अ॒पां त्वेम॑न्त् सादयाम्य् अ॒पां त्वो॑द्मन्त् सादयाम्य् अ॒पां त्वा॒ भस्म॑न्त् सादयाम्य् अ॒पां त्वा॒ ज्योति॑षि सादयाम्य् अ॒पां त्वाय॑ने सादयामि \
अर्ण॒वे सद॑ने सीद समु॒द्रे सद॑ने सीद सलि॒ले सद॑ने सीदा॒पां क्षये॑ सीदा॒पाँ सधि॑षि सीद \
अ॒पां त्वा॒ सद॑ने सादयाम्य् अ॒पां त्वा॑ स॒धस्थे॑ सादयाम्य् अ॒पां त्वा॒ पुरी॑षे सादयाम्य् अ॒पां त्वा॒ योनौ॑ सादयाम्य् अ॒पां त्वा॒ पाथ॑सि सादयामि
गाय॒त्री छन्द॑स् त्रि॒ष्टुप् छन्दो॒ जग॑ती॒ छन्दो॑ऽनु॒ष्टुप् छन्दः॑ प॒ङ्क्तिश् छन्दः॑ ॥
अ॒यम् पु॒रो भुव॒स् तस्य॑ प्रा॒णो भौ॑वाय॒नो व॑स॒न्तः प्रा॑णाय॒नो गा॑य॒त्री वा॑स॒न्ती गा॑यत्रि॒यै गा॑य॒त्रं गा॑य॒त्राद् उ॑पाँ॒शुर् उ॑पाँ॒शोस् त्रि॒वृत् त्रि॒वृतो॑ रथंत॒रँ र॑थंत॒राद् वसि॑ष्ठ॒ ऋषिः॑ प्र॒जाप॑तिगृहीतया॒ त्वया॑ प्रा॒णं गृ॑ह्णामि प्र॒जाभ्य॑स् \
अ॒यं द॑क्षि॒णा वि॒श्वक॑र्मा॒ तस्य॒ मनो॑ वैश्वकर्म॒णं ग्री॒ष्मो मा॑न॒सस् त्रि॒ष्टुग् ग्रै॒ष्मी त्रि॒ष्टुभ॑ ऐ॒डम् ऐ॒डाद् अ॑न्तर्या॒मो॑ऽन्तर्या॒मात् प॑ञ्चद॒शः प॑ञ्चद॒शाद् बृ॒हद् बृ॒हतो॑ भ॒रद्वा॑ज॒ ऋषिः॑ प्र॒जाप॑तिगृहीतया॒ त्वया॒ मनः॑ ॥
गृ॒ह्णा॒मि॒ प्र॒जाभ्य॑स् \
अ॒यम् प॒श्चाद् वि॒श्वव्या॑चा॒स् तस्य॒ चक्षु॑र् वैश्वव्यच॒सं वर्षा॑णि चाक्षु॒षाणि॒ जग॑ती वा॒र्षी जग॑त्या॒ ऋक्ष॑म॒म् ऋक्ष॑माच् छु॒क्रः शु॒क्रात् स॑प्तद॒शः स॑प्तद॒शाद् वै॑रू॒पं वै॑रू॒पाद् वि॒श्वामि॑त्र॒ ऋषिः॑ प्र॒जाप॑तिगृहीतया॒ त्वया॒ चक्षु॑र् गृह्नामि प्र॒जाभ्य॑स् \
इ॒दम् उ॑त्त॒रात् सुव॒स् तस्य॒ श्रोत्रँ॑ सौ॒वँ श॒रच् छ्रौ॒त्र्य् अ॑नु॒ष्तूप् शा॑र॒द्य् अ॑नु॒ष्टुभः॑ स्वा॒रँ स्वा॒रान् म॒न्थी म॒न्थिन॑ एकविँ॒श ए॑कविँ॒शाद् वै॑रा॒जं वै॑रा॒जाज् ज॒मद॑ग्नि॒र् ऋषिः॑ प्र॒जाप॑तिगृहीतया ॥
त्वया॒ श्रोत्रं॑ गृह्णामि प्र॒जाभ्य॑स् \
इ॒यम् उ॒परि॑ म॒तिस् तस्यै॒ वाङ् मा॒ती हे॑म॒न्तो वा॑च्याय॒नः प॒ङ्क्तिर् है॑म॒न्ती प॒ङ्क्त्यै नि॒धन॑वन् निधन॒वत॑ आग्रय॒ण आ॑ग्रय॒णात् त्रि॑णवत्रयस्त्रिँ॒शौ त्रि॑णवत्रयस्त्रिँ॒शाभ्याँ॑ शाक्वररैव॒ते शा॑क्वररैव॒ताभ्यां॑ वि॒श्वक॒र्मर्षिः॑ प्र॒जाप॑तिगृहीतया॒ त्वया॒ वाचं॑ गृह्णामि प्र्
प्राची॑ दि॒शां व॑स॒न्त ऋ॑तू॒नाम् अ॒ग्निर् दे॒वता॒ ब्रह्म॒ द्रवि॑णं त्रि॒वृत् स्तोमः॒ स उ॑ पञ्चद॒शव॑र्तनि॒स् त्र्यवि॒र् वयः॑ कृ॒तम् अया॑नाम् पुरोवा॒तो वातः॒ सान॑ग॒ ऋषि॑स् \
द॒क्सि॒णा दि॒शां ग्री॒ष्म र्तू॒नाम् इन्द्रो॑ दे॒वता॑ क्ष॒त्रं द्रवि॑णम् पञ्चद॒श स्तोमः॒ स उ॑ सप्तदशवर्तनिर् दित्य॒वाड् वय॒स् त्रेताया॑नां दक्षिणाद्वा॒तो वातः॑ सना॒तन॒ ऋषिः॑
प्रा॒तीची॑ दि॒शां व॒र्षा ऋ॑तू॒नां विश्वे॑ दे॒वा दे॒वता॒ विट् ॥
द्रवि॑णँ सप्तद॒श स्तोमः॒ सु उ॑व् एकविँ॒शव॑र्तनिस् त्रिव॒त्सो वयो॑ द्वाप॒रोऽया॑नाम् पश्चाद्वा॒तो वातो॑ऽह॒भून॒ ऋषि॑स् \
उदि॑ची दि॒शाँ श॒रद् ऋ॑तू॒नाम् मि॒त्रावरु॑णौ दे॒वता॑ पु॒ष्टं द्रवि॑णम् एकविँ॒श स्तोमः॒ स उ॑ त्रिण॒वव॑र्तनिस् तुर्य॒वाड् वय॑ आस्क॒न्दोऽया॑नाम् उत्तराद्वा॒तो वातः॑ प्र॒त्न ऋषि॑स् \
ऊ॒र्ध्वा दि॒शाँ हे॑मन्तशिशि॒राव् ऋ॑तू॒नाम् बृह॒स्पति॑र् दे॒वता॒ वर्चो॒ द्रवि॑णं त्रिण॒व स्तोमः॒ स उ॑ त्रयस्त्रिँ॒शव॑र्तनिः पष्ठ॒वाद् वयो॑ऽभि॒भूर् अया॑नां विष्वग्वा॒तो वातः॑ सुप॒र्ण ऋषिः॑
पि॒तरः॑ पिताम॒हाः परेऽव॑रे॒ ते नः॑ पान्तु॒ ते नो॑ऽवन्त्व् अ॒स्मिन् ब्रह्म॑न्न् अ॒स्मिन् क्ष॒त्रे॑ऽस्याम् आ॑शिष्य् अ॒स्याम् पु॑रो॒धाया॑म् अ॒स्मिन् कर्म॑न्न् अ॒स्यां दे॒वहू॑त्याम् ॥
ध्रु॒वक्षि॑तिर् ध्रु॒वयो॑निर् ध्रु॒वासि॑ ध्रु॒वां योनि॒म् आ सी॑द सा॒ध्या । उख्य॑स्य के॒तुम् प्र॑थ॒मम् पु॒रस्ता॑द् अ॒श्विना॑ध्व॒र्यू सा॑दयताम् इ॒ह त्वा॑ ॥
स्वे दक्षे॒ दक्ष॑पिते॒ह सी॑द देव॒त्रा पृ॑थि॒वी बृ॑ह॒ती ररा॑णा । स्वा॒स॒स्था त॒नुवा॒ सं वि॑शस्व पि॒तेवै॑धि सू॒नव॒ आसु॒शेवा॒श्विना॑ध्व॒र्यू सा॑दयताम् इ॒ह त्वा॑ ॥
कु॒ला॒यिनी॒ वसु॑मती वयो॒धा र॒यिं नो॑ वर्ध बहु॒लँ सु॒वीर॑म् ॥
अपा॑मतिं दुर्म॒तिम् बाध॑माना रा॒यस् पोषे॑ य॒ज्ञप॑तिम् आ॒भज॑न्ती॒ सुव॑र् धेहि॒ यज॑मानाय॒ पोष॑म् अ॒श्विना॑ध्व॒र्यू सा॑दयताम् इ॒ह त्वा॑ ॥
अ॒ग्नेः पुरी॑षम् असि देव॒यानी॒ तां त्वा॒ विश्वे॑ अ॒भि गृ॑णन्तु दे॒वाः । स्तोम॑पृष्ठा घृ॒तव॑ती॒ह सी॑द प्र॒जाव॑द् अ॒स्मे द्रवि॒णाय॑जस्वा॒श्विना॑ध्व॒र्यू सा॑दयताम् इ॒ह त्वा॑ ॥
दि॒वो मू॒र्धासि॑ पृथि॒व्या नाभि॑र् वि॒ष्टम्भ॑नी दि॒शाम् अभि॑पत्नी॒ भुव॑नानाम् ॥
ऊ॒र्मिर् द्र॒प्सो अ॒पाम् अ॑सि वि॒श्वक॑र्मा त॒ ऋषि॑र् अ॒श्विना॑ध्व॒र्यू सा॑दयताम् इ॒ह त्वा॑ ॥
स॒जूर् ऋ॒तुभिः॑ स॒जूर् वि॒धाभिः॑ स॒जूर् वसु॑भिः स॒जू रु॒द्रैः स॒जूर् आ॑दि॒त्यैः स॒जूर् विश्वै॑र् दे॒वैः स॒जूर् दे॒वैः स॒जूर् दे॒वैर् व॑योना॒धैर् अ॒ग्नये॑ त्वा वैश्वान॒राया॒श्विना॑ध्व॒र्यू सा॑दयताम् इ॒ह त्वा॑
प्रा॒णम् मे॑ पाह्य् अपा॒नम् मे॑ पाहि व्या॒नम् मे॑ पाहि॒ चक्षु॑र् म उ॒र्व्या वि भा॑हि॒ श्रोत्र॑म् मे श्लोकय \
अ॒पस् पि॒न्वौष॑धीर् जिन्व द्वि॒पात् पा॑हि॒ चतु॑ष्पाद् अव दि॒वो वृष्टि॒म् एर॑य ॥
त्र्यवि॒र् वय॑स् त्रि॒ष्टुप् छन्द॑स् \
दि॒त्य॒वाड् वयो॑ वि॒राट् छन्दः॒
पञ्चा॑वि॒र् वयो॑ गाय॒त्री छन्द॑स्
त्रि॒व॒त्सो वय॑ उ॒ष्णिहा॒ छन्द॑स्
तुर्य॒वाड् वयो॑ऽनु॒ष्टुप् छन्दः॑
पष्ठ॒वाद् वयो॑ बृह॒ती छन्द॑स् \
उ॒क्षा वयः॑ स॒तोबृ॑हती॒ छन्द॑स् \
ऋ॒ष॒भो वयः॑ क॒कुच् छन्द॑स् \
धे॒नुर् वयो॒ जग॑ती॒ छन्द॑स् \
अ॒न॒ड्वान् वयः॑ प॒ङ्क्तिश् छन्द॑स् \
बस्तो॒ वयो॑ विव॒लं छन्द॑स् \
वृ॒ष्णिर् वयो॑ विशा॒लं छन्दः॒
पुरु॑षो॒ वय॑स् त॒न्द्रं छन्द॑स् \
व्या॒घ्रो वयोऽना॑धृष्टं॒ छन्दः॑
सिँ॒हो वय॒श् छनि॒द्श् छन्द॑स् \
वि॒ष्ट॒म्भो वयोऽधि॑पति॒श् छन्दः॑
क्ष॒त्रं वयो॒ मयं॑दं॒ छन्द॑स् \
वि॒श्वक॑र्मा॒ वयः॑ परमे॒ष्ठी छन्द॑स् \
मू॒र्धा वयः॑ प्र॒जाप॑ति॒श् छन्दः॑ ॥
इन्द्रा॑ग्नी॒ अव्य॑थमाना॒म् इष्ट॑कां दृँहतं यु॒वम् । पृ॒ष्ठेन॒ द्यावा॑पृथि॒वी अ॒न्तरि॑क्षं च॒ वि बा॑धताम् ॥
वि॒श्वक॑र्मा त्वा सादयत्व् अ॒न्तरि॑क्षस्य पृ॒ष्ठे व्यच॑स्वती॒म् प्रथ॑स्वती॒म् भास्व॑तीँ सूरि॒मती॒म् आ या द्याम् भास्य् आ पृ॑थि॒वीम् ओर्व् अ॑न्तरि॑क्षम् अ॒न्तरि॑क्षं यछा॒न्तरि॑क्षं दृँहा॒न्तरि॑क्ष॒म् मा हिँ॑सी॒र् विश्व॑स्मै प्रा॒णाया॑पा॒नाय॑ व्या॒नायो॑दा॒नाय॑ प्रति॒ष्ठायै॑ च॒रित्रा॑य वा॒युस् त्वा॒भि पा॑तु म॒ह्या स्व॒स्त्या छ॒र्दिषा॑ ॥
शंत॑मेन॒ तया॑ दे॒वत॑याङ्गिर॒स्वद् ध्रु॒वा सी॑द ।
राज्ञ्य् अ॑सि॒ प्राची॒ दिग् वि॒राड् अ॑सि दक्षि॒णा दिक् स॒म्राड् अ॑सिप्र॒तीची॒ दिक् स्व॒राड् अ॒स्य् उदी॑ची॒ दिग् अधि॑पत्न्य् असि बृह॒ती { दि॒क् ^ दिश् } \
आयु॑र् मे पाहि प्रा॒णम् मे॑ पाह्य् अपा॒नम् मे॑ पाहि व्या॒नम् मे॑ पाहि॒ चक्षु॑र् मे पाहि॒ श्रोत्र॑म् मे पाहि॒ मनो॑ मे जिन्व॒ वाच॑म् मे पिन्वा॒त्मान॑म् मे पाहि॒ ज्योति॑र् मे यछ ॥
मा छन्दः॑ प्र॒मा छन्दः॑ प्रति॒मा छन्दो॑ऽस्रीवि॒श् छन्दः॑ प्र॒ङ्क्तिश् छन्द॑ उ॒ष्णिहा॒ छन्दो॑ बृह॒ती छन्दो॑ऽनु॒ष्टुप् छन्दो॑ वि॒राट् छन्दो॑ गाय॒त्री छन्द॑स् त्रि॒ष्टुप् छन्दो॒ जग॑ती॒ छन्दः॑ पृथि॒वी छन्दो॒ऽन्तरि॑क्षं॒ छन्दो॒ द्यौश् छन्दः॒ समा॒श् छन्दो॒ नक्ष॑त्राणि॒ छन्दो॒ मन॒श् छन्दो॒ वाक् छन्दः॑ कृ॒षिश् छन्दो॒ हिर॑ण्यं॒ छन्दो॒ गौश् छन्दो॒ऽजा छन्दोऽश्व॒श् छन्दः॑ ।
अ॒ग्निर् दे॒वता॑ ॥
वातो॑ दे॒वता॒ सूर्यो॑ दे॒वता॑ च॒न्द्रमा॑ दे॒वता॒ वस॑वो दे॒वता॑ रु॒द्रा दे॒वता॑दि॒त्या दे॒वता॒ विश्वे॑ दे॒वा दे॒वता॑ म॒रुतो॑ दे॒वता॒ बृह॒स्पति॑र् दे॒वतेन्द्रो॑ दे॒वता॒ वरु॑णो दे॒वता॑ ।
मू॒र्धासि॒ राड् ध्रु॒वासि॑ ध॒रुणा॑ यन्त्र्य् असि॒ यमि॑त्री॒षे त्वो॒र्जे त्वा॑ कृ॒ष्यै त्वा॒ क्षेमा॑य त्वा॒ यन्त्री॒ राड् ध्रु॒वासि॒ धर॑णी ध॒र्त्र्य् अ॑सि॒ धरि॒त्र्य् आयु॑षे त्वा॒ वर्च॑से॒ त्वौज॑से त्वा॒ बला॑य त्वा ॥
आ॒शुस् त्र्वृत् \
भा॒न्तः प॑ञ्चद॒शस् \
व्यो॑म सप्तद॒शः
प्रतू॑र्तिर् अष्टाद॒शस्
तपो॑ नवद॒शस् \
अ॒भि॒व॒र्तः स॑विँ॒शस् \
ध॒रुण॑ एकविँ॒शस् \
वर्चो॑ द्वाविँ॒शः
स॒म्भर॑णस् त्रयोविँ॒शस् \
योनि॑श् चतुर्विँ॒शस् \
गर्भाः॑ पञ्चविँ॒शस् \
ओज॑स् त्रिण॒वः
क्रतु॑र् एकत्रिँ॒शः
प्र॒ति॒ष्ठा त्र॑यस्त्रिँ॒शस् \
ब्र॒ध्नस्य॑ वि॒ष्टपं॑ चतुस्त्रिँ॒शस् \
नाकः॑ षट्त्रिँ॒शस् \
वि॒व॒र्तो॑ऽष्टाचत्वारिँ॒शस् \
ध॒र्त्रश् च॑तुष्टो॒मः ॥
अ॒ग्नेर् भा॒गो॑ऽसि दी॒क्षाया॒ आधि॑पत्य॒म् ब्रह्म॑ स्पृ॒तं तृ॒वृत् स्तोम॑स् \
इन्द्र॑स्य भा॒गो॑ऽसि॒ विष्णो॒र् आधि॑पत्यं क्ष॒त्रँ स्पृ॒तम् प॑ञ्चद॒श स्तोम॑स् \
नृ॒चक्ष॑साम् भा॒गो॑ऽसि धा॒तुर् आधि॑पत्यं ज॒नित्रँ॑ स्पृ॒तँ स॑प्तद॒श स्तोम॑स् \
मि॒त्रस्य॑ भा॒गो॑ऽसि॒ वरु॑ण॒स्याधि॑पत्यं दि॒वो वृ॒ष्टिर् वाता॑ स्पृ॒ता ए॑कविँ॒श स्तो॒मस् \
अदि॑त्यै भा॒गो॑ऽसि पू॒ष्ण आधि॑पत्य॒म् ओज॑ स्पृ॒तं त्रि॑ण॒व स्तोम॑स् \
वसू॑नाम् भा॒गो॑ऽसि ॥
रु॒द्राणा॒म् आधि॑पत्यं॒ चतु॑ष्पात् स्पृ॒तं च॑तुर्विँ॒श स्तोम॑स् \
आ॒दि॒त्याना॑म् भा॒गो॑ऽसि म॒रुता॒म् आधि॑पत्यं॒ गर्भा॑ स्पृ॒ताः प॑ञ्चविँ॒श स्तोम॑स् \
दे॒वस्य॑ सवि॒तुर् भा॒गो॑ऽसि॒ बृह॒स्पते॒र् दाहि॑पत्यँ स॒मीची॒र् दिश॑ स्पृ॒ताश् च॑तुष्टो॒म स्तोम॑स् \
यावा॑नाम् भा॒गो॑ऽस्य् अया॑वाना॒म् आधि॑पत्यम् प्र॒जा स्पृ॒ताश् च॑तुश्चत्वारिँ॒श स्तोम॑स् \
ऋ॒भू॒णाम् भा॒गो॑ऽसि॒ विश्वे॑षां दे॒वाना॒म् आधि॑पत्यम् भू॒तं निशा॑न्तँ स्पृ॒तं त्र॑यस्त्रिँश॒ स्तोमः॑ ॥
एक॑यास्तुवत प्र॒जा अ॑धीयन्त प्र॒जाप॑ति॒र् अधि॑पतिर् आसीत्
ति॒सृभि॑र् अस्तुवत॒ ब्रह्मा॑सृज्यत॒ ब्रह्म॑ण॒स् पति॒र् अधि॑पतिर् आसीत्
प॒ञ्चभि॑र् अस्तुवत भू॒तान्य् अ॑सृज्यन्त भू॒ताना॒म् पति॒र् अधि॑पतिर् आसीत्
स॒प्तभि॑र् अस्तुवत सप्त॒र्षयो॑ऽसृज्यन्त धा॒ताधि॑पतिर् आसीत् \
न॒वभि॑र् अस्तुवत पि॒तरो॑ऽसृज्य॒न्तादि॑ति॒र् अधि॑पत्न्य् आसीत् \
ए॒का॒द॒शभि॑र् अस्तुवत॒र्तवो॑ऽसृज्यन्तार्त॒वोऽधि॑पतिर् आसीत्
त्र॒यो॒द॒शभि॑र् अस्तुवत॒ मासा॑ असृज्यन्त संवत्स॒रोऽधि॑पतिः ॥
आ॒सी॒त्
प॒ञ्च॒द॒शभि॑र् अस्तुवत क्ष॒त्रम् अ॑सृज्य॒तेन्द्रोऽधि॑पतिर् आसीत्
सप्तद॒शभि॑र् अस्तुवत प॒शवो॑ऽसृज्यन्त॒ बृह॒स्पति॒र् अधि॑पतिर् आसीत् \
न॒व॒द॒शभि॑र् अस्तुवत शूद्रा॒र्याव् अ॑सृज्येताम् अहोरा॒त्रे अधि॑पत्नी आस्ता॒म्
एक॑विँशत्यास्तुव॒तैक॑शफाः प॒शवो॑ऽर्ष्ज्यन्त॒ वरु॒णोऽधि॑पतिर् आसीत्
त्रयो॑विँशत्यास्तुवत क्षु॒द्राः प॒शवो॑ऽसृज्यन्त॒ पूषाधि॑पतिर् आसी॒त्
पञ्च॑विँशत्यास्तुवतार॒ण्याः प॒शवो॑ऽसृज्यन्त वा॒युर् अधि॑पतिर् आसीत्
स॒प्तविँ॑शत्यास्तुवत॒ द्यावा॑पृथि॒वी वि ॥
ऐ॒तां॒ वस॑वो रु॒द्रा आ॑दि॒त्या अनु॑ व्य् आ॑य॒न् तेषा॒म् आधि॑पत्यम् आसीत् \
नव॑विँशत्यास्तुवत॒ वन॒स्पत॑योऽसृज्यन्त॒ सोमोऽधि॑पतिर् आसीत् \
एक॑त्रिँशतास्तुवत प्र॒जा अ॑सृज्यन्त॒ यावा॑नां॒ चाया॑वानां॒ चाधि॑पत्यम् आसीत्
त्रय॑स्त्रिँशतास्तुवत भू॒तान्य् अ॑शाम्यन् प्र॒जाप॑तिः परमे॒ष्ठ्य् अधि॑पतिर् आसीत् ॥
इ॒यम् ए॒व सा या प्र॑थ॒मा व्यौछ॑द् अ॒न्तर् अ॒स्यां च॑रति॒ प्रवि॑ष्टा । व॒धूर् ज॑जान नव॒गज् जनि॑त्री॒ त्रय॑ एनाम् महि॒मानः॑ सचन्ते ॥
छन्द॑स्वती उ॒षसा॒ पेपि॑शाने समा॒नं योनि॒म् अनु॑ सं॒चर॑त्नी । सूर्य॑पत्नी॒ वि च॑रतः प्रजान॒ती के॒तुं कृ॑ण्वा॒ने अ॒जरे॒ भूरि॑रेतसा ॥
ऋ॒तस्य॒ पन्था॒म् अनु॑ ति॒स्र आगु॒स् त्रयो॑ घ॒र्मासो॒ अनु॒ योति॒षागुः॑ । प्र॒जाम् एका॒ रक्ष॒त्य् ऊर्ज॒म् एका॑ ॥
व्र॒तम् एका॑ रक्षति देवयू॒नाम् ॥
च॒तु॒ष्टो॒मो अ॑भव॒द् या तु॒रीया॑ य॒ज्ञस्य॑ प॒क्षाव् ऋ॑षयो॒ भव॑न्ती । गा॒य॒त्रीं त्रि॒ष्टुभं॒ जग॑तीम् अनु॒ष्टुभ॑म् बृ॒हद् अ॒र्कं यु॑ञ्जा॒नाः सुव॒र् आभ॑रन्न् इ॒दम् ॥
प॒ञ्चभि॑र् धा॒ता वि द॑धाव् इ॒दं यत् तासाँ॒ स्वस्र्??र् अ॑जनय॒त् पञ्च॑पञ्च । तासा॑म् उ यन्ति प्रय॒वेण॒ पञ्च॒ नाना॑ रू॒पाणि॒ क्रत॑वो॒ वसा॑नाः ॥
त्रिँ॒शत् स्वसा॑र॒ उप॑ यन्ति निष्कृ॒तँ स॑मा॒नं के॒तुम् प्रति॑मु॒ञ्चमा॑नाः ॥
ऋ॒तूँस् त॑न्वते क॒वयः॑ प्रजान॒तीर् मध्ये॑छन्दसः॒ परि॑ यन्ति॒ भास्व॑तीः ॥
ज्योति॑ष्मती॒ प्रति॑ मुञ्चते॒ नभो॒ रात्री॑ दे॒वी सूर्य॑स्य व्र॒तानि॑ । वि प॑श्यन्ति प॒शवो॒ जाय॑माना॒ नाना॑रूपा मा॒तुर् अ॑स्या उ॒पस्थे॑ ॥
ए॒का॒ष्ट॒का तप॑सा॒ तप्य॑माना ज॒जान॒ गर्भ॑म् महि॒मान॒म् इन्द्र॑म् । तेन॒ दस्यू॒न् व्य् अ॑सहन्त दे॒वा ह॒न्तासु॑राणाम् अभव॒च् छची॑भिः ॥
अना॑नुजाम् अनु॒जाम् माम् अ॑कर्त स॒त्यं वद॒न्त्य् अन्व् इ॑छ ए॒तत् । भू॒यास॑म् ॥
अ॒स्य॒ सु॒म॒तौ यथा॑ यू॒यम् अ॒न्या वो॑ अ॒न्याम् अति॒ मा प्र यु॑क्त ॥
अभू॒न् मम॑ सुम॒तौ वि॒श्ववे॑दा॒ आष्ट॑ प्रति॒ष्ठाम् अवि॑द॒द् धि गा॒धम् । भू॒यास॑म् अस्य सुम॒तौ यथा॑ यू॒यम् अ॒न्या वो॑ अ॒न्याम् अति॒ मा प्र यु॑क्त ॥
पञ्च॒ व्यु॑ष्टी॒र् अनु॒ पञ्च॒ दोहा॒ गाम् पञ्च॑नाम्नीम् ऋ॒तवोऽनु॒ पञ्च॑ । पञ्च॒ दिशः॑ पञ्चद॒शेन॑ कॢ॒प्ताः स॑मा॒नमू॑र्ध्नीर् अ॒भि लो॒कम् एक॑म् ॥
ऋ॒तस्य॒ गर्भः॑ प्रथ॒मा व्यू॒षुष्य् अ॒पाम् एका॑ महि॒मान॑म् बिभर्ति । सूर्य॒स्यैका॒ चर॑ति निष्कृ॒तेषु॑ घ॒र्मस्यैका॑ सवि॒तैकां॒ नि य॑छति ॥
या प्र॑थ॒मा व्यौछ॒त् सा धे॒नुर् अ॑भवद् य॒मे । सा नः॒ पय॑स्वती धु॒क्ष्वोत्त॑रामुत्तराँ॒ समा॑म् ॥
शु॒क्रर्ष॑भा॒ नभ॑सा॒ ज्योति॒षागा॑द् वि॒श्वरू॑पा शब॒लीर् अ॒ग्निके॑तुः । स॒मा॒नम् अर्थँ॑ स्वप॒स्यमा॑ना॒ बिभ्र॑ती ज॒राम् अ॑जर उष॒ आगाः॑ ॥
ऋ॒तू॒नाम् पत्नी॑ प्रथ॒मेयम् आगा॒द् अह्नां॑ ने॒त्री ज॑नि॒त्री प्र॒जाना॑म् । एका॑ स॒ती ब॑हु॒धोषो॒ व्य् उ॑छ॒स्य् अजी॑र्णा॒ त्वं ज॑रयसि॒ सर्व॑म् अ॒न्यत् ॥
अग्ने॑ जा॒तान् प्र णु॑दा नः स॒पत्ना॒न् प्रत्य् अजा॑ताञ् जातवेदो नुदस्व । अ॒स्मे दी॑दिहि सु॒मना॒ अहे॑ड॒न् तव॑ स्याँ॒ शर्म॑न् त्रि॒वरू॑थ उ॒द्भित् ॥
सह॑सा जा॒तान् प्र णु॑दा नः स॒पत्ना॒न् प्रत्य् अजा॑ताञ् जातवेदो नुदस्व । अधि॑ नो ब्रूहि सुमन॒स्यमा॑नो व॒यँ स्या॑म॒ प्र णु॑दा नः स॒पत्ना॑न् ॥
च॒तु॒श्च॒त्वा॒रिँ॒श स्तोमो॒ वर्चो॒ द्रवि॑णम् \
षो॒ड॒श स्तोम॒ ओजो॒ द्रवि॑नम्
पृथि॒व्याः पुरी॑षम् असि ॥
अप्सो॒ नाम॑ ।
एव॒श् छन्दो॒ वरि॑व॒श् छन्दः॑ श॒म्भूश् छन्दः॑ परि॒भूश् छन्द॑ आ॒छच् छन्दो॒ मन॒श् छन्दो॒ व्यच॒श् छन्दः॒ सिन्धु॒श् छन्दः॑ समु॒द्रं छन्दः॑ सलि॒लं छन्दः॑ सं॒यच् छन्दो॑ वि॒यच् छन्दो॑ बृ॒हच् छन्दो॑ रथंत॒रं छन्दो॑ निका॒यश् छन्दो॑ विव॒धश् छन्दो॒ गिर॒श् छन्दो॒ भ्रज॒श् छन्दः॑ स॒ष्टुप् छन्दो॑ऽनु॒ष्टुप् छन्दः॑ क॒कुच् छन्द॑स् त्रिक॒कुच् छन्दः॑ का॒व्यं छन्दो॑ऽङ्कु॒पं छन्दः॑ ॥
प॒दप॑ङ्क्ति॒श् छन्दो॒ऽक्षर॑पङ्क्ति॒श् छन्दो॑ विष्टा॒रप॑ङ्क्ति॒श् छन्दः॑ क्षु॒रो भृज्वा॒ञ् छन्दः॑ प्र॒छच् छन्दः॑ प॒क्षश् छन्द॑ एव॒श् छन्दो॒ वरि॑व॒श् छन्दो॒ वय॒श् छन्दो॑ वय॒स्कृच् छन्दो॑ विशा॒लं छन्दो॒ विष्प॑र्धा॒श् छन्द॑श् छ॒न्दिश् छन्दो॑ दूरोह॒णं छन्द॑स् त॒न्द्रं छन्दो॑ऽङ्का॒ङ्कं छन्दः॑ ॥
अ॒ग्निर् वृ॒त्राणि॑ जङ्घनद् द्रविण॒स्युर् वि॑प॒न्यया॑ । समि॑द्धः शु॒क्र आहु॑तः ॥
त्वँ सो॑मासि॒ सत्प॑ति॒स् त्वँ राजो॒त वृ॑त्र॒हा । त्वम् भ॒द्रो अ॑सि॒ क्रतुः॑ ॥
भ॒द्रा ते॑ अग्ने स्वनीक सं॒दृग् घो॒रस्य॑ स॒तो विषु॑णस्य॒ चारुः॑ । न यत् ते॑ शो॒चिस् तम॑सा॒ वर॑न्त॒ न ध्व॒स्मान॑स् त॒नुवि॒ रेप॒ आ धुः॑ ॥
भ॒द्रं ते॑ अग्ने सहसि॒न्न् अनी॑कम् उपा॒क आ रो॑चते॒ सूर्य॑स्य ॥
रुश॑द् दृ॒शे द॑दृशे नक्त॒या चि॒द् अरू॑क्षितं दृ॒श आ रू॒पे अन्न॑म् ॥
सैनानी॑केन सुवि॒दत्रो॑ अ॒स्मे यष्टा॑ दे॒वाँ आय॑जिष्ठः स्व॒स्ति । अद॑ब्धो गो॒पा उ॒त नः॑ पर॒स्पा अग्ने॑ द्यु॒मद् उ॒त रे॒वद् दि॑दीहि ॥
स्व॒स्ति नो॑ दि॒वो अ॑ग्ने पृथि॒व्या वि॒श्वायु॑र् धेहि य॒जथा॑य देव । यत् सी॒महि॑ दिविजात॒ प्रश॑स्तं॒ तद् अ॒स्मासु॒ द्रवि॑णं धेहि चि॒त्रम् ॥
यथा॑ होत॒र् मनु॑षः ॥
दे॒वता॑ता य॒ज्ञेभिः॑ सूनो सहसो॒ यजा॑सि । ए॒वानो॑ अ॒द्य स॑म॒ना स॑मा॒नान् उ॒शन्न् अ॑ग्न उश॒तो य॑क्षि दे॒वान् ॥
अ॒ग्निम् ई॑डे पु॒रोहि॑तं य॒ज्ञस्य॑ दे॒वम् ऋ॒त्विज॑म् । होता॑रँ रत्न॒धात॑मम् ॥
वृषा॑ सोम द्यु॒माँ अ॑सि वृषा देव॒ वृष॑व्रतः । वृषा॒ धर्मा॑णि दधिषे ॥
सांत॑पना इ॒दँ ह॒विर् मरु॑त॒स् तज् जु॑जुष्टन । यु॒ष्माको॒ती रि॑शादसः ॥
यो नो॒ मर्तो॑ वसवो दुर्हृणा॒युस् ति॒रः स॒त्यानि॑ मरुतः ॥
जिघाँ॑सात् । द्रु॒हः पाश॒म् प्रति॒ स मु॑चीष्ट॒ तपि॑ष्ठेन॒ तप॑सा हन्तना॒ तम् ॥
सं॒व॒त्स॒रीणा॑ म॒रुतः॑ स्व॒र्का उ॑रु॒क्षयाः॒ सग॑णा॒ मानु॑षेषु । ते॑ऽस्मत् पाशा॒न् प्र मु॑ञ्च॒न्त्व् अँह॑सः सांतप॒ना म॑दि॒रा मा॑दयि॒ष्णवः॑ ॥
पि॒प्री॒हि दे॒वाँ उ॑श॒तो य॑विष्ठ वि॒द्वाँ ऋ॒तूँर् ऋ॑तुपते यजे॒ह । ये दैव्या॑ ऋ॒त्विज॒स् तेभि॑र् अग्ने॒ त्वँ होतृ॑णाम् अ॒स्य् आय॑जिष्ठः ॥
अग्ने॒ यद् अ॒द्य वि॒शो अ॑ध्वरस्य होतः॒ पाव॑क ॥
शो॒चे॒ वेष् ट्वँ हि यज्वा॑ । ऋ॒ता य॑जासि महि॒ना वि यद् भूर् ह॒व्या व॑ह यविष्ठ॒ या ते॑ अ॒द्य ॥
अ॒ग्निना॑ र॒यिम् अ॑श्नव॒त् पोष॑म् ए॒व दि॒वेदि॑वे । य॒शसं॑ वी॒रव॑त्तमम् ॥
ग॒य॒स्फानो॑ अमीव॒हा व॑सु॒वित् पु॑ष्टि॒वर्ध॑नः । सु॒मि॒त्रः सो॑म नो भव ॥
गृह॑मेधास॒ आ ग॑त॒ मरु॑तो॒ माप॑ भूतन । प्र॒मु॒ञ्चन्तो॑ नो॒ अँह॑सः ॥
पू॒र्वीभि॒र् हि द॑दाशि॒म श॒रद्भि॑र् मरुतो व॒यम् । महो॑भिः ॥
च॒र्ष॒णी॒नाम् ॥
प्र बु॒ध्निया॑ ईरते वो॒ महाँ॑सि॒ प्र णामा॑नि प्रयज्यवस् तिरध्वम् । स॒ह॒स्रियं॒ दम्य॑म् भा॒गम् ए॒तं गृ॑हमे॒धीय॑म् मरुतो जुषध्वम् ॥
उप॒ यम् एति॑ युव॒तिः सु॒दक्षं॑ दो॒षा वस्तो॑र् ह॒विष्म॑ती घृ॒ताची॑ । उप॒ स्वैन॑म् अ॒रम॑तिर् वसू॒युः ॥
इ॒मो अ॑ग्ने वी॒तत॑मानि ह॒व्याज॑स्रो वक्षि दे॒वता॑ति॒म् अछ॑ । प्रति॑ न ईँ सुर॒भीणि॑ वियन्तु
क्री॒डं वः॒ शर्धो॒ मारु॑तम् अन॒र्वाणँ॑ रथे॒शुभ॑म् ॥
कण्वा॑ अ॒भि प्र गा॑यत ॥
अत्या॑सो॒ न ये म॒रुतः॒ स्वञ्चो॑ यक्ष॒दृशो॒ न शु॒भय॑न्त॒ मर्याः॑ । ते ह॑र्म्ये॒ष्ठाः शि॑शवो॒ न शु॒भ्रा व॒त्सासो॒ न प्र॑क्री॒डिनः॑ पयो॒धाः ॥
प्रैषा॒म् अज्मे॑षु विथु॒रेव॑ रेजते॒ भूमि॒र् यामे॑षु॒ यद् ध॑ यु॒ञ्जते॑ शु॒भे । ते क्री॒डयो॒ धुन॑यो॒ भ्राज॑दृष्टयः स्व॒यम् म॑हि॒त्वम् प॑नयन्त॒ धूत॑यः ॥
उ॒प॒ह्व॒रेषु॒ यद् अचि॑ध्वं य॒यिं वय॑ इव मरुतः॒ केन॑ ॥
चि॒त् प॒था । श्चोत॑न्ति॒ कोशा॒ उप॑ वो॒ रथे॒ष्व् आ घृ॒तम् उ॑क्षता॒ मधु॑वर्ण॒म् अर्च॑ते ॥
अ॒ग्निम॑ग्निँ॒ हवी॑मभिः॒ सदा॑ हवन्त वि॒श्पति॑म् । ह॒व्य॒वाह॑म् पुरुप्रि॒यम् ॥
तँ हि शश्व॑न्त॒ ईड॑ते स्रु॒चा दे॒वं घृ॑त॒श्चुता॑ । अ॒ग्निँ ह॒व्याय॒ वोढ॑वे ॥
इन्द्रा॑ग्नी रोच॒ना दि॒वः
श्नथ॑द् वृ॒त्रम्
इन्द्रं॑ वो वि॒श्वत॒स् परि॒ \
इन्द्रं॒ नर॑स् \
विश्व॑कर्मन् ह॒विषा॑ वावृधा॒नस् \
विश्व॑कर्मन् ह॒विषा॒ वर्ध॑नेन ॥