उ॒त्स॒न्न॒य॒ज्ञो वा ए॒ष यद् अ॒ग्निः
किं वाहै॒तस्य॑ क्रि॒यते॒ किं वा॒ न
यद् वै य॒ज्ञस्य॑ क्रि॒यमा॑णस्यान्त॒र्यन्ति॒ पूय॑ति॒ वा अ॑स्य॒ तत् \
आ॒श्वि॒नीर् उप॑ दधाति \
अ॒श्विनौ॒ वै दे॒वाना॑म् भि॒षजौ॑
ताभ्या॑म् ए॒वास्मै॑ भेष॒जं क॑रोति॒
पञ्चोप॑ दधाति
पाङ्क्तो॑ य॒ज्ञस् \
यावा॑न् ए॒व य॒ज्ञस् तस्मै॑ भेष॒जं क॑रोति \
ऋत॒व्या॑ उप॑ दधाति \
ऋतू॒नां कॢप्त्यै॑ ॥
प॒ञ्चोप॑ दधाति॒
पञ्च॒ वा ऋ॒तव॑स् \
याव॑न्त ए॒वर्तव॑स्
तान् क॑ल्पयति
समा॒नप्र॑भृतयो भवन्ति समा॒नोद॑र्का॒स्
तस्मा॑त् समा॒ना ऋ॒तव॑स् \
एके॑न प॒देन॒ व्याव॑र्तन्ते॒
तस्मा॑द् ऋ॒तवो॒ व्याव॑र्तन्ते
प्राण॒भृत॒ उप॑ दधाति \
ऋ॒तुष्व् ए॒व प्रा॒णान् द॑धाति॒
तस्मा॑त् समा॒नाः सन्त॑ ऋ॒तवो॒ न जी॑र्यन्ति॒ \
अथो॒ प्र ज॑नयत्य् ए॒वैना॑न्
ए॒ष वै वा॒युर् यत् प्रा॒णस् \
यद् ऋ॑त॒व्या॑ उप॒धाय॑ प्राण॒भृतः॑ ॥
उ॒प॒दधा॑ति॒ तस्मा॒त् सर्वा॑न् ऋ॒तून् अनु॑ वा॒युर् आ व॑रीवर्त्ति
वृष्टि॒सनी॒र् उप॑ दधाति
वृष्टि॑म् ए॒वाव॑ रुन्द्धे॒ यद् ए॑क॒धोप॑द॒ध्याद् एक॑म् ऋ॒तुं व॑र्षेत् \
अ॒नु॒प॒रि॒हारँ॑ सादयति॒ तस्मा॒त् सर्वा॑न् ऋ॒तून् व॑र्षति॒
यत् प्रा॑ण॒भृत॑ उप॒धाय॑ वृष्टि॒सनी॑र् उप॒दधा॑ति॒ तस्मा॑द् वा॒युप्र॑च्युता दि॒वो वृष्टि॑र् ईर्ते
प॒शवो॒ वै व॑य॒स्या॑स् \
नाना॑मनसः॒ खलु॒ वै प॒शवो॒ नाना॑व्रता॒स् ते॑ऽप ए॒वाभि सम॑नसः ॥
यं का॒मये॑त \
अप॒शुः स्या॒द् इति॑ वय॒स्या॑स् तस्यो॑प॒धाया॑प॒स्या॑ उप॑ दध्या॒द् असं॑ज्ञानम् ए॒वास्मै॑ प॒शुभिः॑ करोति \
अप॒शुर् ए॒व भ॑वति॒
यं का॒मये॑त
पशु॒मान्त् स्या॒द् इत्य् अ॑प॒स्या॑स् तस्यो॑प॒धाय॑ वय॒स्या॑ उप॑ दध्यात् सं॒ज्ञान॑म् ए॒वास्मै॑ प॒शुभिः॑ करोति
पशु॒मान् ए॒व भ॑वति॒
चत॑स्रः पु॒रस्ता॒द् उप॑ दधाति॒
तस्मा॑च् च॒त्वारि॒ चक्षु॑षो रू॒पाणि॒ द्वे शु॒क्ले द्वे कृ॒ष्णे ॥
मू॒र्ध॒न्वती॑र् भवन्ति॒
तस्मा॑त् पु॒रस्ता॑न् मू॒र्धा
पञ्च॒ दक्षि॑णायाँ॒ श्रोण्या॒म् उप॑ दधाति॒ पञ्चोत्त॑रस्यां॒ तस्मा॑त् प॒श्चाद् वर्षी॑यान् पु॒रस्ता॑त्प्रवणः प॒शुस् \
ब॒स्तो वय॒ इति॒ दक्षि॒णेऽँस॒ उप॑ दधाति वृ॒ष्णिर् वय॒ इत्य् उत्त॑रे॒ \
अँसा॑व् ए॒व प्रति॑ दधाति
व्या॒घ्रो वय॒ इति॒ दक्षि॑णे प॒क्ष उप॑ दधाति सिँ॒हो वय॒ इत्य् उत्त॑रे
प॒क्षयो॑र् ए॒व वी॒र्यं॑ दधाति॒
पुरु॑षो॒ वय॒ इति॒ मध्ये॒ तस्मा॒त् पुरु॑षः पशू॒नाम् अधि॑पतिः ॥
इन्द्रा॑ग्नी॒ अव्य॑थमाना॒म् इति॑ स्वयमातृ॒ण्णाम् उप॑ दधाति \
इन्द्रा॒ग्निभ्यां॒ वा इ॒मौ लो॒कौ विधृ॑तौ \
अ॒नयो॑र् लो॒कयो॒र् विधृ॑त्यै॒ \
अधृ॑तेव॒ वा ए॒षा यन् म॑ध्य॒मा चिति॑स् \
अ॒न्तरि॑क्षम् इव॒ वा ए॒षा \
इन्द्रा॑ग्नी॒ इत्य् आ॑ह \
इन्द्रा॒ग्नी वै दे॒वाना॑म् ओजो॒भृतौ॒ \
ओज॑सै॒वैना॑म् अ॒न्तरि॑क्षे चिनुते
धृत्यै॑
स्वयमातृ॒ण्णाम् उप॑ दधाति \
अ॒न्तरि॑क्षं॒ वै स्व॑यमातृ॒ण्णा \
अ॒न्तरि॑क्षम् ए॒वोप॑ धत्ते॒ \
अश्व॒म् उप॑ ॥
घ्रा॒प॒य॒ति॒
प्रा॒णम् ए॒वास्यां॑ दधाति॒ \
अथो॑ प्राजाप॒त्यो वा अश्वः॑
प्र॒जाप॑तिनै॒वाग्निं चि॑नुते
स्वयमातृ॒ण्णा भ॑वति
प्रा॒णाना॒म् उत्सृ॑ष्ट्यै॒ \
अथो॑ सुव॒र्गस्य॑ लो॒कस्यानु॑ख्यात्यै \
दे॒वानां॒ वै सु॑व॒र्गं लो॒कं य॒तां दिशः॒ सम् अ॑व्लीयन्त॒
त ए॒ता दिश्या॑ अपश्यन्
ता उपा॑दधत
ताभि॒र् वै ते दिशो॑ऽदृँह॒न्
यद् दिश्या॑ उप॒दधा॑ति॒
दिशं विधृ॑त्यै॒
दश॑ प्राण॒भृतः॑ पु॒रस्ता॒द् उप॑ ॥
द॒धा॒ति॒
नव॒ वै पुरु॑षे प्रा॒णा नाभि॑र् दश॒मी
प्रा॒णान् ए॒व पु॒रस्ता॑द् धत्ते॒
तस्मा॑त् पु॒रस्ता॑त् प्रा॒णास् \
ज्योति॑ष्मतीम् उत्त॒मां उप॑ दधाति॒
तस्मा॑त् प्रा॒णानां॒ वाग् ज्योति॑र् उत्त॒मास् \
दशोप॑ दधाति॒
दशा॑क्षरा { वि॒राड् ^ वि॒राज् }
वि॒राट् छन्द॑सां॒ ज्योति॑स् \
ज्योत्र् ए॒व पु॒रस्ता॑द् धत्ते॒
तस्मा॑त् पु॒रस्ता॒ज् ज्योति॒र् उपा॑स्महे॒
छन्दाँ॑सि प॒शुष्व् आ॒जिम् अ॑युस्
तान् बृ॑ह॒त्य् उद् अ॑जय॒त्
तस्मा॒द् बार्ह॑ताः ॥
प॒शव॑ उच्यन्ते
मा छन्द॒ इति॑ दक्षिण॒त उप॑ दधाति॒ तस्मा॑द् दक्षि॒णावृ॑तो॒ माषाः॑
पृथि॒वी छन्द॒ इति॑ प॒श्चात् प्रति॑ष्ठित्यै \
अ॒ग्निर् दे॒वतेत्य् उ॑त्तर॒त ओजो॒ वा अ॒ग्निर् ओज॑ ए॒वोत्त॑र॒तो ध॑त्ते॒ तस्मा॑द् उत्तरतोऽभिप्रया॒यी ज॑यति॒
षट्त्रिँ॑श॒त् सम् प॑द्यन्ते॒
षट्त्रिँ॑शदक्षरा बृह॒ती
बार्ह॑ताः प॒शव॑स् \
बृ॒ह॒त्यैवास्मै॑ प॒शून् अव॑ रुन्द्धे
बृह॒ती छन्द॑साँ॒ स्वारा॑ज्य॒म् परी॑याय॒
यस्यै॒ताः ॥
उ॒प॒धी॒यन्ते॒ गछ्ति॒ स्वारा॑ज्यम् \
स॒प्त वाल॑खिल्याः पु॒रस्ता॒द् उप॑ दधाति स॒प्त प॒श्चात्
स॒प्त वै शी॑र्ष॒ण्याः॑ प्रा॒णा द्वाव् अवा॑ञ्चौ प्रा॒णानाँ॑ सवीर्य॒त्वाय॑
मू॒र्धासि॒ राड् इति॑ पु॒रस्ता॒द् उप॑ दधाति॒ यन्त्री॒ राड् इति॑ प॒श्चात्
प्रा॒णान् ए॒वास्मै॑ स॒मीचो॑ दधाति ॥
दे॒वा वै यद् य॒ज्ञेऽकु॑र्वत॒ तद् असु॑रा अकुर्वत॒
ते दे॒वा ए॒ता अ॑क्ष्णयास्तो॒मीया॑ अपश्यन्
ता अ॒न्यथा॒नूच्या॒न्यथोपा॑दधत॒
तद् असु॑रा॒ नान्ववा॑य॒न्
ततो॑ दे॒वा अभ॑व॒न् परासु॑रास् \
यद् अ॑क्ष्णयास्तो॒मीया॑ अ॒न्यथा॒नूच्या॒न्यथो॑प॒दधा॑ति॒ भ्रात्रि॑व्याभिभूत्यै॒
भव॑त्य् आ॒त्मना॒ परा॑स्य॒ भ्रातृ॑व्यो भवति \
आ॒शुस् त्रि॒वृद् इति॑ पु॒रस्ता॒द् उप॑ दधाति
य॒ज्ञमु॒खं वै त्रि॒वृत् ॥
य॒ज्ञ॒मु॒खम् ए॒व पु॒रस्ता॒द् वि या॑तयति॒
व्यो॑म सप्तद॒श इति॑ दक्षिण॒तस् \
अन्नं॒ वै व्यो॑म॒ \
अन्नँ॑ सप्तद॒शस् \
अन्न॑म् ए॒व द॑क्षिण॒तो ध॑त्ते॒
तस्मा॒द् दक्षि॑णे॒नान्न॑म् अद्यते
ध॒रुण॑ एकविँ॒श इति॑ प॒श्चात् प्र॑ति॒ष्ठा वा ए॑कविँ॒शः
प्रति॑ष्ठित्यै
भा॒न्तः प॑ञ्चद॒श इत्य् उ॑त्तर॒तस् \
ओजो॒ वै भा॒न्तस् \
ओजः॑ पञ्चद॒शस् \
ओज॑ ए॒वोत्त॑र॒तो ध॑त्ते॒
तस्मा॑द् उत्तरतोऽभिप्रया॒यी ज॑यति॒
प्रतू॑र्तिर् अष्टाद॒श इति॑ पु॒रस्ता॑त् ॥
उप॑ दधाति॒
द्वौ त्रि॒वृता॑व् अभिपू॒र्वं य॑ज्ञमु॒खे वि या॑तयति \
अभिव॒र्तः स॑विँ॒श इति॑ दक्षिण॒तस् \
अन्नं॒ वा अ॑भिव॒र्तस् \
अन्नँ॑ सविँ॒शस् \
अन्न॑म् ए॒व द॑क्षिण॒तो ध॑त्ते॒
तस्मा॒द् दक्षि॑णे॒नान्न॑म् अद्यते॒
वर्चो॑ द्वाविँ॒श इति॑ प॒श्चात् \
यद् विँ॑श॒तिर् द्वे तेन॑ वि॒राजौ॒
यद् द्वे प्र॑ति॒ष्ठा तेन॑
वि॒राजो॑र् ए॒वाभि॑पू॒र्वम् अ॒न्नाद्ये॒ प्रति॑ तिष्ठति॒
तपो॑ नवद॒श इत्य् उ॑त्तर॒तस्
तस्मा॑त् स॒व्यः ॥
हस्त॑योस् तप॒स्वित॑रस् \
योनि॑श् चतुर्विँ॒श इति॑ पु॒रस्ता॒द् उप॑ दधाति॒
चतु॑र्विँशत्यक्षरा गाय॒त्री
गा॑य॒त्री य॑ज्ञमु॒खम् \
य॒ज्ञ॒मु॒खम् ए॒व पु॒रस्ता॒द् वि या॑तयति॒
गर्भाः॑ पञ्चविँ॒श इति॑ दक्षिण॒तस् \
अन्नं॒ वै गर्भा॑स् \
अन्न॑म् पञ्चविँ॒शस् \
अन्न॑म् ए॒व द॑क्षिण॒तो ध॑त्ते॒
तस्मा॒द् दक्षि॑णे॒नान्न॑म् अद्यते॒ \
ओज॑स् त्रिण॒व इति॑ प॒श्चात् \
इ॒मे वै लो॒कास् त्रि॑ण॒वस् \
ए॒ष्व् ए॑व लो॒केषु॒ प्रति॑ तिष्ठति
स॒म्भर॑णस् त्रयोविँ॒श इति॑ ॥
उ॒त्त॒र॒तस्
तस्मा॑त् स॒व्यो हस्त॑योः सम्भा॒र्य॑तरः
क्रतु॑र् एकत्रिँ॒श इति॑ पु॒रस्ता॒द् उप॑ दधाति
वाग् वै क्रतु॑स् \
य॒ज्ञ॒मु॒खं वाच् \
य॒ज्ञ॒मु॒खम् ए॒व पु॒रस्ता॒द् वि या॑तयति
ब्र॒ध्नस्य॑ वि॒ष्टपं॑ चतुस्त्रिँ॒श इति॑ दक्षिण॒तस् \
अ॒सौ वा आ॑दि॒त्यो ब्र॒ध्नस्य॑ वि॒ष्टप॑म्
ब्र॒ह्म॒व॒र्च॒सम् ए॒व द॑क्षिण॒तो ध॑त्ते॒
तस्मा॒द् दक्षि॒णोऽर्धो॑ ब्रह्मवर्च॒सित॑रः
प्र॒ति॒ष्ठा त्र॑यस्त्रिँ॒श इति॑ प॒श्चात्
प्रति॑ष्ठित्यै
नाकः॑ षट्त्रिँ॒श इत्य् उ॑त्तर॒तः
सु॑व॒र्गो वै लो॒को नाकः॑
सुव॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ॥
अ॒ग्नेर् भा॒गो॑ऽसीति॑ पु॒रस्ता॒द् उप॑ दधाति
यज्ञमु॒खं वा अ॒ग्निस् \
य॒ज्ञ॒मु॒खं दी॒क्षा
य॑ज्ञमु॒खम् ब्रह्म॑
यज्ञमु॒खं त्रि॒वृत् \
य॒ज्ञ॒मु॒खम् ए॒व पु॒रस्ता॒द् वि या॑तयति
नृ॒चक्ष॑साम् भा॒गो॑ऽसीति॑ दक्षिण॒तः
शु॑श्रु॒वाँसो॒ वै नृ॒चक्ष॒सस् \
अन्नं॑ धा॒ता
जा॒तायै॒वास्मा॒ अन्न॒म् अपि॑ दधाति॒
तस्मा॑ज् जा॒तोऽन्न॑म् अत्ति
ज॒नित्रँ॑ स्पृ॒तँ स॑प्तद॒श स्तोम॒ इत्य् आ॑ह॒ \
अन्नं॒ वै ज॒नित्र॑म् ॥
अन्नँ॑ सप्तद॒शस् \
अन्न॑म् ए॒व द॑क्षिण॒तो ध॑त्ते॒
तस्मा॒द् दक्षि॑णे॒नान्न॑म् अद्यते
मि॒त्रस्य॑ भा॒गो॑ऽसीति॑ प॒श्चात्
प्रा॒णो वै मि॒त्रो॑ऽपा॒नो वरु॑णः
प्रा॒णा॒पा॒नाव् ए॒वास्मि॑न् दधाति
दि॒वो वृ॒ष्टिर् वाता॑ स्पृ॒ता ए॑कविँ॒श स्तोम॒ इत्य् आ॑ह
प्रति॒ष्ठा वा ए॑कविँ॒शः
प्रति॑ष्ठित्यै॒ \
इन्द्र॑स्य भा॒गो॑ऽसीत्य् उ॑त्तर॒तस् \
ओजो॒ वा इन्द्र॑स् \
ओजो॒ विष्णु॑स् \
ओजः॑ क्ष॒त्रम्
ओजः॑ पञ्चद॒शः ॥
ओज॑ ए॒वोत्त॑र॒तो ध॑त्ते॒
तस्मा॑द् उत्तरतोऽभिप्रया॒यी ज॑यति॒
वसू॑नाम् भा॒गो॑ऽसीति॑ पु॒रस्ता॒द् उप॑ दधाति
यज्ञमु॒खं वै वस॑वस् \
य॒ज्ञ॒मु॒खँ रु॒द्रास् \
य॒ज्ञ॒मु॒खं च॑तुर्विँ॒शस् \
य॒ज्ञ॒मु॒खम् ए॒व पु॒रस्ता॒द् वि या॑तयति \
आदि॒त्याना॑म् भा॒गो॑ऽसीति॑ दक्षिण॒तस् \
अन्नं॒ वा आ॑दि॒त्यास् \
अन्न॑म् म॒रुत॑स् \
अन्नं॒ गर्भा॑स् \
अन्न॑म् पञ्चविँ॒शस् \
अन्न॑म् ए॒व द॑क्षिण॒तो ध॑त्ते॒
तस्मा॒द् दक्ष्णे॒नान्न॑म् अद्यते॒ \
अदि॑त्यै भा॒गः ॥
अ॒सीति॑ प॒श्चात्
प्र॒ति॒ष्ठा वा अदि॑तिः
प्र॒ति॒ष्ठा पू॒षा
प्र॑ति॒ष्ठा त्रि॑ण॒वः
प्रति॑ष्ठित्यै
दे॒वस्य॑ सवि॒तुर् भा॒गो॑ऽसीत्य् उ॑त्तर॒तस् \
ब्रह्म॒ वै दे॒वः स॑वि॒ता
ब्रह्म॒ बृह॒स्पति॑स् \
ब्रह्म॑ चतुष्टो॒मस् \
ब्र॒ह्म॒व॒र्च॒सम् ए॒वोत्त॑र॒तो ध॑त्ते॒
तस्मा॒द् उत्त॒रोऽर्धो॑ ब्रह्मवर्च॒सित॑रः
सावि॒त्रव॑ती भवति॒
प्रसू॑त्यै॒
तस्मा॑द् ब्राह्म॒णाना॒म् उदी॑ची स॒निः प्रसू॑ता
ध॒र्त्रश् च॑तुष्टो॒म इति॑ पु॒रस्ता॒द् उप॑ दधाति
यज्ञमु॒खं वै ध॒र्त्रः ॥
य॒ज्ञ॒मु॒खं च॑तुष्टो॒मस् \
य॒ज्ञ॒मु॒खम् ए॒व पु॒रस्ता॒द् वि या॑तयति
यावा॑नाम् भा॒गो॑ऽसीति॑
दक्षिण॒तस् \
मासा॒ वै यावा॑ अर्धमा॒सा अया॑वा॒स्
तस्मा॑द् दक्षि॒णावृ॑तो॒ मासा॑स् \
अन्नं॒ वै यावा॑स् \
अन्न॑म् प्र॒जास् \
अन्न॑म् ए॒व द॑क्षिण॒तो ध॑त्ते॒
तस्मा॒द् दक्षि॑णे॒नान्न॑म् अद्यते \
ऋभू॒णाम् भा॒गो॑ऽसीति॑ प॒श्चात्
प्रति॑ष्ठित्यै
विव॒र्तो॑ऽष्टाचत्वारिँ॒श इत्य् उ॑त्तर॒तस् \
अ॒नयो॑र् लो॒कयोः॑ सवीर्य॒त्वाय॒
तस्मा॑द् इ॒मौ लो॒कौ स॒माव॑द्वीर्यौ ॥
यस्य॒ मुख्य॑वतीः पु॒रस्ता॑द् उपधी॒यन्ते॒ मुख्य॑ ए॒व भ॑वति \
आस्य॒ मुख्यो॑ जायते॒
यस्यान्न॑वतीर् दक्षिण॒तोऽत्त्य् अन्न॑म्
आस्या॑न्ना॒दो जा॑यते॒
यस्य॑ प्रति॒ष्ठाव॑तीः प॒श्चात् प्रत्य् ए॒व ति॑ष्ठति॒
यस्यौज॑स्वतीर् उत्तर॒त ओ॑ज॒स्व्य् ए॑व भ॑वति \
आस्यौ॑ज॒स्वी जा॑यते \
अ॒र्को वा ए॒ष यद् अ॒ग्निस्
तस्यै॒तद् ए॒व स्तो॒त्रम् ए॒तच् छ॒स्त्रम् \
यद् ए॒ष वि॒धा ॥
वि॒धी॒यते॒ऽर्क ए॒व तद् अ॒र्क्य॑म् अनु॒ वि धी॑यते॒ \
अत्त्य् अन्न॒म् आस्या॑न्ना॒द्यो जा॑यते॒ यस्यै॒षा वि॒धा वि॑धी॒यते॒ य उ॑ चैनाम् ए॒वं वेद॑
सृष्टी॒र् उप॑ दधाति
यथासृ॒ष्टम् ए॒वाव॑ रुन्द्धे॒
न वा इ॒दं दिवा॒ न नक्त॑म् आसी॒द् अव्या॑वृत्तम् \
ते दे॒वा ए॒ता व्यु॑ष्टीर् अपश्यन्
ता उपा॑दधत॒
ततो॒ वा इ॒दं व्य् औ॑छत् \
यस्यै॒ता उ॑पधी॒यन्ते॒ व्य् ए॑वास्मा॑ उछति॒ \
अथो॒ तम॑ ए॒वाप॑ हते ॥
अग्ने॑ जा॒तान् प्र णु॑दा नः स॒पत्ना॒न् इति॑ पु॒रस्ता॒द् उप॑ दधाति
जा॒तान् ए॒व भ्रातृ॑व्या॒न् प्र णु॑दते॒
सह॑सा जा॒तान् इति॑ प॒श्चात् \
ज॒नि॒ष्यमा॑णान् ए॒व प्रति॑ नुदते
चतुश्चत्वारिँ॒श स्तोम॒ इति॑ दक्षिण॒तस् \
ब्र॒ह्म॒व॒र्च॒सं वै च॑तुश्चत्वारिँ॒शस् \
ब्र॒ह्म॒व॒र्च॒सम् ए॒व द॑क्षिण॒तो ध॑त्ते॒
तस्मा॒द् दक्षि॒णोऽर्धो॑ ब्रह्मवर्च॒सित॑रः
षोड॒श स्तोम॒ इत्य् उ॑त्तर॒तस् \
ओजो॒ वै षो॑ड॒शस् \
ओज॑ ए॒वोत्त॑र॒तो ध॑त्ते॒
तस्मा॑त् ॥
उ॒त्त॒र॒तो॒ऽभि॒प्र॒या॒यी ज॑यति॒
वज्रो॒ वै च॑तुश्चत्वारिँ॒शो वज्रः॑ षोडा॒शस् \
यद् ए॒ते इष्ट॑के उप॒दधा॑ति जा॒ताँश् चै॒व ज॑नि॒ष्यमा॑णाँश् च॒ भ्रातृ॑व्यान् प्र॒णुद्य॒ वज्र॒म् अनु॒ प्र ह॑रति
स्तृत्यै॒
पुरी॑षवती॒म् मध्य॒ उप॑ दधाति॒
पुरी॑षं॒ वै मध्य॑म् आ॒त्मनः॑
सात्मा॑नम् ए॒वाग्निं चि॑नुते
सात्मा॒मुष्मिँ॑ लो॒के भ॑वति॒ य ए॒वं वेद॑ \
ए॒ता वा अ॑सप॒त्ना नामेष्ट॑कास् \
यस्यै॒ता उ॑पधी॒यन्ते॑ ॥
नास्य॑ स॒पत्नो॑ भवति
प॒शुर् वा ए॒ष यद् अ॒ग्निस् \
वि॒राज॑ उत्त॒मायां॒ चित्या॒म् उप॑ दधाति
वि॒राज॑म् ए॒वोत्त॒माम् प॒शुषु॑ दधाति॒
तस्मा॑त् पशु॒मान् उ॑त्त॒मां वाचं॑ वदति॒
दश॑द॒शोप॑ दधाति सवीर्य॒त्वाय॑ \
अक्ष्ण॒योप॑ दधाति॒
तस्मा॑द् अक्ष्ण॒या प॒शवोऽङ्गा॑नि॒ प्र ह॑रन्ति॒ प्रति॑ष्ठित्यै
यानि॒ वै छन्दाँ॑सि सुव॒र्ग्या॑ण्य् आस॒न् तैर् दे॒वाः सु॑व॒र्गं लो॒कम् आ॑य॒न्
तेनर्ष॑यः ॥
अ॒श्रा॒म्य॒न्
ते तपो॑ऽतप्यन्त
तानि॒ तप॑सापश्य॒न्
तेभ्य॑ ए॒ता इष्ट॑का॒ निर् { अ॑मिमत्\ ^ अमिमत }
\एव॒श् छन्दो॒ वरि॑व॒श् छन्द॒ इति॑
ता उपा॑दधत
ताभि॒र् वै ते सु॑व॒र्गं लो॒कम् आ॑य॒न्
यद् ए॒ता इष्ट॑का उप॒दधा॑ति
यान्य् ए॒व छन्दाँ॑सि सुव॒र्ग्या॑णि॒ तैर् ए॒व यज॑मानः सुव॒र्गं लो॒कम् ए॑ति
य॒ज्ञेन॒ वै प्र॒जाप॑तिः प्र॒जा अ॑सृजत
ता स्तोम॑भागैर् ए॒वासृ॑जत॒
यत् ॥
स्तोम॑भागा उप॒दधा॑ति प्र॒जा ए॒व तद् यज॑मानः सृजते
बृह॒स्पति॒र् वा ए॒तद् य॒ज्ञस्य॒ तेजः॒ सम् अ॑भर॒द् यद् स्तोम॑भागास् \
यत् स्तोम॑भागा उप॒दधा॑ति॒ सते॑जसम् ए॒वाग्निं चि॑नुते
बृह॒स्पति॒र् वा ए॒तां य॒ज्ञस्य॑ प्रति॒ष्ठाम् अ॑पश्य॒द् यत् स्तोम॑भागास् \
यत् स्तोम॑भागा उप॒दधा॑ति य॒ज्ञस्य॒ प्रति॑ष्ठित्यै
स॒प्तस॒प्तोप॑ दधाति सवीर्य॒त्वाय॑
ति॒स्रो मध्ये॒ प्रति॑ष्ठित्यै ॥
र॒श्मिर् इत्य् ए॒वादि॒त्यम् अ॑सृजत॒
प्रेति॒र् इति॒ धर्म॒म्
अन्वि॑ति॒र् इति॒ दिव॑म् \
सं॒धिर् इत्य् अ॒न्तरि॑क्षम्
प्र॒ति॒धिर् इति॑ पृथि॒वीम् \
वि॒ष्ट॒म्भ इति॒ वृष्टि॑म्
प्र॒वेत्य् अह॑र्
अनु॒वेति॒ रात्रि॑म्
उ॒शिग् इति॒ वसू॑न्
प्र॒के॒त इति॑ रु॒द्रान् \
सु॒दी॒तिर् इत्य् आ॑दि॒त्यान्
ओज॒ इति॑ पि॒तॄन् \
तन्तु॒र् इति॑ प्र॒जाः
पृ॑तना॒षाड् इति॑ प॒शून्
रे॒वद् इत्य् ओष॑धीस् \
अ॒भि॒जिद् अ॑सि यु॒क्तग्रा॑वा ॥
इन्द्रा॑य॒ त्वेन्द्रं॑ जि॒न्वेत्य् ए॒व द॑क्षिण॒तो वज्र॒म् पर्य् औ॑हद् अ॒भिजि॑त्यै
ताः प्र॒जा अप॑प्राणा असृजत
तास्व् अधि॑पतिर् अ॒सीत्य् ए॒व प्रा॒णम् अ॑दधात् \
य॒न्तेत्य् अ॑पा॒नम् \
सँ॒सर्प॒ इति॒ चक्षु॑स् \
व॒यो॒धा इति॒ श्रोत्र॑म् \
ताः प्र॒जाः प्रा॑ण॒तीर् अ॑पान॒तीः पश्य॑न्तीः शृण्व॒तीर् न मि॑थु॒नी अ॑भवन्
तासु॑ त्रि॒वृद् अ॒सीत्य् ए॒व मि॑थु॒नम् अ॑दधात्
ताः प्र॒जा मि॑थु॒नी ॥
भव॑न्ती॒र् न प्राजा॑यन्त
ताः सँ॑रो॒हो॑ऽसि नीरो॒हो॑ऽसीत्य् ए॒व प्राज॑नयत्
ताः प्र॒जाः प्रजा॑ता॒ न प्रत्य् अ॑तिष्ठन्
ता व॑सु॒को॑ऽसि॒ वेष॑श्रिर् असि॒ वस्य॑ष्टिर् अ॒सीत्य् ए॒वैषु लो॒केषु॒ प्रत्य् अ॑स्थापयत् \
यद् आ॑ह
वसु॒को॑ऽसि॒ वेष॑श्रिर् असि॒ वस्य॑ष्टिर् अ॒सीति॑ प्र॒जा ए॒व प्रजा॑ता ए॒षु लो॒केषु॒ प्रति॑ ष्ठापयति
सात्मा॒न्तरि॑क्षँ रोहति॒
सप्रा॑णो॒ऽमुष्मिँ॑ लो॒के प्रति॑ तिष्ठति॒ \
अव्य॑र्धुकः प्राणापा॒नाभ्या॑म् भवति॒ य ए॒वं वेद॑ ॥
ना॒क॒सद्भि॒र् वै दे॒वाः सु॑व॒र्गं लो॒कम् आ॑य॒न्
तन् ना॑क॒सदां॑ नाकस॒त्त्वम् \
यन् ना॑क॒सद॑ उप॒दधा॑ति नाक॒सद्भि॑र् ए॒व तद् यज॑मानः सुव॒र्गं लो॒कम् ए॑ति
सुव॒र्गो वै लो॒को नाक॑स् \
यस्यै॒ता उ॑पधी॒यन्ते॒ नास्मा॒ अक॑म् भवति
यजमानायत॒नं वै ना॑क॒सद॑स् \
यन् ना॑क॒सद॑ उप॒दधा॑त्य् आ॒यत॑नम् ए॒व तद् यज॑मानः कुरुते
पृ॒ष्ठानां॒ वा ए॒तत् तेजः॒ सम्भृ॑तं॒ यन् ना॑क॒सद॑स् \
यन् ना॑क॒सदः॑ ॥
उ॒प॒दधा॑ति पृ॒ष्ठाना॑म् ए॒व तेजोऽव॑ रुन्द्धे
पञ्च॒चोडा॒ उप॑ दधाति \
अप्स॒रस॑ ए॒वैन॑म् ए॒ता भू॒ता अ॒मुष्मिँ॑ लो॒क उप॑ शेरे॒ \
अथो॑ तनू॒पानी॑र् ए॒वैता यज॑मानस्य॒
यं द्वि॒ष्यात् तम् उ॑प॒दध॑द् ध्यायेत् \
ए॒ताभ्य॑ ए॒वैनं॑ दे॒वता॑भ्य॒ आ वृ॑श्चति
ता॒जग् आर्ति॒म् आर्छ॑ति॒ \
उत्त॑रा नाक॒सद्भ्य॒ उप॑ दधाति॒
यथा॑ जा॒याम् आ॒नीय॑ गृ॒हेषु॑ निषा॒दय॑ति ता॒दृग् ए॒व तत् ॥
प॒श्चात् प्राची॑म् उत्त॒माम् उप॑ दधाति॒ तस्मा॑त् प॒श्चात् प्राची॒ पत्न्य् अन्व् आ॑स्ते
स्वयमातृ॒ण्णां च॑ विक॒र्णीं चो॑त्त॒मे उप॑ दधाति
प्रा॒णो वै स्व॑यमातृ॒ण्णायु॑र् विक॒र्णी
प्रा॒णं चै॒वायु॑श् च प्रा॒णाना॑म् उत्त॒मौ ध॑त्ते॒
तस्मा॑त् प्रा॒णश् चायु॑श् च प्रा॒णाना॑म् उत्त॒मौ
नान्याम् उत्त॑रा॒म् इष्ट॑का॒म् उप॑ दध्यात् \
यद् अ॒न्याम् उत्त॑रा॒म् इष्ट॑काम् उपद॒ध्यात् प॑शू॒नाम् ॥
च॒ यज॑मानस्य च प्रा॒णं चायु॒श् चापि॑ दध्या॒त्
तस्मा॒न् नान्योत्त॒रेष्ट॑कोप॒धेया॑
स्वयमातृ॒ण्णाम् उप॑ दधाति \
अ॒सौ वै स्व॑यमातृ॒ण्णामूम् ए॒वोप॑ धत्ते॒ \
अश्व॒म् उप॑ घ्रापयति प्रा॒णम् ए॒वास्यां॑ दधाति॒ \
अथो॑ प्राजाप॒त्यो वा अश्वः॑ प्र॒जाप॑तिनै॒वाग्निं चि॑नुते
स्वयमातृ॒ण्णा भ॑वति प्रा॒णाना॒म् उत्सृ॑ष्ट्या॒ अथो॑ सुव॒र्गस्य॑ लो॒कस्यानु॑ख्यात्यै \
ए॒षा वै दे॒वानां॒ विक्रा॑न्ति॒र् यद् वि॑क॒र्णी
यद् वि॑क॒र्णीम् उ॑प॒दधा॑ति दे॒वाना॑म् ए॒व विक्रा॑न्ति॒म् अनु॒ वि क्र॑मते \
उत्तर॒त उप॑ दधाति॒
तस्मा॑द् उत्तर॒तौप॑चारो॒ऽग्निस् \
वा॒यु॒मती॑ भवति॒
समि॑द्ध्यै ॥
छन्दाँ॒स्य् उप॑ दधाति
प॒शवो॒ वै छन्दाँ॑सि
प॒शून् ए॒वाव॑ रुन्द्धे॒
छन्दाँ॑सि॒ वै दे॒वानां॑ वा॒मम् प॒शव॑स् \
वा॒मम् ए॒व प॒शून् अव॑ रुन्द्धे \
ए॒ताँ ह॒ वै य॒ज्ञसे॑नश् चैत्रियाय॒णश् चितिं॑ वि॒दां च॑कार॒
तया॒ वै स प॒शून् अवा॑रुन्द्ध॒
यद् ए॒ताम् उ॑प॒दधा॑ति प॒शून् ए॒वाव॑ रुन्द्धे
गाय॒त्रीः पु॒रस्ता॒द् उप॑ दधाति॒
तेजो॒ वै गा॑य॒त्री
तेज॑ ए॒व ॥
मु॒ख॒तो ध॑त्ते
मूर्ध॒न्वती॑र् भवन्ति
मू॒र्धान॑म् ए॒वैनँ॑ समा॒नानां॑ करोति
त्रि॒ष्टुभ॒ उप॑ दधाति \
इन्द्रि॒यं वै { त्रि॑ष्टुग् ^ त्रि॒ष्टुभ् }
इ॒न्द्रि॒यम् ए॒व म॑ध्य॒तो ध॑त्ते॒
जग॑ती॒र् उप॑ दधाति
जाग॑ता॒ वै प॒शवः॑
प॒शून् ए॒वाव॑ रुन्द्धे \
अनु॒ष्टुभ॒ उप॑ दधाति
प्रा॒णा वा { अ॑नु॒ष्टुप् ^ अ॑नु॒ष्टुभ् }
प्रा॒णाना॒म् उत्सृ॑ष्ट्यै
बृह॒तीर् उ॒ष्णिहाः॑ प॒ङ्क्तीर् अ॒क्षर॑पङ्क्ती॒र् इति॒ विषु॑रूपाणि॒ छन्दाँ॒स्य् उप॑ दधाति॒
विषु॑रूपा॒ वै प॒शवः॑
प॒शवः॑ ॥
छन्दाँ॑सि॒
विषु॑रूपान् ए॒व प॒शून् अव॑ रुन्द्धे॒
विषु॑रूपम् अस्य गृ॒हे दृ॑श्यते॒ यस्यै॒ता उ॑पधी॒यन्ते॒ य उ॑ चैना ए॒वं वेद॒ \
अति॑छन्दस॒म् उप॑ दधाति॒ \
अति॑छन्दा॒ वै सर्वा॑णि॒ छन्दाँ॑सि॒
सर्वे॑भिर् ए॒वैनं॒ छन्दो॑भिश् चिनुते॒
वर्ष्म॒ वा ए॒षा छन्द॑सां॒ यद् अति॑छन्दास् \
यत् अति॑छन्दसम् उप॒दधा॑ति॒ वर्ष्मै॒वैनँ॑ समा॒नानां॑ करोति
द्वि॒पदा॒ उप॑ दधाति
द्वि॒पाद् यज॑मानः
प्रति॑ष्ठित्यै ॥
सर्वा॑भ्यो॒ वै दे॒वता॑भ्यो॒ऽग्निश् ची॑यते
{F यत्} {W य॑त्} स॒युजो॒ नोप॑द॒ध्याद् दे॒वता॑ अस्या॒ग्निं वृ॑ञ्जीर॒न्
यत् स॒युज॑ उप॒दधा॑त्य् आ॒त्मनै॒वैनँ॑ स॒युजं॑ चिनुते॒ नाग्निना॑ व्य् ॑र्?ध्यते॒ \
अथो॒ यथा॒ पुरु॑षः॒ स्नाव॑भिः॒ संत॑त ए॒वम् ए॒वैताभि॑र् अ॒ग्निः संत॑तस् \
अ॒ग्निना॒ वै दे॒वाः सु॑व॒र्गं लो॒कम् आ॑य॒न् ता अ॒मूः कृत्ति॑का अभव॒न्
यस्यै॒ता उ॑पधी॒यन्ते॑ सुव॒र्गम् ए॒व ॥
लो॒कम् ए॑ति॒ गछ॑ति प्रका॒शं चि॒त्रम् ए॒व भ॑वति
मण्डलेष्ट॒का उप॑ दधाति \
इ॒मे वै लो॒का म॑ण्डलेष्ट॒कास् \
इ॒मे खलु॒ वै लो॒का दे॑वपु॒रास् \
दे॒व॒पु॒रा ए॒व प्र वि॑शति॒ नार्ति॒म् आर्छ॑त्य् अ॒ग्निं चि॑क्या॒नस् \
वि॒श्वज्यो॑तिष॒ उप॑ दधाति \
इ॒मान् ए॒वैताभि॑र् लो॒काञ् ज्योति॑ष्मतः कुरुते॒ \
अथो॑ प्रा॒णान् ए॒वैता यज॑मानस्य दाध्रति \
ए॒ता वै दे॒वताः॑ सुव॒र्ग्या॑स्
ता ए॒वान्वा॒रभ्य॑ सुव॒र्गं लो॒कम् ए॑ति ॥
वृ॒ष्टि॒सनी॒र् उप॑ दधाति
वृष्टि॑म् ए॒वाव॑ रुन्द्धे॒
यद् ए॑क॒धोप॑द॒ध्याद् एक॑म् ऋ॒तुं व॑र्षेत् \
अ॒नु॒प॒रि॒हारँ॑ सादयति॒ तस्मा॒त् सर्वा॑न् ऋ॒तून् व॑र्षति
पुरोवात॒सनि॑र् अ॒सीत्य् आ॑ह \
ए॒तद् वै वृष्ट्यै॑ रू॒पम् \
रू॒पेणै॒व वृष्टि॒म् अव॑ रुन्द्धे
सं॒यानी॑भि॒र् वै दे॒वा इ॑माँ लो॒कान्त् सम् अ॑यु॒स्
तत् सं॒यानी॑नाँ संयानि॒त्वम् \
यत् सं॒यानी॑र् उप॒दधा॑ति॒ यथा॒प्सु ना॒वा सं॒यात्य् ए॒वम् ॥
ए॒वैताभि॒र् यज॑मान इ॒माँ लो॒कान्त् सं या॑ति
प्ल॒वो वा ए॒षो॑ऽग्नेर् यत् सं॒यानी॑स् \
यत् सं॒यानि॑र् उप॒दधा॑ति प्ल॒वम् ए॒वैतम् अ॒ग्नय॒ उप॑ दधाति \
उ॒त यस्यै॒तासूप॑हिता॒स्व् आपो॒ऽग्निँ हर॒न्त्य् अहृ॑त ए॒वास्या॒ग्निस् \
आ॒दि॒त्ये॒ष्ट॒का उप॑ दधाति \
आदि॒त्या वा ए॒तम् भूत्यै॒ प्रति॑ नुदन्ते॒ योऽल॒म् भूत्यै॒ सन् भूतिं॒ न प्रा॒प्नोति॑ \
आदि॒त्याः ॥
ए॒वैन॒म् भूतिं॑ गमयन्ति \
अ॒सौ वा ए॒तस्या॑दि॒त्यो रुच॒म् आ द॑त्ते॒ यो॑ऽग्निं चि॒त्वा न रोच॑ते॒
यद् आ॑दित्येष्ट॒का उ॑प॒दधा॑य् अ॒साव् ए॒वास्मि॑न्न् आदि॒त्यो रुचं॑ दधाति॒
यथा॒सौ दे॒वानाँ॒ रोच॑त ए॒वम् ए॒वैष म॑नु॒ष्या॑णाँ रोचते
घृतेष्ट॒का उप॑ दधाति \
ए॒तद् वा अ॒ग्नेः प्रि॒यं धाम॒ यद् घृ॒तम्
प्रि॒येणै॒वैनं॒ धाम्ना॒ सम् अ॑र्धयति ॥
अथो॒ तेज॑सा \
अनुपरि॒हारँ॑ सादयति॒ \
अप॑रिवर्गम् ए॒वास्मि॒न् तेजो॑ दधाति
प्र॒जाप॑तिर् अ॒ग्निम् अ॑चिनुत॒
स यश॑सा॒ व्य् आ॑र्ध्यत॒
स ए॒ता य॑शो॒दा अ॑पश्यत्
ता उपा॑धत्त
ताभि॒र् वै स यश॑ आ॒त्मन्न् अ॑धत्त॒
यद् य॑शो॒दा उ॑प॒दधा॑ति॒ यश॑ ए॒व ताभि॒र् यज॑मान आ॒त्मन् ध॑त्ते॒
पञ्चोप॑ दधाति
पाङ्क्तः॒ पुरु॑षस् \
यावा॑न् ए॒व पुरु॑ष॒स् तस्मि॒न् यशो॑ दधाति ॥
दे॒वा॒सु॒राः संय॑त्ता आस॒न्
कनी॑याँसो दे॒वा आस॒न् भूयाँ॒सोऽसु॑रा॒स्
ते दे॒वा ए॒ता इष्ट॑का अपश्यन्
ता उपा॑दधत
भूय॒स्कृद् अ॒सीत्य् ए॒व भूयाँ॑सोऽभव॒न् वन॒स्पति॑भि॒र् ओष॑धीभिस् \
व॒रि॒व॒स्कृद् अ॒सीती॒माम् अ॑जयन्
प्राच्य् अ॒सीति॒ प्राचीं॒ दिश॑म् अजयन् \
ऊ॒र्ध्वासीत्य् अ॒मूम् अ॑जयन् \
अ॒न्त॒रि॒क्ष॒सद् अ॑स्य् अ॒न्तरि॑क्षे सी॒देत्य् अ॒न्तरि॑क्षम् अजय॒न्
ततो॑ दे॒वा अभ॑वन् ॥
परासु॑रास् \
यस्यै॒ता उ॑पधी॒यन्ते॒ भूया॑न् ए॒व भ॑वति \
अ॒भीमाँ लो॒काञ् ज॑यति॒
भव॑त्य् आ॒त्मना॒ परा॑स्य॒ भ्रातृ॑व्यो भवति \
अप्सु॒षद् अ॑सि श्येन॒सद् अ॒सीत्य् आ॑ह \
ए॒तद् वा अ॒ग्ने रू॒पम् \
रू॒पेणै॒वाग्निम् अव॑ रुन्द्धे
पृथि॒व्यास् त्वा॒ द्रवि॑णे सादया॒मीत्य् आ॑ह \
इ॒मान् ए॒वैताभि॑र् लो॒कान् द्रवि॑णावतः कुरुते \
आयु॒ष्या॑ उप॑ दधाति \
आयु॑र् ए॒व ॥
अ॒स्मि॒न् द॒धा॒ति॒ \
अग्ने॒ यत् ते॒ परँ॒ हृन् नामेत्य् आ॑ह \
ए॒तद् वा अ॒ग्नेः प्रि॒यं धाम॑
प्रि॒यम् ए॒वास्य॒ धामोपाप्नो॑ति
ताव् एहि॒ सँ र॑भावहा॒ इत्य् आ॑ह
व्य् ए॑वैने॑न॒ परि॑ धत्ते
पाञ्च॑जन्ये॒ष्व् अप्य् ए॑ध्य् अग्न॒ इत्य् आ॑ह \
ए॒ष वा अ॒ग्निः पाञ्च॑जन्यो॒ यः पञ्च॑चितीक॒स्
तस्मा॑द् ए॒वम् आ॑ह \
ऋत्व॒या॑ उप॑ दधाति \
ए॒तद् वा ऋ॑तू॒नाम् प्रि॒यं धाम॒ यद् ऋ॑त॒व्या॑स् \
ऋ॒तू॒नाम् ए॒व प्रि॒यं धामाव॑ रुन्द्धे
सु॒मेक॒ इत्य् आ॑ह
संवत्स॒रो वै सु॒मेकः॑
संवत्स॒रस्यै॒व प्रि॒यं धामोपा॑प्नोति ॥
प्र॒जाप॑ते॒र् अक्ष्य् अ॑श्वय॒त्
तत् परा॑पत॒त्
तद् अश्वो॑ऽभवत् \
यद् अश्व॑य॒त् तद् अश्व॑स्याश्व॒त्वम् \
तद् दे॒वा अ॑श्वमे॒धेनै॒व प्रत्य् अ॑दधुस् \
ए॒ष वै प्र॒जाप॑तिँ॒ सर्वं॑ करोति॒ यो॑ऽश्वमे॒धेन॒ यज॑ते॒
सर्व॑ ए॒व भ॑वति॒
सर्व॑स्य॒ वा ए॒षा प्राय॑श्चित्तिः॒ सर्व॑स्य भेष॒जम् \
सर्वं॒ वा ए॒तेन॑ पा॒प्मानं॑ दे॒वा अ॑तरन् \
अपि॒ वा ए॒तेन॑ ब्रह्मह॒त्याम् अ॑तरन् \
सर्व॑म् पा॒प्मान॑म् ॥
त॒र॒ति॒ तर॑ति ब्रह्मह॒त्यां यो॑ऽश्वमे॒धेन॒ यज॑ते॒ य उ॑ चैनम् ए॒वं वेद॒ \
उत्त॑रं॒ वै तत् प्र॒जाप॑ते॒र् अक्ष्य् अ॑श्वय॒त्
तस्मा॒द् अश्व॑स्योत्तर॒तोऽव॑ द्यन्ति दक्षिण॒तो॑ऽन्येषा॑म् पशू॒नाम् \
वै॒त॒सः कटो॑ भवति \
अ॒प्सुयो॑नि॒र् वा अश्व॑स् \
अ॒प्सु॒जो वे॑त॒सः
स्व ए॒वैनं॒ योनौ॒ प्रति॑ ष्ठापयति
चतुष्टो॒म स्तोमो॑ भवति
स॒रड् ढ॒ वा अश्व॑स्य॒ सक्थ्य् आवृ॑ह॒त्
तद् दे॒वाश् च॑तुष्टो॒मेनै॒व प्रत्य् अ॑दधुस् \
यच् च॑तुष्टो॒म स्तोमो॒ भव॒त्य् अश्व॑स्य सर्व॒त्वाय॑ ॥