सा॒वि॒त्राणि॑ जुहोति॒

प्रसू॑त्यै

चतुर्गृही॒तेन॑ जुहोति॒

चतु॑ष्पादः प॒शवः॑

प॒शून् ए॒वाव॑ रुन्द्धे॒

चत॑स्रो॒ दिश॑स् \

दि॒क्ष्व् ए॑व प्रति॑ तिष्ठति॒

छन्दाँ॑सि दे॒वेभ्योऽपा॑क्राम॒न्

न वो॑ऽभा॒गानि॑ ह॒व्यं व॑क्ष्याम॒ इति॒

तेभ्य॑ ए॒तच् च॑तुर्गृही॒तम् अ॑धारयन्

पुरोऽनुवा॒क्या॑यै या॒ज्या॑यै दे॒वता॑यै वषट्का॒राय॒

यच् च॑तुर्गृही॒तं जु॒होति॒ छन्दाँ॑स्य् ए॒व तत् प्री॑णाति

तान्य् अ॑स्य प्री॒तानि॑ दे॒वेभ्यो॑ ह॒व्यं व॑हन्ति॒

यं का॒मये॑त ॥

पापी॑यान्त् स्या॒द् इत्य् एकै॑कं॒ तस्य॑ जुहुयात् \

आहु॑तीभिर् ए॒वैन॒म् अप॑ गृह्णाति॒ पापी॑यान् भवति॒

यं का॒मये॑त॒

वसी॑यान्त् स्या॒द् इति॒ सर्वा॑णि॒ तस्या॑नु॒द्रुत्य॑ जुहुयात् \

आहु॑त्यै॒वैन॑म् अ॒भि क्र॑मयति॒ वसी॑यान् भवति॒ \

अथो॑ य॒ज्ञस्यै॒वैषाभिक्रा॑न्तिस् \

एति॒ वा ए॒ष य॒ज्ञमु॒खाद् ऋद्ध्या॒ यो॑ऽग्नेर् दे॒वता॑या॒ एति॑ \

अ॒ष्टाव् ए॒तानि॑ सावि॒त्राणि॑ भवन्ति \

अ॒ष्टाक्ष॑रा गाय॒त्री

गा॑य॒त्रः ॥

अ॒ग्निस्

तेनै॒व य॑ज्ञमु॒खाद् ऋद्ध्या॑ अ॒ग्नेर् दे॒वता॑यै॒ नैति॑ \

अ॒ष्टौ सा॑वि॒त्राणि॑ भव॒न्त्य् आहु॑तिर् नव॒मी

त्रि॒वृत॑म् ए॒व य॑ज्ञमु॒खे वि या॑तयति॒

यदि॑ का॒मये॑त॒

छन्दाँ॑सि यज्ञयश॒सेना॑र्पयेय॒म् इत्य् ऋच॑म् अन्त॒मां कु॑र्यात् \

छन्दाँ॑स्य् ए॒व य॑ज्ञयश॒सेना॑र्पयति॒

यदि॑ का॒मये॑त॒

यज॑मानं यज्ञयश॒सेना॑र्पयेय॒म् इति॒ यजु॑र् अन्त॒मं कु॑र्यात् \

यज॑मानम् ए॒व य॑ज्ञयश॒सेना॑र्पयति \

ऋ॒चा स्तोमँ॒ सम् अ॑र्ध॒येति॑ ॥

आ॒ह॒

समृ॑द्ध्यै

च॒तुर्भि॒र् अभ्रि॒म् आ द॑त्ते

च॒त्वारि॒ छन्दाँ॑सि॒

छन्दो॑भिर् ए॒व

दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒व इत्य् आ॑ह॒

प्रसू॑त्यै \

अ॒ग्निर् दे॒वेभ्यो॒ निला॑यत॒

स वेणु॒म् प्रावि॑श॒त्

स ए॒ताम् ऊ॒तिम् अनु॒ सम् अ॑चर॒द् यद् वेणोः॑ सुषि॒रम् \

सु॒षि॒राभ्रि॑र् भवति सयोनि॒त्वाय॒

स यत्र॑य॒त्राव॑स॒त् तत् कृ॒ष्णम् अ॑भवत्

कल्मा॒सी भ॑वति रू॒पस॑मृद्ध्यै \

उभयतः॒क्ष्णूर् भ॑वति \

इ॒तश् चा॒मुत॑श् चा॒र्कस्याव॑रुद्ध्यै

व्याममा॒त्री भ॑वति \

ए॒ताव॒द् वै पुरु॑षे वी॒र्य॑म् \

वी॒र्य॑सम्मिता॒ \

अप॑रिमिता भवति॒ \

अप॑रिमित॒स्याव॑रुद्ध्यै॒

यो वन॒स्पती॑नाम् फल॒ग्रहिः॒ स ए॑षां वी॒र्या॑वान्

फ॒ल॒ग्रहि॒र् वेणु॑स् \

वै॒ण॒वी भ॑वति वी॒र्य॑स्याव॑रुद्ध्यै ॥

व्य्॑र्?द्धं॒ वा ए॒तद् य॒ज्ञस्य॒ यद् अ॑य॒जुष्के॑ण क्रि॒यते॑ \

इ॒माम् अ॑गृभ्णन् रश॒नाम् ऋ॒तस्येत्य् अ॑श्वाभि॒धानी॒म् आ द॑त्ते॒

यजु॑ष्कृत्यै य॒ज्ञस्य॒ समृ॑द्ध्यै॒

प्रतू॑र्तं वाजि॒न्न् आ द्र॒वेत्य् अश्व॑म् अ॒भि द॑धाति

रू॒पम् ए॒वास्यै॒तन् म॑हि॒मानं॒ व्याच॑ष्टे

यु॒ञ्जाथाँ॒ रास॑भं यु॒वम् इति॑ गर्द॒भम्

अस॑त्य् ए॒व ग॑र्द॒भम् प्रति॑ ष्ठापयति॒

तस्मा॒द् अश्वा॑द् गर्द॒भोऽस॑त्तरस् \

योगे॑योगे त॒वस्त॑र॒म् इत्य् आ॑ह ॥

योगे॒ योग॑ ए॒वैनं॑ युङ्क्ते

वाजे॑वाजे हवामह॒ इत्य् आ॑ह॒ \

अन्नं॒ वै वाज॑स् \

अन्न॑म् ए॒वाव॑ रुन्द्धे॒

सखा॑य॒ इन्द्र॑म् ऊ॒तय॒ इत्य् आ॑ह \

इन्द्रि॒यम् ए॒वाव॑ रुन्द्धे \

अ॒ग्निर् दे॒वेभ्यो॒ निला॑यत॒

तम् प्र॒जाप॑ति॒र् अन्व् अ॑विन्दत्

प्रा॒जा॒प॒त्योऽश्व॑स् \

अश्वे॑न॒ सम् भ॑र॒त्य् अनु॑वित्त्यै

पापवस्य॒सं वा ए॒तत् क्रि॑यते॒ यच् छ्रेय॑सा च॒ पापी॑यसा च समा॒नं कर्म॑ कु॒र्वन्ति॑

पापी॑यान् ॥

ह्य् अश्वा॑द् गर्द॒भस् \

अश्व॒म् पूर्वं॑ नयन्ति पापवस्य॒सस्य॒ व्यावृ॑त्त्यै॒

तस्मा॒च् छ्रेयाँ॑स॒म् पापी॑यान् प॒श्चाद् अन्व् ए॑ति

ब॒हुर् वै भव॑तो॒ भ्रातृ॑व्यस् \

भव॑तीव॒ खलु॒ वा ए॒ष यो॑ऽग्निम् चि॑नु॒ते

व॒ज्र्य् अश्वः॑

प्र॒तूर्व॒न्न् एह्य् अ॑व॒क्राम॒न्न् अश॑स्ती॒र् इत्य् आ॑ह॒

वज्रे॑णै॒व पा॒प्मान॒म् भ्रातृ॑व्य॒म् अव॑ क्रामति

रु॒द्रस्य॒ गाण॑पत्या॒द् इत्य् आ॑ह

रौ॒द्रा वै प॒शवो॑ रु॒द्राद् ए॒व ॥

प॒शून् नि॒र्याच्या॒त्मने॒ कर्म॑ कुरुते

पू॒ष्णा स॒युजा॑ स॒हेत्य् आ॑ह

पू॒षा वा अध्व॑नाँ संने॒ता

सम॑ष्ट्यै॒

पुरी॑षायतनो॒ वा ए॒ष यद् अ॒ग्निस् \

अङ्गि॑रसो॒ वा ए॒तम् अग्रे॑ दे॒वता॑नाँ॒ सम् अ॑भरन्

पृथि॒व्याः स॒धस्था॑द् अ॒ग्निम् पु॑री॒ष्य॑म् अङ्गिर॒स्वद् अछे॒हीत्य् आ॑ह

साय॑तनम् ए॒वैनं॑ दे॒वता॑भिः॒ सम् भ॑रति \

अ॒ग्निम् पु॑री॒ष्य॑म् अङ्गिर॒स्वद् अछे॑म॒ इत्य् आ॑ह॒

येन॑ ॥

सं॒गछ॑ते॒ वाज॑म् ए॒वास्य॑ वृङ्क्ते

प्र॒जाप॑तये प्रति॒प्रोच्या॒ग्निः स॒म्भृत्य॒ इत्य् आ॑हुस् \

इ॒यं वै प्र॒जाप॑ति॒स्

तस्या॑ ए॒तच् छ्रोत्रं॒ यद् व॒ल्मीक॑स् \

अ॒ग्निम् पु॑री॒ष्य॑म् अङ्गिर॒स्वद् भ॑रिष्याम॒ इति॑ वल्मीकव॒पाम् उप॑ तिष्ठते

सा॒क्षाद् ए॒व प्र॒जाप॑तये प्रति॒प्रोच्या॒ग्निँ सम् भ॑रति \

अ॒ग्निम् पु॑री॒ष्य॑म् अङ्गिर॒स्वद् भ॑राम॒ इत्य् आ॑ह॒

येन॑ सं॒गछ॑ते॒ वाज॑म् ए॒वास्य॑ वृङ्क्ते॒ \

अन्व् अ॒ग्निर् उ॒षसा॒म् अग्र॑म् ॥

अ॒ख्य॒द् इत्य् आ॑ह॒ \

अनु॑ख्यात्यै \

आ॒गत्य॑ वा॒ज्य् अध्व॑न आ॒क्रम्य॑ वाजिन् प्राथि॒वीम् इत्य् आ॑ह \

इ॒छत्य् ए॒वैन॒म् पूर्व॑या वि॒न्दत्य् उत्त॑रया

द्वाभ्या॒म् आ क्र॑मयति॒

प्रति॑ष्ठित्यै॒ \

अनु॑रूपाभ्याम् \

तस्मा॒द् अनु॑रूपाः प॒शवः॒ प्र जा॑यन्ते॒

द्यौस् ते॑ पृ॒ष्ठम् पृ॑थि॒वी स॒धस्थ॒म् इत्य् आ॑ह \

ए॒भ्यो वा ए॒तं लो॒केभ्यः॑ प्र॒जाप॑तिः॒ सम् ऐ॑रयत् \

रू॒पम् ए॒वास्यै॒तन् म॑हि॒मानं॒ व्याच॑ष्टे

व॒ज्री वा ए॒ष यद् अश्व॑स् \

दद्भि॑र् अ॒न्यतो॑दद्भ्यो॒ भूयाँ॒ लोम॑भिर् उभ॒याद॑द्भ्यस् \

यं द्वि॒ष्यात् तम् अ॑धस्प॒दं ध्या॑येत् \

वज्रे॑णै॒वैनँ॑ स्तृणुते ॥

उत् क्रा॒मोद् अ॑क्रमी॒द् इति॒ द्वाभ्या॒म् उत् क्र॑मयति॒

प्रति॑ष्ठित्यै॒ \

अनु॑रूपाभ्याम् \

तस्मा॒द् अनु॑रूपाः प॒शवः॒ प्र जा॑यन्ते \

अ॒प उप॑ सृजति॒

यत्र॒ वा आप॑ उप॒गछ॑न्ति॒ तद् ओष॑धयः॒ प्रति॑ तिष्ठन्ति॒ \

ओष॑धीः प्रति॒तिष्ठ॑न्तीः प॒शवोऽनु॒ प्रति॑ तिष्ठन्ति

प॒शून् य॒ज्ञस् \

य॒ज्ञं यज॑मानस् \

यज॑मानम् प्र॒जास्

तस्मा॑द् अ॒प उप॑ सृजति॒

प्रति॑ष्ठित्यै॒

यद् अ॑ध्व॒र्युर् अ॑न॒ग्नाव् आहु॑तिं जुहु॒याद् अ॒न्धो॑ऽध्व॒र्युः ॥

स्या॒द् रक्षाँ॑सि य॒ज्ञँ ह॑न्युस् \

हिर॑ण्यम् उ॒पास्य॑ जुहोति \

अग्नि॒वत्य् ए॒व जु॑होति

नान्धो॑ऽध्व॒र्युर् भव॑ति॒ न य॒ज्ञँ रक्षाँ॑सि घ्नन्ति॒

जिघ॑र्म्य् अ॒ग्निम् मन॑सा घृ॒तेनेत्य् आ॑ह॒

मन॑सा॒ हि पुरु॑षो य॒ज्ञम् अ॑भि॒गछ॑ति

प्रति॒क्ष्यन्त॒म् भुव॑नानि॒ विश्वेत्य् आ॑ह॒

सर्वँ॒ ह्य् ए॑ष प्र॒त्यङ् क्षेति॑

पृ॒थुं ति॑र॒श्चा वय॒स बृ॒हन्त॒म् इत्य् आ॑ह॒ \

अल्पो॒ ह्य् ए॑ष जा॒तो म॒हान् ॥

भव॑ति॒

व्यचि॑ष्ठ॒म् अन्नँ॑ रभ॒सं विदा॑न॒म् इत्य् आ॑ह॒ \

अन्न॑म् ए॒वास्मै॑ स्वदयति॒

सर्व॑म् अस्मै स्वदते॒ य ए॒वं वेद॑ \

आ त्वा॑ जिघर्मि॒ वच॑सा घृ॒तेनेत्य् आ॑ह॒

तस्मा॒द् यत् पुरु॑षो॒ मन॑साभि॒गछ॑ति॒ तद् वा॒चा व॑दति \

अर॒क्षसेत्य् आ॑ह॒

रक्ष॑सा॒म् अप॑हत्यै॒

मर्त्य॑श्री स्पृह॒यद्व॑र्णो अ॒ग्निर् इत्य् आ॑ह॒ \

अप॑चितिम् ए॒वास्मि॑न् दधाति॒ \

अप॑चितिमान् भवति॒ य ए॒वं ॥

वेद॒

मन॑सा॒ त्वै ताम् आप्तु॑म् अर्हति॒ याम् अ॑ध्व॒र्युर् अ॑न॒ग्नाव् आहु॑तिं जु॒होति॒

मन॑स्वतीभ्यां जुहोति \

आहु॑त्यो॒र् आप्त्यै॑

द्वाभ्या॑म्

प्रति॑ष्ठित्यै

यज्ञमु॒खेय॑ज्ञमुखे॒ वै क्रि॒यमा॑णे य॒ज्ञँ रक्षाँ॑सि जिघाँसन्ति॒ \

एत॑र्हि॒ खलु॒ वा ए॒तद् य॑ज्ञमु॒खं यर्ह्य् ए॑न॒द् आहु॑तिर् अश्नु॒ते

परि॑ लिखति॒

रक्ष॑सा॒म् अप॑हत्यै

ति॒सृभिः॒ परि॑ लिखति

त्रि॒वृद् वा अ॒ग्निस् \

यावा॑न् ए॒वाग्निस् तस्मा॒द् रक्षाँ॒स्य् अप॑ हन्ति ॥

गा॒य॒त्रि॒या परि॑ लिखति॒

तेजो॒ वै गा॑य॒त्री

तेज॑सै॒वैन॒म् परि॑ गृह्णाति

त्रि॒ष्टुभा॒ परि॑ लिखति \

इन्द्रि॒यं वै { त्रि॒ष्टुग् ^ त्रि॒ष्तुभ् }

इ॒न्द्रि॒येणै॒वैन॒म् परि॑ गृह्णाति \

अनु॒ष्टुभा॒ परि॑ लिखति \

अनु॒ष्टुप् सर्वा॑णि॒ छन्दाँ॑सि परि॒भूः पर्या॑प्त्यै

मध्य॒तो॑ऽनु॒ष्टुभा॑

वाग् वा { अ॑नु॒ष्टुप् ^ अ॑नु॒ष्टुभ् }

तस्मा॑न् मध्य॒तो वा॒चा व॑दामस् \

गा॒य॒त्रि॒या प्र॑थ॒मया॒ परि॑ लिख॒त्य् अथा॑नु॒ष्टुभाथ॑ त्रि॒ष्टुभा॒

तेजो॒ वै गा॑य॒त्री य॒ज्ञो॑ऽनु॒ष्टुग् इ॑न्द्रि॒यं { त्रि॒ष्टुप् ^ त्रि॒ष्टुभ् }

तेज॑सा चै॒वेन्द्रि॒येण॑ चोभ॒यतो॑ य॒ज्ञम् परि॑ गृह्णाति ॥

दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒व इति॑ खनति॒ प्रसू॑त्या॒ अथो॑ धू॒मम् ए॒वैतेन॑ जनयति॒

ज्योति॑ष्मन्तं त्वाग्ने सु॒प्रती॑क॒म् इत्य् आ॑ह॒ ज्योति॑र् ए॒वैतेन॑ जनयति॒

सो॑ऽग्निर् जा॒तः प्र॒जाः शु॒चार्प॑य॒त् तं दे॒वा अ॑र्ध॒र्चेना॑शमयन् \

शि॒वम् प्र॒जाभ्योऽहिँ॑सन्त॒म् इत्य् आ॑ह प्र॒जाभ्य॑ ए॒वैनँ॑ शमयति

द्वाभ्यां॑ खनति॒ प्रति॑ष्ठित्यै \

अ॒पाम् पृ॒ष्ठम् अ॒सीति॑ पुष्करप॒र्णम् आ ॥

ह॒र॒त्य् अ॒पां वा ए॒तत् पृ॒ष्ठं यत् पु॑ष्करप॒र्णँ रू॒पेणै॒वैन॒द् आ ह॑रति

पुष्करप॒र्णेन॒ सम् भ॑रति॒ योनि॒र् वा अ॒ग्नेः पु॑ष्करप॒र्णँ सयो॑निम् ए॒वाग्निँ सम् भ॑रति

कृष्णाजि॒नेन॒ सम् भ॑रति य॒ज्ञो वै कृ॑ष्णाजि॒नं य॒ज्ञेनै॒व य॒ज्ञँ सम् भ॑रति॒

यद् ग्रा॒म्याणा॑म् पशू॒नां चर्म॑णा स॒म्भरे॑द् ग्रा॒म्यान् प॒शूञ् छु॒चार्प॑येत् कृष्णाजि॒नेन॒ सम् भ॑रत्य् आर॒ण्यान् ए॒व प॒शून् ॥

शु॒चार्प॑यति॒

तस्मा॑त् स॒माव॑त् पशू॒नाम् प्र॒जाय॑मानानाम् आर॒ण्याः प॒शवः॒ कनी॑याँसः शु॒चा ह्य् ऋ॒तास् \

लो॒म॒तः सम् भ॑र॒त्य् अतो॒ ह्य् अ॑स्य॒ मेध्य॑म् \

कृ॒ष्णा॒जि॒नं च॑ पुष्करप॒र्णं च॒ सँ स्तृ॑णाती॒यं वै कृ॑ष्णाजि॒नम् अ॒सौ पु॑ष्करप॒र्णम् आ॒भ्याम् ए॒वैन॑म् उभ॒यतः॒ परि॑ गृह्णाति \

अ॒ग्निर् दे॑वेभ्यो॒ निला॑यत॒ तम् अथ॒र्वान्व् अ॑पश्यत् \

अथ॑र्वा त्वा प्रथ॒मो निर् अ॑मन्थद् अग्न॒ इति॑ ॥

आ॒ह॒ य ए॒वैन॑म् अ॒न्वप॑श्य॒त् तेनै॒वैनँ॒ सम् भ॑रति

त्वाम् अ॑ग्ने॒ पुष्क॑रा॒द् अधीत्य् आ॑ह पुष्करप॒र्णे ह्य् ए॑न॒म् उप॑श्रित॒म् अवि॑न्द॒त्

तम् उ॑ त्वा द॒ध्यङ्ङ् ऋषि॒र् इत्य् आ॑ह द॒ध्यङ् वा आ॑थर्व॒णस् ते॑ज॒स्व्य् आ॑सी॒त् तेज॑ ए॒वास्मि॑न् दधाति॒

तम् उ॑ त्वा पा॒थ्यो वृषेत्य् आ॑ह॒ पूर्व॑म् ए॒वोदि॒तम् उत्त॑रेणा॒भि गृ॑णाति ॥

च॒त॒सृभिः॒ सम् भ॑रति च॒त्वारि॒ छन्दाँ॑सि॒ छन्दो॑भिर् ए॒व

गा॑य॒त्रीभि॑र् ब्राह्म॒णस्य॑ गाय॒त्रो हि ब्रा॑ह्म॒णस्

त्रि॒ष्टुग्भी॑ राज॒न्य॑स्य॒ त्रैष्टु॑भो॒ हि रा॑ज॒न्यो॑

यं का॒मये॑त॒ वसी॑या॒न्त् स्याद् इत्य् उ॒भयी॑भि॒स् तस्य॒ सम् भ॑रे॒त् तेज॑श् चै॒वास्मा॑ इन्द्रि॒यं च॑ स॒मीची॑ दधात्य्

अष्टा॒भिः सम् भ॑रत्य् अ॒ष्टाक्ष॑रा गाय॒त्री गा॑य॒त्रो॑ऽग्निर् यावा॑न् ए॒वाग्निस् तँ सम् भ॑रति

सीद॑ होत॒र् इत्य् आ॑ह दे॒वता॑ ए॒वास्मै॒ सँ सा॑दयति॒

नि होतेति॑ मनु॒ष्या॑न्त् सँ सी॑द॒स्वेति॒ वयाँ॑सि॒

जनि॑ष्वा॒ हि जेन्यो॒ अग्रे॒ अह्ना॒म् इत्य् आ॑ह देवमनु॒ष्यान् ए॒वास्मै॒ सँस॑न्ना॒न् प्र ज॑नयति ॥

क्रू॒रम् इ॑व॒ वा अ॑स्या ए॒तत् क॑रोति॒ यत् खन॑ति \

अ॒प उप॑ सृजति \

आपो॒ वै शा॒न्ताः

शा॒न्ताभि॑र् ए॒वास्यै॒ शुचँ॑ शमयति॒

सं ते॑ वा॒युर् मा॑त॒रिश्वा॑ दधा॒त्व् इत्य् आ॑ह

प्रा॒णो वै वा॒युः

प्रा॒णेनै॒वास्यै॑ प्रा॒णँ सं द॑धाति॒

सं ते॑ व॒युर् इत्य् आ॑ह॒

तस्मा॑द् वा॒युप्र॑च्युता दि॒वो वृष्टि॑र् ईर्ते॒

तस्मै॑ च देवि॒ वष॑ड् अस्तु ॥

तुभ्य॒म् इत्य् आ॑ह॒

षड् वा ऋ॒तव॑स् \

ऋ॒तुष्व् ए॒व वृष्टिं॑ दधाति॒

तस्मा॒त् सर्वा॑न् ऋ॒तून् व॑र्षति॒

यद् व॑षट्कु॒र्याद् रक्षाँ॑सि य॒ज्ञँ ह॑न्युस् \

वड् इत्य् आ॑ह

प॒रोऽक्ष॑म् ए॒व वष॑ट् करोति

नास्य॑ या॒तया॑मा वषट्का॒रो भव॑ति॒ न य॒ज्ञँ रक्षाँ॑सि घनति॒

सुजा॑तो॒ ज्योति॑षा स॒हेत्य् अ॑नु॒ष्टुभोप॑ नह्यति \

अनु॒ष्टुप् ॥

सर्वा॑णि॒ छन्दाँ॑सि॒

छन्दाँ॑सि॒ खलु॒ वा अ॒ग्नेः प्रि॒या त॒नूः

प्रि॒ययै॒वैनं॑ त॒नुवा॒ परि॑ दधाति॒

वेदु॑को॒ वासो॑ भवति॒ य ए॒वं वेद॑ वारु॒णो वा अ॒ग्निर् उप॑नद्धस् \

उद् उ॑ तिष्ठ स्वध्वरो॒र्ध्व ऊ॒ षु ण॑ ऊ॒तय॒ इति॑ सावि॒त्रीभ्या॒म् उत् ति॑ष्ठति

सवि॒तृप्र॑सूत ए॒वास्यो॒र्ध्वां व॑रुण मे॒निम् उत् सृ॑जति

द्वाभ्या॑म्

प्रति॑ष्ठित्यै॒

स जा॒तो गर्भो॑ असि ॥

रोद॑स्यो॒र् इत्य् आ॑ह \

इ॒मे वै रोद॑सी॒

तयो॑र् ए॒ष गर्भो॒ यद् अ॒ग्निस्

तस्मा॑द् ए॒वम् आ॑ह॒ \

अग्ने॒ चारु॒र् विभृ॑त॒ ओष॑धी॒ष्व् इत्य् आ॑ह

य॒दा ह्य् ए॑तं वि॒भर॒न्त्य् अथ॒ चारु॑तरो॒ भव॑ति॒

प्र मा॒तृभ्यो॒ अधि॒ कनि॑क्रदद् गा॒ इत्य् आ॑ह॒ \

ओष॑धयो॒ वा अ॑स्य मा॒तर॑स्

ताभ्य॑ ए॒वैन॒म् प्र च्या॑वयति

स्थि॒रो भ॑व वी॒ड्व॑ङ्ग॒ इति॑ गर्द॒भ आ सा॑दयति ॥

सं न॑ह्यत्य् ए॒वैन॑म् ए॒तया॑ स्थे॒म्ने

ग॑र्द॒भेन॒ सम् भ॑रति॒

तस्मा॑द् गर्द॒भः प॑शू॒नाम् भा॑रभा॒रित॑मस् \

ग॒र्द॒भेन॒ सम् भ॑रति॒

तस्मा॑द् गर्द॒भोऽप्य् अ॑नाले॒शेत्य् अ॒न्यान् प॒शून् मे॑द्यति॒ \

अन्नँ॒ ह्य् ए॑नेना॒र्कँ स॒म्भर॑न्ति

गर्द॒भेन॒ सम् भ॑रति॒

तस्मा॑द् गर्द॒भो द्वि॒रेताः॒ सन् कनि॑ष्ठम् पशू॒नाम् प्र जा॑यते \

अ॒ग्निर् ह्य् अ॑स्य॒ योनिं॑ नि॒र्दह॑ति

प्र॒जासु॒ वा ए॒ष ए॒तर्ह्य् आरू॑ढः ॥

स ई॑श्व॒रः प्र॒जाः शु॒चा प्र॒दहः॑

शि॒वो भ॑व प्र॒जाभ्य॒ इत्य् आ॑ह

प्र॒जाभ्य॑ ए॒वैनँ॑ शमयति

मानु॑षीभ्य॒स् त्वम् अ॑ङ्गिर॒ इत्य् आ॑ह

मान॒व्यो॑ हि प्र॒जास् \

मा द्यावा॑पृथि॒वी अ॒भि शू॑शुचो॒ मान्तरि॑क्ष॒म् मा वन॒स्पती॒न् इत्य् आ॑ह \

ए॒भ्य ए॒वैनं॑ लो॒केभ्यः॑ शमयति॒

प्रैतु॑ वा॒जी कनि॑क्रद॒द् इत्य् आ॑ह

वा॒जी ह्य् { ए॑ष ^ ए॑षस् }

नान॑द॒द् रास॑भः॒ पत्वेति॑ ॥

आ॒ह॒

रास॑भ॒ इति॒ ह्य् ए॑तम् ॠष॒योऽव॑दन्

भर॑न्न् अ॒ग्निम् पु॑री॒ष्य॑म् इत्य् आ॑ह \

अ॒ग्निँ ह्य् ए॑ष भर॑ति

मा पा॒द्य् आयु॑षः पु॒रेत्य् आ॑ह \

आयु॑र् ए॒वास्मि॑न् दधाति॒

तस्मा॑द् गर्द॒भः सर्व॒म् आयु॑र् एति॒

तस्मा॑द् गर्द॒भे पु॒रायु॑षः॒ प्रमी॑ते बिभ्यति

वृषा॒ग्निं वृष॑ण॒म् भर॒न्न् इत्य् आ॑ह

वृषा॒ ह्य् { ए॑ष ^ ए॑षस् }

वृषा॒ग्निस् \

अ॒पां गर्भ॑म् ॥

स॒मु॒द्रिय॒म् इत्य् आ॑ह \

अ॒पाँ ह्य् ए॑ष गर्भो॒ यद् अ॒ग्निस् \

अग्न॒ आ या॑हि वी॒तय॒ इति॒ वा इ॒मौ लो॒कौ व्य् ऐ॑ता॒म्

अग्न॒ आ या॑हि वी॒तय॒ इति॒ यद् आह॑ \

अ॒नयो॑र् लो॒कयो॒र् वीत्यै॒

प्रच्यु॑तो॒ वा ए॒ष आ॒यत॑ना॒द् अग॑तः प्रति॒ष्ठाम् \

स ए॒तर्ह्य् अ॑ध्व॒र्युं च॒ यज॑मानं च ध्यायति \

ऋ॒तँ स॒त्यम् इत्य् आ॑ह \

इ॒यं वा ऋ॒तम् अ॒सौ ॥

स॒त्यम्

अ॒नयो॑र् ए॒वैन॒म् प्रति॑ ष्ठापयति॒ नार्ति॒म् आर्छ॑त्य् अध्व॒र्युर् न यज॑मानस् \

वरु॑णो॒ वा ए॒ष यज॑मानम् अ॒भ्य् ऐति॒ यद् अ॒ग्निर् उप॑नद्धस् \

ओष॑धयः॒ प्रति॑ गृह्णीता॒ग्निम् ए॒तम् इत्य् आ॑ह

शान्त्यै॒

व्यस्य॒न् विश्वा॒ अम॑ती॒र् अरा॑ती॒र् इत्य् आ॑ह॒

रक्ष॑सा॒म् अप॑हत्यै

नि॒षीद॑न् नो॒ अप॑ दुर्म॒तिँ ह॑न॒द् इत्य् आ॑ह॒

प्रति॑ष्ठित्यै॒ \

ओष॑धयः॒ प्रति॑ मोदध्वम् ॥

ए॒न॒म् इत्य् आ॑ह॒ \

ओष॑धयो॒ वा अ॒ग्नेर् भा॑ग॒धेय॑म् \

ताभि॑र् ए॒वैनँ॒ सम् अ॑र्धयति॒

पुष्पा॑वतीः सुपिप्पला॒ इत्य् आ॑ह॒

तस्मा॒द् ओष॑धयः॒ फलं॑ गृह्णन्ति \

अ॒यं वो॒ गर्भ॑ ऋ॒त्वियः॑ प्र॒त्नँ स॒धस्थ॒म् आस॑द॒द् इत्य् आ॑ह

याभ्य॑ ए॒वैन॑म् प्रच्या॒वय॑ति॒ तास्व् ए॒वैन॒म् प्रति॑ ष्ठापयति

द्वाभ्या॑म् उ॒पाव॑हरति॒

प्रति॑ष्ठित्यै ॥

वा॒रु॒णो वा अ॒ग्निर् उप॑नद्धस् \

वि पाज॒सेति॒ वि स्रँ॑सयति

सवि॒तृप्र॑सूत ए॒वास्य॒ विषू॑चीं वरुणमे॒निं वि सृ॑जति \

अ॒प उप॑ सृजति \

आपो॒ वै शा॒न्ताः

शा॒न्ताभि॑र् ए॒वास्य॒ शुचँ॑ शमयति

ति॒सृभि॒र् उप॑ सृजति

त्रि॒वृद् वा अ॒ग्निस् \

यावा॑न् ए॒वाग्निस् तस्य॒ शुचँ॑ शमयति

मि॒त्रः सँ॒सृज्य॑ पृथि॒वीम् इत्य् आ॑ह

मि॒त्रो वै शि॒वो दे॒वाना॑म् \

तेनै॒व ॥

ए॒नँ॒ सँ सृ॑जति

शान्त्यै॒

यद् ग्रा॒म्याणा॒म् पात्रा॑णां क॒पालैः॑ सँसृ॒जेद् ग्रा॒म्याणि॒ पात्रा॑णि शु॒चार्प॑येत् \

अ॒र्म॒क॒पा॒लैः सँ सृ॑जति \

ए॒तानि॒ वा अ॑नुपजीवनी॒यानि॑

तान्य् ए॒व शु॒चार्प॑यति॒

शर्क॑राभिः॒ सँ सृ॑जति

धृत्यै॒ \

अथो॑ शं॒त्वाय॑ \

अजलो॒मैः सँ सृ॑जति \

ए॒षा वा अ॒ग्नेः प्रि॒या त॒नूर् यद् अ॒जा

प्रि॒ययै॒वैनं॑ त॒नुवा॒ सँ सृ॑ज॒त्य् अथो॒ तेज॑सा

कृष्णाजि॒नस्य॒ लोम॑भिः॒ सम् ॥

सृ॒ज॒ति॒

य॒ज्ञो वै कृ॑ष्णाजि॒नम् \

य॒ज्ञेनै॒व य॒ज्ञँ सँ सृ॑जति

रु॒द्राः स॒म्भृत्य॑ पृथि॒वीम् इत्य् आ॑ह \

ए॒ता वा ए॒तं दे॒वता॒ अग्रे॒ सम् अ॑भरन्

ताभि॑र् ए॒वैनँ॒ सम् भ॑रति

म॒खस्य॒ शिरो॒ऽसीत्य् आ॑ह

य॒ज्ञो वै म॒खस॒

तस्यै॒तच् छिरो॒ यद् उ॒खा

तस्मा॑द् ए॒वम् आ॑ह

य॒ज्ञस्य॑ प॒दे स्थ॒ इत्य् आ॑ह

य॒ज्ञस्य॒ ह्य् ए॑ते ॥

प॒दे

अथो॒ प्रति॑ष्ठित्यै

प्रान्याभि॒र् यछ॒त्य् अन्व् अ॒न्यैर् म॑न्त्रयते

मिथुन॒त्वाय॑

त्र्यु॑द्धिं करोति॒ त्रय॑ इ॒मे लो॒का ए॒षां लो॒काना॒म् आप्त्यै॒

छन्दो॑भिः करोति

वी॒र्यं॑ वै छन्दाँ॑सि

वी॒र्ये॑णै॒वैनां॑ करोति॒

यजु॑षा॒ बिलं॑ करोति

व्यावृ॑त्त्यै॒ \

इय॑तीं करोति

प्र॒जाप॑तिना यज्ञमु॒खेन॒ सम्मि॑ताम् \

द्वि॒स्त॒नां क॑रोति

द्यावा॑पृथि॒व्योर् दोहा॑य॒

चतु॑स्तनां करोति

पशू॒नां दोहा॑य \

अ॒ष्टास्त॑नां करोति॒

छन्द॑सां॒ दोहा॑य॒

नवा॑श्रिम् अभि॒चर॑तः कुर्यात्

त्रि॒वृत॑म् ए॒व वज्रँ॑ स॒म्भृत्य॒ भ्रातृ॑व्याय॒ प्र ह॑रति

स्तृत्यै॑

कृ॒त्वाय॒ स म॒हीम् उ॒खाम् इति॒ नि द॑धाति

दे॒वता॑स्व् ए॒वैना॒म् प्रति॑ ष्ठापयति ॥

स॒प्तभि॑र् धूपयति

स॒प्त वै शी॑र्ष॒ण्याः॑ प्रा॒णाः

शिर॑ ए॒तद् य॒ज्ञस्य॒ यद् उ॒खा

शी॒र्षन्न् ए॒व य॒ज्ञस्य॑ प्रा॒णान् द॑धाति॒

तस्मा॑त् स॒प्त शी॒र्षन् प्रा॒णास् \

अ॒श्व॒श॒केन॑ धूपयति

प्राजाप॒त्यो वा अश्वः॑

सयोनि॒त्वाय॒ \

अदि॑ति॒स् त्वेत्य् आ॑ह \

इ॒यं वा अदि॑तिस् \

अदि॑त्यै॒वादि॑त्यां खनत्य् अ॒स्या अक्रू॑रंकाराय॒

न हि स्वः स्वँ हि॒नस्ति॑

दे॒वानां॑ त्वा॒ पत्नी॒र् इत्य् आ॑ह

दे॒वाना॑म् ॥

वा ए॒ताम् पत्न॒योऽग्रे॑ऽकुर्वन्

ताभि॑र् ए॒वैनां॑ दधाति

धि॒षणा॒स् त्वेत्य् आ॑ह

वि॒द्या वै धि॒षणा॑स् \

वि॒द्याभि॑र् ए॒वैना॑म् अ॒भीन्द्धे॑

ग्नास् त्वेत्य् आ॑ह॒

छन्दाँ॑सि॒ वै ग्नास् \

छन्दो॑भिर् ए॒वैनाँ॑ श्रपयति॒

वरू॑त्रय॒स् त्त्वेत्य् आ॑ह॒

होत्रा॒ वै वरू॑त्रयस् \

होत्रा॑भिर् ए॒वैना॑म् पचति॒

जन॑य॒स् त्वेत्य् आ॑ह

दे॒वानां॒ वै पत्नीः॑ ॥

जन॑यस्

ताभि॑र् ए॒वैना॑म् पचति

ष॒ड्भिः प॑चति॒

षड् वा ऋ॑तवस् \

ऋ॒तुभि॑र् ए॒वैना॑म् पचति॒

द्विः पच॒न्त्व् इत्य् आ॑ह॒

तस्मा॒द् द्विः सं॑वत्स॒रस्य॑ स॒स्यम् प॑च्यते

वारु॒ण्य् उ॑खाभीद्धा॑

मै॒त्रियोपै॑ति

शान्त्यै॑

दे॒वस् त्वा॑ सवि॒तोद् व॑प॒त्व् इत्य् आ॑ह

सवि॒तृप्र॑सूत ए॒वैना॒म् ब्रह्म॑णा दे॒वता॑भि॒र् उद् व॑पति॒ \

अप॑द्यमाना पृथि॒व्य् आशा॒ दिश॒ आ पृ॑ण ॥

इत्य् आ॑ह॒

तस्मा॑द् अ॒ग्निः सर्वा॒ दिशोऽनु॒ वि भा॑ति॒ \

उत् ति॑ष्ठ बृह॒ती भ॑वो॒र्ध्वा ति॑ष्ठ ध्रु॒वा त्वम् इत्य् आ॑ह॒

प्रति॑ष्ठित्यै \

असु॒र्य॑म् पात्र॒म् अना॑छृण्णम्

आ छृ॑णत्ति देव॒त्राक॑र्

अजक्षी॒रेणा छृ॑णत्ति

पर॒मं वा ए॒तत् पयो॒ यद् अ॑जक्षी॒रम्

प॑र॒मेणै॒वैन॒म् पय॒सा छृ॑णत्ति॒

यजु॑षा

व्यावृ॑त्त्यै॒

छन्दो॑भि॒र् आ छृ॑णत्ति॒

छन्दो॑भि॒र् वा ए॒षा क्रि॑यते॒

छन्दो॑भिर् ए॒व छन्दाँ॒स्य् आ छृ॑णत्ति ॥

एक॑विँशत्या॒ माषैः॑ पुरुषशी॒र्षम् अछै॑ति \

अमे॒ध्या वै माषा॑ अमे॒ध्यम् पु॑रुषशी॒र्षम्

अ॑मे॒ध्यैर् ए॒वास्या॑मे॒ध्यं नि॑रव॒दाय॒ मेध्यं॑ कृ॒त्वा ह॑रति॒ \

एक॑विँशतिर् भवन्ति \

एकविँ॒शो वै पुरु॑षः॒

पुरु॑ष॒स्याप्त्यै॑

व्य्॑र्?द्धं॒ वा ए॒तत् प्रा॒णैर् अ॑मे॒ध्यं यत् पु॑रुषशी॒र्षम् \

स॒प्त॒धा वितृ॑ण्णां वल्मीकव॒पाम् प्रति॒ नि द॑धाति

स॒प्त वै शी॑र्ष॒ण्याः॑ प्रा॒णाः

प्रा॒णैर् ए॒वैन॒त् सम् अ॑र्धयति

मेध्य॒त्वाय॑

याव॑न्तः ॥

वै मृ॒त्युब॑न्धव॒स् तेषां॑ य॒म आधि॑पत्य॒म् परी॑याय

यमगा॒थाभिः॒ परि॑ गायति

य॒माद् ए॒वैन॑द् वृङ्क्ते

ति॒सृभिः॒ परि॑ गायति॒

त्रय॑ इ॒मे लो॒कास् \

ए॒भ्य ए॒वैन॑ल् लो॒केभ्यो॑ वृङ्क्ते॒

तस्मा॒द् गाय॑ते॒ न देय॑म् \

गाथा॒ हि तद् वृ॒ङ्क्ते \

अ॒ग्निभ्यः॑ प॒शून् आ ल॑भते

कामा॒ वा अ॒ग्नयः॑

कामा॑न् ए॒वाव॑ रुन्द्धे॒

यत् प॒शून् नालभे॒तान॑वरुद्धा अस्य ॥

प॒शवः॑ स्युस् \

यत् पर्य॑ग्निकृतान् उत्सृ॒जेद् य॑ज्ञवेश॒सं कु॑र्यात् \

यत् सँ॑स्था॒पये॑द् या॒तया॑मानि शी॒र्षाणि॑ स्युस् \

यत् प॒शून् आ॒लभ॑ते॒ तेनै॒व प॒शून् अव॑ रुन्द्धे॒

यत् पर्य॑ग्निकृतान् उत्सृ॒जति॑ शी॒र्ष्णाम् अया॑तयामत्वाय

प्राजाप॒त्येन॒ सँ स्था॑पयति य॒ज्ञो वै प्र॒जाप॑तिर् य॒ज्ञ ए॒व य॒ज्ञम् प्रति॑ ष्ठापयति

प्र॒जाप॑तिः प्र॒जा अ॑सृजत॒

स रि॑रिचा॒नो॑ऽमन्यत॒

स ए॑ता आ॒प्रीर् अ॑पश्यत्

ताभि॒र् वै स मु॑ख॒तः ॥

आ॒त्मान॒म् आप्री॑णीत॒

यद् ए॒ता आ॒प्रियो॒ भव॑न्ति

य॒ज्ञो वै प्र॒जाप॑तिस् \

य॒ज्ञम् ए॒वैताभि॑र् मुख॒त आ प्री॑णाति॒ \

अप॑रिमितछन्दसो भवन्ति॒ \

अप॑रिमितः प्र॒जाप॑तिः

प्र॒जाप॑ते॒र् आप्त्यै॑ \

ऊनातिरि॒क्ता मि॑थु॒नाः

प्रजा॑त्यै

लोम॒शं वै नामै॒तच् छन्दः॑ प्र॒जाप॑तेः

प॒शवो॑ लोम॒शाः

प॒शून् ए॒वाव॑ रुन्द्धे॒

सर्वा॑णि॒ वा ए॒ता रू॒पाणि॒

सर्वा॑णि रू॒पाण्य् अ॒ग्नौ चित्ये॑ क्रियन्ते॒

तस्मा॑द् ए॒ता अ॒ग्नेश् चित्य॑स्य ॥

भ॒व॒न्ति॒ \

एक॑विँशतिँ सामिधे॒नीर् अन्व् आ॑ह॒

रुग् वा ए॑कविँ॒शो रुच॑म् ए॒व ग॑छति॒ \

अथो॑ प्रति॒ष्ठाम् ए॒व प्र॑ति॒ष्ठा ह्य् ए॑कविँ॒शस् \

चतु॑र्विँशति॒म् अन्व् आ॑ह॒

चतु॑र्विँशतिर् अर्धमा॒साः सं॑वत्स॒रः

सं॑वत्स॒रो॑ऽग्निर् वै॑श्वान॒रः

सा॒क्षाद् ए॒व वै॑श्वान॒रम् अव॑ रुन्द्धे॒

परा॑ची॒र् अन्व् आ॑ह॒

परा॑ङ् इव॒ हि सु॑व॒र्गो लो॒कः

समा॑स् त्वाग्न ऋ॒तवो॑ वर्धय॒न्त्व् इत्य् आ॑ह॒

समा॑भिर् ए॒वाग्निं व॑र्धयति ॥

ऋ॒तुभिः॑ संवत्स॒रम् \

विश्वा॒ आ भा॑हि प्र॒दिशः॑ पृथि॒व्या इत्य् आ॑ह॒

तस्मा॑द् अ॒ग्निः सर्वा॒ दिशोऽनु॒ वि भा॑ति॒

प्रत्य् औ॑हताम् अ॒श्विना॑ मृ॒त्युम् अ॑स्मा॒द् इत्य् आ॑ह

मृ॒त्युम् ए॒वास्मा॒द् अप॑ नुदति॒ \

उद् व॒यं तम॑स॒स् परीत्य् आ॑ह

पा॒प्मा वै तमः॑

पा॒प्मान॑म् ए॒वास्मा॒द् अप॑ हन्ति॒ \

अग॑न्म॒ ज्योति॑र् उत्त॒मम् इत्य् आ॑ह \

अ॒सौ वा आ॑दि॒त्यो ज्योति॑र् उत्त॒मम्

आ॑दि॒त्यस्यै॒व सायु॑ज्यं गछति॒

न सं॑वत्स॒रस् ति॑ष्ठति॒ नास्य॒ श्रीस् ति॑ष्ठति॒ यस्यै॒ताः क्रि॒यन्ते॒

ज्योति॑ष्मतीम् उत्त॒माम् अन्व् आ॑ह॒

ज्योति॑र् ए॒वास्मा॑ उ॒परि॑ष्टाद् दधाति

सुव॒र्गस्य॑ लो॒कस्यानु॑ख्यात्यै ॥

ष॒ड्भिर् दी॑क्षयति॒

षड् वा ऋ॒तव॑स् \

ऋ॒तुभि॑र् ए॒वैनं॑ दीक्षयति

स॒प्तभि॑र् दीक्षयति

स॒प्त छन्दाँ॑सि॒

छन्दो॑भिर् ए॒वैनं॑ दीक्षयति॒

विश्वे॑ दे॒वस्य॑ ने॒तुर् इत्य् अ॑नु॒ष्टुभो॑त्त॒मया॑ जुहोति

वाग् वा { अ॑नु॒ष्टुप् ^ अ॑नु॒ष्टुभ् }

तस्मा॑त् प्रा॒णानां॒ वाग् उ॑त्त॒मा \

एक॑स्माद् अ॒क्षरा॒द् अना॑प्तम् प्रथ॒मम् प॒दम् \

तस्मा॒द् यद् वा॒चोऽना॑प्तं॒ तन् म॑नु॒ष्या॑ उप॑ जीवन्ति

पू॒र्णया॑ जुहोति

पू॒र्ण इ॑व॒ हि प्र॒जाप॑तिः ॥

प्र॒जाप॑ते॒र् आप॑त्यै

न्यू॑नया जुहोति

न्यू॑ना॒द् धि प्र॒जाप॑तिः प्र॒जा असृ॑जत

प्र॒जानाँ॒ सृष्ट्यै॒

यद् अ॒र्चिषि॑ प्रवृ॒ञ्ज्याद् भू॒तम् अव॑ रुन्धीत॒

यद् अङ्गा॑रेषु भवि॒ष्यत् \

अङ्गा॑रेषु॒ प्र वृ॑णक्ति

भवि॒ष्यद् ए॒वाव॑ रुन्द्धे

भवि॒ष्यद् धि भूयो॑ भू॒तात् \

द्वाभ्या॒म् प्र वृ॑णक्ति

द्वि॒पाद् यज॑मानः

प्रति॑ष्ठित्यै॒

ब्रह्म॑णा॒ वा ए॒षा यजु॑षा॒ सम्भृ॑ता॒ यद् उ॒खा

सा यद् भिद्ये॒तार्ति॒म् आर्छे॑त् ॥

यज॑मानो ह॒न्येता॑स्य य॒ज्ञस् \

मित्रै॒ताम् उ॒खां त॒पेत्य् आ॑ह॒

ब्रह्म॒ वै मि॒त्रस् \

ब्रह्म॑न्न् ए॒वैना॒म् प्रति॑ ष्ठापयति

नार्ति॒म् आर्छ॑ति॒ यज॑मानो॒ नास्य॑ य॒ज्ञो ह॑न्यते॒

यदि॒ भिद्ये॑त॒ तैर् ए॒व क॒पालैः॒ सँ सृ॑जे॒त्

सैव ततः॒ प्राय॑श्चित्तिस् \

यो ग॒तश्रीः॒ स्यान् म॑थि॒त्वा तस्याव॑ दध्यात् \

भू॒तो वा { ए॒ष ^ ए॒षस् }

स स्वां ॥

दे॒वता॒म् उपै॑ति॒ यो भूति॑कामः॒ स्यात् \

य उ॒खायै॑ स॒म्भवे॒त् स ए॒व तस्य॑ स्यात् \

अतो॒ ह्य् ए॑ष स॒म्भव॑ति \

ए॒ष वै स्व॑य॒म्भूर् नाम॒

भव॑त्य् ए॒व

यं का॒मये॑त

भ्रातृ॑व्यम् अस्मै जनयेय॒म् इत्य् अ॒न्यत॒स् तस्या॒हृत्याव॑ दध्यात्

सा॒क्षाद् ए॒वास्मै॒ भ्रातृ॑व्यं जनयति \

अम्ब॒रीषा॒द् अन्न॑काम॒स्याव॑ दध्यात् \

अ॒म्ब॒रीषे॒ वा अन्न॑म् भ्रियते॒

सयो॑न्य् ए॒वान्न॑म् ॥

अव॑ रुन्द्धे॒

मुञ्जा॒न् अव॑ दधाति \

ऊर्ग् वै मुञ्जा॑स् \

ऊर्ज॑म् ए॒वास्मा॒ अपि॑ दधाति \

अ॒ग्निर् दे॒वेभ्यो॒ निला॑यत॒

स क्रु॑मु॒कम् प्रावि॑शत्

क्रु॒मु॒कम् अव॑ दधाति॒

यद् ए॒वास्य॒ तत्र॒ न्य॑क्तं॒ तद् ए॒वाव॑ रुन्द्धे \

आज्ये॑न॒ सं यौ॑ति \

ए॒तद् वा अ॒ग्नेः प्रि॒यं धाम॒ यद् आज्य॑म्

प्रि॒येणै॒वैनं॒ धाम्ना॒ सम् अ॑र्धय॒त्य् अथो॒ तेज॑सा ॥

वैकं॑करी॒म् आ द॑धाति

भा ए॒वाव॑ रुन्द्धे

शमी॒मयी॒म् आ द॑धाति

शान्त्यै॑

सीद॒ त्वम् मा॒तुर् अ॒स्या उ॒पस्थ॒ इति॑ ति॒सृभि॑र् जा॒तम् उप॑ तिष्ठते॒

त्रय॑ इ॒मे लो॒कास् \

ए॒ष्व् ए॑व लो॒केष्व् आ॒विदं॑ गछति॒ \

अथो॑ प्रा॒णान् ए॒वात्मन् ध॑त्ते ॥

न ह॑ स्म॒ वै पु॒राग्निर् अप॑रशुवृक्णं दहति॒

तद् अ॑स्मै प्रयो॒ग ए॒वर्षि॑र् अस्वदयत् \

यद् अ॑ग्ने॒ यानि॒ कानि॒ चेति॑ स॒मिध॒म् आ द॑धाति॒ \

अप॑रशुवृक्णम् ए॒वास्मै॑ स्वदयति॒

सर्व॑म् अस्मै स्वदते॒ य ए॒वं वेद॒ \

औदु॑म्बरी॒म् आ द॑धाति \

ऊर्ग् वा उ॑दु॒म्बर॑स् \

ऊर्ज॑म् ए॒वास्मा॒ अपि॑ दधाति

प्र॒जाप॑तिर् अ॒ग्निम् अ॑सृजत॒

तँ सृ॒ष्टँ रक्षाँ॑सि ॥

अ॒जि॒घाँ॒स॒न् \

स ए॒तद् रा॑क्षो॒घ्नम् अ॑पश्य॒त्

तेन॒ वै स रक्षाँ॒स्य् अपा॑हत॒

यद् रा॑क्षो॒घ्नम् भव॑त्य् अ॒ग्नेर् ए॒व तेन॑ जा॒ताद् रक्षाँ॒स्य् अप॑ हन्ति \

आश्व॑त्थी॒म् आ द॑धाति \

अश्व॒त्थो वै वन॒स्पती॑नाँ सपत्नसा॒हो विजि॑त्यै॒

वैक॑ङ्कती॒म् आ द॑धाति

भा ए॒वाव॑ रुन्द्धे

शमी॒मयी॒म् आ द॑धाति

शान्त्यै॒

सँशि॑तम् मे॒ ब्रह्मोद् ए॑षाम् बा॒हू अ॑तिर॒म् इत्य् उ॑त्त॒मे औदु॑म्बरी ॥

वा॒च॒य॒ति॒

ब्रह्म॑णै॒व क्ष॒त्रँ सँ श॑यति क्ष॒त्रेण॒ ब्रह्म॒

तस्मा॑द् ब्राह्म॒णो रा॑ज॒न्य॑वा॒न् अत्य् अ॒न्यम् ब्रा॑ह्म॒णं तस्मा॑द् राज॒न्यो॑ ब्राह्म॒णवा॒न् अत्य् अ॒न्यँ रा॑ज॒न्य॑म्

मृ॒त्युर् वा ए॒ष यद् अ॒ग्निस् \

अ॒मृतँ॒ हिर॑ण्यम् \

रु॒क्मम् अन्त॑र॒म् प्रति॑ मुञ्चते \

अ॒मृत॑म् ए॒व मृ॒त्योर् अ॒न्तर् ध॑त्ते॒ \

एक॑विँशतिनिर्बाधो भवति॒ \

एक॑विँशति॒र् वै दे॑वलो॒का द्वाद॑श॒ मासाः॒ पञ्च॒र्तव॒स् त्रय॑ इ॒मे लो॒का अ॒साव् आ॑दि॒त्यः ॥

ए॒क॒विँ॒श ए॒ताव॑न्तो॒ वै दे॑वलो॒कास्

तेभ्य॑ ए॒व भ्रातृ॑व्यम् अ॒न्तर् ए॑ति

निर्बा॒धैर् वै दे॒वा असु॑रान् निर्बा॒धे॑ऽकुर्वत॒

तन् नि॑र्बा॒धानां॑ निर्बाध॒त्वम् \

नि॒र्बा॒धी भ॑वति

भ्रातृ॑व्यान् ए॒व नि॑र्बा॒धे कु॑रुते

सावित्रि॒या प्रति॑ मुञ्चते॒

प्रसू॑त्यै॒

नक्तो॒षासेत्य् उत्त॑रया \

अहोरा॒त्राभ्या॑म् ए॒वैन॒म् उद् य॑छते

दे॒वा अ॒ग्निं धा॑रयन् द्रविणो॒दा इत्य् आ॑ह

प्रा॒णा वै दे॒वा द्र॑विणो॒दास् \

अ॒हो॒रा॒त्राभ्या॑म् ए॒वैन॑म् उ॒द्यत्य॑ ॥

प्रा॒णैर् दा॑धार \

आसी॑नः॒ प्रति॑ मुञ्चते॒

तस्मा॒द् आसी॑नाः प्र॒जाः प्र जा॑यन्ते

कृष्णाजि॒नम् उत्त॑रम् \

तेजो॒ वै हिर॑ण्य॒म् ब्रह्म॑ कृष्णाजि॒नम् \

तेज॑सा चै॒वैन॒म् ब्रह्म॑णा चोभ॒यतः॒ परि॑ गृह्णाति॒

षडु॑द्यामँ शि॒क्य॑म् भवति॒

षड् वा ऋ॒तव॑स् \

ऋ॒तु॒भि॒र् ए॒वैन॒म् उद् य॑छते॒

यद् द्वाद॑शोद्यामँ संवत्स॒रेणै॒व

मौ॒ञ्जम् भ॑वति \

ऊर्ग् वै मुञ्जा॑स् \

ऊर्जै॒वैनँ॒ सम् अ॑र्धयति

सुप॒र्णो॑ऽसि ग॒रुत्मा॒न् इत्य् अवे॑क्षते

रू॒पम् ए॒वास्यै॒तन् म॑हि॒मानं॒ व्याच॑ष्टे॒

दिवं॑ गछ॒ सुवः॑ प॒तेत्य् आ॑ह

सुव॒र्गम् ए॒वैनं॑ लो॒कं ग॑मयति ॥

समि॑द्धो अ॒ञ्जन् कृद॑रम् मती॒नां घृ॒तम् अ॑ग्ने॒ मधु॑म॒त् पिन्व॑मानः । वा॒जी वह॑न् वा॒जिनं॑ जातवेदो दे॒वानां॑ वक्षि पि॒र्यम् आ स॒धस्थ॑म् ॥

घृ॒तेना॒ञ्जन्त् सम् प॒थो दे॑व॒याना॑न् प्रजा॒नन् वा॒ज्य् अप्य् ए॑तु दे॒वान् । अनु॑ त्वा सप्ते प्र॒दिशः॑ सचन्ताँ स्व॒धाम् अ॒स्मै यज॑मानाय धेहि ॥

ईड्य॒श् चासि॒ वन्द्य॑श् च वाजिन्न् आ॒शुश् चासि॒ मेध्य॑श् च सप्ते । अ॒ग्निष् ट्वा॑ ॥

दे॒वैर् वसु॑भिः स॒जोषाः॑ प्री॒तं वह्निं॑ वहतु जा॒तवे॑दाः ॥

स्ती॒र्णम् ब॒र्हिः सु॒ष्टरी॑मा जुषा॒णोरु पृ॒थु प्रथ॑मानम् पृथि॒व्याम् । दे॒वेभि॑र् यु॒क्तम् अदि॑तिः स॒जोषाः॑ स्यो॒नं कृ॑ण्वा॒ना सु॑वि॒ते द॑धातु ॥

ए॒ता उ॑ वः सु॒भगा॑ वि॒श्वरू॑पा॒ वि पक्षो॑भिः॒ श्रय॑माणा॒ उद् आतैः॑ । ऋ॒ष्वाः स॒तीः क॒वषः॒ शुम्भ॑माना॒ द्वारो॑ दे॒वीः सु॑प्राय॒णा भ॑वन्तु ॥

अ॒न्त॒रा मि॒त्रावरु॑णा॒ चर॑न्ती॒ मुखं॑ य॒ज्ञाना॑म् अ॒भि सं॑विदा॒ने । उ॒षासा॑ वाम् ॥

सु॒हि॒र॒ण्ये सु॑शि॒ल्पे ऋ॒तस्य॒ योना॑व् इ॒ह सा॑दयामि ॥

प्र॒थ॒मा वाँ॑ सर॒थिना॑ सु॒वर्णा॑ दे॒वौ पश्य॑न्तौ॒ भुव॑नानि॒ विश्वा॑ । अपि॑प्रयं॒ चोद॑ना वा॒म् मिमा॑ना॒ होता॑रा॒ ज्योतिः॑ प्र॒दिशा॑ दि॒शन्ता॑ ॥

आ॒दि॒त्यैर् नो॒ भार॑ती वष्टु य॒ज्ञँ सर॑स्वती स॒ह रु॒द्रैर् न॑ आवीत् । इडोप॑हूता॒ वसु॑भिः स॒जोषा॑ य॒ज्ञं नो॑ देवीर् अ॒मृते॑षु धत्त ॥

त्वष्टा॑ वी॒रं दे॒वका॑मं जजान॒ त्वष्टु॒र् अर्वा॑ जायत आ॒शुर् अश्वः॑ ॥

त्वष्टे॒दं विश्व॒म् भुव॑नं जजान ब॒होः क॒र्तार॑म् इ॒ह य॑क्षि होतः ॥

अश्वो॑ घृ॒तेन॒ त्मन्या॒ सम॑क्त॒ उप॑ दे॒वाँ ऋ॑तु॒शः पाथ॑ एतु । वन॒स्पति॑र् देवलो॒कम् प्र॑जा॒नन्न् अ॒ग्निना॑ ह॒व्या स्व॑दि॒तानि॑ वक्षत् ॥

प्र॒जाप॑ते॒स् तप॑सा वावृधा॒नः स॒द्यो जा॒तो द॑धिषे य॒ज्ञम् अ॑ग्ने । स्वाहा॑कृतेन ह॒विषा॑ पुरोगा या॒हि सा॒ध्या ह॒विर् अ॑दन्तु दे॒वाः ॥