दे॒वा॒सु॒राः संय॑त्ता आस॒न्
ते न व्य् अ॑जयन्त॒
स ए॒ता इन्द्र॑स् त॒नूर् अ॑पश्यत्
ता उपा॑धत्त
ताभि॒र् वै स त॒नुव॑म् इन्द्रि॒यं वी॒र्य॑म् आ॒त्मन्न् अ॑धत्त॒
ततो॑ दे॒वा अभ॑व॒न् परा॑सुरास् \
यद् इ॑न्द्रत॒नूर् उ॑प॒दधा॑ति त॒नुव॑म् ए॒व ताभि॑र् इन्द्रि॒यं वी॒र्यं॑ यज॑मान आ॒त्मन् ध॑त्ते॒ \
अथो॒ सेन्द्र॑म् ए॒वाग्निँ सत॑नुं चिनुते॒
भव॑त्य् आ॒त्मना॒ परा॑स्य॒ भ्रातृ॑व्यः ॥
भ॒व॒ति॒
य॒ज्ञो दे॒वेभ्योऽपा॑क्राम॒त्
तम् अ॑व॒रुधं॒ नाश॑क्नुव॒न्
त ए॒ता य॑ज्ञत॒नूर् अ॑पश्यन्
ता उपा॑दधत
ताभि॒र् वै ते य॒ज्ञम् अवा॑रुन्धत॒
यद् य॑ज्ञत॒नूर् उ॑प॒दधा॑ति य॒ज्ञम् ए॒व ताभि॒र् यज॑मा॒नोऽव॑ रुन्द्धे॒
त्रय॑स्त्रिँशत॒म् उप॑ दधाति॒
त्रय॑स्त्रिँश॒द् वै दे॒वता॑स् \
दे॒वता॑ ए॒वाव॑ रुन्द्धे॒ \
अथो॒ सात्मा॑नम् ए॒वाग्निँ सत॑नुं चिनुते
सात्मा॒मुष्मिँ॑ लो॒के ॥
भ॒व॒ति॒ य ए॒वं वेद॒
ज्योति॑ष्मती॒र् उप॑ दधाति॒
ज्योति॑र् ए॒वास्मि॑न् दधाति \
ए॒ताभि॒र् वा अ॒ग्निश् चि॒तो ज्व॑लति
ताभि॑र् ए॒वैनँ॒ सम् इ॑न्द्धे \
उ॒भयो॑र् अस्मै लो॒कयो॒र् ज्योति॑र् भवति
नक्षत्रेष्ट॒का उप॑ दधाति \
ए॒तानि॒ वै दि॒वो ज्योतीँ॑षि
तान्य् ए॒वाव॑ रुन्द्धे
सु॒कृतां॒ वा ए॒तानि॒ ज्योतीँ॑षि॒ यन् नक्ष॑त्राणि
तान्य् ए॒वाप्नो॑ति॒ \
अथो॑ अनूका॒शम् ए॒वैतानि॑ ॥
ज्योतीँ॑षि कुरुते सुव॒र्गस्य॑ लो॒कस्यानु॑ख्यात्यै॒
यत् सँस्पृ॑ष्टा उपद॒ध्याद् वृष्ट्यै॑ लो॒कम् अपि॑ दध्या॒द् अव॑र्षुकः प॒र्जन्यः॑ स्यात् \
असँ॑स्पृष्टा॒ उप॑ दधाति॒ वृष्ट्या॑ ए॒व लो॒कं क॑रोति॒ वर्षु॑कः प॒र्जन्यो॑ भवति
पु॒रस्ता॑द् अ॒न्याः प्र॒तीची॒र् उप॑ दधाति प॒श्चाद् अ॒न्याः प्राची॒स्
तस्मा॑त् प्रा॒चीना॑नि च प्रती॒चीना॑नि च॒ नक्ष॑त्रा॒ण्य् आ व॑र्तन्ते ॥
ऋ॒त॒व्या॑ उप॑ दधाति \
ऋतू॒नां कॢप्त्यै॑
द्वं॒द्वम् उप॑ दधाति॒
तस्मा॑द् द्वं॒द्वम् ऋ॒तव॑स् \
अधृ॑तेव॒ वा ए॒षा यन् म॑ध्य॒मा चिति॑स् \
अ॒न्तरि॑क्षम् इव॒ वा ए॒षा
द्वं॒द्वम् अ॒न्यासु॒ चिती॒षूप॑ दधाति॒ चत॑स्रो॒ मध्ये॒ धृत्यै॑ \
अन्तः॒श्लेष॑णं॒ वा ए॒ताश् चिती॑नां॒ यद् ऋ॑त॒व्या॑स् \
यद् ऋ॑त॒व्या॑ उप॒दधा॑ति चितीनां॒ विधृ॑त्यै॒ \
अव॑का॒म् अनूप॑ दधाति \
ए॒षा वा अ॒ग्नेर् योनिः॒
सयो॑निम् ॥
ए॒वाग्निं चि॑नुते \
उ॒वाच॑ ह वि॒श्वामि॒त्रस् \
अद॒द् इत् स ब्रह्म॒णान्नं॒ यस्यै॒ता उ॑पधी॒यान्तै॒ य उ॑ चैना ए॒वं वेद॒द् इति॑
संवत्स॒रो वा ए॒तम् प्र॑ति॒ष्ठायै॑ नुदते॒ यो॑ऽग्निं चि॒त्वा न प्र॑ति॒तिष्ठ॑ति॒
पञ्च॒ पूर्वा॒श् चित॑यो भव॒न्त्य् अथ॑ ष॒ष्ठीं चितिं॑ चिनुते॒
षड् वा ऋ॒तवः॑ संवत्स॒रस् \
ऋ॒तुष्व् ए॒व सं॑वत्स॒रे प्रति॑ तिष्ठति \
ए॒ता वै ॥
अधि॑पत्नी॒र् नामेष्ट॑कास् \
यस्यै॒ता उ॑पधी॒यन्तेऽधि॑पतिर् ए॒व स॑मा॒नाना॑म् भवति॒
यं द्वि॒ष्यात् तम् उ॑प॒दध॑द् ध्यायेत् \
ए॒ताभ्य॑ ए॒वैनं॑ दे॒वता॑भ्य॒ आ वृ॑श्चति॒
आर्ति॒म् आर्छ॑ति॒ \
अङ्गि॑रसः सुव॒र्गं लो॒कं यन्तो॒ या य॒ज्ञस्य॒ निष्कृ॑ति॒र् आसी॒त् ताम् ऋषि॑भ्यः॒ प्रत्य् औ॑ह॒न्
तद् धिर॑ण्यम् अभवत् \
यद् धि॑रण्यश॒ल्कैः प्रो॒क्षति॑ य॒ज्ञस्य॒ निष्कृ॑त्यै॒ \
अथो॑ भेष॒जम् ए॒वास्मै॑ करोति ॥
अथो॑ रू॒पेणै॒वैनँ॒ सम् अ॑र्धयति॒ \
अथो॒ हिर॑ण्यज्योतिषै॒व सु॑व॒र्गं लो॒कम् ए॑ति
साह॒स्रव॑ता॒ प्रोक्ष॑ति
साह॒स्रः प्र॒जाप॑तिः
प्र॒जाप॑ते॒र् आप्त्यै॑ \
इ॒मा मे॑ अग्न॒ इष्ट॑का धे॒नवः॑ स॒न्त्व् इत्य् आ॑ह \
धे॒नूर् ए॒वैनाः॑ कुरुते
ता ए॑नं काम॒दुघा॑ अ॒मुत्रा॒मुष्मिँ॑ लो॒क उप॑ तिष्ठन्ते ॥
रु॒द्रो वा ए॒ष यद् अ॒ग्निः
स ए॒तर्हि॑ जा॒तो यर्हि॒ सर्व॑श् चि॒तः
स यथा॑ व॒त्सो जा॒त स्तन॑म् प्रे॒प्सत्य् ए॒वं वा ए॒ष ए॒तर्हि॑ भाग॒धेय॒म् प्रेप्स॑ति॒
तस्मै॒ यद् आहु॑तिं॒ न जु॑हु॒याद् अ॑ध्व॒र्युं च॒ यज॑मानं च ध्यायेत् \
श॒त॒रु॒द्रीयं॑ जुहोति
भाग॒धेये॑नै॒वैनँ॑ शमयति
नार्ति॒म् आर्छ॑त्य् अध्व॒र्युर् न यज॑मानस् \
यद् ग्रा॒म्याणा॑म् पशू॒नाम् ॥
पय॑सा जुहु॒याद् ग्रा॒म्यान् प॒शूञ् छु॒चार्प॑येत् \
यद् आ॑र॒ण्याना॑म् आर॒ण्यान् \
ज॒र्ति॒ल॒य॒वा॒ग्वा॑ वा जुहु॒याद् ग॑वीधुकयवा॒ग्वा॑ वा॒
न ग्रा॒म्यान् प॒शून् हि॒नस्ति॒ नार॒ण्यान्
अथो॒ खल्व् आ॑हुस् \
अना॑हुति॒र् वै ज॒र्तिला॑श् च ग॒वीधु॑का॒श् चेति॑ \
अजक्षी॒रेण॑ जुहोति \
आग्ने॒यी वा ए॒षा यद् अ॒जा \
आहु॑त्यै॒व जु॑होति॒
न ग्रा॒म्यान् प॒शून् हि॒नस्ति॒ नार॒ण्यान्
अङ्गि॑रसः सुव॒र्गं लो॒कं यन्तः॑ ॥
अ॒जायां॑ घ॒र्मम् प्रासि॑ञ्चन् \
सा शोच॑न्ती प॒र्णम् परा॑जिहीत॒
सो॑ऽर्को॑ऽभव॒त्
तद् अ॒र्कस्या॑र्क॒त्वम्
अ॑र्कप॒र्णेन॑ जुहोति सयोनि॒त्वाय॒ \
उद॒ङ् तिष्ठ॑ञ् जुहोति \
ए॒षा वै रु॒द्रस्य॒ { दिक् ^ दिश् }
स्वाया॑म् ए॒व दि॒शि रु॒द्रं नि॒रव॑दयते
चर॒माया॒म् इष्ट॑कायां जुहोति \
अन्त॒त ए॒व रु॒द्रं नि॒रव॑दयते
त्रे॒धावि॑भ॒क्तं जु॑होति॒
त्रय॑ इ॒मे लो॒कास् \
इ॒मान् ए॒व लो॒कान्त् स॒माव॑द्वीर्यान् करोति॒ \
इय॒त्य् अग्रे॑ जुहोति ॥
अथेय॒त्य् अथेय॑ति॒
त्रय॑ इ॒मे लो॒कास् \
ए॒भ्य ए॒वैनं॑ लो॒केभ्यः॑ शमयति
ति॒स्र उत्त॑रा॒ आहु॑तीर् जुहोति॒
षट् सम् प॑द्यन्ते॒
षड् वा ऋ॒तव॑स् \
ऋ॒तुभि॑र् ए॒वैनँ श॑मयति॒
यद् अ॑नुपरि॒क्रामं॑ जुहु॒याद् अ॑न्तरवचा॒रिणँ॑ रु॒द्रं कु॑र्यात् \
अथो॒ खल्व् आ॑हुः॒
कस्यां॒ वाह॑ दि॒शि रु॒द्रः कस्यां॒ वेति॑ \
अनुपरि॒क्राम॑म् ए॒व हो॑त॒व्य॑म्
अप॑रिवर्गम् ए॒वैनँ॑ शमयति ॥
ए॒ता वै दे॒वताः॑ सुव॒र्ग्या॑ या उ॑त्त॒मास्
ता यज॑मानं वाचयति
ताभि॑र् ए॒वैनँ॑ सुव॒र्गं लो॒कं ग॑मयति॒
यं द्वि॒ष्यात् तस्य॑ संच॒रे प॑शू॒नां न्य् अ॑स्येत् \
यः प्र॑थ॒मः प॒शुर् अ॑भि॒तिष्ठ॑ति॒ स आर्ति॒म् आर्छ॑ति ॥
अश्म॒न्न् ऊर्ज॒म् इति॒ परि॑ षिञ्चति
मा॒र्जय॑त्य् ए॒वैन॒म्
अथो॑ त॒र्पय॑त्य् ए॒व
स ए॑नं तृ॒प्तोऽक्षु॑ध्य॒न्न् अशो॑चन्न् अ॒मुष्मिँ॑ लो॒क उप॑ तिष्ठते
तृप्य॑ति प्र॒जया॑ प॒शुभि॒र् य ए॒वं वेद॑
तां न॒ इष॒म् ऊर्जं॑ धत्त मरुतः सँररा॒णा इत्य् आ॑ह॒ \
अन्नं॒ वा ऊर्ज् \
अन्न॑म् म॒रुत॑स् \
अन्न॑म् ए॒वाव॑ रुन्द्धे॒ \
अश्मँ॑स् ते॒ क्षुध् \
अ॒मुं ते॑ शुक् ॥
ऋ॒छ॒तु॒ यं द्वि॒ष्म इत्य् आ॑ह॒
यम् ए॒व द्वेष्टि॒ तम् अ॑स्य क्षु॒धा च॑ शु॒चा चा॑र्पयति॒
त्रिः प॑रिषि॒ञ्चन् पर्य् ए॑ति
त्रि॒वृद् वा अ॒ग्निस् \
यावा॑न् ए॒वाग्निस् तस्य॒ शुचँ॑ शमयति॒
त्रिः पुनः॒ पर्य् ए॑ति॒
षट् सम् प॑द्यन्ते॒
षड् वा ऋ॒तव॑स् \
ऋ॒तुभि॑र् ए॒वास्य॒ शुचँ॑ शमयति \
अ॒पां वा ए॒तत् पुष्पं॒ यद् वे॑त॒सस् \
अ॒पाम् ॥
शरोऽव॑कास् \
वे॒त॒स॒शा॒खया॒ चाव॑काभिश् च॒ वि क॑र्षति \
आपो॒ वै शा॒न्ताः
शा॒न्ताभि॑र् ए॒वास्य॒ शुचँ॑ शमयति॒
यो वा अ॒ग्निं चि॒तम् प्र॑थ॒मः प॒शुर् अ॑धि॒क्राम॑तीश्व॒रो वै तँ शु॒चा प्र॒दह॑स् \
म॒ण्डूके॑न॒ वि क॑र्षति \
ए॒ष वै प॑शू॒नाम् अ॑नुपजीवनी॒यस् \
न वा ए॒ष ग्रा॒म्येषु॑ प॒शुषु॑ हि॒तो नार॒ण्येषु॒
तम् ए॒व शु॒चार्प॑यति \
अष्टा॒भिर् वि क॑र्षति ॥
अ॒ष्टाक्ष॑रा गाय॒त्री
गा॑य॒त्रो॑ऽग्निस् \
यावा॑न् ए॒वाग्निर् तस्य॑ शुचँ शमयति
पाव॒कव॑तीभिस् \
अन्नं॒ वै पा॑व॒कस् \
अन्ने॑नै॒वास्य॒ शुचँ॑ शमयति
मृ॒त्युर् वा ए॒ष यद् अ॒ग्निस् \
ब्रह्म॑ण ए॒तद् रू॒पं यत् कृ॑ष्णाजि॒नम् \
कार्ष्णी॑ उपा॒नहा॒व् उप॑ मुञ्चते॒
ब्रह्म॑णै॒व मृ॒त्योर् अ॒न्तर् ध॑त्ते
अ॒न्तर् मृ॒त्योर् ध॑त्ते \
अ॒न्तर् अ॒न्नाद्या॒द् इत्य् आ॑हुस् \
अ॒न्याम् उ॑पमु॒ञ्चते॒ऽन्यां नान्तः ॥
ए॒व मृ॒त्योर् ध॒त्ते वा॒न्नाद्यँ॑ रुन्द्धे॒
नम॑स् ते॒ हर॑से शो॒चिष॒ इत्य् आ॑ह
नम॒स्कृत्य॒ हि वसी॑याँसम् उप॒चर॑न्ति \
अ॒न्यं ते॑ अ॒स्मत् त॑पन्तु हे॒तय॒ इत्य् आ॑ह॒
यम् ए॒व द्वेष्टि॒ तम् अ॑स्य शु॒चार्प॑यति
पाव॒को अ॒स्मभ्यँ॑ शि॒वो भ॒वेत्य् आ॑ह॒ \
अन्नं॒ वै पा॑व॒कस् \
अन्न॑म् ए॒वाव॑ रुन्द्धे
द्वाभ्या॒म् अधि॑ क्रामति॒ प्रति॑ष्ठित्यै \
अप॒स्य॑वतीभ्याँ॒ शान्त्यै॑ ॥
नृ॒षदे॒ वड् इति॒ व्याघा॑रयति
प॒ङ्क्त्याहु॑त्या यज्ञमु॒खम् आ र॑भते \
अक्ष्ण॒या व्याघा॑रयति॒
तस्मा॑द् अक्ष्ण॒या प॒शवोऽङ्गा॑नि॒ प्र ह॑रन्ति॒ प्रति॑ष्ठित्यै॒
यद् व॑षट्कु॒र्याद् या॒तया॑मास्य वषट्का॒रः स्या॑त् \
यन् न व॑षट्कु॒र्याद् रक्षाँ॑सि य॒ज्ञँ ह॑न्युस् \
वड् इत्य् आ॑ह प॒रोऽक्ष॑म् ए॒व वष॑ट् करोति
नास्य॑ या॒तया॑मा वषट्का॒रो भव॑ति॒ न य॒ज्ञँ रक्षाँ॑सि घ्नन्ति
हु॒तादो॒ वा अ॒न्ये दे॒वाः ॥
अ॒हु॒तादो॒ऽन्ये
तान् अ॑ग्नि॒चिद् ए॒वोभया॑न् प्रीणाति॒
ये दे॒वा दे॒वाना॒म् इति॑ द॒ध्ना म॑धुमि॒श्रेणावो॑क्षति
हु॒ताद॑श् चै॒व दे॒वान् अ॑हु॒ताद॑श् च॒ यज॑मानः प्रीणाति॒
ते यज॑मानम् प्रीणन्ति
द॒ध्नैव हु॒तादः॑ प्री॒णाति॒ मधु॑षाहु॒ताद॑स् \
ग्रा॒म्यं वा ए॒तद् अन्नं॒ यद् दध्य् आ॑र॒ण्यम् मधु॒
यद् द॒ध्ना म॑धुमि॒श्रेणा॒वोक्ष॑त्य् उ॒भय॒स्याव॑रुद्ध्यै
ग्रुमु॒ष्टिनावो॑क्षति
प्राजाप॒त्यः ॥
वै ग्रु॑मु॒ष्टिः स॑योनि॒त्वाय॑
द्वाभ्या॒म् प्रति॑ष्ठित्यै \
अनुपरि॒चार॒म् अवो॑क्षति॒ \
अप॑रिवर्गम् ए॒वैना॑न् प्रीणाति॒
वि वा ए॒ष प्रा॒णैः प्र॒जया॑ प॒शुभि॑र् ऋध्यते॒ यो॑ऽग्निं चि॒न्वन्न् अ॑धि॒क्राम॑ति
प्राण॒दा अ॑पान॒दा इत्य् आ॑ह
प्रा॒णान् ए॒वात्मन् ध॑त्ते
वर्चो॒दा व॑रिवो॒दा इत्य् आ॑ह
प्र॒जा वै वर्चः॑ प॒शवो॒ वरि॑वः
प्र॒जाम् ए॒व प॒शून् आ॒त्मन् ध॑त्ते॒ \
इन्द्रो॑ वृ॒त्रम् अ॑ह॒न्
तं वृ॒त्रः ॥
ह॒तः षो॑ड॒शभि॑र् भो॒गैर् अ॑सिना॒त्
स ए॒ताम् अ॒ग्नयेऽनी॑कवत॒ आहु॑तिम् अपश्यत्
ताम् अ॑जुहो॒त्
तस्या॒ग्निर् अनी॑कवा॒न्त् स्वेन॑ भाग॒धेये॑न प्री॒तः षो॑डश॒धा वृ॒त्रस्य॑ भो॒गान् अप्य् अ॑दहत् \
वै॒श्व॒क॒र्म॒णेन॑ पा॒प्मनो॒ निर् अ॑मुच्यत॒
यद् अ॒ग्नयेऽनी॑कवत॒ आहु॑तिं जु॒होत्य् अ॒ग्निर् ए॒वास्यानी॑कवा॒न्त् स्वेन॑ भाग॒धेये॑न प्री॒तः पा॒प्मान॒म् अपि॑ दहति
वैश्वदर्म॒णेन॑ पा॒प्मनो॒ निर् मु॑च्यते॒
यं का॒मये॑त
चि॒रम् पा॒प्मनः॑ ॥
निर् मु॑च्ये॒तेत्य् एकै॑कं॒ तस्य॑ जुहुयात् \
चि॒रम् ए॒व पा॒प्मनो॒ निर् मु॑च्यते॒
यं का॒मये॑त
ता॒जक् पा॒प्मनो॒ निर् मु॑च्ये॒तेति॒ सर्वा॑णि॒ तस्या॑नु॒द्रुत्य॑ जुह्यात्
ता॒जग् ए॒व पा॒प्मनो॒ निर् मु॑च्यते॒ \
अथो॒ खलु॒ नानै॒व सू॒क्ताभ्यां॑ जुहोति
नानै॒व सू॒क्तयो॑र् वी॒र्यं॑ दधाति॒ \
अथो॒ प्रति॑ष्ठित्यै ॥
उद् ए॑नम् उत्त॒रां न॒येति॑ स॒मिध॒ आ द॑धाति॒
यथा॒ जनं॑ य॒ते॑ऽव॒सं क॒रोति॑ ता॒दृग् ए॒व तत्
ति॒स्र आ द॑धाति
त्रि॒वृद् वा अ॒ग्निस् \
यावा॑न् ए॒वाग्निस् तस्मै॑ भाग॒धेयं॑ करोति॒ \
औदु॑म्बरीर् भवन्ति \
ऊर्ग् वा उ॑दु॒म्बर॑स् \
ऊर्ज॑म् ए॒वास्मा॒ अपि॑ दधाति॒ \
उद् उ॑ त्वा॒ विश्वे॑ दे॒वा इत्य् आ॑ह
प्रा॒णा वै विश्वे॑ दे॒वाः
प्रा॒णैः ॥
ए॒वैन॒म् उद् य॑छते॒ \
अग्ने॑ भरन्तु॒ चित्ति॑भि॒र् इत्य् आ॑ह॒
यस्मा॑ ए॒वैनं॑ चि॒त्तायो॒द्यछ॑ते॒ तेनै॒वैनँ॒ सम् अ॑र्धयति॒
पञ्च॒ दिशो॒ दैवी॑र् य॒ज्ञम् अ॑वन्तु दे॒वीर् इत्य् आ॑ह॒
दिशो॒ ह्य् ए॑षोऽनु॑ प्र॒च्यव॑ते॒ \
अपाम॑तिं दुर्म॒तिम् बाध॑माना॒ इत्य् आ॑ह॒ रक्ष॑सा॒म् अप॑हत्यै
रा॒यस् पोषे॑ य॒ज्ञप॑तिम् आ॒भज॑न्ती॒र् इत्य् आ॑ह
प॒शवो॒ वै रा॒यस् पोषः॑ ॥
प॒शून् ए॒वाव॑ रुन्द्धे
ष॒ड्भिर् ह॑रति॒
षड् वा ऋ॒तव॑स् \
ऋ॒तुभि॑र् ए॒वैनँ॑ हरति॒
द्वे प॑रि॒गृह्य॑वती भवतो॒ रक्ष॑सा॒म् अप॑हत्यै
सूर्य॑रश्मि॒र् हरि॑केशः पु॒रस्ता॒द् इत्य् आ॑ह॒
प्रसू॑त्यै॒
ततः॑ पाव॒का आ॒शिषो॑ नो जुषन्ता॒म् इत्य् आ॑ह॒ \
अन्नं॒ वै पा॑व॒कस् \
अन्न॑म् ए॒वाव॑ रुन्द्धे
देवासु॒राः संय॑त्ता आस॒न्
ते दे॒वा ए॒तद् अप्र॑तिरथम् अपश्य॒न्
तेनै॒व तेऽप्र॒ति ॥
असु॑रान् अजय॒न्
तद् अप्र॑तिरथस्याप्रतिरथ॒त्वम् \
यद् अप्र॑तिरथं द्वि॒तीयो॒ होता॒न्वाहा॑प्र॒त्य् ए॑व तेन॒ यज॑मानो॒ भ्रातृ॑व्याञ् जयति॒ \
अथो॒ अन॑भिजितम् ए॒वाभि ज॑यति
दश॒र्चम् भ॑वति॒
दशा॑क्षरा { वि॒राड् ^ वि॒राज् }
वि॒राजे॒मौ लो॒कौ विधृ॑तौ \
अ॒नयो॑र् लो॒कयो॒र् विधृ॑त्यै॒ \
अथो॒ दशा॑क्षरा { वि॒राड् ^ वि॒राज् }
अन्नं॑ { वि॒राड् ^ वि॒राज् }
वि॒राज्य् ए॒वान्नाद्ये॒ प्रति॑ तिष्ठति॒ \
अस॑द् इव॒ वा अ॒न्तरि॑क्षम्
अ॒न्तरि॑क्षम् इ॒वाग्नी॑ध्रम्
आग्नी॑ध्रे ॥
अश्मा॑नं॒ नि द॑धाति
स॒त्त्वाय॑
द्वाभ्या॑म्
प्रति॑ष्ठित्यै
वि॒मान॑ ए॒ष दि॒वो मध्य॑ आस्त॒ इत्य् आ॑ह
व्य् ए॑वैतया॑ मिमीते॒
मध्ये॑ दि॒वो निहि॑तः॒ पृश्नि॑र् अ॒श्मेत्य् आ॑ह॒ \
अन्नं॒ वै पृश्नि॒ \
अन्न॑म् ए॒वाव॑ रुन्द्धे
चत॒सृभि॒र् आ पुछा॑द् एति
च॒त्वारि॒ छन्दाँ॑सि॒
छन्दो॑भिर् ए॒व \
इन्द्रं॒ विश्वा॑ अवीवृध॒न्न् इत्य् आ॑ह
वृद्धि॑म् ए॒वोपाव॑र्तते
वाजा॑नाँ॒ सत्प॑ति॒म् पति॑म् ॥
इत्य् आ॑ह॒ \
अन्नं॒ वै वाज॑स् \
अन्न॑म् ए॒वाव॑ रुन्द्धे
सुम्न॒हूर् य॒ज्ञो दे॒वाँ आ च॑ वक्ष॒द् इत्य् आ॑ह
प्र॒जा वै प॒शवः॑ सु॒म्नम्
प्र॒जाम् ए॒व प॒शून् आ॒त्मन् ध॑त्ते॒
यक्ष॑द् अ॒ग्निर् दे॒वो दे॒वाँ आ च॑ वक्ष॒द् इत्य् आ॑ह
स्व॒गाकृ॑त्यै
वाज॑स्य मा प्रस॒वेनो॑द्ग्रा॒भेणोद् अ॑ग्रभी॒द् इत्य् आ॑ह \
अ॒सौ वा आ॑दि॒त्य उ॒द्यन्न् उ॑द्ग्रा॒भ ए॒ष नि॒म्रोच॑न् निग्रा॒भस् \
ब्रह्म॑णै॒वात्मान॑म् उद्गृ॒ह्णाति॒ ब्रह्म॑णा॒ भ्रातृ॑व्यं॒ नि गृ॑ह्णाति ॥
प्राची॒म् अनु॑ प्र॒दिश॒म् प्रेहि॑ वि॒द्वान् इत्य् आ॑ह
देवलो॒कम् ए॒वैतयो॒पाव॑र्तते॒
क्रम॑ध्वम् अ॒ग्निना॒ नाक॒म् इत्य् आ॑ह \
इ॒मान् ए॒वैतया॑ लो॒कान् क्र॑मते
पृथि॒व्या अ॒हम् उद् अ॒न्तरि॑क्ष॒म् आरु॑ह॒म् इत्य् आ॑ह \
इ॒मान् ए॒वैतया॑ लो॒कान्त् स॒मारो॑हति॒
सुव॒र् यन्तो॒ नापे॑क्षन्त॒ इत्य् आ॑ह
सुव॒र्गम् ए॒वैतया॑ लो॒कम् ए॑ति॒ \
अग्ने॒ प्रेहि॑ ॥
प्र॒थ॒मो दे॑वय॒ताम् इत्य् आ॑ह \
उ॒भये॑ष्व् ए॒वैतया॑ देवमनु॒ष्येषु॒ चक्षु॑र् दधाति
प॒ञ्चभि॒र् अधि॑ क्रामति
पाङ्क्तो॑ य॒ज्ञस् \
यावा॑न् ए॒व य॒ज्ञस् तेन॑ स॒ह सु॑व॒र्गं लो॒कम् ए॑ति॒
नक्तो॒षासेति॑ पुरोऽनुवा॒क्या॑म् अन्व् आ॑ह॒
प्रत्त्यै॒ \
अग्ने॑ सहस्रा॒क्षेत्य् आ॑ह
साह॒स्रः प्र॒जाप॑तिः
प्र॒जाप॑ते॒र् आप्त्यै॒
तस्मै॑ ते विधेम॒ वाजा॑य॒ स्वाहेत्य् आ॑ह॒ \
अन्नं॒ वै वाज॑स् \
अन्न॑म् ए॒वाव॑ ॥
रु॒न्द्धे॒
द॒ध्नः पू॒र्णाम् औदु॑म्बरीँ स्वयमातृ॒ण्णायां॑ जुहोति \
ऊर्ग् वै दधि॑ \
ऊर्ग् उ॑दु॒म्बर॑स् \
अ॒सौ स्व॑यमातृ॒ण्णा \
अ॒मुष्या॑म् ए॒वोर्जं॑ दधाति॒
तस्मा॑द् अ॒मुतो॒ऽर्वाची॒म् ऊर्ज॒म् उप॑ जीवामस्
ति॒सृभिः॑ सादयति
त्रि॒वृद् वा अ॒ग्निस् \
यावा॑न् ए॒वाग्निस् तम् प्र॑ति॒ष्ठां ग॑मयति॒
प्रेद्धो॑ अग्ने दीदिहि पु॒रो न॒ इत्य् औ॒दुम्ब॑री॒म् आ द॑धाति \
ए॒ष वै सू॒र्मी कर्ण॑कावती \
ए॒तया॑ ह स्म ॥
वै दे॒वा असु॑राणाँ शतत॒र्हाँस् तृँ॑हन्ति॒
यद् ए॒तया॑ स॒मिध॑म् आ॒दधा॑ति॒ वज्र॑म् ए॒वैतच् छ॑त॒घ्नीं यज॑मानो॒ भ्रातृ॑व्याय॒ प्र ह॑रति॒ स्तृत्यै॒ \
अछ॑म्बट्कारम् \
वि॒धेम॑ ते पर॒मे जन्म॑न्न् अग्न॒ इति॒ वैक॑ङ्कती॒म् आ द॑धाति
भा ए॒वाव॑ रुन्द्धे
ताँ स॑वि॒तुर् वरे॑ण्यस्य चि॒त्राम् इति॑ शमी॒मयीँ॒ शान्त्यै॑ \
अ॒ग्निर् वा॑ ह॒ वा अ॑ग्नि॒चितं॑ दु॒हे॑ऽग्नि॒चिद् वा॒ग्निं दु॑हे
ताम् ॥
स॒वि॒तुर् वरे॑ण्यस्य चि॒त्राम् इत्य् आ॑ह \
ए॒ष वा अ॒ग्नेर् दोह॒स्
तम् अ॑स्य॒ कण्व॑ ए॒व श्रा॑य॒सो॑ऽवे॒त्
तेन॑ ह समैनँ॒ स दु॑हे॒
यद् ए॒तया॑ स॒मिध॑म् आ॒दधा॑त्य् अग्नि॒चिद् ए॒व तद् अ॒ग्निं दु॑हे
स॒प्त ते॑ अग्ने स॒मिधः॑ स॒प्त जि॒ह्वा इत्य् आ॑ह
स॒प्तैवास्य॒ साप्ता॑नि प्रीणाति
पू॒र्णया॑ जुहोति
पू॒र्ण इ॑व॒ हि प्र॒जाप॑तिः
प्र॒जाप॑तेः ॥
आप्त्यै॑
न्यू॑नया जुहोति
न्यू॑ना॒द् धि प्र॒जाप॑तिः प्र॒जा असृ॑जत
प्र॒जानाँ॒ सृष्ट्यै॑ \
अ॒ग्निर् दे॒वेभ्यो॒ निला॑यत॒
स दिशोऽनु॒ प्रावि॑शत् \
जुह्व॒न् मन॑सा॒ दिशो॑ ध्यायेत् \
दि॒ग्भ्य ए॒वैन॒म् अव॑ रुन्द्धे
द॒ध्ना पु॒रस्ता॑ज् जुहो॒त्य् आज्ये॑नो॒परि॑ष्टा॒त्
तेज॑श् चै॒वास्मा॑ इन्द्रि॒यं च॑ स॒मीची॑ दधाति
द्वाद॑शकपालो वैश्वान॒रो भ॑वति
द्वाद॑श॒ मासाः॑ संवत्स॒रः
सं॑वत्स॒रो॑ऽग्निर् वै॑श्वान॒रः
सा॒क्षात् ॥
ए॒व वै॑श्वान॒रम् अव॑ रुन्द्धे॒
यत् प्र॑याजानूया॒जान् कु॒र्याद् विक॑स्तिः॒ सा य॒ज्ञस्य॑
दर्विहो॒मं क॑रोति य॒ज्ञस्य॒ प्रति॑ष्ठित्यै
रा॒ष्ट्रं वै वै॑श्वान॒रो विण् म॒रुत॑स् \
वै॒श्वा॒न॒रँ हु॒त्वा मा॑रु॒ताञ् जु॑होति
रा॒ष्ट्र ए॒व विश॒म् अनु॑ बध्नाति \
उ॒च्चैर् वै॑श्वान॒रस्या श्रा॑वयत्य् उपाँ॒शु मा॑रु॒ताञ् जु॑होति॒
तस्मा॑द् रा॒ष्ट्रं विश॒म् अति॑ वदति
मारु॒ता भ॑वन्ति
म॒रुतो॒ वै दे॒वानां॒ विश॑स् \
दे॒व॒वि॒शेनै॒वास्मै॑ मनुष्य वि॒शम् अव॑ रुन्द्धे
स॒प्त भ॑वन्ति
स॒प्तग॑णा॒ वै म॒रुत॑स् \
ग॒ण॒श ए॒व विश॒म् अव॑ रुन्द्धे
ग॒णेन॑ ग॒णम् अ॑नु॒द्रुत्य॑ जुहोति॒
विश॑म् ए॒वास्मा॒ अनु॑ वर्त्मानं करोति ॥
वसो॒र् धारां॑ जुहोति॒
वसो॑र् मे॒ धारा॑स॒द् इति॒ वा ए॒षा हू॑यते
घृ॒तस्य॒ वा ए॑नम् ए॒षा धारा॒मुष्मिँ॑ लो॒के पिन्व॑मा॒नोप॑ तिष्ठते \
आज्ये॑न जुहोति॒
तेजो॒ वा आज्यं॒ तेजो॒ वसो॒र् धारा॒
तेज॑सै॒वास्मै॒ तेजोऽव॑ रुन्द्धे॒ \
अथो॒ कामा॒ वै वसो॒र् धारा॑
कामा॑न् ए॒वाव॑ रुन्द्धे॒
यं का॒मये॑त
प्रा॒णान् अ॒स्यान्नाद्यं॒ वि ॥
छि॒न्द्या॒म् इति॑ वि॒ग्राहं॒ तस्य॑ जुहुयात्
प्रा॒णान् ए॒वास्या॒न्नाद्यं॒ वि छि॑नत्ति॒
यं का॒मये॑त
प्रा॒णान् अ॑स्या॒न्नाद्यँ॒ सं त॑नुया॒म् इति॒ संत॑तां॒ तस्य॑ जुहुयात्
प्रा॒णान् ए॒वास्या॒न्नाद्यँ॒ सं त॑नोति
द्वाद॑श द्वाद॒शानि॑ जुहोति॒ द्वाद॑श॒ मासाः॑ संवत्स॒रः
सं॑वत्स॒रेणै॒वास्मा॒ अन्न॒म् अव॑ रुन्द्धे॒ \
अन्नं॑ च॒ मेऽक्षु॑च् च म॒ इत्य् आ॑ह \
ए॒तद् वै ॥
अन्न॑स्य रू॒पम् \
रू॒पेणै॒वान्न॒म् अव॑ रुन्द्धे \
अ॒ग्निश् च॑ म॒ आप॑श् च म॒ इत्य् आ॑ह \
ए॒षा वा अन्न॑स्य॒ योनिः॒
सयो॑न्य् ए॒वान्न॒म् अव॑ रुन्द्धे \
अर्धे॒न्द्राणि॑ जुहोति
दे॒वता॑ ए॒वाव॑ रुन्द्धे॒
यत् सर्वे॑षाम् अ॒र्धम् इन्द्रः॒ प्रति॒ तस्मा॒द् इन्द्रो॑ दे॒वता॑नाम् भूयिष्ठ॒भाक्त॑मस् \
इन्द्र॒म् उत्त॑रम् आह \
इन्द्रि॒यम् ए॒वास्मि॑न्न् उ॒परि॑ष्टाद् दधाति
यज्ञायु॒धानि॑ जुहोति
य॒ज्ञः ॥
वै य॑ज्ञायु॒धानि॑
य॒ज्ञम् ए॒वाव॑ रुन्द्धे॒ \
अथो॑ ए॒तद् वै य॒ज्ञस्य॑ रू॒पम् \
रू॒पेणै॒व य॒ज्ञम् अव॑ रुन्द्धे \
अवभृ॒थश् च॑ मे स्वगाका॒रश् च॑ म॒ इत्य् आ॑ह
स्व॒गाकृ॑त्यै \
अ॒ग्निश् च॑ मे घ॒र्मश् च॑ म॒ इत्य् आ॑ह \
ए॒तद् वै ब्र॑ह्मवर्च॒सस्य॑ रू॒पम् \
रू॒पेनै॒व ब्र॑ह्मवर्च॒सम् अव॑ रुन्द्धे \
ऋक् च॑ मे॒ साम॑ च म॒ इत्य् आ॑ह ॥
ए॒तद् वै छन्द॑साँ रू॒पम् \
रू॒पेणै॒व छन्दाँ॒स्य् अव॑ रुन्द्धे॒
गर्भा॑श् च मे व॒त्साश् च॑ म॒ इत्य् आ॑ह \
ए॒तद् वै प॑शू॒नाँ रू॒पम् \
रू॒पेणै॒व प॒शून् अव॑ रुन्द्धे॒
कल्पा॑ञ् जुहोति॒ \
अकॢ॑प्तस्य॒ कॢप्त्यै॑
युग्मदयु॒जे जु॑होति
मिथुन॒त्वाय॑ \
उत्त॒राव॑ती भवतस् \
अ॒भिक्रा॑न्त्यै॒ \
एका॑ च मे ति॒स्रश् च॑ म॒ इत्य् आ॑ह
देवछन्द॒सं वा एका॑ च ति॒स्रश् च॑ ॥
म॒नु॒ष्य॒छ॒न्द॒सं चत॑स्रश् चा॒ष्टौ च॑
देवछन्द॒सं चै॒व म॑नुष्यछन्द॒सं चाव॑ रुन्द्धे \
आ त्रय॑स्त्रिँशतो जुहोति॒
त्रय॑स्त्रिँश॒द् वै दे॒वता॑स् \
दे॒वता॑ ए॒वाव॑ रुन्द्धे \
आष्टाच॑त्वारिँशतो जुहोति \
अ॒ष्टाच॑त्वारिँशदक्षरा॒ जग॑ती
जाग॑ताः प॒शव॑स् \
जग॑त्यै॒वास्मै॑ प॒शून् अव॑ रुन्द्धे
वाज॑श् च प्रस॒वश् चेति॑ द्वाद॒शं जु॑होति
द्वाद॑श॒ मासाः॑ संवत्स॒रः
सं॑वत्स॒र ए॒व प्रति॑ तिष्ठति ॥
अ॒ग्निर् दे॒वेभ्योऽपा॑क्रामद् भाग॒धेय॑म् इ॒छमा॑न॒स्
तं दे॒वा अ॑ब्रुवन् \
उप॑ न॒ आ व॑र्तस्व ह॒व्यं नो॑ व॒हेति॒
सो॑ऽब्रवीत् \
वरं॑ वृणै॒ मह्य॑म् ए॒व वा॑जप्रस॒वीयं॑ जुहव॒न्न् इति॒
तस्मा॑द् अ॒ग्नये॑ वाजप्रस॒वीयं॑ जुह्वति॒
यद् वा॑जप्रस॒वीयं॑ जु॒होत्य् अ॒ग्निम् ए॒व तद् भा॑ग॒धेये॑न॒ सम् अ॑र्धयति॒ \
अथो॑ अभिषे॒क ए॒वास्य॒ { स ^ सस् }
च॒तु॒र्द॒शभि॑र् जुहोति
स॒प्त ग्रा॒म्या ओष॑धयः स॒प्त ॥
आ॒र॒ण्यास् \
उ॒भयी॑षा॒म् अव॑रुद्ध्यै॒ \
अन्न॑स्यान्नस्य जुहोति॒ \
अन्न॑स्यान्न॒स्याव॑रुद्ध्यै॒ \
औदु॑म्बरेण स्रु॒वेण॑ जुहोति \
ऊर्ग् वा उ॑दु॒म्बर॒ ऊर्ग् अन्न॑म्
ऊ॒र्जैवास्मा॒ ऊर्ज॒म् अन्न॒म् अव॑ रुन्द्धे \
अ॒ग्निर् वै दे॒वाना॑म् अ॒भिषि॑क्तोऽग्नि॒चिन् म॑नु॒ष्या॑णाम् \
तस्मा॑द् अग्नि॒चिद् वर्ष॑ति॒ न धा॑वेत् \
अव॑रुद्धँ॒ ह्य् अ॑स्यान्न॒म्
अन्न॑म् इव॒ खलु॒ वै व॒र्षम् \
यद् धावे॑द् अ॒न्नाद्या॑द् धावेत् \
उ॒पाव॑र्तेत \
अ॒न्नाद्य॑म् ए॒वाभि ॥
उ॒पाव॑र्तते॒
नक्तो॒षासेति॑ कृ॒ष्णायै॑ श्वे॒तव॑त्सायै॒ पय॑सा जुहोति॒ \
अह्नै॒वास्मै॒ रात्रि॒म् प्र दा॑पयति॒ रात्रि॒याह॑र्
अहोरा॒त्रे ए॒वास्मै॒ प्रत्ते॒ काम॑म् अ॒न्नाद्यं॑ दुहाते
राष्ट्र॒भृतो॑ जुहोति
रा॒ष्ट्रम् ए॒वाव॑ रुन्द्धे
ष॒ड्भिर् जु॑होति
साड् वा ऋ॒तव॑स् \
ऋ॒तुष्व् ए॒व प्रति॑ तिष्ठति॒
भुव॑नस्य पत॒ इति॑ रथमु॒खे पञ्चाहु॑तीर् जुहोति॒
वज्रो॒ वै रथ॑स् \
वज्रे॑णै॒व दिशः॑ ॥
अ॒भि ज॑यति \
अग्नि॒चितँ॑ ह॒ वा अ॒मुष्मिँ॑ लो॒के वातो॒ऽभि प॑वते
वातना॒मानि॑ जुहोति \
अ॒भ्य् ए॑वैन॑म् अ॒मुष्मिँ॑ लो॒के वातः॑ पवते
त्रीणि॑ जुहोति॒
त्रय॑ इ॒मे लो॒कास् \
ए॒भ्य ए॒व लो॒केभ्यो॒ वात॒म् अव॑ रुन्द्धे
समु॒द्रो॑ऽसि॒ नभ॑स्वा॒न् इत्य् आ॑ह \
ए॒तद् वै वात॑स्य रू॒पम् \
रू॒पेणै॒व वात॒म् अव॑ रुन्द्धे \
अञ्ज॒लिना॑ जुहोति॒
न ह्य् ए॑तेषा॑म् अ॒न्यथाहु॑तिर् अव॒कल्प॑ते ॥
सु॒व॒र्गाय॒ वै लो॒काय॑ देवर॒थो यु॑ज्यते यत्राकू॒ताय॑ मनुष्यर॒थ ए॒ष खलु॒ वै दे॑वर॒थो यद् अ॒ग्निर् अ॒ग्निं यु॑नज्मि॒ शव॑सा घृ॒तेनेत्य् आ॑ह यु॒नक्त्य् ए॒वैनँ॒ स ए॑नं यु॒क्तः सु॑व॒र्गं लो॒कम् अ॒भि व॑हति॒
यत् स्वर्वा॑भिः प॒ञ्चभि॑र् यु॒ञ्ज्याद् यु॒क्तो॑ऽस्या॒ग्निः प्रच्यु॑तः स्या॒द् अप्र॑तिष्ठिता॒ आहु॑तयः॒ स्युर् अप्र॑तिष्ठिता॒ स्तोमा॒ अप्र॑तिष्ठितान्य् उ॒क्थानि॑ ति॒सृभिः॑ प्रातःसव॒ने॑ऽभि मृ॑शति त्रि॒वृत् ॥
वा अ॒ग्निर् यावा॑न् ए॒वाग्निस् तं यु॑नक्ति॒ यथान॑सि यु॒क्त आ॑धी॒यत॑ ए॒वम् ए॒व तत् प्रत्य् आहु॑तय॒स् तिष्ठ॑न्ति॒ प्रति॒ स्तोमाः॒ प्रत्य् उ॒क्थानि॑
यज्ञाय॒ज्ञिय॑स्य स्तो॒त्रे द्वाभ्या॑म् अ॒भि मृ॑शत्य् ए॒तावा॒न् वै य॒ज्ञो यावा॑न् अग्निष्टो॒मो भू॒मा त्वा अ॒स्यात॑ ऊ॒र्ध्वः क्रि॑यते॒ यावा॑न् ए॒व य॒ज्ञस् तम् अ॑न्त॒तो॑ऽन्वारो॑हति॒ द्वाभ्या॒म् प्रति॑ष्ठित्या॒ एक॒याप्र॑स्तुत॒म् भव॒त्य् अथ॑ ॥
अ॒भि मृ॑श॒त्य् उपै॑न॒म् उत्त॑रो य॒ज्ञो न॑म॒त्य् अथो॒ संत॑त्यै॒
प्र वा ए॒षो॑ऽस्माल् लो॒काच् च्य॑वते॒ यो॑ऽग्निं चि॑नु॒ते न वा ए॒तस्या॑निष्ट॒क आहु॑ति॒र् अव॑ कल्पते॒ यां वा ए॒षो॑ऽनिष्ट॒क आहु॑तिं जु॒होति॒
स्रव॑ति॒ वै सा ताँ स्रव॑न्तीं य॒ज्ञोऽनु॒ परा॑ भवति य॒ज्ञं यज॑मानो॒ यत् पु॑नश्चि॒तिं चि॑नु॒त आहु॑तीना॒म् प्रति॑ष्ठित्यै॒ प्रत्य् आहु॑तय॒स् तिष्ठ॑न्ति ॥
न य॒ज्ञः प॑रा॒भव॑ति॒ न यज॑मानस् \
अ॒ष्टाव् उप॑ दधात्य् अ॒ष्टाक्ष॑रा गाय॒त्री गा॑य॒त्रेणै॒वैनं॒ छन्द॑सा चिनुते॒ यद् एका॑दश॒ त्रैष्टु॑भेन॒ यद् द्वाद॑श॒ जाग॑तेन॒ छन्दो॑भिर् ए॒वैनं॑ चिनुते
नपा॒त्को वै नामै॒षो॑ऽग्निर् यत् पु॑नश्चि॒तिर् य ए॒वं वि॒द्वान् पु॑नश्चि॒तिं चि॑नु॒त आ तृ॒तीया॒त् पुरु॑षा॒द् अन्न॑म् अत्ति॒
यथा॒ वै पु॑नरा॒धेय॑ ए॒वम् पु॑नश्चि॒तिर् यो॑ऽग्न्या॒धेये॑न॒ न ॥
ऋ॒ध्नोति॒ स पु॑नरा॒धेय॒म् आ ध॑त्ते॒ यो॑ऽग्निं चि॒त्वा नर्ध्नोति॒ स पु॑नश्चि॒तिं चि॑नुते॒ यत् पु॑नश्चि॒तिं चि॑नु॒त ऋद्ध्यै॒ \
अथो॒ खल्व् आ॑हु॒र् न चे॑त॒व्येति॑ रु॒द्रो वा ए॒ष यद् अ॒ग्निर् यथा॑ व्या॒घ्रँ सु॒प्तम् बो॒धय॑ति ता॒दृग् ए॒व तत् \
अथो॑ खल्व् आहुश् चेत॒व्येति॒ यथा॒ वसी॑याँसम् भाग॒धेये॑न बो॒धय॑ति ता॒दृग् ए॒व तत् \
मनु॑र् अ॒ग्निम् अ॑चिनुत॒ तेन॒ नार्ध्नो॒त् स ए॒ताम् पु॑नश्चि॒तिम् अ॑पश्य॒त् ताम् अ॑चिनुत॒ तया॒ वै स आ॑र्ध्नो॒द् यत् पु॑नश्चि॒तिं चि॑नु॒त ऋद्ध्यै॑ ॥
छ॒न्द॒श्चितं॑ चिन्वीत प॒शुका॑मः प॒शवो॒ वै छन्दाँ॑सि पशु॒मान् ए॒व भ॑वति
श्येन॒चितं॑ चिन्वीत सुव॒र्गका॑मः श्ये॒नो वै वय॑सा॒म् पति॑ष्ठः श्ये॒न ए॒व भू॒त्वा सु॑व॒र्गं लो॒कम् प॑तति
कङ्क॒चितं॑ चिन्वीत॒ यः का॒मये॑त शीर्ष॒ण्वान् अ॒मुष्मिँ॑ लो॒के स्या॒म् इति॑ शीर्ष॒ण्वान् ए॒वामुष्मिँ॑ लो॒के भ॑वति \
अलज॒चितं॑ चिन्वीत॒ चतुः॑सीतम् प्रति॒ष्ठाका॑म॒श् चत॑स्रो॒ दिशो॑ दि॒क्ष्व् ए॑व॒ प्रति॑ तिष्ठति
प्रौग॒चितं॑ चिन्वीत॒ भ्रातृ॑व्यवा॒न् प्र ॥
ए॒व भ्रातृ॑व्यान् नुदते \
उभ॒यतः॑प्रौगं चिन्वीत॒ यः का॒मये॑त॒ प्र जा॒तान् भ्रातृ॑व्यान् नु॒देय॒ प्रति॑जनि॒ष्यमा॑णा॒न् इति॒ प्रैव जा॒तान् भ्रातृ॑व्यान् नु॒दते॒ प्रति॑ जनि॒ष्यमा॑णान्
रथचक्र॒चितं॑ चिन्वीत॒ भ्रातृ॑व्य॒वान् वज्रो॒ वै रथो॒ वज्र॑म् ए॒व भ्रातृ॑व्येभ्यः॒ प्र ह॑रति
द्रोण॒चितं॑ चिन्वी॒तान्न॑कामो॒ द्रोणे॒ वा अन्न॑म् भ्रियते॒ सयो॑न्य् ए॒वान्न॒म् अव॑ रुन्द्धे
समू॒ह्यं॑ चिन्वीत प॒शुका॑मः पशु॒मान् ए॒व भ॑वति ॥
प॒रि॒चा॒य्यं॑ चिन्वीत॒ ग्राम॑कामो ग्रा॒म्य् ए॑व भ॑वति
श्मशान॒चितं॑ चिन्वीत॒ यः का॒मये॑त पितृलो॒क ऋ॑ध्नुया॒म् इति॑ पितृलो॒क ए॒वर्ध्नो॑ति
विश्वामित्रजमद॒ग्नी वसि॑ष्ठेनास्पर्धेताँ॒ स ए॒ता ज॒मद॑ग्निर् विह॒व्या॑ अपश्य॒त् ता उपा॑धत्त॒ ताभि॒र् वै स वसि॑ष्ठ॒स्येन्द्रि॒यं वी॒र्य॑म् अवृङ्क्त॒ यद् वि॑ह॒व्या॑ उप॒दधा॑तीन्द्रि॒यम् ए॒व ताभि॑र् वी॒र्यं॑ यज॑मानो॒ भ्रातृ॑व्यस्य वृङ्क्ते॒
होतु॒र् धिष्णि॑य॒ उप॑ दधाति यजमानायत॒नं वै ॥
होता॒ स्व ए॒वास्मा॑ आ॒यत॑न इन्द्रि॒यं वी॒र्य॑म् अव॑ रुन्द्धे
द्वाद॒शोप॑ दधाति॒ द्वाद॑शाक्षरा॒ जग॑ती॒ जाग॑ताः प॒शवो॒ जग॑त्यै॒वास्मै॑ प॒शून् अव॑ रुन्द्धे \
अ॒ष्टाव॑ष्टाव् अ॒न्येषु॒ धिष्णि॑येषूप दधात्य् अ॒ष्टाश॑फाः प॒शवः॑ प॒शून् ए॒वाव॑ रुन्द्धे॒
षण् मा॑र्जा॒लीये॒ षड् वा ऋ॒तव॑ ऋ॒तवः॒ खलु॒ वै दे॒वाः पि॒तर॑ ऋ॒तून् ए॒व दे॒वान् पि॒तॄन् प्री॑णाति ॥
पव॑स्व॒ वाज॑सातय॒ इत्य् अ॑नु॒ष्टुक् प्र॑ति॒पद् भ॑वति
ति॒र्सो॑ऽनु॒ष्टुभ॒श् चत॑र्सो गाय॒त्रिय॑स् \
यत् ति॒स्रो॑ऽनु॒ष्टुभ॒स् तस्मा॑द् अश्श्वस् त्रि॒भिस् तिष्ठँ॑स् तिष्ठति॒
यच् चत॑स्रो गाय॒त्रिय॒स् तस्मा॒त् सर्वाँ॑श् च॒तुरः॑ प॒दः प्र॑ति॒दध॒त् पला॑यते
पर॒मा वा ए॒षा छन्द॑सां॒ यद् { अ॑नु॒ष्टुक् ^ अ॑नु॒ष्टुभ् }
प॒र॒मश् च॑तुष्टो॒म स्तोमा॑नाम्
पर॒मस् त्रि॑रा॒त्रो य॒ज्ञाना॑म्
पर॒मोऽश्वः॑ पशू॒नाम्
पर॑मेणै॒वैन॑म् पर॒मतां॑ गमयति \
एकविँ॒शम् अह॑र् भवति ॥
यस्मि॒न्न् अश्व॑ आल॒भ्यते॑
द्वाद॑श॒ मासाः॒ पञ्च॒र्तव॒स् त्रय॑ इ॒मे लो॒का अ॒साव् आ॑दि॒त्य ए॑कविँ॒श ए॒ष प्र॒जाप॑तिः
प्रा॒जा॒प॒त्योऽश्व॒स्
तम् ए॒व सा॒क्षाद् ऋ॑ध्नोति॒
शक्व॑रयः पृ॒ष्ठम् भ॑वन्ति \
अ॒न्यद॑न्य॒च् छन्द॑स् \
अ॒न्ये॑ऽन्ये॒ वा ए॒ते प॒शव॒ आ ल॑भ्यन्त उ॒तेव॑ ग्रा॒म्या उ॒तेवार॒ण्यास् \
यच् छक्व॑रयः पृ॒ष्ठम् भव॒न्त्य् अश्व॑स्य सर्व॒त्वाय॑
पार्थुर॒श्मम् ब्र॑ह्मसा॒मम् भ॑वति
र॒श्मिना॒ वा अश्वः॑ ॥
य॒तस् \
ई॒श्व॒रो वा अश्वोऽय॒तोऽप्र॑तिष्ठितः॒ परा॑म् परा॒वतं॒ गन्तो॑स् \
यत् पा॑र्थुर॒श्मम् ब्र॑ह्मसा॒मम् भव॒त्य् अश्व॑स्य॒ यत्यै॒ धृत्यै॒
संकृ॑त्य् अछावाकसा॒मम् भ॑वति \
उत्सन्नय॒ज्ञो वा ए॒ष यद् अ॑श्वमे॒धः
कस् तद् वे॒देत्य् आ॑हु॒र् यदि॒ सर्वो॑ वा क्रि॒यते॒ न वा॒ सर्व॒ इति॒
यत् संकृ॑त्य् अछावाकसा॒मम् भव॒त्य् अश्व॑स्य सर्व॒त्वाय॒ पर्या॑प्त्या॒ अन॑न्तरायाय॒
सर्व॑स्तोमोऽतिरा॒त्र उ॑त्त॒मम् अह॑र् भवति॒ सर्व॒स्याप्त्यै॒ सर्व॑स्य॒ जित्यै॒
सर्व॑म् ए॒व तेना॑प्नोति॒ सर्वं॑ जयति ॥