒ त्रयो॒ रोहि॑तोललामास् \

वरु॑णाय रि॒शाद॑से॒ त्रयो॑ऽरु॒णल॑लामाः

शि॒ल्पास् त्रयो॑ वैश्वदे॒वास्

त्रयः॒ पृश्न॑यः सर्वदेव॒त्या॑स् \

ऐ॒न्द्रा॒सू॒राः श्येत॑ललामास् तूप॒राः ॥

सोमा॑य स्व॒राज्ञे॑ऽनोवा॒हाव् अ॑न॒ड्वाहौ॑ \

इन्द्रा॒ग्निभ्या॑म् ओजो॒दाभ्या॒म् उष्टा॑रौ \

इन्द्रा॒ग्निभ्या॑म् बल॒दाभ्याँ॑ सीरवा॒हाव् अवी॒

द्वे धे॒नू भौ॒मी

दि॒ग्भ्यो वड॑बे॒

द्वे धे॒नू भौ॒मी

वै॑रा॒जी पु॑रु॒षी

द्वे धे॒नू भौ॒मी

व॒यव॑ आरोहणवा॒हाव् अ॑न॒ड्वाहौ॑

वारु॒णी कृ॒ष्णे व॒शे

अ॑रा॒ड्यौ॑ दि॒व्याव् ऋ॑ष॒भौ प॑रिम॒रौ ॥

एका॑दश प्रा॒तर् ग॒व्याः प॒शव॑ प॒शव॒ आ ल॑भ्यन्ते छग॒लः क॒ल्माषः॑ किकिदी॒विर् वि॑दी॒गय॒स् ते त्वा॒ष्ट्राः

सौ॒रीर् नव॑ श्वे॒ता व॒शा अ॑नूब॒न्ध्या॑ भवन्ति \

आग्ने॒य ऐ॑न्द्रा॒ग्न आ॑श्वि॒नस् ते वि॑शालयू॒प आ ल॑भ्यन्ते ॥

पि॒शंगा॒स् त्रयो॑ वास॒न्ताः

सा॒रंगा॒स् त्रयो॒ ग्रैष्माः॑

पृष॑न्त॒स् त्रयो॒ वार्षि॑काः

पृश्न॑य॒स् त्रयः॑ शार॒दाः

पृ॑श्निस॒क्थास् त्रयो॒ हैम॑न्तिकास्

अवलि॒प्तास् त्रयः॑ शैशि॒राः

सं॑वत्स॒राय॒ निव॑क्षसः ॥