विष्णु॑मुखा॒ वै दे॒वाश् छन्दो॑भिर् इ॒माँ लो॒कान् अ॑नपज॒य्यम् अ॒भ्य् अ॑जय॒न्

यद् वि॑ष्णुक्र॒मान् क्रम॑ते॒ विष्णु॑र् ए॒व भू॒त्वा यज॑मान॒श् छन्दो॑भिर् इ॒माँ लो॒कान् अ॑नपज॒य्यम् अ॒भि ज॑यति॒

विष्णोः॒ क्रमो॑ऽस्य् अभिमाति॒हेत्य् आ॑ह

गाय॒त्री वै पृ॑थि॒वी

त्रैष्ठु॑भम् अ॒न्तरि॑क्षम् \

जाग॑ती॒ द्यौस् \

आनु॑ष्टुभी॒र् दिश॑स् \

छन्दो॑भिर् ए॒वेमाँ लो॒कान् य॑थापू॒र्वम् अ॒भि ज॑यति

प्र॒जाप॑तिर् अ॒ग्निम् अ॑सृजत॒

सो॑ऽस्मात् सृ॒ष्टः ॥

परा॑ङ् ऐ॒त्

तम् ए॒तयान्व् ऐ॑त् \

अक्र॑न्द॒त् इति॒

तया॒ वै सो॑ऽग्नेः प्रि॒यं धामावा॑रुन्द्ध॒

यद् ए॒टम् अ॒न्वाहा॒ग्नेर् ए॒वैतया॑ प्रि॒यं धामाव॑ रुन्द्धे \

ईश्व॒रो वा ए॒ष परा॑ङ् प्र॒दघो॒ यो वि॑ष्णुक्र॒मान् क्रम॑ते

चत॒सृभि॒र् आ व॑र्तते

च॒त्वारि॒ छन्दाँ॑सि॒

छन्दाँ॑सि॒ खलु॒ वा अ॒ग्नेः प्रि॒या त॒नूः

प्रि॒याम् ए॒वास्य॑ त॒नुव॑म् अ॒भि ॥

प॒र्याव॑र्तते

दक्षि॒णा प॒र्याव॑र्तते॒

स्वम् ए॒व वी॒र्य॑म् अनु॑ प॒र्याव॑र्तते॒

तस्मा॒द् दक्षि॒णोऽर्ध॑ आ॒त्मनो॑ वी॒र्या॑वत्तरस् \

अथो॑ आदि॒त्यस्यै॒वावृत॒म् अनु॑ प॒र्याव॑र्तते॒

शुनः॒शेप॒म् आजी॑गर्तिं॒ वरु॑णोऽगृह्णा॒त्

स ए॒ताम् वा॑रु॒णीम् अ॑पश्य॒त्

तया॒ वै स आ॒त्मानं॑ वरुणपा॒शाद् अ॑मुञ्चत् \

वरु॑णो॒ वा ए॒तं गृ॑ह्णाति॒ य उ॒खाम् प्र॑तिमु॒ञ्चते॒ \

उद् उ॑त्त॒मं व॑रुण॒ पाश॑म् अ॒स्मद् इत्य् आ॑ह \

आ॒त्मान॑म् ए॒वैतया॑ ॥

व॒रु॒ण॒पा॒शान् मु॑ञ्चति \

आ त्वा॑हार्ष॒म् इत्य् आ॑ह \

आ ह्य् ए॑नँ॒ हर॑ति

ध्रु॒वस् ति॒ष्ठावि॑चाचलि॒र् इत्य् आ॑ह॒

प्रति॑ष्ठित्यै॒

विश॑स् त्वा॒ सर्वा॑ वाञ्छ॒न्त्व् इत्य् आ॑ह

वि॒शैवैनँ॒ सम् अ॑र्धयति \

अ॒स्मिन् रा॒ष्ट्रम् अधि॑ श्र॒येत्य् आ॑ह

रा॒ष्ट्रम् ए॒वास्मि॑न् ध्रु॒वम् अ॑क॒र्

यं का॒मये॑त

रा॒ष्ट्रँ स्या॒द् इति॒ तम् मन॑सा ध्यायेत् \

रा॒ष्ट्रम् ए॒व भ॑वति ॥

अग्रे॑ बृ॒हन्न् उ॒षसा॑म् ऊ॒र्ध्वो अ॑स्था॒द् इत्य् आ॑ह॒ \

अग्र॑म् ए॒वैनँ॑ समा॒नानां॑ करोति

निर्जग्मि॒वान् तम॑स॒ इत्य् आ॑ह॒

तम॑ ए॒वास्मा॒द् अप॑ हन्ति॒

ज्योति॒षागा॒द् इत्य् आ॑ह॒

ज्योति॑र् ए॒वास्मि॑न् दधाति

चत॒सृभिः॑ सादयति

च॒त्वारि॒ छन्दाँ॑सि॒

छन्दो॑भिर् ए॒व \

अति॑छन्दसोत्त॒मया॒

वर्ष्म॒ वा ए॒ष छन्द॑सां॒ यद् अति॑छन्दास् \

वर्ष्मै॒वैनँ॑ समा॒नानां॑ करोति॒

सद्व॑ती ॥

भ॒व॒ति॒

स॒त्त्वम् ए॒वैनं॑ गमयति

वात्स॒प्रेणोप॑ तिष्ठते \

ए॒तेन॒ वै व॑त्स॒प्रीर् भा॑लन्द॒नो॑ऽग्नेः प्रि॒यं धामावा॑रुन्द्ध \

अ॒ग्नेर् ए॒वैतेन॑ प्रि॒यं धामाव॑ रुन्द्धे \

एकाद॒शम् भ॑वति \

एक॒धैव यज॑माने वी॒र्यं॑ दधाति॒

स्तोमे॑न॒ वै दे॒वा अ॒स्मिँ लो॒क आ॑र्ध्नुव॒ञ् छन्दो॑भिर् अ॒मुष्मि॑न् \

स्तोम॑स्येव॒ खलु॒ वा ए॒तद् रू॒पं यद् वा॑त्स॒प्रम् \

यद् वा॑त्स॒प्रेणो॑प॒तिष्ठ॑ते ॥

इ॒मम् ए॒व तेन॑ लो॒कम् अ॒भि ज॑यति॒

यद् वि॑ष्णुक्र॒मान् क्रम॑ते॒ऽमुम् ए॒व तैर् लो॒कम् अ॒भि ज॑यति

पूर्वे॒द्युः प्र क्रा॑मत्य् उत्तरे॒द्युर् उप॑ तिष्ठते॒

तस्मा॒द् योगे॒ऽन्यासा॑म् प्र॒जाना॒म् मनः॒ क्षेमे॒ऽन्यासा॑म् \

तस्मा॑द् यायाव॒रः क्षे॒म्यस्ये॑शे॒

तस्मा॑द् यायाव॒रः क्षे॒म्यम् अ॒ध्यव॑स्यति

मु॒ष्टी क॑रोति

वाचं॑ यछति

य॒ज्ञस्य॒ धृत्यै॑ ॥

अन्न॑प॒तेऽन्न॑स्य नो दे॒हीत्य् आ॑ह \

अ॒ग्निर् वा अन्न॑पतिः॒

स ए॒वास्मा॒ अन्न॒म् प्र य॑छति \

अनमी॒वस्य॑ शु॒ष्मिण॒ इत्य् आ॑ह \

अय॒क्ष्मस्येति॒ वावैतद् आ॑ह॒

प्र प्र॑दा॒तारं॑ तारिष॒ ऊर्जं॑ नो धेहि द्वि॒पदे॒ चतु॑ष्पद॒ इत्य् आ॑ह \

आ॒शिष॑म् ए॒वैताम् आ शा॑स्ते॒ \

उद् उ॑ त्वा॒ विश्वे॑ दे॒वा इत्य् आ॑ह

प्रा॒णा वै विश्वे॑ दे॒वाः ॥

प्रा॒णैर् ए॒वैन॒म् उद् य॑छते॒ \

अग्ने॒ भर॑न्तु॒ चित्ति॑भि॒र् इत्य् आ॑ह॒

यस्मा॑ ए॒वैनं॑ चि॒त्तायो॒द्यछ॑ते॒ तेनै॒वैनँ॒ सम् अ॑र्धयति

चत॒सृभि॒र् आ सा॑दयति

च॒त्वारि॒ छन्दाँ॑सि॒

छन्दो॑भिर् ए॒व \

अति॑छन्दसोत्त॒मया॒

वर्ष्म॒ वा ए॒षा छन्द॑सां॒ यद् अति॑छन्दा॒

वर्ष्मै॒वैनँ॑ समा॒नानां॑ करोति॒

सद्व॑ती भवति

स॒त्त्वम् ए॒वैनं॑ गमयति॒

प्रेद् अ॑ग्ने॒ ज्योति॑ष्मान् ॥

या॒हीत्य् आ॑ह॒

ज्योति॑र् ए॒वास्मि॑न् दधाति त॒नुवा॒ वा ए॒ष हि॑नस्ति॒ यँ हि॒नस्ति॑

मा हिँ॑सीस् त॒नुवा॑ प्र॒जा इत्य् आ॑ह

प्र॒जाभ्य॑ ए॒वैनँ॑ शमयति॒

रक्षाँ॑सि॒ वा ए॒तद् य॒ज्ञँ स॑चन्ते॒ यद् अन॑ उ॒त्सर्ज॑ति॒ \

अक्र॑न्द॒द् इत्य् अन्व् आ॑ह॒

रक्ष॑सा॒म् अप॑हत्यै॒ \

अन॑सा वहन्ति॒ \

अप॑चितिम् ए॒वास्मि॑न् दधाति॒

तस्मा॑द् अन॒स्वी च॑ र॒थी चाति॑थीना॒म् अप॑चिततमौ ॥

अप॑चितिमान् भवति॒ य ए॒वं वेद॑

स॒मिधा॒ग्निं दु॑वस्य॒तेति॑ घृतानुषि॒क्ताम् अ॑वसि॒ते स॒मिध॒म् आ द॑धाति॒

यथाति॑थय॒ आग॑ताय स॒र्पिष्व॑द् आति॒थ्यं क्रि॒यते॑ ता॒दृग् ए॒व तत् \

गा॒य॒त्रि॒या ब्रा॑ह्म॒णस्य॑ गाय॒त्रो हि ब्रा॑ह्म॒णस्

त्रि॒ष्टुभा॑ राज॒न्य॑स्य॒ त्रैष्टु॑भो॒ हि रा॑ज॒न्य॑स् \

अ॒प्सु भस्म॒ प्र वे॑शयति \

अ॒प्सुयो॑नि॒र् वा अ॒ग्निः

स्वाम् ए॒वैनं॒ योनिं॑ गमयति

ति॒सृभिः॒ प्र वे॑शयति

त्रि॒वृद् वै ॥

अ॒ग्निस् \

यावा॑न् ए॒वाग्निस् तम् प्र॑ति॒ष्ठां ग॑मयति॒

परा॒ वा ए॒षो॑ऽग्निं व॑पति॒ यो॑ऽप्सु भस्म॑ प्रवे॒शय॑ति॒

ज्योति॑ष्मतीभ्या॒म् अव॑ दधाति॒

ज्योति॑र् ए॒वास्मि॑न् दधाति

द्वाभ्या॒म् प्रति॑ष्ठित्यै॒

परा॒ वा ए॒ष प्र॒जाम् प॒शून् व॑पति॒ यो॑ऽप्सु भस्म॑ प्रवे॒शय॑ति॒

पुन॑र् ऊ॒र्जा स॒ह र॒य्येति॒ पुन॑र् उ॒दैति॑

प्र॒जाम् ए॒व प॒शून् आ॒त्मन् ध॑त्ते॒

पुन॑स् त्वादि॒त्याः ॥

रु॒द्रा वस॑वः॒ सम् इ॑न्धता॒म् इत्य् आ॑ह \

ए॒ता वा ए॒तं दे॒वता॒ अग्रे॒ सम् ऐ॑न्धत

ताभि॑र् ए॒वैनँ॒ सम् इ॑न्द्धे॒

बोधा॒ स बो॒धीत्य् उप॑ तिष्ठते

बो॒धय॑त्य् ए॒वैन॑म् \

तस्मा॑त् सु॒प्त्वा प्र॒जाः प्र बु॑ध्यन्ते

यथास्था॒नम् उप॑ तिष्ठते॒

तस्मा॑द् यतःस्था॒नम् प॒शवः॒ पुन॒र् एत्योप॑ तिष्ठन्ते ॥

याव॑ती॒ वै पृ॑थि॒वी तस्यै॑ य॒म आधि॑पत्य॒म् परी॑याय॒

यो वै य॒मं दे॑व॒यज॑नम् अ॒स्या अनि॑र्याच्या॒ग्निं चि॑नु॒ते य॒मायै॑नँ॒ स चि॑नुते॒ \

अपे॒तेत्य् अ॒ध्यव॑साययति

य॒मम् ए॒व दे॑व॒यज॑नम् अ॒स्यै नि॒र्याच्या॒त्मने॒ऽग्निं चि॑नुते \

इष्व॒ग्रेण॒ वा अ॒स्या अना॑मृतम् इ॒छन्तो॒ नावि॑न्द॒न्

ते दे॒वा ए॒तद् यजु॑र् अपश्यन् \

अपे॒तेति॒

यद् ए॒तेना॑ध्यवसा॒यय॑ति ॥

अना॑मृत ए॒वाग्निं चि॑नुते॒ \

उद् ध॑न्ति॒

यद् ए॒वास्या अ॑मे॒ध्यं तद् अप॑ हन्ति \

अ॒पोऽवोक्ष॑ति

शान्त्यै॒

सिक॑ता॒ नि व॑पति \

ए॒तद् वा अ॒ग्नेर् वै॑श्वान॒रस्य॑ रू॒पम् \

रू॒पेनै॒व वै॑श्वान॒रम् अव॑ रुन्द्धे \

ऊषा॒न् नि व॑पति॒

पुष्टि॒र् वा ए॒षा प्र॒जन॑नं॒ यद् ऊषाः॒

पुष्ट्या॑म् ए॒व प्र॒जन॑ने॒ऽग्निं चि॑नुते॒ \

अथो॑ सं॒ज्ञान॑ ए॒व

सं॒ज्ञानँ॑ ह्य् ए॒तत् ॥

प॒शू॒नां यद् ऊषा॑स् \

द्यावा॑पृथि॒वी स॒हास्ता॑म् \

ते वि॑य॒ती अ॑ब्रूता॒म्

अस्त्व् ए॒व नौ॑ स॒ह य॒ज्ञिय॒म् इति॒

यद् अ॒मुष्या॑ य॒ज्ञिय॒म् आसी॒त् तद् अ॒स्याम् अ॑दधा॒त् त ऊषा॑ अभव॒न्

यद् अ॒स्या य॒ज्ञिय॒म् आसी॒त् तद् अ॒मुष्या॑म् अदधा॒त् तद् अ॒दश् च॒न्द्रम॑सि कृ॒ष्णम्

ऊषा॑न् नि॒वप॑न्न् अ॒दो ध्या॑ये॒द् द्यावा॑पृथि॒व्योर् ए॒व य॒ज्ञिये॒ऽग्निं चि॑नुते \

अ॒यँ सो अ॒ग्निर् इति॑ वि॒श्वामि॑त्रस्य ॥

सू॒क्तम् भ॑वति \

ए॒तेन॒ वै वि॒श्वामि॑त्रो॒ऽग्नेः प्रि॒यं धामावा॑रुन्द्ध \

अ॒ग्नेर् ए॒वैतेन॑ प्रि॒यं धामाव॑ रुन्द्धे॒

छन्दो॑भि॒र् वै दे॒वाः सु॑व॒र्गं लो॒कम् { आ॑यञ् ^ आयन् }

चत॑स्रः॒ प्राची॒र् उप॑ दधाति

च॒त्वारि॒ छन्दाँ॑सि॒

छन्दो॑भिर् ए॒व तद् यज॑मानः सुव॒र्गं लो॒कम् ए॑ति॒

तेषाँ॑ सुव॒र्गं लो॒कं य॒तां दिशः॒ सम् अ॑व्लीयन्त॒

ते द्वे पु॒रस्ता॑त् स॒मीची॒ उपा॑दधत॒ द्वे ॥

प॒श्चात् स॒मीची॑

ताभि॒र् वै ते दिशो॑ऽदृँह॒न्

यद् द्वे पु॒रस्ता॑त् स॒मीची॑ उप॒दधा॑ति॒ द्वे प॒श्चात् स॒मीची॑

दि॒शां विधृ॑त्यै॒ \

अथो॑ प॒शवो॒ वै छन्दाँ॑सि

प॒शून् ए॒वास्मै॑ स॒मीचो॑ दधाति \

अ॒ष्टाव् उप॑ दधाति \

अ॒ष्टाक्ष॑रा गाय॒त्री

गा॑य॒त्रो॑ऽग्निर् यावा॑न् ए॒वाग्निस् तं चि॑नुते \

अ॒ष्टाव् उप॑ दधाति \

अ॒ष्टाक्ष॑रा गाय॒त्री

गा॑य॒त्री सु॑व॒र्गं लो॒कम् अञ्ज॑सा वेद

सुव॒र्गस्य॑ लो॒कस्य॑ ॥

प्रज्ञा॑त्यै॒

त्रयो॑दश लोकम्पृ॒णा उप॑ दधाति॒ \

एक॑विँशतिः॒ सम् प॑द्यन्ते

प्रति॒ष्ठा वा ए॑कविँ॒शः प्र॑ति॒ष्ठा गार्ह॑पत्यस् \

ए॒क॒विँ॒शस्यै॒व प्र॑ति॒ष्ठां गार्ह॑पत्य॒म् अनु॒ प्रति॑ तिष्ठति॒

प्रत्य् अ॒ग्निं चि॑क्या॒नस् ति॑ष्ठति॒ य ए॒वं वेद॒

पञ्च॑चितीकं चिन्वीत प्रथ॒मं चि॑न्वा॒नः

पाङ्क्तो॑ य॒ज्ञः

पाङ्क्ताः॑ प॒शव॑स् \

य॒ज्ञम् ए॒व प॒शून् अव॑ रुन्द्धे॒

त्रिचि॑तीकं चिन्वीत द्वि॒तीयं॑ चिन्वा॒नस्

त्रय॑ इ॒मे लो॒कास् \

ए॒ष्व् ए॑व लो॒केषु॑ ॥

प्रति॑ तिष्ठन्ति॒ \

एक॑चितीकं चिन्वीत तृ॒तीयं॑ चिन्वा॒नस् \

ए॒क॒धा वै सु॑व॒र्गो लो॒कस् \

ए॒क॒वृतै॒व सु॑व॒र्गं लो॒कम् ए॑ति॒

पुरी॑षेणा॒भ्य् ऊ॑हति॒

तस्मा॑न् माँ॒सेनास्थि॑ छ॒न्नम् \

न दु॒श्चर्मा॑ भवति॒ य ए॒वं वेद॒

पञ्च॒ चित॑यो भवन्ति

प॒ञ्चभिः॒ पुरी॑षैर् अ॒भ्य् ऊ॑हति॒

दश॒ सम् प॑द्यन्ते॒

दसा॑क्षरा { वि॒राड् ^ वि॒राज् }

अन्नं॑ { वि॒राड् ^ वि॒राज् }

वि॒राज्य् ए॒वान्नाद्ये॒ प्रति॑ तिष्ठति ॥

वि वा ए॒तौ द्वि॑षाते॒ यश् च॑ पु॒राग्निर् यश् चो॒खाया॑म् \

सम् इ॑त॒म् इति॑ चत॒सृभिः॒ सं नि व॑पति

च॒त्वारि॒ छन्दाँ॑सि॒

छन्दाँ॑सि॒ खलु॒ वा अ॒ग्नेः प्रि॒या त॒नूः

प्रि॒ययै॒वैनौ॑ त॒नुवा॒ सँ शा॑स्ति॒

सम् इ॑त॒म् इत्य् आ॑ह॒

तस्मा॒द् ब्रह्म॑णा क्ष॒त्रँ सम् ए॑ति॒

यत् सं॒न्युप्य॑ वि॒हर॑ति॒

तस्मा॒द् ब्रह्म॑णा क्ष॒त्रं व्य् ए॑ति \

ऋ॒तुभिः॑ ॥

वा ए॒तं दी॑क्षयन्ति॒

स ऋ॒तुभि॑र् ए॒व वि॒मुच्य॑स् \

मा॒तेव॑ पु॒त्रम् पृ॑थि॒वी पु॑री॒ष्य॑म् इत्य् आ॑ह \

ऋ॒तुभि॑र् ए॒वैनं॑ दीक्षयै॒त्वर्तुभि॒र् वि मु॑ञ्चति

वैश्वान॒र्या शि॒क्य॑म् आ द॑त्ते

स्व॒दय॑त्य् ए॒वैन॑द् \

नै॒रृ॒तीः कृ॒ष्णास् ति॒स्रस् तुष॑पक्वा भवन्ति॒

निरृ॑त्यै॒ वा ए॒तद् भा॑ग॒धेयं॒ यत् तुषा॒ निरृ॑त्यै रू॒पं कृ॒ष्णम् \

रू॒पेणै॒व निरृ॑तिं नि॒रव॑दयते \

इ॒मां दिशं॑ यन्ति \

ए॒षा ॥

वै निरृ॑त्यै॒ { दिक् ^ दिश् }

स्वाया॑म् ए॒व दि॒शि निरृ॑तिं नि॒रव॑दयते॒

स्वकृ॑त॒ इरि॑ण॒ उप॑ दधाति प्रद॒रे वा॑ \

ए॒तद् वै निरृ॑त्या आ॒यत॑नम् \

स्व ए॒वायत॑ने॒ निरृ॑तिं नि॒रव॑दयते

शि॒क्य॑म् अ॒भ्य् उप॑ दधाति

नैरृ॒तो वै पाशः॑

सा॒क्षाद् ए॒वैनं॑ निरृतिपा॒शान् मु॑ञ्चति

ति॒स्र उप॑ दधाति

त्रेधाविहि॒तो वै पुरु॑षस् \

यावा॑न् ए॒व पुरु॑ष॒स् तस्मा॒न् निरृ॑ति॒म् अव॑ यजते॒

परा॑ची॒र् उप॑ ॥

द॒धा॒ति॒

परा॑चीम् ए॒वास्मा॒न् निरृ॑ति॒म् प्र णु॑दते॒ \

अप्र॑तीक्ष॒म् आ य॑न्ति॒

निरृ॑त्या अ॒न्तर्हि॑त्यै

मार्जयि॒त्वोप॑ तिष्ठन्ते

मेध्य॒त्वाय॑

गार्ह॑पत्य॒म् उप॑ तिष्ठन्ते

निरृतिलो॒क ए॒व च॑रि॒त्वा पू॒ता दे॑वलो॒कम् उ॑पावर्तन्ते॒ \

एक॒योप॑ तिष्ठन्ते \

एक॒धैव यज॑माने वी॒र्यं॑ दधति

नि॒वेश॑नः सं॒गम॑नो॒ वसू॑ना॒म् इत्य् आ॑ह

प्र॒जा वै प॒शवो॒ वसु॑

प्र॒जयै॒वैन॑म् प॒शुभिः॒ सम् अ॑र्धयन्ति ॥

पु॒रु॒ष॒मा॒त्रेण॒ वि मि॑मीते

य॒ज्ञेन॒ वै पुरु॑षः॒ सम्मि॑तस् \

य॒ज्ञ॒प॒रुषै॒वैनं॒ वि मि॑मीते

यावा॒न् पुरु॑ष ऊ॒र्ध्वबा॑हु॒स् तावा॑न् भवति \

ए॒ताव॒द् वै पुरु॑षे वी॒र्य॑म् \

वी॒र्ये॑णै॒वैनं॒ वि मि॑मीते

प॒क्षी भ॑वति॒

न ह्य् अ॑प॒क्षः पति॑तु॒म् अर्ह॑ति \

अर॒त्निना॑ प॒क्षौ द्राघी॑याँसौ भवत॒स्

तस्मा॑त् प॒क्षप्र॑वयाँसि॒ वयाँ॑सि

व्याममा॒त्रौ प॒क्षौ च॒ पुछं॑ च भवति \

ए॒ताव॒द् वै पुरु॑षे वी॒र्य॑म् ॥

वी॒र्य॑सम्मितस् \

वेणु॑ना॒ वि मि॑मीते \

आग्ने॒यो वै वेनुः॑

सयोनि॒त्वाय॒

यजु॑षा युनक्ति॒

यजु॑षा कृषति

व्यावृ॑त्त्यै

षड्ग॒वेन॑ कृषति॒

षड् वा ऋ॒तव॑स् \

ऋ॒तुभि॑र् ए॒वैनं॑ कृषति॒

यद् द्वा॑दशग॒वेन॑ संवत्स॒रेनै॒वेयं वा अ॒ग्नेर् अ॑तिदा॒हाद् अ॑बिभे॒त्

सैतद् द्वि॑गु॒णम् अ॑पश्यत् कृ॒ष्टं चाकृ॑ष्टं च॒

ततो॒ वा इ॒मां नात्य् अ॑दहत् \

यत् कृ॒ष्टं चाकृ॑ष्टं च ॥

भव॑त्य् अ॒स्या अन॑तिदाहाय

द्विगु॒णं त्वा अ॒ग्निम् उ॒द्यन्तु॑म् अर्ह॒तीत्य् आ॑हुस् \

यत् कृ॒ष्टं चाकृ॑ष्टं च॒ भव॑ति \

अ॒ग्नेर् उद्य॑त्यै \

ए॒ताव॑न्तो॒ वै प॒शवो॑ द्वि॒पाद॑श् च॒ चतु॑ष्पादश् च

तान् यत् प्राच॑ उत्सृ॒जेद् रु॒द्रायापि॑ दध्यात् \

यद् द॑क्षि॒णा पि॒तृभ्यो॒ नि धु॑वेत् \

यत् प्र॒तीचो॒ रक्षाँ॑सि हन्युस् \

उ॒दीच॒ उत् सृ॑जति \

ए॒षा वै दे॑वमनु॒ष्याणाँ॑ शा॒न्ता दिक् ॥

ताम् ए॒वैना॒न् अनूत् सृ॑जति॒ \

अथो॒ खल्व् इ॒मां दिश॒म् उत् सृ॑जति \

अ॒सौ वा आ॑दि॒त्यः प्रा॒णः

प्रा॒णम् ए॒वैना॒न् अनूत् सृ॑जति

दक्षि॒णा प॒र्याव॑र्तन्ते॒

स्वम् ए॒व वी॒र्य॑म् अनु॑ प॒र्याव॑र्तन्ते॒

तस्मा॒द् दक्षि॒णोऽर्ध॑ आ॒त्मनो॑ वी॒र्या॑वत्तरस् \

अथो॑ आदि॒त्यस्यै॒वावृत॒म् अनु॑ प॒र्याव॑र्तन्ते॒

तस्मा॒त् परा॑ञ्चः प॒शवो॒ वि ति॑ष्ठन्ते प्र॒त्यञ्च॒ आ व॑र्तन्ते॒

तिस्र॑स्तिस्रः॒ सीताः॑ ॥

कृ॒ष॒ति॒

त्रि॒वृत॑म् ए॒व य॑ज्ञमु॒खे वि या॑तयति॒ \

ओष॑धीर् वपति॒

ब्रह्म॒णान्न॒म् अव॑ रुन्द्धे \

अ॒र्के॑ऽर्कश् ची॑यते

चतुर्द॒शभि॑र् वपति

स॒प्त ग्रा॒म्या ओष॑धयः स॒प्तार॒ण्यास् \

उ॒भयी॑षा॒म् अव॑रुद्ध्यै॒ \

अन्न॑स्यान्नस्य वपति॒ \

अन्न॑स्यान्न॒स्याव॑रुद्धयि

कृ॒ष्टे व॑पति

कृ॒ष्टे ह्य् ओष॑धयः प्रति॒तिष्ठ॑न्ति \

अनुसी॒तं व॑पति॒

प्रजा॑त्यै

द्वाद॒शसु॒ सीता॑सु वपति

द्वाद॑श॒ मासाः॑ संवत्स॒रः

सं॑वत्स॒रेणै॒वास्मा॒ अन्न॑म् पचति॒

यद् अ॑ग्नि॒चित् ॥

अन॑वरुद्धस्याश्नी॒याद् अव॑रुद्धेन॒ व्य् ऋध्ये॒त॒

ये वन॒स्पती॑नाम् फल॒ग्रह॑य॒स् तान् इ॒ध्मेऽपि॒ प्रोक्षे॑त् \

अन॑वरुद्ध॒स्याव॑रुद्ध्यै

दि॒ग्भ्यो लो॒ष्टान्त् सम् अ॑स्यति

दि॒शाम् ए॒व वी॒र्य॑म् अव॒रुध्य॑ दि॒शां वी॒र्ये॑ऽग्निं चि॑नुते॒

यं द्वि॒ष्याद् यत्र॒ स स्यात् तस्यै॑ दि॒शो लो॒ष्टम् आ ह॑रेत् \

इष॒म् ऊर्ज॑म् अ॒हम् इ॒त आ द॑द॒ इतीष॑म् ए॒वोर्जं॒ तस्यै॑ दि॒शोऽव॑ रुन्द्धे॒

क्षोधु॑को भवति॒ यस् तस्यां॑ दि॒शि भव॑ति \

उत्तरवे॒दिम् उप॑ वपति \

उत्तरवे॒द्याँ ह्य् अ॑ग्निश् ची॒यते॒ \

अथो॑ प॒शवो॒ वा उ॑त्तरवे॒दिः

प॒शून् ए॒वाव॑ रुन्द्धे॒ \

अथो॑ यज्ञप॒रुषोऽन॑न्तरित्यै ॥

अग्ने॒ तव॒ श्रवो॒ वय॒ इति॒ सिक॑ता॒ नि व॑पति \

ए॒तद् वा अ॒ग्नेर् वै॑श्वान॒रस्य॑ सू॒क्तम् \

सू॒क्तेनै॒व वै॑श्वान॒रम् अव॑ रुन्द्धे

ष॒ड्भिर् नि व॑पति॒

षड् वा ऋ॒तव॑ण् संवत्स॒रः

सं॑वत्स॒रो॑ऽग्निर् वै॑श्वान॒रः

सा॒क्षाद् ए॒व वै॑श्वान॒रम् अव॑ रुन्द्धे

समु॒द्रं वै नामै॒तच् छन्दः॑

समु॒द्रम् अनु॑ प्र॒जाः प्र जा॑यन्ते॒

यद् ए॒तेन॒ सिक्ता॑ नि॒वप॑ति

प्र॒जाना॑म् प्र॒जन॑नाय॒ \

इन्द्रः॑ ॥

वृ॒त्राय॒ वज्र॒म् प्राह॑र॒त्

स त्रे॒धा व्य् अ॑भव॒त् स्फ्यस् तृती॑यँ॒ रथ॒स् तृती॑यं॒ यूप॒स् तृती॑यम् \

ये॑ऽन्तःश॒रा अशी॑र्यन्त॒ ताः शर्क॑रा अभव॒न्

तच् छर्क॑राणाँ शर्कर॒त्वम् \

वज्रो॒ वै शर्क॑राः

प॒शुर् अ॒ग्निस् \

यच् छर्क॑राभिर् अ॒ग्निम् प॑रिमि॒नोति॒ वज्रे॑णै॒वास्मै॑ प॒शून् परि॑ गृह्णाति॒

तस्मा॒द् वज्रे॑ण प॒शवः॒ परि॑गृहीता॒स्

तस्मा॒त् स्थेया॒न् अस्थे॑यसो॒ नोप॑ हरते

त्रिस॒प्ताभिः॑ ॥

प॒शुका॑मस्य॒ परि॑ मिनुयात्

स॒प्त वै शी॑र्ष॒ण्याः॑ प्रा॒णाः

प्रा॒णाः प॒शवः॑

प्रा॒णैर् ए॒वास्मै॑ प॒शून् अव॑ रुन्द्धे

त्रिण॒वाभि॒र् भ्रातृ॑व्यवतस्

त्रि॒वृत॑म् ए॒व वर्जँ॑ स॒म्भृत्य॒ भ्रातृ॑व्याय॒ प्र ह॑रति

स्तृत्यै॒ \

अप॑रिमिताभिः॒ परि॑ मिनुया॒द् अप॑रिमित॒स्याव॑रुद्ध्यै॒

यं का॒मये॑ताप॒शुः स्या॒द् इत्य् अप॑रिमित्य॒ तस्य॒ शर्क॑राः॒ सिक॑ता॒ व्य् ऊ॑हेत् \

अप॑रिगृहीत ए॒वास्य॑ विषू॒चीनँ॒ रेतः॒ परा॒ सिञ्च॑ति \

अप॒शुर् ए॒व भ॑वति ॥

यं का॒मये॑त

पशु॒मान्त् स्या॒द् इति॑ परि॒मित्य॒ तस्य॒ शर्क॑राः॒ सिक्ता॑ व्य् { ऊ॑हे॒द् ^ ऊ॑हेत् }

परि॑गृहीत ए॒वास्मै॑ समी॒चीनँ॒ रेतः॑ सिञ्चति

पशु॒मान् ए॒व भ॑वति

सौ॒म्या व्य् ऊ॑हति॒

सोमो॒ वै रे॑तो॒धास् \

रेत॑ ए॒व तद् द॑धाति

गायत्रि॒या ब्रा॑ह्म॒णस्य॑ गाय॒त्रो हि ब्रा॑ह्म॒णस्

त्रि॒ष्टुभा॑ राज॒न्य॑स्य॒ त्रैष्टु॑भो॒ हि रा॑ज॒न्यः॑

श॒म्युम् बा॑र्हस्प॒त्यम् मेधो॒ नोपा॑नम॒त्

सो॑ऽग्निम् प्रावि॑शत् ॥

सो॑ऽग्नेः कृष्णो॑ रू॒पं कृ॒त्वोद् आ॑यत॒

सोऽश्व॒म् प्रावि॑श॒त्

सोऽश्व॑स्यावान्तरश॒फो॑ऽभवत् \

यद् अश्व॑म् आक्र॒मय॑ति॒ य ए॒व मेधोऽश्व॒म् प्रावि॑श॒त् तम् ए॒वाव॑ रुन्द्धे

प्र॒जाप॑तिना॒ग्निश् चे॑त॒व्य॑ इत्य् आ॑हुः

प्रा॒जा॒प॒त्योऽश्व॑स् \

यद् अश्व॑म् आक्र॒मय॑ति प्र॒जाप॑तिनै॒वाग्निं चि॑नुते

पुष्करप॒र्णम् उप॑ दधाति॒

योनि॒र् वा अ॒ग्नेः पु॑ष्करप॒र्णम् \

सयो॑निम् ए॒वाग्निं चि॑नुते \

अ॒पाम् पृ॒ष्ठम् अ॒सीत्य् उप॑ दधाति \

अ॒पां वा ए॒तत् पृ॒ष्ठं {F यत्} {W य॑त्} {ग्लोस् यत्} पु॑ष्करप॒र्णम् \

रू॒पेणै॒वैन॒द् उप॑ दधाति ॥

ब्रह्म॑ जज्ञा॒नम् इति॑ रु॒क्मम् उप॑ दधाति॒

ब्रह्म॑मुखा॒ वै प्र॒जाप॑तिः प्र॒जा अ॑सृजत॒

ब्रह्म॑मुखा ए॒व तत् प्र॒जा यज॑मानः सृजते॒

ब्रह्म॑ जज्ञा॒नम् इत्य् आ॑ह॒

तस्मा॑द् ब्राह्म॒णो मुख्य॑स् \

मुख्यो॑ भवति॒ य ए॒वं वेद॑

ब्रह्मवा॒दिनो॑ वदन्ति॒

न पृ॑थि॒व्यां नान्तरि॑क्षे॒ न दि॒व्य् अ॑ग्निश् चे॑त॒व्य॑ इति॒

यत् पृ॑थि॒व्यां चि॑न्वी॒त पृ॑थि॒वीँ शु॒चार्प॑येत् \

नौष॑धयो॒ न वन॒स्पत॑यः ॥

प्र जा॑येर॒न्

यद् अ॒न्तरि॑क्षे चिन्वी॒तान्तरि॑क्षँ शु॒चार्प॑येत् \

न वयाँ॑सि॒ प्र जा॑येर॒न्

यद् दि॒वि चि॑न्वी॒त दिवँ॑ शु॒चार्प॑येत् \

न प॒र्जन्यो॑ वर्षेत् \

रु॒क्मम् उप॑ दधाति \

अ॒मृतं॒ वै हिर॑ण्यम्

अ॒मृत॑ ए॒वाग्निं चि॑नुते॒

प्रजा॑त्यै

हिर॒ण्मय॒म् पुरु॑ष॒म् उप॑ दधाति

यजमानलो॒कस्य॒ विधृ॑त्यै॒

यद् इष्ट॑काया॒ आतृ॑ण्णम् अनूपद॒ध्यात् प॑शू॒नां च॒ यज॑मानस्य च प्रा॒णम् अपि॑ दध्यात् \

द॒क्षि॒ण॒तः ॥

प्राञ्च॒म् उप॑ दधाति

दा॒धार॑ यजमानलो॒कम् \

न प॑शू॒नां च॒ यज॑मानस्य च प्रा॒णम् अपि॑ दधाति॒ \

अथो॒ खल्व् इष्ट॑काया॒ आतृ॑ण्ण॒म् अनूप॑ दधाति

प्रा॒णाना॒म् उत्सृ॑ष्ट्यै

द्र॒प्सश् च॑स्क॒न्देत्य् अ॒भि मृ॑शति॒

होत्रा॑स्व् ए॒वैन॒म् प्रति॑ ष्ठापयति॒

स्रुचा॒व् उप॑ दधाति \

आज्ज्य॑स्य {F पू॒र्णां} {W पूर्णां} {ग्लोस् पू॒र्णां} का॑र्ष्मर्य॒मयीं॑ द॒ध्नः पू॒र्णाम् औदु॑म्बरीम्

इ॒यं वै का॑र्ष्मर्य॒मय्य् अ॒साव् औदु॑म्बरी \

इ॒मे ए॒वोप॑ धत्ते

तू॒ष्णीम् उप॑ दधाति॒

न हीमे यजु॒षाप्तु॒म् अर्ह॑ति॒

दक्षि॑णां कार्ष्मर्य॒मयी॒म् उत्त॑रा॒म् औदु॑म्बरीम् \

तस्मा॑द् अ॒स्या अ॒साव् उत्त॑रा \

आज्य॑स्य पू॒र्णां का॑र्ष्मर्य॒मती॑म् \

वज्रो॒ वा आज्यं॒ वज्रः॑ कार्ष्म॒र्य॑स् \

वज्रे॑णै॒व य॒ज्ञस्य॑ दक्षिण॒तो रक्षाँ॒स्य् अप॑ हन्ति

द॒ध्नः पू॒र्णाम् औदु॑म्बरीम्

प॒शवो॒ वै दध्य् ऊर्ग् उ॑दु॒म्बरः॑

प॒शुष्व् ए॒वोर्जं॑ दधाति

पू॒र्णे उप॑ दधाति

पू॒र्णे ए॒वैन॑म् ॥

अ॒मुष्मिँ॑ लो॒क उप॑ तिष्ठेते

वि॒राज्य् अ॒ग्निश् चे॑त॒व्य॑ इत्य् आ॑हुः

स्रुग् वै { वि॒राड् ^ वि॒राज् }

यत् स्रुचा॑व् उप॒दधा॑ति वि॒राज्य् ए॒वाग्निं चि॑नुते

यज्ञमु॒खेय॑ज्ञमुखे॒ वै क्रि॒यमा॑णे य॒ज्ञँ रक्षाँ॑सि जिघाँसन्ति

यज्ञमु॒खँ रु॒क्मस् \

यद् रु॒क्मं व्या॑घा॒रय॑ति यज्ञमु॒खाद् ए॒व रक्षाँ॒स्य् अप॑ हन्ति

प॒ञ्चभि॒र् व्याघा॑रयति

पाङ्क्तो॑ य॒ज्ञस् \

यावा॑न् ए॒व य॒ज्ञस् तस्मा॒द् रक्षाँ॒स्य् अप॑ हन्ति

अक्ष्ण॒या व्याघा॑रयति॒

तस्मा॑द् अक्ष्ण॒या प॒शवोऽङ्गा॑नि॒ प्र ह॑रन्ति॒ प्रति॑ष्ठित्यै ॥

स्व॒य॒मा॒तृ॒ण्णाम् उप॑ दधाति \

इ॒यं वै स्व॑यमातृ॒ण्णा \

इ॒माम् ए॒वोप॑ धत्ते॒ \

अश्व॒म् उप॑ घ्रापयति

प्रा॒णम् ए॒वास्यां॑ दधाति॒ \

अथो॑ प्राजाप॒त्यो वा अश्वः॑

प्र॒जाप॑तिनै॒वाग्निं चि॑नुते

प्रथ॒मेष्ट॑कोपधी॒यमा॑ना॒ पशू॑नां च॒ यज॑मानस्य च प्रा॒णम् अपि॑ दधाति

स्वयमातृ॒ण्णा भ॑वति

प्रा॒णाना॒म् उत्सृ॑ष्ट्या॒ अथो॑ सुव॒र्गस्य॑ लो॒कस्यानु॑ख्यात्यै \

अ॒ग्नाव् अ॒ग्निश् चे॑त॒व्य॑ इत्य् आ॑हुस् \

ए॒ष वै ॥

अ॒ग्निर् वै॑श्वान॒रो यद् ब्रा॑ह्म॒णस्

तस्मै॑ प्रथ॒माम् इष्ट॑कां॒ यजु॑ष्कृता॒म् प्र य॑छेत्

ताम् ब्रा॑ह्म॒णस् चोप॑ दध्याताम्

अ॒ग्नाव् ए॒व तद् अ॒ग्निं चि॑नुते \

ईश्व॒रो वा ए॒ष आर्ति॒म् आर्तो॒र् योऽवि॑द्वा॒न् इष्ट॑काम् उप॒दधा॑ति

त्रीन् वरा॑न् दद्यात्

त्रयो॒ वै प्रा॒णाः

प्रा॒णानाँ॒ स्पृत्यै॑

द्वाव् ए॒व देयौ॒

द्वौ हि प्रा॒णौ \

एक॑ ए॒व देय॑स् \

एको॒ हि प्रा॒णः

प॒शुः ॥

वा ए॒ष यद् अ॒ग्निस् \

न खलु॒ वै प॒शव॒ आय॑वसे रमन्ते

दूर्वेष्ट॒काम् उप॑ दधाति पशू॒नां धृत्यै॑

द्वाभ्या॒म् प्रति॑ष्ठित्यै

काण्डा॑त्काण्डात् प्र॒रोह॒न्तीत्य् आ॑ह

काण्डे॑नकाण्डेन॒ ह्य् ए॑षा प्र॑ति॒तिष्ठै॑ \

ए॒वा नो॑ दूर्वे॒ प्र त॑नु स॒हस्रे॑ण श॒तेन॒ चेत्य् आ॑ह

साह॒स्रः प्र॒जाप॑तिः

प्र॒जाप॑ते॒र् आप्त्यै॑

देवल॒क्ष्मं वै त्र्या॑लिखि॒ता

ताम् उत्त॑रलक्ष्माणं दे॒वा उपा॑दध॒ताध॑रलक्ष्माण॒म् असु॑रास् \

यम् ॥

का॒मये॑त॒

वसी॑यान्त् स्या॒द् इत्य् उत्त॑रलक्ष्माणं॒ तस्योप॑ दध्यात् \

वसी॑यान् ए॒व भ॑वति॒

यं का॒मये॑त

पापी॑यान्त् स्या॒द् इत्य् अध॑रलक्ष्माणं॒ तस्योप॑ दध्यात् \

अ॒सु॒र॒यो॒निम् ए॒वैन॒म् अनु॒ परा॑ भावयति

पापी॑यान् भवति

त्र्या॒लि॒खि॒ता भ॑वति \

इ॒मे वै लो॒कास् त्र्या॑लिखि॒ता \

ए॒भ्य ए॒व लो॒केभ्यो॒ भ्रातृ॑व्यम् अ॒न्तर् ए॑ति॒ \

अङ्गि॑रसः सुव॒र्गं लो॒कं व॒तः पु॑रो॒डाशः॑ कू॒र्मो भू॒त्वानु॒ प्रास॑र्पत् ॥

यत् कू॒र्मम् उ॑प॒दधा॑ति॒ यथा॑ क्षेत्र॒विद् अञ्ज॑सा॒ नय॑त्य् ए॒वम् ए॒वैनं॑ कू॒र्मः सु॑व॒र्गं लो॒कम् अञ्ज॑सा नयति॒

मेधो॒ वा ए॒ष प॑शू॒नां यत् कू॒र्मस् \

यत् कू॒र्मम् उ॑प॒दधा॑ति॒ स्वम् ए॒व मेध॒म् पश्य॑न्तः प॒शव॒ उप॑ तिष्ठन्ते

श्मशा॒नं वा ए॒तत् क्रि॑यते॒ यन् मृ॒ताना॑म् पशू॒नाँ शी॒र्षाण्य् उ॑पधी॒यन्ते॒

यज् जीव॑न्तं कू॒र्मम् उ॑प॒दधा॑ति॒ तेनाश्म॑शानचित् \

वा॒स्त॒व्यो॑ वा ए॒ष यत् ॥

कू॒र्मस् \

मधु॒ वाता॑ ऋताय॒त इति॑ द॒ध्ना म॑धुमि॒श्रेणा॒भ्य् अ॑नक्ति

स्व॒दय॑त्य् ए॒वैन॑म् \

ग्रा॒म्यं वा ए॒तद् अन्नं॒ यद् दध्य् आ॑र॒ण्यम् मधु॒

यद् दध्ना॑ मधुमि॒श्रेणा॑भ्य॒नक्त्य् उ॒भय॒स्याव॑रुद्ध्यै

म॒ही द्यौः पृ॑थि॒वी च॑ न॒ इत्य् आ॑ह \

आ॒भ्याम् ए॒वैन॑म् उभ॒यतः॒ परि॑ गृह्णाति

प्राञ्च॒म् उप॑ दधाति॒

तस्मा॑त् ॥

पु॒रस्ता॑त् प्र॒त्यञ्चः॑ प॒शवो॒ मेध॒म् उप॑ तिष्ठन्ते॒

यो वा अप॑नाभिम् अ॒ग्निं चि॑नु॒ते यज॑मानस्य॒ नाभि॒म् अनु॒ प्र वि॑शति॒

स ए॑नम् ईश्व॒रो हिँसि॑तोस् \

उ॒लूख॑ल॒म् उप॑ दधाति \

ए॒षा वा अ॒ग्नेर् नाभिः॒

सना॑भिम् ए॒वाग्निं चि॑नु॒तेऽहिँ॑सायै॒ \

औदु॑म्बरम् भवति \

ऊर्ग् वा उ॑दु॒म्बर॑स् \

ऊर्ज॑म् ए॒वाव॑ रुन्द्धे

मध्य॒त उप॑ दधाति

मध्य॒त ए॒वास्मा॒ ऊर्जं॑ दधाति॒

तस्मा॑न् मध्य॒त ऊ॒र्जा भु॑ञ्जते \

इ॒यद् भ॑वति

प्र॒जाप॑तिना यज्ञमु॒खेन॒ सम्मि॑त॒म्

अव॑ हन्ति॒ \

अन्न॑म् ए॒वाक॑र्

वैष्ण॒व्यर्चोप॑ दधाति॒

विष्णु॒र् वै य॒ज्ञस् \

वै॒ष्ण॒वा वन॒स्पत॑यस् \

य॒ज्ञ ए॒व य॒ज्ञम् प्रति॑ ष्ठापयति ॥

ए॒षां वा ए॒तल् लो॒कानां॒ ज्योतिः॒ सम्भृ॑तं॒ यद् उ॒खा

यद् उ॒खाम् उ॑प॒दधा॑त्य् ए॒भ्य ए॒वा लो॒केभ्यो॒ ज्योति॒र् अव॑ रुन्द्धे

मध्य॒त उप॑ दधाति

मध्य॒त ए॒वास्मै॒ ज्योति॑र् दधाति॒

तस्मा॑न् मध्य॒तो ज्योति॒र् उपा॑स्महे॒

सिक॑ताभिः पूरयति \

ए॒तद् वा अ॒ग्नेर् वै॑श्वान॒रस्य॑ रू॒पम् \

रू॒पेणै॒व वै॑श्वान॒रम् अव॑ रुन्द्धे॒

यं का॒मये॑त॒

क्षोधु॑कः स्या॒द् इत्य् ऊ॒नां तस्योप॑ ॥

द॒ध्या॒त्

क्षोधु॑क ए॒व भ॑वति॒

यं का॒मये॑त॒ \

अनु॑पदस्य॒द् अन्न॑म् अद्या॒द् इति॑ पू॒र्णां तस्योप॑ दध्यात् \

अनु॑पदस्यद् ए॒वान्न॑म् अत्ति

स॒हस्रं॒ वै प्रति॒ पुरु॑षः पशू॒नां य॑छति स॒हस्र॑म् अ॒न्ये प॒शव॑स् \

मध्ये॑ पुरुषशी॒र्षम् उप॑ दधाति

सवीर्य॒त्वाय॑ \

उ॒खाया॒म् अपि॑ दधाति

प्रति॒ष्ठाम् ए॒वैन॑द् गमयति

व्य्॑र्?द्धं॒ वा ए॒तत् प्रा॒णैर् अ॑मे॒ध्यं यत् पु॑रुषशी॒र्षम्

अ॒मृतं॒ खलु॒ वै प्रा॒णाः ॥

अ॒मृतँ॒ हिर॑ण्यम्

प्रा॒णेषु॑ हिरण्यश॒ल्कान् प्रत्य् अ॑स्यति

प्रति॒ष्ठाम् ए॒वैन॑द् गमयि॒त्वा प्रा॒णैः सम् अ॑र्धयति

द॒ध्ना म॑धुमि॒श्रेण॑ पूरयति \

म॒ध्व्यो॑ऽसा॒नीति॑

शृतात॒ङ्क्ये॑न मेध्य॒त्वाय॑

ग्रा॒म्यं वा ए॒तद् अन्नं॒ यद् दध्य् आ॑र॒ण्यम् मधु॒

यद् दध्ना॑ मधुमि॒श्रेण॑ पू॒रय॑त्य् उ॒भय॒स्याव॑रुद्ध्यै

पशुशी॒र्षाण्य् उप॑ दधाति

प॒शवो॒ वै प॑शुशी॒र्षाणि॑

प॒शून् ए॒वाव॑ रुन्द्धे॒

यं का॒मये॑त \

अप॒शुः स्या॒द् इति॑

विषू॒चीना॑नि॒ तस्योप॑ दध्यात् \

विषू॑च ए॒वास्मा॑त् प॒शून् द॑धाति \

अप॒शुर् ए॒व भ॑वति॒

यं का॒मये॑त

पशु॒मान्त् स्या॒द् इति॑ समी॒चीना॑नि॒ तस्योप॑ दध्यात्

स॒मीच॑ ए॒वास्मै॑ प॒शून् द॑धाति

पशु॒मान् ए॒व भ॑वति

पु॒रस्ता॑त् प्रती॒चीन॒म् अश्व॒स्योप॑ दधाति प॒श्चात् प्रा॒चीन॑म् ऋष॒भस्य॒ \

अप॑शवो॒ वा अ॒न्ये गोअ॒श्वेभ्यः॑ प॒शव॑स् \

गोअ॒श्वान् ए॒वास्मै॑ स॒मीचो॑ दधाति \

ए॒ताव॑न्तो॒ वै प॒शवः॑ ॥

द्वि॒पाद॑श् च॒ चतु॑ष्पादश् च

तान् वा ए॒तद् अ॒ग्नौ प्र द॑धाति॒ यत् प॑शुशी॒र्षाण्य् उ॑प॒दधा॑ति \

अ॒मुम् आ॑र॒ण्यम् अनु॑ ते दिशा॒मीत्य् आ॑ह

ग्रा॒म्येभ्य॑ ए॒व प॑शुभ्य आर॒ण्यान् प॒शूञ् छुच॒म् अनूत् सृ॑जति॒

तस्मा॑त् स॒माव॑त् पशू॒नाम् प्र॒जाय॑मानानाम् आर॒ण्याः प॒शवः॒ कनी॑याँसः

शु॒चा ह्य् ऋताः

स॑र्पशी॒र्षम् उप॑ दधाति॒

यैव स॒र्पे त्विषि॒स् ताम् ए॒वाव॑ रुन्द्धे ॥

यत् स॑मी॒चीन॑म् पशुशी॒र्षैर् उ॑पद॒ध्याद् ग्रा॒म्यान् प॒शून् दँशु॑काः स्युस् \

यद् वि॑षू॒चीन॑म् आर॒ण्यान्

यजु॑र् ए॒व व॑देत् \

अव॒ तां त्विषिँ॑ रुन्द्धे॒ या स॒र्पे

न ग्रा॒म्यान् प॒शून् हि॒नस्ति॒ नार॒ण्यान्

अथो॒ खलू॑प॒धेय॑म् ए॒व

यद् उ॑प॒दधा॑ति॒ तेन॒ तां त्विषि॒म् अव॑ रुन्द्धे॒ या स॒र्पे

यद् यजु॒र् वद॑ति॒ तेन॑ शा॒न्तम् ॥

प॒शुर् वा ए॒ष यद् अ॒ग्निस् \

योनिः॒ खलु॒ वा ए॒षा प॒शोर् वि क्रि॑यते॒ यत् प्रा॒चीन॑म् ऐष्ट॒काद् यजुः॑ क्रि॒यते॒

रेतो॑ऽप॒स्या॑स् \

अ॒प॒स्या॑ उप॑ दधाति॒

योना॑व् ए॒व रेतो॑ दधाति॒

पञ्चोप॑ दधाति

पाङ्क्ताः॑ प॒शवः॑

प॒शून् ए॒वास्मै॒ प्र ज॑नयति॒

पञ्च॑ दक्षिण॒तस् \

वज्रो॒ वा अ॑प॒स्या॑स् \

वज्रे॑णै॒व य॒ज्ञस्य॑ दक्षिण॒तो रक्षाँ॒स्य् अप॑ हन्ति॒

पञ्च॑ प॒श्चात् ॥

प्राची॒र् उप॑ दधाति

प॒श्चाद् वै प्रा॒चीनँ॒ रेतो॑ धीयते

प॒श्चाद् ए॒वास्मै॑ प्रा॒चीनँ॒ रेतो॑ दधाति॒

पञ्च॑ पु॒रस्ता॑त् प्र॒तीची॒र् उप॑ दधाति॒ पञ्च॑ प॒श्चात् प्राची॒स्

तस्मा॑त् प्रा॒चीनँ॒ रेतो॑ धीयते प्र॒तीचीः॑ प्र॒जा जा॑यन्ते॒

पञ्चो॑त्तर॒तश् छ॑न्द॒स्याः॑

प॒शवो॒ वै छ॑न्द॒स्याः॑

प॒शून् ए॒व प्रजा॑ता॒न्त् स्वम् आ॒यत॑नम् अ॒भि पर्य् ऊ॑हते \

इ॒यं वा अ॒ग्नेर् अ॑तिदा॒हाद् अ॑बिभे॒त्

सैताः ॥

अ॒प॒स्या॑ अपश्यत्

ता उपा॑धत्त॒

ततो॒ वा इ॒मां नात्य् अ॑दहत् \

यद् अ॑प॒स्या॑ उप॒दधा॑त्य् अ॒स्या अन॑तिदाहाय

उ॒वाच॑ हे॒यम्

अद॒द् इत् स ब्रह्म॒णान्नं॒ यस्यै॒ता उ॑पधी॒यान्तै॒ य उ॑ चैना ए॒वं वेद॒द् इति॑

प्राण॒भृत॒ उप॑ दधाति॒

रेत॑स्य् ए॒व प्रा॒णान् द॑धाति॒

तस्मा॒द् वद॑न् प्रा॒णन् पश्य॑ञ् छृ॒ण्वन् प॒शुर् जा॑यते \

अ॒यम् पु॒रः ॥

भुव॒ इति॑ पु॒रस्ता॒द् उप॑ दधाति

प्रा॒णम् ए॒वैताभि॑र् दाधार \

अ॒यं द॑क्षि॒णा वि॒श्वक॒र्मेति॑ दक्षिण॒तस् \

मन॑ ए॒वैताभि॑र् दाधार \

अ॒यम् प॒श्चाद् वि॒श्वव्य॑चा॒ इति॑ प॒श्चात् \

चक्षु॑र् ए॒वैताभि॑र् दाधार \

इ॒दम् उ॑त्त॒रात् सुव॒र् इत्य् उ॑त्तर॒तः

श्रोत्र॑म् ए॒वैताभि॑र् दाधार \

इ॒यम् उ॒परि॑ म॒तिर् इत्य् उ॒परि॑ष्टात् \

वाच॑म् ए॒वैताभि॑र् दाधार॒

दश॑द॒शोप॑ दधाति सवीर्य॒त्वाय॑ \

अक्ष्ण॒या ॥

उप॑ दधाति॒

तस्मा॑द् अक्ष्ण॒या प॒शवोऽङ्गा॑नि॒ प्र ह॑रन्ति॒

प्रति॑ष्ठित्यै

याः प्राची॒स् ताभि॒र् वसि॑ष्ठ आर्ध्नोत् \

या द॑क्षि॒णा ताभि॑र् भ॒रद्वा॑जस् \

याः प्रा॒तीची॒स् ताभि॑र् वि॒श्वामि॑त्रस् \

या उदी॑ची॒स् ताभि॑र् ज॒मद॑ग्निस् \

या ऊ॒र्ध्वास् ताभि॑र् विश्वकर्मा॒

य ए॒वम् ए॒तासा॒म् ऋद्धिं॒ वेद॒र्ध्नोत्य् ए॒व

य आ॑साम् ए॒वम् ब॒न्धुतां॒ वेद॒ बन्धु॑मान् भवति॒

य आ॑साम् ए॒वं कॢप्तिं॒ वेद॒ कल्प॑ते ॥

अ॒स्मै॒

य आ॑साम् ए॒वम् आ॒यत॑नं॒ वेदा॒यत॑नवान् भवति॒

य आ॑साम् ए॒वम् प्र॑ति॒ष्ठां वेद॒ प्रत्य् ए॒व ति॑ष्ठति

प्राण॒भृत॑ उप॒धाय॑ सं॒यत॒ उप॑ दधाति

प्रा॒णान् ए॒वास्मि॑न् धि॒त्वा सं॒यद्भिः॒ सं य॑छति॒

तत् सं॒यताँ॑ संय॒त्त्वम्

अथो॑ प्रा॒ण ए॒वापा॒नं द॑धाति॒

तस्मा॑त् प्राणापा॒नौ सं च॑रतस् \

विषू॑ची॒र् उप॑ दधाति॒

तस्मा॒द् विष्व॑ञ्चौ प्राणापा॒नौ

यद् वा अ॒ग्नेर् असं॑यतम् ॥

असु॑वर्ग्यम् अस्य॒ तत्

सु॑व॒र्ग्यो॑ऽग्निस् \

यत् सं॒यत॑ उप॒दधा॑ति॒ सम् ए॒वैनं॑ यछति सुव॒र्ग्य॑म् ए॒वाक॑स्

त्र्यवि॒र् वयः॑ कृ॒तम् अया॑ना॒म् इत्य् आ॑ह॒

वयो॑भिर् ए॒वाया॒न् अव॑ रुन्द्धे॒ \

अयै॒र् वयाँ॑सि

स॒र्वतो॑ वायु॒मती॑र् भवन्ति॒

तस्मा॑द् अ॒यँ स॒र्वतः॑ पवते ॥

गा॒य॒त्री त्रि॒ष्टुब् जग॑त्य् अनु॒ष्टुक् प॑ङ्क्त्या॑ स॒ह । बृ॒ह॒त्य् उ॑ष्णिहा॑ क॒कुत् सू॒चीभिः॑ शिम्यन्तु त्वा ॥

द्वि॒पदा॒ या चतु॑ष्पदा त्रि॒पदा॒ या च॒ षट्प॑दा । सछ॑न्दा॒ या च॒ विछ॑न्दाः सू॒चीभिः॑ शिम्यन्तु त्वा ॥

म॒हाना॑म्नी रे॒वत॑यो॒ विश्वा॒ आशाः॑ प्र॒सूव॑रीः । मेघ्या॑ वि॒द्युतो॒ वाचः॑ सू॒चीभिः॑ शिम्यन्तु त्वा ॥

र॒ज॒ता हरि॑णीः॒ सीसा॒ युजो॑ युज्यन्ते॒ कर्म॑भिः । अश्व॑स्य वा॒जिन॑स् त्व॒चि सू॒चीभिः॑ शिम्यन्तु त्वा ॥

नारीः॑ ॥

ते॒ पत्न॑यो॒ लोम॒ वि चि॑न्वन्तु मनी॒षया॑ । दे॒वाना॒म् पत्नी॒र् दिशः॑ सू॒चीभिः॑ शिम्यन्तु त्वा ॥

कु॒विद् अ॒ङ्ग यव॑मन्तो॒ यवं॑ चि॒द् यथा॒ दान्त्य् अ॑नुपू॒र्वं वि॒यूय॑ । इ॒हेहै॑षां कृणुत॒ भोज॑नानि॒ ये ब॒र्हिषो॒ नमो॑वृक्तिं॒ न ज॒ग्मुः ॥

कस् त्वा॑ छ्यति॒ कस् त्वा॒ वि शा॑स्ति॒ कस् ते॒ गात्रा॑णि शिम्यति । क उ॑ ते शमि॒ता क॒विः ॥

ऋ॒तव॑स् त ऋतु॒धा परुः॑ शमि॒तारो॒ वि शा॑सतु । सं॒व॒त्स॒रस्य॒ धाय॑सा॒ शिमी॑भिः शिम्यन्तु त्वा ॥

दैव्या॑ अध्व॒र्यव॑स् त्वा॒ छ्यन्तु॒ वि च॑ शासतु । गात्रा॑णि पर्व॒शस् ते॒ शिमाः॑ कृण्वन्तु॒ शिम्य॑न्तः ॥

अ॒र्ध॒मा॒साः परूँ॑षि ते॒ मासा॑श् छ्यन्तु॒ शिम्य॑न्तः । अ॒हो॒रा॒त्राणि॑ म॒रुतो॒ विलि॑ष्टं ॥

सू॒द॒य॒न्तु॒ ते॒ ॥

पृ॒थि॒वी ते॒ऽन्तरि॑क्षेण वा॒युश् छि॒द्रम् भि॑षज्यतु । द्यौस् ते॒ नक्ष॑त्रैः स॒ह रू॒पं कृ॑णोतु साधु॒या ॥

शं ते॒ परे॑भ्यो॒ गात्रे॑भ्यः॒ शम् अ॒स्त्व् अव॑रेभ्यः । शम् अ॒स्थभ्यो॑ म॒ज्जभ्यः॒ शम् उ॑ ते त॒नुवे॑ भुवत् ॥