अश्म॒न्न् ऊर्ज॒म् पर्व॑ते शिश्रिया॒णां वाते॑ प॒र्जन्ये॒ वरु॑णस्य॒ शुष्मे॑ । अ॒द्भ्य ओष॑धीभ्यो॒ वन॒स्पति॒भ्योऽधि॒ सम्भृ॑तां॒ तां न॒ इष॒म् ऊर्जं॑ धत्त मरुतः सँररा॒णाः ॥

अश्मँ॑स् ते॒ क्षुद् अ॒मुं ते॒ शुग् ऋ॑छतु॒ यं द्वि॒ष्मः

स॑मु॒द्रस्य॑ त्वा॒वाक॒याग्ने॒ परि॑ व्ययामसि । पा॒व॒को अ॒स्मभ्यँ॑ शि॒वो भ॑व ॥

हि॒मस्य॑ त्वा ज॒रायु॒णाग्ने॒ परि॑ व्ययामसि । पा॒व॒को अ॒स्मभ्यँ॑ शि॒वो भ॑व ॥

उप॑ ॥

ज्मन्न् उप॑ वेत॒सेऽव॑त्तरं न॒दीष्व् आ । अग्ने॑ पि॒त्तम् अ॒पाम् अ॑सि ॥

मण्डू॑कि॒ ताभि॒र् आ ग॑हि॒ सेमं नो॑ य॒ज्ञम् । पा॒व॒कव॑र्णँ शि॒वं कृ॑धि ॥

पा॒व॒क आ चि॒तय॑न्त्या कृ॒पा । क्षाम॑न् रुरु॒च उ॒षसो॒ न भा॒नुना॑ ॥

तूर्व॒न् न याम॒न्न् एत॑शस्य॒ नू रण॒ आ यो घृ॒णे । न त॑तृषा॒णो अ॒जरः॑ ॥

अग्ने॑ पावक रो॒चिषा॑ म॒न्द्रया॑ देव जि॒ह्वया॑ । आ दे॒वान् ॥

व॒क्षि॒ यक्षि॑ च ॥

स नः॑ पावक दीदि॒वोऽग्ने॑ दे॒वाँ इ॒हा व॑ह । उप॑ य॒ज्ञँ ह॒विश् च॑ नः ॥

अ॒पाम् इ॒दं न्यय॑नँ समु॒द्रस्य॑ नि॒वेश॑नम् । अ॒न्यं ते॑ अ॒स्मत् त॑पन्तु हे॒तयः॑ पाव॒को अ॒स्मभ्यँ॑ शि॒वो भ॑व ॥

नम॑स् ते॒ हर॑से शो॒चिषे॒ नम॑स् ते अस्त्व् अ॒र्चिषे॑ । अ॒न्यं ते॑ अ॒स्मत् त॑पन्तु हे॒तयः॑ पाव॒को अ॒स्मभ्यँ॑ शि॒वो भ॑व ॥

नृ॒षदे॒ वट् ॥

अ॒प्सु॒षदे॒ वड् व॑न॒सदे॒ वड् ब॑र्हि॒षदे॒ वट् सु॑व॒र्विदे॒ वट् ॥

ये दे॒वा दे॒वानां॑ य॒ज्ञिया॑ य॒ज्ञिया॑नाँ संवत्स॒रीण॒म् उप॑ भा॒गम् आस॑ते । अ॒हु॒तादो॑ ह॒विषो॑ य॒ज्ञे अ॒स्मिन्त् स्व॒यं जु॑हुध्व॒म् मधु॑नो घृ॒तस्य॑ ॥

ये दे॒वा दे॒वेष्व् अधि॑ देव॒त्वम् आय॒न् ये ब्र॑ह्मणः पुरए॒तारो॑ अ॒स्य । येभ्यो॒ नर्ते पव॑ते॒ धाम॒ किं च॒न न ते दि॒वो न पृ॑थि॒व्या अधि॒ स्नुषु॑ ॥

प्रा॒ण॒दाः ॥

अ॒पा॒न॒दा व्या॑न॒दाश् च॑क्षु॒र्दा व॑र्चो॒दा व॑रिवो॒दाः । अ॒न्यं ते॑ अ॒स्मत् त॑पन्तु हे॒तयः॑ पाव॒को अ॒स्मभ्यँ॑ शि॒वो भ॑व ॥

अ॒ग्निस् ति॒ग्मेन॑ शो॒चिषा॒ यँस॒द् विश्वं॒ न्य् अ॑त्रिण॑म् । अ॒ग्निर् नो॑ वँसते र॒यिम् ॥

{F सैनानी॑केन॒} {W सैनानी॑केन} {अस्स् सैषानी॑केन॒} {बि सैनानी॑केन} {ग्लोस् -} सु॒वि॒दत्रो॑ अ॒स्मे यष्टा॑ दे॒वाँ आय॑जिष्ठः स्व॒स्ति । अद॑ब्धो गो॒पा उ॒त नः॑ पर॒स्पा अग्ने॑ द्यु॒मद् उ॒त रे॒वद् दि॑दीहि ॥

य इ॒मा विश्वा॒ भुव॑नानि॒ जुह्व॒द् ऋषि॒र् होता॑ निष॒सादा॑ पि॒ता नः॑ । स आ॒शिषा॒ द्रवि॑णम् इ॒छमा॑नः परम॒छदो॒ वर॒ आ वि॑वेश ॥

वि॒श्वक॑र्मा॒ मन॑सा॒ यद् विहा॑या धा॒ता वि॑धा॒ता प॑र॒मोत सं॒दृक् । तेषा॑म् इ॒ष्टानि॒ सम् इ॒षा म॑दन्ति॒ यत्र॑ सप्त॒र्षीन् प॒र एक॑म् आ॒हुः ॥

यो नः॑ पि॒ता ज॑नि॒ता यो वि॑धा॒ता यो नः॑ स॒तो अ॒भ्य् आ सज् ज॒जान॑ ॥

यो दे॒वानां॑ नाम॒धा एक॑ ए॒व तँ स॑म्प्र॒श्नम् भुव॑ना यन्त्य् अ॒न्या ॥

त आय॑जन्त॒ द्रवि॑णँ॒ सम् अ॑स्मा॒ ऋष॑यः॒ पूर्वे॑ जरि॒तारो॒ न भू॒ना । अ॒सूर्ता॒ सूर्ता॒ रज॑सो वि॒माने॒ ये भू॒तानि॑ स॒मकृ॑ण्वन्न् इ॒मानि॑ ॥

न तं वि॑दाथ॒ य इ॒दं ज॒जाना॒न्यद् यु॒ष्माक॒म् अन्त॑रम् भवाति । नी॒हा॒रेण॒ प्रावृ॑ता॒ जल्प्या॒ चासु॒तृप॑ उक्थ॒शास॑श् चरन्ति ॥

प॒रो दि॒वा प॒र ए॒ना ॥

पृ॒थि॒व्या प॒रो दे॒वेभि॒र् असु॑रै॒र् गुहा॒ यत् । कँ स्वि॒द् गर्भं॑ प्रथ॒मं द॑ध्र॒ आपो॒ यत्र॑ दे॒वाः स॒मग॑छन्त॒ विश्वे॑ ॥

तम् इद् गर्भ॑म् प्रथ॒मं द॑ध्र॒ आपो॒ यत्र॑ दे॒वाः स॒मग॑छन्त॒ विश्वे॑ । अ॒जस्य॒ नाभा॒व् अध्य् एक॒म् अर्पि॑त॒म् यस्मि॑न्न् इ॒दं विश्व॒म् भुव॑न॒म् अधि॑ श्रि॒तम् ॥

वि॒श्वक॑र्मा॒ ह्य् अज॑निष्ट दे॒व आद् इद् ग॑न्ध॒र्वो अ॑भवद् द्वि॒तीयः॑ । तृ॒तीयः॑ पि॒ता ज॑नि॒तौष॑धीनाम् ॥

अ॒पां गर्भं॒ व्य् अ॑दधात् पुरु॒त्रा ॥

चक्षु॑षः पि॒ता मन॑सा॒ हि धीरो॑ घृ॒तम् ए॑ने अजन॒न् नंन॑माने । य॒देद् अन्ता॒ अद॑दृँहन्त॒ पूर्व॒ आद् इद् द्यावा॑पृथि॒वी अ॑प्रथेताम् ॥

वि॒श्वत॑श्चक्षुर् उ॒त वि॒श्वतो॑मुखो वि॒श्वतो॑हस्त उ॒त वि॒श्वत॑स्पात् । सम् बा॒हुभ्यां॒ नम॑ति॒ सम् पत॑त्रै॒र् द्यावा॑पृथि॒वी ज॒नय॑न् दे॒व एकः॑ ॥

किँ स्वि॑द् आसीद् अधि॒ष्ठान॑म् आ॒रम्भ॑णं कत॒मत् स्वि॒त् किम् आ॑सीत् । यदी॒ भूमिं॑ ज॒नय॑न् ॥

वि॒श्वक॑र्मा॒ वि द्याम् और्णो॑न् महि॒ना वि॒श्वच॑क्षाः ॥

किँ स्वि॒द् वनं॒ क उ॒ स वृ॒क्ष आ॑सी॒द् यतो॒ द्यावा॑पृथि॒वी नि॑ष्टत॒क्षुः । मनी॑षिणो॒ मन॑सा पृ॒छतेद् उ॒ तद् यद् अ॒ध्यति॑ष्ठ॒द् भुव॑नानि धा॒रय॑न् ॥

या ते॒ धामा॑नि पर॒माणि॒ याव॒मा या म॑ध्य॒मा वि॑श्वकर्मन्न् उ॒तेमा । शिक्षा॒ सखि॑भ्यो ह॒विषि॑ स्वधावः स्व॒यं य॑जस्व त॒नुवं॑ जुषा॒णः ॥

वा॒चस् पतिं॑ वि॒श्वक॑र्माणम् ऊ॒तये॑ ॥

म॒नो॒युजं॒ वाजे॑ अ॒द्या हु॑वेम । स नो॒ नेदि॑ष्ठा॒ हव॑नानि जोषते वि॒श्वश॑म्भू॒र् अव॑से सा॒धुक॑र्मा ॥

विश्व॑कर्मन् ह॒विषा॑ वावृधा॒नः स्व॒यं य॑जस्व त॒नुवं॑ जुषा॒णः । मुह्य॑न्त्व् अ॒न्ये अ॒भितः॑ स॒पत्ना॑ इ॒हास्माक॑म् म॒घवा॑ सू॒रिर् अ॑स्तु ॥

विश्व॑कर्मन् ह॒विषा॒ वर्ध॑नेन त्रा॒तार॒म् इन्द्र॑म् अकृणोर् अव॒ध्यम् । तस्मै॒ विशः॒ सम् अ॑नमन्त पू॒र्वीर् अ॒यम् उ॒ग्रो वि॑ह॒व्यो॑ यथास॑त् ॥

स॒मु॒द्राय॑ व॒युना॑य॒ सिन्धू॑ना॒म् पत॑ये॒ नमः॑ । न॒दीनाँ॒ सर्वा॑साम् पि॒त्रे जु॑हु॒ता वि॒श्वक॑र्मणे॒ विश्वाहाम॑र्त्यँ ह॒विः ॥

उद् ए॑नम् उत्त॒रां न॒याग्ने॑ घृतेनाहुत । रा॒यस् पोषे॑ण॒ सँ सृ॑ज प्र॒जया॑ च॒ धने॑न च ॥

इन्द्रे॒मम् प्र॑त॒रां कृ॑धि सजा॒ताना॑म् असद् व॒शी । सम् ए॑नं॒ वर्च॑सा सृज दे॒वेभ्यो॑ भाग॒धा अ॑सत् ॥

यस्य॑ कु॒र्मो ह॒विर् गृ॒हे तम् अ॑ग्ने वर्धया॒ त्वम् । तस्मै॑ दे॒वा अधि॑ ब्रवन्न् अ॒यं च॒ ब्रह्म॑ण॒स् पतिः॑ ॥

उद् उ॑ त्वा॒ विश्वे॑ दे॒वाः ॥

अग्ने॒ भर॑न्तु॒ चित्ति॑भिः । स नो॑ भव शि॒वत॑मः सु॒प्रती॑को वि॒भाव॑सुः ॥

पञ्च॒ दिशो॒ दैवी॑र् य॒ज्ञम् अ॑वन्तु दे॒वीर् अपाम॑तिं दुर्म॒तिम् बाध॑मानाः । रा॒यस् पोषे॑ य॒ज्ञप॑तिम् आ॒भज॑न्तीः ॥

रा॒यस् पोषे॒ अधि॑ य॒ज्ञो अ॑स्था॒त् समि॑द्धे अ॒ग्नाव् अधि॑ मामहा॒नः । उ॒क्थप॑त्त्र॒ ईड्यो॑ गृभी॒तस् त॒प्तं घ॒र्मम् प॑रि॒गृह्या॑यजन्त ॥

ऊ॒र्जा यद् य॒ज्ञम् अश॑मन्त दे॒वा दैव्या॑य ध॒र्त्रे जोष्ट्रे॑ । दे॒व॒श्रीः श्रीम॑णाः श॒तप॑याः ॥

प॒रि॒गृह्य॑ दे॒वा य॒ज्ञम् आ॑यन् ॥

सूर्य॑रश्मि॒र् हरि॑केशः पु॒रस्ता॑त् सवि॒ता ज्योति॒र् उद् अ॑याँ॒ अज॑स्रम् । तस्य॑ पू॒षा प्र॑स॒वं या॑ति दे॒वः स॒म्पश्य॒न् विश्वा॒ भुव॑नानि गो॒पाः ॥

दे॒वा दे॒वेभ्यो॑ अध्व॒र्यन्तो॑ अस्थुर् वी॒तँ श॑मि॒त्रे श॑मि॒ता य॒जध्यै॑ । तु॒रीयो॑ य॒ज्ञो यत्र॑ ह॒व्यम् एति॒ ततः॑ पाव॒का अशिषो॑ नो जुषन्ताम् ॥

वि॒मान॑ ए॒ष दि॒वो मध्य॑ आस्त आपप्रि॒वान् रोद॑सी अ॒न्तरि॑क्षम् । स वि॒श्वाची॑र् अ॒भि ॥

च॒ष्टे॒ घृ॒ताची॑र् अन्त॒रा पूर्व॒म् अप॑रं च के॒तुम् ॥

उ॒क्षा स॑मु॒द्रो अ॑रु॒णः सु॑प॒र्णः पूर्व॑स्य॒ योनि॑म् पि॒तुर् आ वि॑वेश । मध्ये॑ दि॒वो निहि॑तः॒ पृश्नि॒र् अश्मा॒ वि च॑क्रमे॒ रज॑सः पा॒त्य् अन्तौ॑ ॥

इन्द्रं॒ विश्वा॑ अवीवृधन्त् समु॒द्रव्य॑चसं॒ गिरः॑ । र॒थीत॑मँ रथी॒नां वाजा॑नाँ॒ सत्प॑ति॒म् पति॑म् ॥

सु॒म्न॒हूर् य॒ज्ञो दे॒वाँ आ च॑ वक्ष॒द् यक्ष॑द् अ॒ग्निर् दे॒वो दे॒वाँ आ च॑ वक्षत् ।

वाज॑स्य मा प्रस॒वेनो॑द्ग्रा॒भेणोद् अ॑ग्रभीत् । अथा॑ स॒पत्नाँ॒ इन्द्रो॑ मे निग्रा॒भेणाध॑राँ अकः ॥

उ॒द्ग्रा॒भं च॑ निग्रा॒भं च॒ ब्रह्म॑ दे॒वा अ॑वीवृधन् । अथा॑ स॒पत्ना॑न् इन्द्रा॒ग्नी मे॑ विषू॒चीना॒न् व्य् अ॑स्यताम् ॥

आ॒शुः शिशा॑नो वृष॒भो न यु॒ध्मो घ॑नाघ॒नः क्षोभ॑णश् चर्षणी॒नाम् । सं॒क्रन्द॑नोऽनिमि॒ष ए॑कवी॒रः श॒तँ सेना॑ अजयत् सा॒कम् इन्द्रः॑ ॥

सं॒क्रन्द॑नेनानिमि॒षेण॑ जि॒ष्णुना॑ युत्का॒रेण॑ दुश्च्यव॒नेन॑ धृ॒ष्णुना॑ । तद् इन्द्रे॑ण जयत॒ तत् स॑हध्वं॒ युधो॑ नर॒ इषु॑हस्तेन॒ वृष्णा॑ ॥

स इषु॑हस्तैः॒ स नि॑ष॒ङ्गिभि॑र् वा॒शी सँस्र॑ष्टा॒ स युध॒ इन्द्रो॑ ग॒णेन॑ । सँ॒सृ॒ष्ट॒जित् सो॑म॒पा बा॑हुश॒र्ध्य् ऊ॑र्ध्वध॑न्वा॒ प्रति॑हिताभि॒र् अस्ता॑ ॥

बृह॑स्पते॒ परि॑ दीय ॥

रथे॑न रक्षो॒हामित्राँ॑ अप॒बाध॑मानः । प्र॒भ॒ञ्जन्त् सेनाः॑ प्रमृणो यु॒धा जय॑न्न् अ॒स्माक॑म् एध्य् अवि॒ता रथा॑नाम् ॥

गो॒त्र॒भिदं॑ गो॒विदं॒ वज्र॑बाहुं॒ जय॑न्त॒म् अज्म॑ प्रमृ॒णन्त॒म् ओज॑सा । इ॒मँ स॑जाता॒ अनु॑ वीरयध्व॒म् इन्द्रँ॑ सखा॒योऽनु॒ सँ र॑भध्वम् ॥

ब॒ल॒वि॒ज्ञा॒य स्थवि॑रः॒ प्रवी॑रः॒ सह॑स्वान् वा॒जी सह॑मान उ॒ग्रः । अ॒भिवी॑रो अ॒भिस॑त्वा सहो॒जा जैत्र॑म् इन्द्र॒ रथ॒म् आ ति॑ष्ठ गो॒वित् ॥

अ॒भि गो॒त्राणि॒ सह॑सा॒ गाह॑मानोऽदा॒यः ॥

वी॒रः श॒तम॑न्यु॒र् इन्द्रः॑ । दु॒श्च्य॒व॒नः पृ॑तना॒षाड् अ॑यु॒ध्यो॑ऽस्माकँ॒ सेना॑ अवतु॒ प्र यु॒त्सु ॥

इ॒न्द्र आ॑सां ने॒ता बृह॒स्पति॒र् दक्षि॑णा य॒ज्ञः पु॒र ए॑तु॒ सोमः॑ । दे॒व॒से॒नाना॑म् अभिभञ्जती॒नां जय॑न्तीनाम् म॒रुतो॑ य॒न्त्व् अग्रे॑ ॥

इन्द्र॑स्य॒ वृष्णो॒ वरु॑णस्य॒ राज्ञ॑ आदि॒त्याना॑म् म॒रुताँ॒ शर्ध॑ उ॒ग्रम् । म॒हाम॑नसाम् भुवनच्य॒वानां॒ घोषो॑ दे॒वानां॒ जय॑ता॒म् उद् अ॑स्थात् ॥

अ॒स्माक॒म् इन्द्रः॒ समृ॑तेषु ध्व॒जेष्व् अ॒स्माकं॒ या इष॑व॒स् ता ज॑यन्तु ॥

अ॒स्माकं॑ वी॒रा उत्त॑रे भवन्त्व् अ॒स्मान् उ॑ देवा अवता॒ हवे॑षु ॥

उद् ध॑र्षय मघव॒न्न् आयु॑धा॒न्य् उत् सत्व॑नाम् माम॒काना॒म् महाँ॑सि । उद् वृ॑त्रहन् वा॒जिनां॒ वाजि॑ना॒न्य् उद् रथा॑नां॒ जय॑ताम् एतु॒ घोषः॑ ॥

उप॒ प्रेत॒ जय॑ता नर स्थि॒रा वः॑ सन्तु बा॒हवः॑ । इन्द्रो॑ वः॒ शर्म॑ यछत्व् अनाधृ॒ष्या यथास॑थ ॥

अव॑सृष्टा॒ परा॑ पत॒ शर॑व्ये॒ ब्रह्म॑सँशिता । गछा॒मित्रा॒न् प्र ॥

वि॒श॒ मैषां॒ कं च॒नोच् छि॑षः ॥

मर्मा॑णि ते॒ वर्म॑भिश् छादयामि॒ सोम॑स् त्वा॒ राजा॒मृते॑ना॒भि व॑स्ताम् । उ॒रोर् वरी॑यो॒ वरि॑वस् ते अस्तु॒ जय॑न्तं॒ त्वाम् अनु॑ मदन्तु दे॒वाः ॥

यत्र॑ बा॒णाः स॒म्पत॑न्ति कुमा॒रा वि॑शि॒खा इ॑व । इन्द्रो॑ न॒स् तत्र॑ वृत्र॒हा वि॑श्वा॒हा शर्म॑ यछतु ॥

प्राची॒म् अनु॑ प्रा॒दिश॒म् प्रेहि॑ वि॒द्वान् अ॒ग्नेर् अ॑ग्ने पु॒रोअ॒ग्नि॒र् भ॒वे॒ह । विश्वा॒ आशा॒ दीद्या॑नो॒ वि भा॒ह्य् ऊर्जं॑ नो धेहि द्वि॒पदे॒ चतु॑ष्पदे ॥

क्र॒मध्व॑म् अ॒ग्निना॒ नाक॒म् उख्यँ॒ हस्ते॑षु॒ बिभ्र॑तः । दि॒वः पृ॒ष्ठँ सुव॑र् ग॒त्वा मि॒श्रा दे॒वेभि॑र् आद्ध्वम् ॥

पृ॒थि॒व्या अ॒हम् उद् अ॒न्तरि॑क्ष॒म् आरु॑हम् अ॒न्तरि॑क्षा॒द् दिव॒म् आरु॑हम् । दि॒वो नाक॑स्य पृ॒ष्ठात् सुव॒र् ज्योति॑र् अगाम् ॥

अ॒हम् ॥

सुव॒र् यन्तो॒ नापे॑क्षन्त॒ आ द्याँ रो॑हन्ति॒ रोद॑सी । य॒ज्ञं ये वि॒श्वतो॑धारँ॒ सुवि॑द्वाँसो वितेनि॒रे ॥

अग्ने॒ प्रेहि॑ प्रथ॒मो दे॑वय॒तां चक्षु॑र् दे॒वाना॑म् उ॒त मर्त्या॑नाम् । इय॑क्षमाणा॒ भृगु॑भिः स॒जोषाः॒ सुव॑र् यन्तु॒ यज॑मानाः स्व॒स्ति ॥

नक्तो॒षासा॒ सम॑नसा॒ विरू॑पे धा॒पये॑ते॒ शिशु॒म् एकँ॑ समी॒ची । द्यावा॒ क्षामा॑ रु॒क्मो अ॒न्तर् विभा॑ति दे॒वा अ॒ग्निं धा॑रयन् द्रविणो॒दाः ॥

अग्ने॑ सहस्राक्ष ॥

श॒त॒मू॒र्ध॒ञ् छ॒तं ते॑ प्रा॒णाः स॒हस्र॑म् अपा॒नाः । त्वँ सा॑ह॒स्रस्य॑ रा॒य ई॑शिषे॒ तस्मै॑ ते विधेम॒ वाजा॑य॒ स्वाहा॑ ॥

सु॒प॒र्णो॑ऽसि ग॒रुत्मा॑न् पृथि॒व्याँ सी॑द पृ॒ष्ठे पृ॑थि॒व्याः सी॑द भा॒सान्तरि॑क्ष॒म् आ पृ॑ण॒ ज्योति॑षा॒ दिव॒म् उत् त॑भान॒ तेज॑सा॒ दिश॒ उद् दृँ॑ह ॥

आ॒जुह्वा॑नः सु॒प्रती॑कः पु॒रस्ता॒द् अग्ने॒ स्वां योनि॒म् आ सी॑द सा॒ध्या । अ॒स्मिन्त् स॒धस्थे॒ अध्य् उत्त॑रस्मि॒न् विश्वे॑ देवाः ॥

यज॑मानश् च सीदत ॥

प्रेद्धो॑ अग्ने दीदिहि पु॒रो नोऽज॑स्रया सू॒र्म्या॑ यविष्ठ । त्वाँ शश्व॑न्त॒ उप॑ यन्ति॒ वाजाः॑ ॥

वि॒धेम॑ ते पर॒मे जन्म॑न्न् अग्ने वि॒धेम॒ स्तोमै॒र् अव॑रे स॒धस्थे॑ । यस्मा॒द् योने॑र् उ॒दारि॑था॒ यजे॒ तम् प्र त्वे ह॒वीँषि॑ जुहुरे॒ समि॑द्धे ॥

ताँ स॑वि॒तुर् वरे॑ण्यस्य चि॒त्राम् आहं वृ॑णे सुम॒तिं वि॒श्वज॑न्याम् । याम् अ॑स्य॒ कण्वो॒ अदु॑ह॒त् प्रपी॑नाँ स॒हस्र॑धाराम् ॥

पय॑सा म॒हीं गाम् ॥

स॒प्त ते॑ अग्ने स॒मिधः॑ स॒प्त जि॒ह्वाः स॒प्तर्ष॑यः स॒प्त धाम॑ प्रि॒याणि॑ । स॒प्त होत्राः॑ सप्त॒धा त्वा॑ यजन्ति स॒प्त योनी॒र् आ पृ॑णस्वा घृ॒तेन॑ ॥

ई॒दृङ् चा॑न्या॒दृङ् चै॑ता॒दृङ् च॑ प्रति॒दृङ् च॑ मि॒तश् च॒ सम्मि॑तश् च॒ सभ॑राः ।

शु॒क्रज्यो॑तिश् च चि॒त्रज्यो॑तिश् च स॒त्यज्यो॑तिश् च॒ ज्योति॑ष्माँश् च स॒त्यश् च॑र्त॒पाश् चा॑त्यँहाः ॥

ऋ॒त॒जिच् च॑ सत्य॒जिच् च॑ सेन॒जिच् च॑ सुषेण॒श् चान्त्य॑मित्रश् च दू॒रेअ॒मि॒त्र॒श् च॒ ग॒णः ।

ऋ॒तश् च॑ सत्यश् च ध्रु॒वश् च॑ ध॒रुण॑श् च ध॒र्ता च॑ विध॒र्ता च॑ विधार॒यः ।

ई॒दृक्षा॑स एता॒दृक्षा॑स ऊ॒ षु णः॑ स॒दृक्षा॑सः॒ प्रति॑सदृक्षास॒ एत॑न ।

मि॒तास॑श् च॒ सम्मि॑तासश् च न ऊ॒तये॒ सभ॑रसो मरुतो य॒ज्ञे अ॒स्मिन् \

इन्द्रं॒ दैवी॒र् विशो॑ म॒रुतो॑ऽनुवर्त्मानो॒ यथेन्द्रं॒ दैवी॒र् विशो॑ म॒रुतोऽनु॑वर्त्मान ए॒वम् इ॒मं यज॑मानं॒ दैवी॑श् च॒ विशो॒ मानु॑षी॒श् चानु॑वर्त्मानो भवन्तु ॥

जी॒मूत॑स्येव भवति॒ प्रती॑कं॒ यद् व॒र्मी याति॑ स॒मदा॑म् उ॒पस्थे॑ । अना॑विद्धया त॒नुवा॑ जय॒ त्वँ स त्वा॒ वर्म॑णो महि॒मा पि॑पर्तु ॥

धन्व॑ना॒ गा धन्व॑ना॒जिं ज॑येम॒ धन्व॑ना ती॒व्राः स॒मदो॑ जयेम । धनुः॒ शत्रो॑र् अपका॒मं कृ॑णोति॒ धन्व॑ना॒ सर्वाः॑ प्र॒दिशो॑ जयेम ॥

व॒क्ष्यन्ती॒वेद् आ ग॑नीगन्ति॒ कर्ण॑म् प्रि॒यँ सखा॑यम् परिषस्वजा॒ना । योषे॑व शिङ्क्ते॒ वित॒ताधि॒ धन्व॑न् ॥

ज्या इ॒यँ सम॑ने पा॒रय॑न्ती ॥

ते आ॒चर॑न्ती॒ सम॑नेव॒ योषा॑ मा॒तेव॑ पु॒त्रम् बि॑भृताम् उ॒पस्थे॑ । अप॒ शत्रू॑न् विध्यताँ संविदा॒ने आर्त्नी॑ इ॒मे वि॑ष्फु॒रन्ती॑ अ॒मित्रा॑न् ॥

ब॒ह्वी॒नाम् पि॒ता ब॒हुर् अ॑स्य पु॒त्रश् चि॒श्चा कृ॑णोति॒ सम॑नाव॒गत्य॑ । इ॒षु॒धिः सङ्काः॒ पृत॑नाश् च॒ सर्वाः॑ पृ॒ष्ठे निन॑द्धो जयति॒ प्रसू॑तः ॥

रथे॒ तिष्ठ॑न् नयति वा॒जिनः॑ पु॒रो यत्र॑यत्र का॒मय॑ते सुषार॒थिः । अ॒भीशू॑नाम् महि॒मान॑म् ॥

प॒ना॒य॒त॒ मनः॑ प॒श्चाद् अनु॑ यछन्ति र॒श्मयः॑ ॥

ती॒व्रान् घोषा॑न् कृण्वते॒ वृष॑पाण॒योऽश्वा॒ रथे॑भिः स॒ह वा॒जय॑न्तः । अ॒व॒क्राम॑न्तः॒ प्रप॑दैर् अ॒मित्रा॑न् क्षि॒णन्ति॒ शत्रूँ॒र् अन॑पव्ययन्तः ॥

र॒थ॒वाह॑नँ ह॒विर् अ॑स्य॒ नाम॒ यत्रायु॑धं॒ निहि॑तम् अस्य॒ वर्म॑ । तत्रा॒ रथ॒म् उप॑ श॒ग्मँ स॑देम वि॒श्वाहा॑ व॒यँ सु॑मन॒स्यमा॑नाः ॥

स्वा॒दु॒षँ॒सदः॑ पि॒तरो॑ वयो॒धाः कृ॑छ्रे॒श्रितः॒ शक्ती॑वन्तो गभी॒राः । चि॒त्रसे॑ना॒ इषु॑बला॒ अमृ॑ध्राः स॒तोवी॑रा उ॒रवो॑ व्रातसा॒हाः ॥

ब्राह्म॑णासः ॥

पित॑रः॒ सोम्या॑सः शि॒वे नो॒ द्यावा॑पृथि॒वी अ॒नेह॑सा । पू॒षा नः॑ पातु दुरि॒ताद् ऋ॑तावृधो॒ रक्षा॒ माकि॑र् नो अ॒घशँ॑स ईशत ॥

सु॒प॒र्णं व॑स्ते मृ॒गो अ॑स्या॒ दन्तो॒ गोभिः॒ संन॑द्धा पतति॒ प्रसू॑ता । यत्रा॒ नरः॒ सं च॒ वि च॒ द्रव॑न्ति॒ तत्रा॒स्मभ्य॒म् इष॑वः॒ शर्म॑ यँसन् ॥

ऋजी॑ते॒ परि॑ वृङ्ग्धि॒ नोऽश्मा॑ भवतु नस् त॒नूः । सोमो॒ अधि॑ ब्रवीतु॒ नोऽदि॑तिः ॥

शर्म॑ यछतु ॥

आ ज॑ङ्घन्ति॒ सान्व् ए॑षां ज॒घनाँ॒ उप॑ जिघ्नते । अश्वा॑जनि॒ प्रचे॑त॒सोऽश्वा॑न्त् स॒मत्सु॑ चोदय ॥

अहि॑र् इव भो॒गैः पर्य् ए॑ति बा॒हुं ज्याया॑ हे॒तिम् प॑रि॒बाध॑मानः । ह॒स्त॒घ्नो विश्वा॑ व॒युना॒नि वि॒द्वान् पुमा॒न् पुमाँ॑स॒म् परि॑ पातु वि॒श्वतः॑ ॥

वन॑स्पते वी॒ड्व॑ङ्गो॒ हि भू॒या अ॒स्मत्स॑खा प्र॒तर॑णः सु॒वीरः॑ । गोभिः॒ संन॑द्धो असि वी॒डय॑स्वास्था॒ता ते॑ जयतु॒ जेत्वा॑नि ॥

दि॒वः पृ॑थि॒व्याः परि॑ ॥

ओज॒ उद्भृ॑तं॒ वन॒स्पति॑भ्यः॒ पर्य् आभृ॑तँ॒ सहः॑ । अ॒पाम् ओ॒ज्मान॒म् परि॒ गोभि॒र् आवृ॑त॒म् इन्द्र॑स्य॒ वज्रँ॑ ह॒विषा॒ रथं॑ यज ॥

इन्द्र॑स्य॒ वज्रो॑ म॒रुता॒म् अनी॑कम् मि॒त्रस्य॒ गर्भो॒ वरु॑णस्य॒ नाभिः॑ । सेमां नो॑ ह॒व्यदा॑तिं जुषा॒णो देव॑ रथ॒ प्रति॑ ह॒व्या गृ॑भाय ॥

उप॑ श्वासय पृथि॒वीम् उ॒त द्याम् पु॑रु॒त्रा ते॑ मनुतां॒ विष्ठि॑तं॒ जग॑त् । स दु॑न्दुभे स॒जूर् इन्द्रे॑ण दे॒वैर् दू॒रात् ॥

दवी॑यो॒ अप॑ सेध॒ शत्रू॑न् ॥

आ क्र॑न्दय॒ बल॒म् ओजो॑ न॒ आ धा॒ नि ष्ट॑निहि दुरि॒ता बाध॑मानः । अप॑ प्रोथ दुन्दुभे दु॒छुनाँ॑ इ॒त इन्द्र॑स्य मु॒ष्टिर् अ॑सि वी॒डय॑स्व ॥

आमूर् अ॑ज प्र॒त्याव॑र्तये॒ऽमाः के॑तु॒मद् दु॑न्दु॒भिर् वा॑वदीति । सम् अश्व॑पर्णा॒श् चर॑न्ति नो॒ नरो॒ऽस्माक॑म् इन्द्र र॒थिनो॑ जयन्तु ॥

यद् अक्र॑न्दः प्रथ॒मं जाय॑मान उ॒द्यन्त् स॑मु॒द्राद् उ॒त वा॒ पुरी॑षात् । श्ये॒नस्य॑ प॒क्षा ह॑रि॒णस्य॑ बा॒हू उ॑प॒स्तुत्य॒म् महि॑ जा॒तं ते॑ अर्वन् ॥

य॒मेन॑ द॒त्तं त्रि॒त ए॑नम् आयुन॒ग् इन्द्र॑ एणम् प्रथ॒मो अध्य् अ॑तिष्ठत् । ग॒न्ध॒र्वो अ॑स्य रश॒नाम् अ॑गृभ्णा॒त् सूरा॒द् अश्वं॑ वसवो॒ निर् अ॑तष्ट ॥

असि॑ य॒मो अस्य् आ॑दि॒त्यो अ॑र्व॒न्न् असि॑ त्रि॒तो गुह्ये॑न व्र॒तेन॑ । असि॒ सोमे॑न स॒मया॒ विपृ॑क्तः ॥

आ॒हुस् ते॒ त्रीणि॑ दि॒वि बन्ध॑नानि ॥

त्रीणि॑ त आहुर् दि॒वि बन्ध॑नानि॒ त्रीण्य् अ॒प्सु त्रीण्य् अ॒न्तः स॑मु॒द्रे । उ॒तेव॑ मे॒ वरु॑णश् छन्त्स्य् अर्व॒न् यत्रा॑ त आ॒हुः प॑र॒मं ज॒नित्र॑म् ॥

इ॒मा ते॑ वाजिन्न् अव॒मार्ज॑नानी॒मा श॒फानाँ॑ सनि॒तुर् नि॒धाना॑ । अत्रा॑ ते भ॒द्रा र॑श॒ना अ॑पश्यम् ऋ॒तस्य॒ या अ॑भि॒रक्ष॑न्ति गो॒पाः ॥

आ॒त्मानं॑ ते॒ मन॑सा॒राद् अ॑जानाम् अ॒वो दि॒वा ॥

प॒तय॑न्तम् पतं॒गम् । शिरो॑ अपश्यम् प॒थिभिः॑ सु॒गेभि॑र् अरे॒णुभि॒र् जेह॑मानम् पत॒त्रि ॥

अत्रा॑ ते रू॒पम् उ॑त्त॒मम् अ॑पश्यं॒ जिगी॑षमाणम् इ॒ष आ प॒दे गोः । य॒दा ते॒ मर्तो॒ अनु॒ भोग॒म् आन॒ड् आद् इद् ग्रसि॑ष्ठ॒ ओष॑धीर् अजीगः ॥

अनु॑ त्वा॒ रथो॒ अनु॒ मर्यो॑ अर्व॒न्न् अनु॒ गावोऽनु॒ भगः॑ क॒नीना॑म् । अनु॒ व्राता॑स॒स् तव॑ स॒ख्यम् ई॑यु॒र् अनु॑ दे॒वा म॑मिरे वी॒र्य॑म् ॥

ते॒ ॥

हि॒र॒ण्य॒शृ॒ङ्गोऽयो॑ अस्य॒ पादा॒ मनो॑जवा॒ अव॑र॒ इन्द्र॑ आसीत् । दे॒वा इद् अ॑स्य हवि॒रद्य॑म् आय॒न् यो अर्व॑न्तम् प्रथ॒मो अ॒ध्यति॑ष्ठत् ॥

ई॒र्मान्ता॑सः॒ सिलि॑कमध्यमासः॒ सँ शूर॑णासो दि॒व्यासो॒ अत्याः॑ । हँ॒सा इ॑व श्रेणि॒शो य॑तन्ते॒ यद् आक्षि॑षुर् दि॒व्यम् अज्म॒म् अश्वाः॑ ॥

तव॒ शरी॑रम् पतयि॒ष्ण्व् अ॑र्व॒न् तव॑ चि॒त्तं वात॑ इव॒ ध्रजी॑मान् । तव॒ शृङ्गा॑णि॒ विष्ठि॑ता पुरु॒त्रार॑ण्येषु॒ जर्भु॑राणा चरन्ति ॥

उप॑ ॥

प्रागा॒च् छस॑नं वा॒ज्य् अर्वा॑ देव॒द्रीचा॒ मन॑सा॒ दीध्या॑नः । अ॒जः पु॒रो नी॑यते॒ नाभि॑र् अ॒स्यानु॑ प॒श्चात् क॒वयो॑ यन्ति रे॒भाः ॥

उप॒ प्रागा॑त् पर॒मं यत् स॒धस्थ॒म् अर्वाँ॒ अछा॑ पि॒तर॑म् मा॒तरं॑ च । अ॒द्या दे॒वाञ् जुष्ट॑तमो॒ हि ग॒म्या अथा शा॑स्ते दा॒शुषे॒ वार्या॑णि ॥

मा नो॑ मि॒त्रो वरु॑णो अर्य॒मायुर् इन्द्र॑ ऋभु॒क्षा म॒रुतः॒ परि॑ ख्यन् । यद् वा॒जिनो॑ दे॒वजा॑तस्य॒ सप्तेः॑ प्रव॒क्ष्यामो॑ वि॒दथे॑ वी॒र्या॑णि ॥

यन् नि॒र्णिजा॒ रेक्ण॑सा॒ प्रावृ॑तस्य रा॒तिं गृ॑भी॒ताम् मु॑ख॒तो नय॑न्ति । सुप्रा॑ङ् अ॒जो मेम्य॑द् वि॒श्वरू॑प इन्द्रापू॒ष्णोः प्रि॒यम् अप्य् ए॑ति॒ पाथः॑ ॥

ए॒ष छागः॑ पु॒रो अश्वे॑न वा॒जिना॑ पू॒ष्णो भा॒गो नी॑यते वि॒श्वदे॑व्यः । अ॒भि॒प्रियं॒ यत् पु॑रो॒डाश॒म् अर्व॑ता॒ त्वष्टेत् ॥

ए॒नँ॒ सौ॒श्र॒व॒साय॑ जिन्वति॒

यद् ध॒विष्य॑म् ऋतु॒शो दे॑व॒यानं॒ त्रिर् मानु॑षाः॒ पर्य् अश्वं॒ नय॑न्ति । अत्रा॑ पू॒ष्णः प्र॑थ॒मो भा॒ग ए॑ति य॒ज्ञं दे॒वेभ्यः॑ प्रतिवे॒दय॑न्न् अ॒जः ॥

होता॑ध्व॒र्युर् आव॑या अग्निमि॒न्धो ग्रा॑वग्रा॒भ उ॒त शँस्ता॒ सुवि॑प्रः । तेन॑ य॒ज्ञेन॒ स्व॑रंकृतेन॒ स्वि॑ष्टेन व॒क्षणा॒ आ पृ॑णध्वम् ॥

यू॒प॒व्र॒स्का उ॒त ये यू॑पवा॒हाश् च॒षालं॒ ये अ॑श्वयू॒पाय॒ तक्ष॑ति । ये चार्व॑ते॒ पच॑नँ स॒म्भर॑न्त्य् उ॒तो ॥

तेषा॑म् अ॒भिगू॑र्तिर् न इन्वतु ॥

उप॒ प्रागा॑त् सु॒मन् मे॑ऽधायि॒ मन्म॑ दे॒वाना॒म् आशा॒ उप॑ वी॒तपृ॑ष्ठः । अन्व् ए॑नं॒ विप्रा॒ ऋष॑यो मदन्ति दे॒वाना॑म् पु॒ष्टे च॑कृमा सु॒बन्धु॑म् ॥

यद् वा॒जिनो॒ दाम॑ सं॒दानं॒ अर्व॑तो॒ या शी॑र्ष॒ण्या॑ रश॒ना रज्जु॑र् अस्य । यद् वा॑ घास्य॒ प्रभृ॑तम् आ॒स्ये॑ तृणँ॒ सर्वा॒ ता ते॒ अपि॑ दे॒वेष्व् अ॑स्तु ॥

यद् अश्व॑स्य क्र॒विषः॑ ॥

मक्षि॒काश॒ यद् वा॒ स्वरौ॒ स्वधि॑तौ रि॒प्तम् अस्ति॑ । यद् धस्त॑योः शमि॒तुर् यन् न॒खेषु॒ सर्वा॒ ता ते॒ अपि॑ दे॒वेष्व् अ॑स्तु ॥

यद् ऊव॑ध्यम् उ॒दर॑स्याप॒वाति॒ य आ॒मस्य॑ क्र॒विषो॑ ग॒न्धो अस्ति॑ । सु॒कृ॒ता तच् छ॑मि॒तारः॑ कृण्वन्तू॒त मेधँ॑ शृत॒पाक॑म् पचन्तु ॥

यत् ते॒ गात्रा॑द् अ॒ग्निना॑ प॒च्यमा॑नाद् अ॒भि शूलं॒ निह॑तस्याव॒धाव॑ति । मा तद् भूम्या॒म् आ श्रि॑ष॒न् मा तृणे॑षु दे॒वेभ्य॒स् तद् उ॒शद्भ्यो॑ रा॒तम् अ॑स्तु ॥

ये वा॒जिन॑म् परि॒पश्य॑न्ति प॒क्वं य ई॑म् आ॒हुः सु॑र॒भिर् निर् ह॒रेति॑ । ये चार्व॑तो माँसभि॒क्षाम् उ॒पास॑त उ॒तो तेषा॑म् अ॒भिगू॑र्तिर् न इन्वतु ॥

यन् नीक्ष॑णम् माँ॒स्पच॑न्या उ॒खाया॒ या पात्रा॑णि यू॒ष्ण आ॒सेच॑नानि । ऊ॒ष्म॒ण्या॑पि॒धाना॑ चरू॒णाम् अ॒ङ्काः सू॒नाः परि॑ भूष॒न्त्य् अश्व॑म् ॥

नि॒क्रम॑णं नि॒षद॑नं वि॒वर्त॑नं॒ यच् च॒ पड्बी॑श॒म् अर्व॑तः । यच् च॑ प॒पौ यच् च॑ घा॒सिम् ॥

ज॒घास॒ सर्वा॒ ता ते॒ अपि॑ दे॒वेष्व् अ॑स्तु ॥

मा त्वा॒ग्निर् ध्व॑नयिद् धू॒मग॑न्धि॒र् मोखा भ्राज॑न्त्य् अ॒भि वि॑क्त॒ जघ्रिः॑ । इ॒ष्टं वी॒तम् अ॒भिगू॑र्तं॒ वष॑ट्कृतं॒ तं दे॒वासः॒ प्रति॑ गृभ्ण॒न्त्य् अश्व॑म् ॥

यद् अश्वा॑य॒ वास॑ उपस्तृ॒णन्त्य् अ॑धीवा॒सं या हिर॑ण्यान्य् अस्मै । सं॒दान॒म् अर्व॑न्त॒म् पड्बी॑शम् प्रि॒या दे॒वेष्व् आ या॑मयन्ति ॥

यत् ते॑ सा॒दे मह॑सा॒ शूकृ॑तस्य॒ पार्ष्णि॑या वा॒ कश॑या ॥

वा॒ तु॒तोद॑ । स्रु॒चेव॒ ता ह॒विषो॑ अध्व॒रेषु॒ सर्वा॒ ता ते॒ ब्रह्म॑णा सूदयामि ॥

चतु॑स्त्रिँशद् वा॒जिनो॑ दे॒वब॑न्धो॒र् वङ्क्री॒र् अश्व॑स्य॒ स्वधि॑तिः॒ सम् ए॑ति । अछि॑द्रा॒ गात्रा॑ व॒युना॑ कृणोत॒ परु॑ष्परुर् अनु॒घुष्या॒ वि श॑स्त ॥

एक॒स् त्वष्टु॒र् अश्व॑स्या विश॒स्ता द्वा य॒न्तारा॑ भवत॒स् तथ॒र्तुः । या ते॒ गात्रा॑णाम् ऋतु॒था कृ॒णोमि॒ ताता॒ पिण्डा॑ना॒म् प्र जु॑होम्य् अ॒ग्नौ ॥

मा त्वा॑ तपत् ॥

प्रि॒य आ॒त्मापि॒यन्त॒म् मा स्वधि॑तिस् त॒नुव॒ आ ति॑ष्ठिपत् ते । मा ते॑ गृ॒ध्नुर् अ॑विश॒स्ताति॒हाय॑ छि॒द्रा गात्रा॑ण्य् अ॒सिना॒ मिथू॑ कः ॥

न वा उ॑व् ए॒तन् म्रि॑यसे॒ न रि॑ष्यसि दे॒वाँ इद् ए॑षि प॒थिभिः॑ सु॒गेभिः॑ । हरी॑ ते॒ युञ्जा॒ पृष॑ती अभूता॒म् उपा॑स्थाद् वा॒जी धु॑रि॒ रास॑भस्य ॥

सु॒गव्यं॑ नो वा॒जी स्वश्वि॑यम् पुँ॒सः पु॒त्राँ उ॒त वि॑श्वा॒पुषँ॑ र॒यिम् । अ॒ना॒गा॒स्त्वं नो॒ अदि॑तिः कृणोतु क्ष॒त्रं नो॒ अश्वो॑ वनताँ ह॒विष्मा॑न् ॥