नम॑स् ते रुद्र म॒न्यव॑ उ॒तो त॒ इष॑वे॒ नमः॑ । नम॑स् ते अस्तु॒ धन्व॑ने बा॒हुभ्या॑म् उ॒त ते॒ नमः॑ ॥

या त॒ इषुः॑ शि॒वत॑मा शि॒वम् ब॒भूव॑ ते॒ धनुः॑ । शि॒वा श॑र॒व्या॑ या तव॒ तया॑ नो रुद्र मृडय ॥

या ते॑ रुद्र शि॒वा त॒नूर् अघो॒रापा॑पकाशिनी । तया॑ नस् त॒नुवा॒ शंत॑मया॒ गिरि॑शन्ता॒भि चा॑कशीहि ॥

याम् इषुं॑ गिरिशन्त॒ हस्ते॑ ॥

बिभ॒र्ष्य् अस्त॑वे । शि॒वां गि॑रित्र॒ तां कु॑रु॒ मा हिँ॑सीः॒ पुरु॑षं॒ जग॑त् ॥

शि॒वेन॒ वच॑सा त्वा॒ गिरि॒शाछा॑ वदामसि । यथा॑ नः॒ सर्व॒म् इज् जग॑द् अय॒क्ष्मँ सु॒मना॒ अस॑त् ॥

अध्य् अ॑वोचद् अधिव॒क्ता प्र॑थ॒मो दैव्यो॑ भि॒षक् । अ॒हीँश् च॒ सर्वा॑ञ् ज॒म्भय॒न्त् सर्वा॑श् च यातु धा॒न्यः॑ ॥

अ॒सौ यस् ता॒म्रो अ॑रु॒ण उ॒त ब॒भ्रुः सु॑म॒ङ्गलः॑ । ये चे॒माँ रु॒द्रा अ॒भितो॑ दि॒क्षु ॥

श्रि॒ताः स॑हस्र॒शोऽवै॑षाँ॒ हेड॑ ईमहे ॥

अ॒सौ योऽव॒सर्प॑ति॒ नील॑ग्रीवो॒ विलो॑हितः । उ॒तैनं॑ गो॒पा अ॑दृश॒न्न् अदृ॑शन्न् उदहा॒र्यः॑ । उ॒तैनं॒ विश्वा॑ भू॒तानि॒ स दृ॒ष्टो मृ॑डयाति नः ॥

नमो॑ अस्तु॒ नील॑ग्रीवाय सहस्रा॒क्षाय॑ मी॒डुषे॑ । अथो॒ ये अ॑स्य॒ सत्वा॑नो॒ऽहं तेभ्यो॑ऽकरं॒ नमः॑ ॥

प्र मु॑ञ्च॒ धन्व॑न॒स् त्वम् उ॒भयो॒र् आर्त्नि॑यो॒र् ज्याम् । याश् च॑ ते॒ हस्त॒ इष॑वः ॥

परा॒ ता भ॑गवो वप ॥

अ॒व॒तत्य॒ धनु॒स् त्वँ सह॑स्राक्ष॒ शते॑षुधे । नि॒शीर्य॑ श॒ल्याना॒म् मुखा॑ शि॒वो नः॑ सु॒मना॑ भव ॥

विज्यं॒ धनुः॑ कप॒र्दिनो॒ विश॑ल्यो॒ बाण॑वाँ उ॒त । अने॑शन्न् अ॒स्येष॑व आ॒भुर् अ॑स्य निष॒ङ्गथिः॑ ॥

या ते॑ हे॒तिर् मी॑ढुष्टम॒ हस्ते॑ ब॒भूव॑ ते॒ धनुः॑ । तया॒स्मान् वि॒श्वत॒स् त्वम् अ॑यक्ष॒मया॒ परि॑ भुज ॥

नम॑स् ते अ॒स्त्व् आयु॑धा॒याना॑तताय धृ॒ष्णवे॑ । उ॒भाभ्या॑म् उ॒त ते॒ नमो॑ बा॒हुभ्यां॒ तव॒ धन्व॑ने ॥

परि॑ ते॒ धन्व॑नो हे॒तिर् अ॒स्मान् वृ॑णक्तु वि॒श्वतः॑ । अथो॒ य इ॑षु॒धिस् तवा॒रे अ॒स्मन् नि धे॑हि॒ तम् ॥

नमो॒ हिर॑ण्यबाहवे सेना॒न्ये॑ दि॒शां च॒ पत॑ये॒ नम॑स् \

नमो॑ वृ॒क्षेभ्यो॒ हरि॑केशेभ्यः पशू॒नाम् पत॑ये॒ नम॑स् \

नमः॑ स॒स्पिञ्ज॑राय॒ त्विषी॑मते पथी॒नाम् पत॑ये॒ नम॑स् \

नमो॑ बभ्लु॒शाय॑ विव्या॒धिनेऽन्ना॑ना॒म् पत॑ये॒ नम॑स् \

नमो॒ हरि॑केशायोपवी॒तिने॑ पु॒ष्टाना॒म् पत॑ये॒ नम॑स् \

नमो॑ भ॒वस्य॑ हे॒त्यै जग॑ता॒म् पत॑ये॒ नम॑स् \

नमो॑ रु॒द्राया॑तताविने॒ क्षेत्रा॑णा॒म् पत॑ये॒ नम॑स् \

नमः॑ सू॒तायाह॑न्त्याय॒ वना॑ना॒म् पत॑ये॒ नम॑स् \

नमः॑ ॥

रोहि॑ताय स्थ॒पत॑ये वृ॒क्षाणा॒म् पत॑ये॒ नम॑स् \

नमो॑ म॒न्त्रिणे॑ वाणि॒जाय॒ कक्षा॑णा॒म् पत॑ये॒ नम॑स् \

नमो॑ भुव॒न्तये॑ वारिवस्कृ॒तायौष॑धीना॒म् पत॑ये॒ नम॑स् \

नम॑ उ॒च्चैर्घो॑षायाक्र॒न्दय॑ते पत्ती॒नाम् पत॑ये॒ नम॑स् \

नमः॑ कृत्स्नवी॒ताय॒ धाव॑ते॒ सत्व॑ना॒म् पत॑ये॒ नमः॑ ॥

नमः॒ सह॑मानाय निव्या॒धिन॑ आव्या॒धिनी॑ना॒म् पत॑ये॒ नम॑स् \

नमः॑ ककु॒भाय॑ निष॒ङ्गिणे॑ स्ते॒नाना॒म् पत॑ये॒ नम॑स् \

नमो॑ निष॒ङ्गिण॑ एषुधि॒मते॒ तस्क॑राणा॒म् पत॑ये॒ नम॑स् \

नमो॒ वञ्च॑ते परि॒वञ्च॑ते स्तायू॒नाम् पत॑ये॒ नम॑स् \

नमो॑ निचे॒रवे॑ परिच॒रायार॑ण्याना॒म् पत॑ये॒ नम॑स् \

नमः॑ सृका॒विभ्यो॒ जिघाँ॑सद्भ्यो मुष्ण॒ताम् पत॑ये॒ नम॑स् \

नमो॑ऽसि॒मद्भ्यो॑ ञक्तं॒ चर॑द्भ्यः प्रकृ॒न्ताना॒म् पत॑ये॒ नम॑स् \

नम॑ उष्णी॒षिणे॑ गिरिच॒राय॑ कुलु॒ञ्चाना॒म् पत॑ये॒ नम॑स् \

नमः॑ ॥

इषु॑मद्भ्यो धन्वा॒विभ्य॑श् च वो॒ नम॑स् \

नम॑ आतन्वा॒नेभ्यः॑ प्रति॒दधा॑नेभ्यश् च वो॒ नम॑स् \

नम॑ आ॒यछ॑द्भ्यो विसृ॒जद्भ्य॑श् च वो॒ नम॑स् \

नमोऽस्य॑द्भ्यो॒ विध्य॑द्भ्यश् च वो॒ नम॑स् \

नम॒ आसी॑नेभ्यः॒ शया॑नेभ्यश् च वो॒ नम॑स् \

नमः॑ स्व॒पद्भ्यो॒ जाग्र॑द्भ्यश् च वो॒ नम॑स् \

नम॒स् तिष्ठ॑द्भ्यो॒ धाव॑द्भ्यश् च वो॒ नम॑स् \

नमः॑ स॒भाभ्यः॑ स॒भाप॑तिभ्यश् च वो॒ नम॑स् \

नमो॒ अश्वे॒भ्योऽश्व॑पतिभ्यश् च वो॒ नमः॑ ॥

नम॑ आव्या॒धिनी॑भ्यो वि॒विध्य॑न्तीभ्यश् च वो॒ नम॑स् \

नम॒ उग॑णाभ्यस् तृँहतीभ्यश् च वो॒ नम॑स् \

नमो॑ गृ॒त्सेभ्यो॑ गृ॒त्सप॑तिभ्यश् च वो॒ नम॑स् \

नमो॒ व्राते॑भ्यो॒ व्रात॑पतिभ्यश् च वो॒ नम॑स् \

नमो॑ ग॒णेभ्यो॑ ग॒णप॑तिभ्यश् च वो॒ नम॑स् \

नमो॒ विरू॑पेभ्यो वि॒श्वरू॑पेभ्यश् च वो॒ नम॑स् \

नमो॑ म॒हद्भ्यः॑ क्षुल्ल॒केभ्य॑श् च वो॒ नम॑स् \

नमो॑ र॒थिभ्यो॑ऽर॒थेभ्य॑श् च वो॒ नम॑स् \

नमो॒ रथे॑भ्यः ॥

रथ॑पतिभ्यश् च वो॒ नम॑स् \

नमः॒ सेना॑भ्यः सेना॒निभ्य॑श् च वो॒ नम॑स् \

नमः॑ क्ष॒त्तृभ्यः॑ संग्रही॒तृभ्य॑श् च वो॒ नम॑स् \

नम॒स् तक्ष॑भ्यो रथका॒रेभ्य॑श् च वो॒ नम॑स् \

नमः॒ कुला॑लेभ्यः क॒र्मारे॑भ्यश् च वो॒ नम॑स् \

नमः॑ पु॒ञ्जिष्टे॑भ्यो निषा॒देभ्य॑श् च वो॒ नम॑स् \

नम॑ इषु॒कृद्भ्यो॑ धन्व॒कृद्भ्य॑श् च वो॒ नम॑स् \

नमो॑ मृग॒युभ्यः॑ श्व॒निभ्य॑श् च वो॒ नम॑स् \

नमः॒ श्वभ्यः॒ श्वप॑तिभ्यश् च वो॒ नमः॑ ॥

नमो॑ भ॒वाय॑ च रु॒द्राय॑ च॒

नमः॑ श॒र्वाय॑ च पशु॒पत॑ये च॒

नमो॒ नील॑ग्रीवाय च शिति॒कण्ठा॑य च॒

नमः॑ कप॒र्दिने॑ च॒ व्यु॑प्तकेशाय च॒

नमः॑ सहस्रा॒क्षाय॑ च श॒तध॑न्वने च॒

नमो॑ गिरि॒शाय॑ च शिपिवि॒ष्टाय॑ च॒

नमो॑ मी॒ढुष्ट॑माय॒ चेषु॑मते च॒

नमो॑ ह्र॒स्वाय॑ च वाम॒नाय॑ च॒

नमो॑ बृह॒ते च॒ वर्षी॑यसे च॒

नमो॑ वृ॒द्धाय॑ च सं॒वृध्व॑ने च ॥

नमो॒ अग्रि॑याय च प्रथ॒माय॑ च॒

नम॑ आ॒शवे॑ चाजि॒राय॑ च॒

नमः॒ शीघ्रि॑याय च॒ शीभ्या॑य च॒

नम॑ ऊ॒र्म्या॑य चावस्व॒न्या॑य च॒

नमः॑ स्रोत॒स्या॑य च॒ द्वीप्या॑य च ॥

नमो॑ ज्ये॒ष्ठाय॑ च कनि॒ष्ठाय॑ च॒

नमः॑ पूर्व॒जाय॑ चापर॒जाय॑ च॒

नमो॑ मध्य॒माय॑ चापग॒ल्भाय॑ च॒

नमो॑ जघ॒न्या॑य च॒ बुध्नि॑याय च॒

नमः॑ सो॒भ्या॑य च प्रतिस॒र्या॑य च॒

नमो॒ याम्या॑य च॒ क्षेम्या॑य च॒

नम॑ उर्व॒र्या॑य च॒ खल्या॑य च॒

नमः॒ श्लोक्या॑य चावसा॒न्या॑य च॒

नमो॒ वन्या॑य च॒ कक्ष्या॑य च॒

नमः॑ श्र॒वाय॑ च प्रतिश्र॒वाय॑ च ॥

नम॑ आ॒शुषे॑णाय चा॒शुर॑थाय च॒

नमः॑ शूराय चावभिन्द॒ते च॒

नमो॑ व॒र्मिणे॑ च वरू॒थिने॑ च॒

नमो॑ बि॒ल्मिने॑ च कव॒चिने॑ च॒

नमः॑ श्रु॒ताय॑ च श्रुतसे॒नाय॑ च ॥

नमो॑ दुन्दु॒भ्या॑य चाहन॒व्या॑य च॒

नमो॑ धृ॒ष्णवे॑ च प्रमृ॒शाय॑ च॒

नमो॑ दू॒ताय॑ च॒ प्रहि॑ताय च॒

नमो॑ निष॒ङ्गिणे॑ चेषुधि॒मते॑ च॒

नम॑स् ती॒क्ष्णेष॑वे चायु॒धिने॑ च॒

नमः॑ स्वायु॒धाय॑ च सु॒धन्व॑ने च॒

नमः॒ स्रुत्या॑य च॒ पथ्या॑य च॒

नमः॑ का॒ट्या॑य च नी॒प्या॑य च॒

नमः॒ सूद्या॑य च सर॒स्या॑य च॒

नमो॑ ना॒द्याय॑ च वैश॒न्ताय॑ च ॥

नमः॒ कूप्या॑य चाव॒ट्या॑य च॒

नमो॒ वर्ष्या॑य चाव॒र्ष्याय॑ च॒

नमो॑ मे॒घ्या॑य च विद्यु॒त्या॑य च॒

नम॑ ई॒ध्रिया॑य चात॒प्या॑य च॒

नमो॒ वात्या॑य च॒ रेष्मि॑याय च॒

नमो॑ वास्त॒व्या॑य च वास्तु॒पाय॑ च ॥

नमः॒ सोमा॑य च रु॒द्राय॑ च॒

नम॑स् ता॒म्राय॑ चारु॒णाय॑ च॒

नमः॑ शं॒गाय॑ च पशु॒पत॑ये च॒

नम॑ उ॒ग्राय॑ च भी॒माय॑ च॒

नमो॑ अग्रेव॒धाय॑ च दूरेव॒धाय॑ च॒

नमो॑ ह॒न्त्रे च॒ हनी॑यसे च॒

नमो॑ वृ॒क्षेभ्यो॒ हरि॑केशेभ्यस् \

नम॑स् ता॒राय॒

नमः॑ श॒म्भवे॑ च मयो॒भवे॑ च॒

नमः॑ शंक॒राय॑ च मयस्क॒राय॑ च॒

नमः॑ शि॒वाय॑ च शि॒वत॑राय च ॥

नम॒स् तीर्थ्या॑य च॒ कूल्या॑य च॒

नमः॑ पा॒र्या॑य चावा॒र्त्या॑य च॒

नमः॑ प्र॒तर॑णाय चो॒त्तर॑णाय च॒

नम॑ आता॒र्या॑य चाला॒ट्या॑य च॒

नमः॒ शष्प्या॑य च॒ फेन्या॑य च॒

नमः॑ सिक॒त्या॑य च प्रवा॒ह्या॑य च ॥

नम॑ इरि॒ण्या॑य च प्रप॒थ्या॑य च॒

नमः॑ किँशि॒लाय॑ च॒ क्षय॑णाय च॒

नमः॑ कप॒र्दिने॑ च पुल॒स्तये॑ च॒

नमो॒ गोष्ठ्या॑य च॒ गृह्या॑य च॒

नम॒स् तल्प्या॑य च॒ गेह्या॑य च॒

नमः॑ का॒ट्या॑य च गह्वरे॒ष्ठाय॑ च॒

नमो॑ ह्रद॒य्या॑य च निवे॒ष्य्या॑य च॒

नमः॑ पाँस॒व्या॑य च रज॒स्या॑य च॒

नमः॒ शुष्क्या॑य च हरि॒त्या॑य च॒

नमो॒ लोप्या॑य चोल॒प्या॑य च ॥

नम॑ ऊ॒र्व्या॑य च सू॒र्म्या॑य च॒

नमः॑ प॒र्ण्या॑य च पर्णश॒द्या॑य च॒

नमो॑ऽपगु॒रमा॑णाय चाभिघ्न॒ते च॒

नम॑ आक्खिद॒ते च॑ प्रक्खिद॒ते च॒

नमो॑ वः किरि॒केभ्यो॑ दे॒वानाँ॒ हृद॑येभ्यस् \

नमो॑ विक्षीण॒केभ्य॑स् \

नमो॑ विचिन्व॒त्केभ्य॑स् \

नम॑ आनिर्ह॒तेभ्य॑स् \

नम॑ आमीव॒त्केभ्यः॑ ॥

द्रापे॒ अन्ध॑सस् पते॒ दरि॑द्र॒न् नील॑लोहित । ए॒षाम् पुरु॑षाणाम् ए॒षाम् प॑शू॒नाम् मा भेर् मारो॒ मो ए॑षां॒ किं च॒नाम॑मत् ॥

या ते॑ रुद्र शि॒वा त॒नूः शि॒वा वि॒श्वाह॑भेषजी । शि॒वा रु॒द्रस्य॑ भेष॒जी तया॑ नो मृड जी॒वसे॑ ॥

इ॒माँ रु॒द्राय॑ त॒वसे॑ कप॒र्दिने॑ क्ष॒यद्वी॑राय॒ प्र भ॑रामहे म॒तिम् । यथा॑ नः॒ शम् अस॑द् द्वि॒पदे॒ चतु॑ष्पदे॒ विश्व॑म् पु॒ष्टम् ग्रा॒मे अ॒स्मिन् ॥

अना॑तुरम् ॥

मृ॒डा नो॑ रु॒द्रोत नो॒ मय॑स् कृधि क्ष॒यद्वी॑राय॒ नम॑सा विधेम ते । यच् छं च॒ योश् च॒ मनु॑र् आय॒जे पि॒ता तद् अ॑श्याम॒ तव॑ रुद्र॒ प्रणी॑तौ ॥

मा नो॑ म॒हान्त॑म् उ॒त मा नो॑ अर्भ॒कम् मा न॒ उक्ष॑न्तम् उ॒त मा न॑ उक्षि॒तम् । मा नो॑ वधीः पि॒तर॒म् मोत मा॒तर॑म् प्रि॒या मा न॑स् त॒नुवः॑ ॥

रु॒द्र॒ री॒रि॒षः॒ ॥

मा न॑स् तो॒के तन॑ये॒ मा न॒ आयु॑षि॒ मा नो॒ गोषु॒ मा नो॒ अश्वे॑षु रीरिषः । वी॒रान् मा नो॑ रुद्र भामि॒तो व॑धीर् ह॒विष्म॑न्तो॒ नम॑सा विधेम ते ॥

आ॒रात् ते॑ गो॒घ्न उ॒त पू॑रुष॒घ्ने क्ष॒यद्वी॑राय सु॒म्नम् अ॒स्मे ते॑ अस्तु । रक्षा॑ च नो॒ अधि॑ च देव ब्रू॒ह्य् अधा॑ च नः॒ शर्म॑ यछ द्वि॒बर्हाः॑ ॥

स्तु॒हि ॥

श्रु॒तं॒ ग॒र्त॒सदं॒ युवा॑नम् मृ॒गं न भी॒मम् उ॑पह॒त्नुम् उ॒ग्रम् । मृ॒डा ज॑रि॒त्रे रु॑द्र॒ स्तवा॑नो अ॒न्यं ते॑ अ॒स्मन् नि व॑पन्तु॒ सेनाः॑ ॥

परि॑ णो रु॒द्रस्य॑ हे॒तिर् वृ॑णक्तु॒ परि॑ त्वे॒षस्य॑ दुर्म॒तिर् अ॑घा॒योः । अव॑ स्थि॒रा म॒घव॑द्भ्यस् तनुष्व॒ मीढ्व॑स् तो॒काय॒ तन॑याय मृडय ॥

मीडु॑ष्टम॒ शिव॑तम शि॒वो नः॑ सु॒मना॑ भव । प॒र॒मे वृ॒क्ष आयु॑धं नि॒धाय॒ कृत्तिं॒ वसा॑न॒ आ च॑र॒ पिना॑कम् ॥

बिभ्र॒द् आ ग॑हि ॥

विकि॑रिद॒ विलो॑हित॒ नम॑स् ते अस्तु भगवः । यास् ते॑ स॒हस्रँ॑ हे॒तयो॒ऽन्यम् अ॒स्मन् नि व॑पन्तु॒ ताः ॥

स॒हस्रा॑णि सहस्र॒धाः बा॑हु॒वोस् तव॑ हे॒तयः॑ । तासा॒म् ईशा॑नो भगवः परा॒चीना॒ मुखा॑ कृधि ॥

स॒हस्रा॑णि सहस्र॒शो ये रु॒द्रा अधि॒ भूम्या॑म् । तेषाँ॑ सहस्रयोज॒नेऽव॒ धन्वा॑नि तन्मसि ॥

अ॒स्मिन् म॑ह॒त्य् अ॑र्ण॒वे॑ऽन्तरि॑क्षे भ॒वा अधि॑ ।

नील॑ग्रीवाः शिति॒कण्ठाः॑ श॒र्वा अ॒धः क्ष॑माच॒राः ॥

नील॑ग्रीवाः शिति॒कण्ठा॒ दिवँ॑ रु॒द्रा उप॑श्रिताः ।

ये वृ॒क्षेषु॑ स॒स्पिञ्ज॑रा॒ नील॑ग्रीवा॒ विलो॑हिताः ।

ये भू॒ताना॒म् अधि॑पतयो विशि॒खासः॑ कप॒र्दिनः॑ ।

ये अन्ने॑षु वि॒विध्य॑न्ति॒ पात्रे॑षु॒ पिब॑तो॒ जना॑न् ।

ये प॒थाम् प॑थि॒रक्ष॑य ऐलबृ॒दा य॒व्युधः॑ ।

ये ती॒र्थानि॑ ॥

प्र॒चर॑न्ति सृ॒काव॑न्तो निष॒ङ्गिणः॑ ।

य ए॒ताव॑न्तश् च॒ भूयाँ॑सश् च॒ दिशो॑ रु॒द्रा वि॑तस्थि॒रे । तेषाँ॑ सहस्रयोज॒नेऽव॒ धन्वा॑नि तन्मसि ॥

नमो॑ रु॒द्रेभ्यो॒ ये पृ॑थि॒व्यां ये॑ऽन्तरि॑क्षे॒ ये दि॒वि येषा॒म् अन्नं॒ वातो॑ व॒र्षम् इष॑व॒स् तेभ्यो॒ दश॒ प्राची॒र् दश॑ दक्षि॒णा दश॑ प्रा॒तीची॒र् दशोदी॑ची॒र् दशो॒र्ध्वास् तेभ्यो॒ नम॒स् ते नो॑ मृडयन्तु॒ ते यं द्वि॒ष्मो यश् च॑ नो॒ द्वेष्टि॒ तं वो॒ जम्भे॑ दधामि ॥