अग्ना॑विष्णू स॒जोष॑से॒मा व॑र्धन्तु वां॒ गिरः॑ । द्यु॒म्नैर् वाजे॑भि॒र् आग॑तम् ॥
वाज॑श् च मे प्रस॒वश् च॑ मे॒ प्रय॑तिश् च मे॒ प्रसि॑तिश् च मे धी॒तिश् च॑ मे॒ क्रतु॑श् च मे॒ स्वर॑श् च मे॒ श्लोक॑श् च मे श्रा॒वश् च॑ मे॒ श्रुति॑श् च मे॒ ज्योति॑श् च मे॒ सुव॑श् च मे प्रा॒णश् च॑ मेऽपा॒नः ॥
च॒ मे॒ व्या॒नश् च॒ मेऽसु॑श् च मे चि॒त्तं च॑ म॒ आधी॑तं च मे॒ वाक् च॑ मे॒ मन॑श् च मे॒ चक्षु॑श् च मे॒ श्रोत्रं॑ च मे॒ दक्ष॑श् च मे॒ बलं॑ च म॒ ओज॑श् च मे॒ सह॑श् च म॒ आयु॑श् च मे ज॒रा च॑ म आ॒त्मा च॑ मे त॒नूश् च॑ मे॒ शर्म॑ च मे॒ वर्म॑ च॒ मेऽङ्गा॑नि च मे॒ऽस्थानि॑ च मे॒ परूँ॑षि च मे॒ शरी॑राणि च मे ॥
ज्यैष्ठ्यं॑ च म॒ आधि॑पत्यं च मे म॒न्युश् च॑ मे॒ भामस् च॒ मेऽम॑श् च॒ मेऽम्भ॑श् च मे जे॒मा च॑ मे महि॒मा च॑ मे वरि॒मा च॑ मे प्रथि॒मा च॑ मे व॒र्ष्मा च॑ मे द्राघु॒या च॑ मे वृ॒द्धं च॑ मे॒ वृद्धि॑श् च मे स॒त्यं च॑ मे श्र॒द्धा च॑ मे॒ जग॑च् च ॥
मे॒ धनं॑ च मे॒ वश॑श् च मे॒ त्विषि॑श् च मे क्री॒डा च॑ मे॒ मोद॑श् च मे जा॒तं च॑ मे जनि॒ष्यमा॑णं च मे सू॒क्तं च॑ मे सुकृ॒तं च॑ मे वि॒त्तं च॑ मे॒ वेद्यं॑ च मे भू॒तं च॑ मे भवि॒ष्यच् च॑ मे सु॒गं च॑ मे सु॒पथं॑ च म ऋ॒द्धं च॑ म॒ ऋद्धि॑श् च मे कॢ॒प्तं च॑ मे॒ कॢप्ति॑श् च मे म॒तिश् च॑ मे सुम॒तिश् च॑ मे ॥
शं च॑ मे॒ मय॑श् च मे प्रि॒यं च॑ मेऽनुका॒मश् च॑ मे॒ काम॑श् च मे सौमन॒सश् च॑ मे भ॒द्रं च॑ मे॒ श्रेय॑श् च मे॒ वस्य॑श् च मे॒ यश॑श् च मे॒ भग॑श् च मे॒ द्रवि॑णं च मे य॒न्ता च॑ मे ध॒र्ता च॑ मे॒ क्षेम॑श् च मे॒ धृति॑श् च मे॒ विश्वं॑ च ॥
मे॒ मह॑श् च मे सं॒विच् च॑ मे॒ ज्ञात्रं॑ च मे॒ सूश् च॑ मे प्र॒सूश् च॑ मे॒ सीरं॑ च मे ल॒यश् च॑ म ऋ॒तं च॑ मे॒ऽमृतं॑ च मेऽय॒क्ष्मं च॒ मेऽना॑मयच् च मे जी॒वातु॑श् च मे दीर्घायु॒त्वं च॑ मेऽनमि॒त्रं च॒ मेऽभ॑यं च मे सु॒गं च॑ मे॒ शय॑नं च मे सू॒षा च॑ मे सु॒दिनं॑ च मे ॥
ऊर्क् च॑ मे सू॒नृता॑ च मे॒ पय॑श् च मे॒ रस॑श् च मे घृ॒तं च॑ मे॒ मधु॑ च मे॒ सग्धि॑श् च मे शपीतिश् च मे कृ॒षिश् च॑ मे॒ वृष्टि॑श् च मे॒ जैत्रं॑ च म॒ औद्भि॑द्यं च मे र॒यिश् च॑ मे॒ राय॑श् च मे पु॒ष्टं च॑ मे॒ पुष्टि॑श् च मे वि॒भु च॑ ॥
मे॒ प्र॒भु च॑ मे ब॒हु च॑ मे॒ भूय॑श् च मे पू॒र्णं च॑ मे पू॒र्णत॑रं च॒ मेऽक्षि॑तिश् च मे॒ कूय॑वाश् च॒ मेऽन्नं॑ च॒ मेऽक्षु॑च् च मे व्री॒हय॑श् च मे॒ यवा॑श् च मे॒ माषा॑श् च मे॒ तिला॑श् च मे मु॒द्गाश् च॑ मे ख॒ल्वा॑श् च मे गो॒धूमा॑श् च मे म॒सुरा॑श् च मे प्रि॒यंग॑वश् च॒ मेऽण॑वश् च मे श्या॒माका॑श् च मे नी॒वारा॑श् च मे ॥
अश्मा॑ च मे॒ मृत्ति॑का च मे गि॒रय॑श् च मे॒ पर्व॑ताश् च मे॒ सिक॑ताश् च मे॒ वन॒स्पत॑यश् च मे॒ हिर॑ण्यं च॒ मेऽय॑श् च मे॒ सीसं॑ च मे॒ त्रपु॑श् च मे श्या॒मं च॑ मे लो॒हं च॑ मे॒ऽग्निश् च॑ म॒ आप॑श् च मे वी॒रुध॑श् च म॒ ओष॑धयश् च मे कृष्टप॒च्यं च॑ ॥
मे॒ऽक्षि॒ष्ट॒प॒च्यं च॑ मे॒ ग्राम्या॑श् च मे प॒शव॑ आर॒ण्याश् च॑ यज्ञेन कल्पन्ताम् \
वि॒त्तं च॑ मे॒ वित्ति॑श् च मे भू॒तं च॑ मे॒ भूति॑श् च मे॒ वसु॑ च मे वस॒तिश् च॑ मे॒ कर्म॑ च मे॒ शक्ति॑श् च॒ मेऽर्थ॑श् च म॒ एम॑श् च म॒ इति॑श् च मे॒ गति॑श् च मे ॥
अ॒ग्निश् च॑ म॒ इन्द्र॑श् च मे॒
सोम॑श् च म॒ इन्द्र॑श् च मे
सवि॒ता च॑ म॒ इन्द्र॑श् च मे॒
सर॑स्वती च म॒ इन्द्र॑श् च मे
पू॒षा च॑ म॒ इन्द्र॑श् च मे
बृह॒स्पति॑श् च म॒ इन्द्र॑श् च मे
मि॒त्रश् च॑ म॒ इन्द्र॑श् च मे॒
वरु॑णश् च म॒ इन्द्र॑श् च मे॒
त्वष्टा॑ च ॥
म॒ इन्द्र॑श् च मे
धा॒ता च॑ म॒ इन्द्र॑श् च मे॒
विष्णु॑श् च म॒ इन्द्र॑श् च मे \
अ॒श्विनौ॑ च म॒ इन्द्र॑श् च मे
म॒रुत॑श् च म॒ इन्द्र॑श् च मे॒
विश्वे॑ च मे दे॒वा इन्द्र॑श् च मे
पृथि॒वी च॑ म॒ इन्द्र॑श् च मे \
अ॒न्तरि॑क्षम् च म॒ इन्द्र॑श् च मे॒
द्यौश् च॑ म॒ इन्द्र॑श् च मे॒
दिश॑श् च म॒ इन्द्र॑श् च मे
मू॒र्धा च॑ म॒ इन्द्र॑श् च मे
प्र॒जाप॑तिश् च म॒ इन्द्र॑श् च मे ॥
अँ॒शुश् च॑ मे र॒श्मिश् च॒ मेऽदा॑भ्यश् च॒ मेऽधि॑पतिश् च म उपाँ॒शुश् च॑ मेऽन्तर्या॒मश् च॑ म॒ ऐन्द्र॑वायवश् च मे मैत्रावरु॒णश् च॑ म आश्वि॒नश् च॑ मे प्रतिप्र॒स्थान॑श् च मे शु॒क्रश् च॑ मे म॒न्थी च॑ म आग्रय॒णश् च॑ मे वैश्वदे॒वश् च॑ मे ध्रु॒वश् च॑ मे वैश्वान॒रश् च॑ म ऋतुग्र॒हाश् च॑ ॥
मे॒ऽति॒ग्रा॒ह्या॑श् च म ऐन्द्रा॒ग्नश् च॑ मे वैश्वदे॒वश् च॑ मे मरुत्वतीयाश् च मे महे॒न्द्रश् च॑ म आदि॒त्यश् च॑ मे सावि॒त्रश् च॑ मे सारस्व॒तश् च॑ मे पौ॒ष्णश् च॑ मे पात्नीव॒तश् च॑ मे हारियोज॒नश् च॑ मे ॥
इ॒ध्मश् च॑ मे ब॒र्हिश् च॑ मे॒ वेदि॑श् च मे॒ धिष्णि॑याश् च मे॒ स्रुच॑श् च मे चम॒साश् च॑ मे॒ ग्रावा॑णश् च मे॒ स्वर॑वश् च म उपर॒वाश् च॑ मेऽधि॒षव॑णे च मे द्रोणकल॒शश् च॑ मे वाय॒व्या॑नि च मे पूत॒भृच् च॑ म आधव॒नीय॑श् च म॒ आग्नी॑ध्रं च मे हवि॒र्धानं॑ च मे गृ॒हाश् च॑ मे॒ सद॑श् च मे पुरो॒डाशा॑श् च मे पच॒न्ताश् च॑ मेऽवभृ॒थश् च॑ मे स्वगाका॒रश् च॑ मे ॥
अ॒ग्निश् च॑ मे घ॒र्मश् च॑ मे॒ऽर्कश् च॑ मे॒ सूर्य॑श् च मे प्रा॒णश् च॑ मेऽश्वमे॒धश् च॑ मे पृथि॒वी च॒ मेऽदि॑तिश् च मे॒ दिति॑श् च मे॒ द्यौश् च॑ मे॒ शक्व॑रीर् अ॒ङ्गुल॑यो॒ दिश॑श् च मे य॒ज्ञेन॑ कल्पन्ताम्
ऋक् च॑ मे॒ साम॑ च मे॒ स्तोम॑श् च मे॒ यजु॑श् च मे दी॒क्षा च॑ मे॒ तप॑श् च म ऋ॒तुश् च॑ मे व्र॒तं च॑ मेऽहोरा॒त्रयो॑र् वृ॒ष्ट्या बृ॑हद्रथन्त॒रे च॑ मे य॒ज्ञेन॑ कल्पेताम् ॥
गर्भा॑श् च मे व॒त्साश् च॑ मे
त्र्यवि॑श् च मे त्र्य॒वी च॑ मे
दित्य॒वाट् च॑ मे दित्यौ॒ही च॑ मे॒
पञ्चा॑विश् च मे पञ्चा॒वी च॑ मे
त्रिव॒त्सश् च॑ मे त्रिव॒त्सा च॑ मे
तुर्य॒वाट् च॑ मे तुर्यौ॒ही च॑ मे
पष्ठ॒वाच् च॑ मे पष्ठौ॒ही च॑ मे \
उ॒क्षा च॑ मे व॒शा च॑ मे \
ऋष॒भश् च॑ ॥
मे॒ वे॒हच् च् अ॑मेऽन॒ड्वाञ् च॑ मे धे॒नुश् च॑ मे \
आयु॑र् य॒ज्ञेन॑ कल्पताम्
प्रा॒णो य॒ज्ञेन॑ कल्पताम्
अपा॒नो य॒ज्ञेन॑ कल्पताम् \
व्या॒नो य॒ज्ञेन॑ कल्पताम् \
चक्षु॑र् य॒ज्ञेन॑ कल्पताम् \
श्रोत्रं॑ य॒ज्ञेन॑ कल्पता॒म्
मनो॑ य॒ज्ञेन॑ कल्पताम् \
वाग् य॒ज्ञेन॑ कल्पताम्
आ॒त्मा य॒ज्ञेन॑ कल्पताम् \
य॒ज्ञो य॒ज्ञेन॑ कल्पताम् ॥
एका॑ च मे ति॒स्रश् च॑ मे॒ पञ्च॑ च मे स॒प्त च॑ मे॒ नव॑ च म॒ एका॑दश च मे॒ त्रयो॑दश च मे॒ पञ्च॑दश च मे स॒प्तद॑श च मे॒ नव॑दश च म॒ एक॑विँशतिश् च मे॒ त्रयो॑विँशतिश् च मे पञ्चविँशतिश् च मे स॒प्तविँ॑शतिश् च मे॒ नव॑विँशतिश् च म॒ एक॑त्रिँश्च् च मे॒ त्रय॑स्त्रिँशच् च ॥
मे॒
चत॑स्रश् च मे॒ऽष्टौ च॑ मे॒ द्वाद॑श च मे॒ षोड॑श च मे विँश॒तिश् च॑ मे॒ चतु॑र्विँशतिश् च मे॒ऽष्टाविँ॑शतिश् च मे॒ द्वात्रिँ॑शच् च मे॒ षट्त्रिँ॑शच् च मे चत्वारिँ॒शच् च॑ मे॒ चतु॑श्चत्वारिँशच् च मे॒ऽष्टाच॑त्वारिँशच् च मे
वाज॑श् च प्रस॒वश् चा॑पि॒जश् च॒ क्रतु॑श् च॒ सुव॑श् च मू॒र्धा च॒ व्यश्नि॑यश् चान्त्याय॒नश् चान्त्य॑श् च भौव॒नश् च॒ भुव॑न॒श् चाधि॑पतिश् च ॥
वाजो॑ नः स॒प्त प्र॒दिश॒श् चत॑स्रो वा परा॒वतः॑ । वाजो॑ नो॒ विश्वै॑र् दे॒वैर् धन॑साताव् इ॒हाव॑तु ॥
विश्वे॑ अ॒द्य म॒रुतो॒ विश्व॑ ऊ॒ती विश्वे॑ भवन्त्व् अ॒ग्नयः॒ समि॑द्धाः । विश्वे॑ नो दे॒वा अव॒सा ग॑मन्तु॒ विश्वं॑ अस्तु॒ द्रवि॑णं॒ वाजो॑ अ॒स्मे ॥
वाज॑स्य प्रस॒वं दे॑वा॒ रथै॑र् याता हिर॒ण्ययैः॑ । अ॒ग्निर् इन्द्रो॒ बृह॒स्पति॑र् म॒रुतः॒ सोम॑पीतये ॥
वाजे॑वाजेऽवत वाजिनो नो॒ धने॑षु ॥
वि॒प्रा॒ अ॒मृ॒ता॒ ऋ॒त॒ज्ञाः॒ । अ॒स्य मध्वः॑ पिबत मा॒दय॑ध्वं तृ॒प्ता या॑त प॒थिभि॑र् देव॒यानैः॑ ॥
वाजः॑ पु॒रस्ता॑द् उ॒त म॑ध्य॒तो नो॒ वाजो॑ दे॒वाँ ऋ॒तुभिः॑ कल्पयाति । वाज॑स्य॒ हि प्र॑स॒वो नंन॑मीति॒ विश्वा॒ आशा॒ वाज॑पतिर् भवेयम् ॥
पयः॑ पृथि॒व्याम् पय॒ ओष॑धीषु॒ पयो॑ दि॒व्य् अ॑न्तरि॑क्षे॒ पयो॑ धाम् । पय॑स्वतीः प्र॒दिशः॑ सन्तु॒ मह्य॑म् ॥
सम् मा॑ सृजामि॒ पय॑सा घृ॒तेन॒ सम् मा॑ सृजाम्य् अ॒पः ॥
ओष॑धीभिः । सो॑ऽहं वाजँ॑ सनेयम् अग्ने ॥
नक्तो॒षासा॒ सम॑नसा॒ विरू॑पे धा॒पये॑ते॒ शिशु॒म् एकँ॑ समी॒ची । द्यावा॒ क्षामा॑ रु॒क्मो अ॒न्तर् वि भा॑ति दे॒वा अ॒ग्निं धा॑रयन् द्रविणो॒दाः ॥
स॒मु॒द्रो॑ऽसि॒ नभ॑स्वान् आ॒र्द्रदा॑नुः श॒म्भूर् म॑यो॒भूर् अ॒भि मा॑ वाहि॒ स्वाहा॑ मारु॒तो॑ऽसि म॒रुतां॑ ग॒णः श॒म्भूर् म॑यो॒भूर् अ॒भि मा॑ वाहि॒ स्वाहा॑व॒स्युर् अ॑सि॒ दुव॑स्वाञ् छ॒म्भूर् म॑यो॒भूर् अ॒भि मा॑ वाहि॒ स्वाहा॑ ॥
अ॒ग्निं यु॑नज्मि॒ शव॑सा घृ॒तेन॑ दि॒व्यँ सु॑प॒र्णं वय॑सा बृ॒हन्त॑म् । तेन॑ व॒यम् प॑तेम ब्र॒ध्नस्य॑ वि॒ष्टपँ॒ सुवो॒ रुहा॑णा॒ अधि॒ नाक॑ उत्त॒मे ॥
इ॒मौ ते॑ प॒क्षाव् अ॒जरौ॑ पत॒त्रिणो॒ याभ्याँ॒ रक्षाँ॑स्य् अप॒हँस्य् अ॑ग्ने । ताभ्या॑म् पतेम सु॒कृता॑म् उ लो॒कं यत्रर्ष॑यः प्रथम॒जा ये पु॑रा॒णाः ॥
चिद् अ॑सि समु॒द्रयो॑नि॒र् इन्दु॒र् दक्षः॑ श्ये॒न ऋ॒तावा॑ । हिर॑ण्यपक्षः शकु॒नो भु॑र॒ण्युर् म॒हान्त् स॒धस्थे॑ ध्रु॒वः ॥
आ निष॑त्तः ॥
नम॑स् ते अस्तु॒ मा मा॑ हिँसी॒र् विश्व॑स्य मू॒र्धन्न् अधि॑ तिष्ठसि श्रि॒तः । स॒मु॒द्रे ते॒ हृद॑यम् अ॒न्तर् आयु॒र् द्यावा॑पृथि॒वी भुव॑ने॒ष्व् अर्पि॑ते ॥
उ॒द्नो द॑त्तोद॒धिम् भि॑न्त्त दि॒वः प॒र्जन्या॑द् अ॒न्तरि॑क्षात् पृथि॒व्यास् ततो॑ नो॒ वृष्ट्या॑वत । दि॒वो मू॒र्धासि॑ पृथि॒व्या नाभि॒र् ऊर्ग् अ॒पाम् ओष॑धीनाम् । वि॒श्वायुः॒ शर्म॑ स॒प्रथा॒ नम॑स् प॒थे ॥
येनर्ष॑य॒स् तप॑सा स॒त्त्रम् ॥
आस॒तेन्धा॑ना अ॒ग्निँ सुव॑र् आ॒भर॑न्तः । तस्मि॑न्न् अ॒हं नि द॑धे॒ नाके॑ अ॒ग्निम् ए॒तं यम् आ॒हुर् मन॑व स्ती॒र्णब॑र्हिषम् ॥
तम् पत्नी॑भि॒र् अनु॑ गछेम देवाः पु॒त्रैर् भ्रातृ॑भिर् उ॒त वा॒ हिर॑ण्यैः । नाकं॑ गृह्णा॒नाः सु॑कृ॒तस्य॑ लो॒के तृ॒तीये॑ पृ॒ष्ठे अधि॑ रोच॒ने दि॒वः ॥
आ व॒चो मध्य॑म् अरुहद् भुर॒ण्युर् अ॒यम् अ॒ग्निः सत्प॑ति॒श् चेकि॑तानः । पृ॒ष्ठे पृ॑थि॒व्या निहि॑तो॒ दवि॑द्युतद् अधस्प॒दं कृ॑णुते ॥
ये पृ॑त॒न्यवः॑ ॥
अ॒यम् अ॒ग्निर् वी॒रत॑मो वयो॒धाः स॑ह॒स्रियो॑ दीप्यता॒म् अप्र॑युछन् । वि॒भ्राज॑मानः सरि॒रस्य॒ मध्य॒ उप॒ प्र या॑त दि॒व्यानि॒ धाम॑ ॥
सम् प्र च्य॑वध्व॒म् अनु॒ सम् प्र या॒ताग्ने॑ प॒थो दे॑व॒याना॑न् कृणुध्वम् । अ॒स्मिन्त् स॒धस्थे॒ अध्य् उत्त॑रस्मि॒न् विश्वे॑ देवा॒ यज॑मानश् च सीदत ॥
येना॑ स॒हस्रं॒ वह॑सि॒ येना॑ग्ने सर्ववेद॒सम् । तेने॒मं य॒ज्ञं नो॑ वह देव॒यानो॒ यः ॥
उ॒त्त॒मः ॥
उद् बु॑ध्यस्वाग्ने॒ प्रति॑ जागृह्य् एनम् इष्टापू॒र्ते सँ सृ॑जेथाम् अ॒यं च॑ । पुनः॑ कृ॒ण्वँस् त्वा॑ पि॒तरं॒ युवा॑नम् अ॒न्वाताँ॑सी॒त् त्वयि॒ तन्तु॑म् ए॒तम् ॥
अ॒यं ते॒ योनि॑र् ऋ॒त्वियो॒ यतो॑ जा॒तो अरो॑चथाः । तं जा॒नन्न् अ॑ग्न॒ आ रो॒हाथा॑ नो वर्धया र॒यिम् ॥
ममा॑ग्ने॒ वर्चो॑ विह॒वेष्व् अ॑स्तु व॒यं त्वेन्धा॑नास् त॒नुव॑म् पुषेम । मह्यं॑ नमन्ताम् प्र॒दिश॒श् चत॑स्र॒स् त्वयाध्य॑क्षेण॒ पृत॑ना जयेम ॥
मम॑ दे॒वा वि॑ह॒वे स॑न्तु॒ सर्व॒ इन्द्रा॑वन्तो म॒रुतो॒ विष्णु॑र् अ॒ग्निः । ममा॒न्तरि॑क्षम् उ॒रु गो॒पम् अ॑स्तु॒ मह्यं॒ वातः॑ पवतां॒ कामे॑ अ॒स्मिन् ॥
मयि॑ दे॒वा द्रवि॑ण॒म् आ य॑जन्ता॒म् मय्य् आ॒शीर् अ॑स्तु॒ मयि॑ दे॒वहू॑तिः । दैव्या॒ होता॑रा व॒निष॑न्त ॥
पूर्वेरि॑ष्टाः स्याम त॒नुवा॑ सु॒वीराः॑ ॥
मह्यं॑ यजन्तु॒ मम॒ यानि॑ ह॒व्याकू॑तिः स॒त्या मन॑सो मे अस्तु । एनो॒ मा नि गां॑ कत॒मच् च॒नाहं विश्वे॑ देवासो॒ अधि॑ वोचता मे ॥
देवीः॑ षडुर्वीर् उ॒रु नः॑ कृनोत॒ विश्वे॑ देवास इ॒ह वी॑रयध्वम् । मा हा॑स्महि प्र॒जया॒ मा त॒नूभि॒र् मा र॑धाम द्विष॒ते सो॑म राजन् ॥
अ॒ग्निर् म॒न्युम् प्र॑तिनु॒दन् पु॒रस्ता॑त् ॥
अद॑ब्धो गो॒पाः परि॑ पाहि न॒स् त्वम् । प्र॒त्यञ्चो॑ यन्तु नि॒गुतः॒ पुन॒स् ते॑ऽमैषां॑ चि॒त्तम् प्र॒बुधा॒ वि ने॑शत् ॥
धा॒ता धा॑तृ॒णाम् भुव॑नस्य॒ यस् पति॑र् दे॒वँ स॑वि॒तार॑म् अभिमाति॒षाह॑म् । इ॒मं य॒ज्ञम् अ॒श्विनो॒भा बृह॒स्पति॑र् दे॒वाः पा॑न्तु॒ यज॑मानं न्य॒र्थात् ॥
उ॒रु॒व्यचा॑ नो महि॒षः शर्म॑ यँसद् अ॒स्मिन् हवे॑ पुरुहू॒तः पु॑रु॒क्षु । स नः॑ प्र॒जायै॑ हर्यश्व मृड॒येन्द्र॒ मा ॥
नो॒ री॒रि॒षो॒ मा परा॑ दाः ॥
ये नः॑ स॒पत्ना॒ अप॒ ते भ॑वन्त्व् इन्द्रा॒ग्निभ्या॒म् अव॑ बाधामहे॒ तान् । वस॑वो रु॒द्रा आ॑दि॒त्या उ॑परि॒स्पृश॑म् मो॒ग्रं चेत्ता॑रम् अधिरा॒जम् अ॑क्रन् ॥
अ॒र्वाञ्च॒म् इन्द्र॑म् अ॒मुतो॑ हवामहे॒ यो गो॒जिद् ध॑न॒जिद् अ॑श्व॒जिद् यः । इ॒मं नो॑ य॒ज्ञं वि॑ह॒वे जु॑षस्वा॒स्य कु॑र्मो हरिवो मे॒दिनं॑ त्वा ॥
अ॒ग्नेर् म॑न्वे प्रथ॒मस्य॒ प्रचे॑तसो॒ यम् पाञ्च॑जन्यम् ब॒हवः॑ समि॒न्धते॑ । विश्व॑स्यां वि॒शि प्र॑विविशि॒वाँस॑म् ईमहे॒ स नो॑ मुञ्च॒त्व् अँह॑सः ॥
यस्ये॒दम् प्रा॒णन् नि॑मि॒षद् यद् एज॑ति॒ यस्य॑ जा॒तं जन॑मानं च॒ केव॑लम् । स्तौम्य् अ॒ग्निं ना॑थि॒तो जो॑हवीमि॒ स नो॑ मुञ्च॒त्व् अँह॑सः ॥
इन्द्र॑स्य मन्वे प्रथ॒मस्य॒ प्रचे॑तसो वृत्र॒घ्न स्तोमा॒ उप॒ माम् उ॒पागुः॑ । यो दा॒शुषः॑ सु॒कृतो॒ हव॒म् उप॒ गन्ता॑ ॥
स नो॑ मुञ्च॒त्व् अँह॑सः ॥
यः सं॑ग्रा॒मं नय॑ति॒ सं वा॒शी यु॒धे यः पु॒ष्टानि॑ सँसृ॒जति॑ त्र॒याणि॑ । स्तौमीन्द्रं॑ नाथि॒तो जो॑हवीमि॒ स नो॑ मुञ्च॒त्व् अँह॑सः ॥
म॒न्वे वा॑म् मित्रावरुणा॒ तस्य॑ वित्तँ॒ सत्यौ॑जसा दृँहणा॒ यं नु॒देथे॑ । या राजा॑नँ स॒रथं॑ या॒थ उ॑ग्रा॒ ता नो॑ मुञ्चत॒म् आग॑सः ॥
यो वाँ॒ रथ॑ ऋ॒जुर॑श्मिः स॒त्यध॑र्मा॒ मिथु॒श् चर॑न्तम् उप॒याति॑ दू॒षय॑न् । स्तौमि॑ ॥
मि॒त्रावरु॑णा नाथि॒तो जो॑हवीमि॒ तौ नो॑ मुञ्चत॒म् आग॑सः ॥
वा॒योः स॑वि॒तुर् वि॒दथा॑नि मन्महे॒ याव् आ॑त्म॒न्वद् बि॑भृ॒तो यौ च॒ रक्ष॑तः । यौ विश्व॑स्य परि॒भू ब॑भू॒वतु॒स् तौ नो॑ मुञ्चत॒म् आग॑सः ॥
उप॒ श्रेष्ठा॑ न आ॒शिषो॑ दे॒वयो॒र् धर्मे॑ अस्थिरन् । स्तौमि॑ वा॒युँ स॑वि॒तारं॑ नाथि॒तो जो॑हवीमि॒ तौ नो॑ मुञ्चत॒म् आग॑सः ॥
र॒थीत॑मौ रथी॒नाम् अ॑ह्व ऊ॒तये॒ शुभं॒ गमि॑ष्ठौ सु॒यमे॑भि॒र् अश्वैः॑ । ययोः॑ ॥
वां॒ दे॒वौ॒ दे॒वेष्व् अनि॑शित॒म् ओज॒स् तौ नो॑ मुञ्चत॒म् आग॑सः ॥
यद् अया॑तं वह॒तुँ सू॒र्याया॑स् त्रिच॒क्रेण॑ सँ॒सद॑म् इ॒छमा॑नौ । स्तौमि॑ दे॒वाव् अ॒श्विनौ॑ नाथि॒तो जो॑हवीमि॒ तौ नो॑ मुञ्चत॒म् आग॑सः ॥
म॒रुता॑म् मन्वे॒ अधि॑ नो ब्रुवन्तु॒ प्रेमां वाचं॒ विश्वा॑म् अवन्तु॒ विश्वे॑ । आ॒शून् हु॑वे सु॒यमा॑न् ऊ॒तये॒ ते नो॑ मुञ्च॒न्त्व् एन॑सः ॥
ति॒ग्मम् आयु॑धं वीडि॒तँ सा॑हस्वद् दि॒व्यँ शर्धः॑ ॥
पृत॑नासु जि॒ष्णु । स्तौमि॑ दे॒वान् म॒रुतो॑ नाथि॒तो जो॑हवीमि॒ ते नो॑ मुञ्च॒न्त्व् एन॑सः ॥
दे॒वाना॑म् मन्वे॒ अधि॑ नो ब्रुवन्तु॒ प्रेमां वाचं॒ विश्वा॑म् अवन्तु॒ विश्वे॑ । आ॒शून् हु॑वे सु॒यमा॑न् ऊ॒तये॒ ते नो॑ मुञ्च॒न्त्वेन॑सः ॥
यद् इ॒दम् मा॑भि॒शोच॑ति॒ पौरु॑षेयेण॒ दैव्ये॑न । स्तौमि॒ विश्वा॑न् दे॒वान् ना॑थि॒तो जो॑हवीमि॒ ते नो॑ मुञ्च॒न्त्व् एन॑सः ॥
अनु॑ नो॒ऽद्यानु॑मतिस् \
अनु॑ ॥
इद् अ॑नुमते॒ त्वम् \
वै॒श्वा॒न॒रो न॑ ऊ॒त्या
पृ॒ष्टो दि॒वि
ये अप्र॑थेता॒म् अमि॑तेभि॒र् ओजो॑भि॒र् ये प्र॑ति॒ष्ठे अभ॑वतां॒ वसू॑नाम् । स्तौमि॒ द्यावा॑पृथि॒वी ना॑थि॒तो जो॑हवीमि॒ ते नो॑ मुञ्चत॒म् अँह॑सः ॥
उर्वी॑ रोदसी वरिवः कृणोतं॒ क्षेत्र॑स्य पत्नी॒ अधि॑ नो ब्रूयातम् । स्तौमि॒ द्यावा॑पृथि॒वी ना॑थि॒तो जो॑हवीमि॒ ते नो॑ मुञ्चत॒म् अँह॑सः ॥
यत् ते॑ व॒यम् पु॑रुष॒त्रा य॑वि॒ष्ठावि॑द्वाँसश् चकृ॒मा कच् च॒न ॥
आगः॑ । कृ॒धी स्व् अ॑स्माँ अदि॑ते॒र् अना॑गा॒ व्य् एनाँ॑सि शिश्रथो॒ विष्व॑ग् अग्ने ॥
यथा॑ ह॒ तद् व॑सवो गौ॒र्यं॑ चित् प॒दि षि॒ताम् अमु॑ञ्चता यजत्राः । ए॒वा त्वम् अ॒स्मत् प्र मु॑ञ्चा॒ व्य् अँहः॒ प्राता॑र्य् अग्ने प्रत॒रां न॒ आयुः॑ ॥