विष्णोः॒ क्रमो॑ऽस्य् अभिमाति॒हा गा॑य॒त्रं छन्द॒ आ रो॑ह पृथि॒वीम् अनु॒ वि क्र॑मस्व॒ निर्भ॑क्तः॒ स यं द्वि॒ष्मो विष्णोः॒ क्रमो॑ऽस्य् अभिशस्ति॒हा त्रैष्टु॑भं॒ छन्द॒ आ रो॑हा॒न्तरि॑क्ष॒म् अनु॒ वि क्र॑मस्व॒ निर्भ॑क्तः॒ स यं द्वि॒ष्मो विष्णोः॒ क्रमो॑ऽस्य् अरातीय॒तो ह॒न्ता जाग॑तं॒ छन्द॒ आ रो॑ह॒ दिव॒म् अनु॒ वि क्र॑मस्व॒ निर्भ॑क्तः॒ स यं द्वि॒ष्मो विष्णोः॑ ॥

क्रमो॑ऽसि शत्रूय॒तो ह॒न्तानु॑ष्टुभं॒ छन्द॒ आ रो॑ह॒ दिशोऽनु॒ वि क्र॑मस्व॒ निर्भ॑क्तः॒ स यं द्वि॒ष्मः ।

अक्र॑न्दद् अ॒ग्नि स्त॒नय॑न्न् इव॒ द्यौः क्षामा॒ रेरि॑हद् वी॒रुधः॑ सम॒ञ्जन् । स॒द्यो ज॑ज्ञा॒नो वि हीम् इ॒द्धो अख्य॒द् आ रोद॑सी भा॒नुना॑ भात्य् अ॒न्तः ॥

अग्ने॑ऽभ्यावर्तिन्न् अ॒भि न॒ आ व॑र्त॒स्वायु॑षा॒ वर्च॑सा स॒न्या मे॒धया॑ प्र॒जया॒ धने॑न ॥

अग्ने॑ ॥

अ॒ङ्गि॒रः॒ श॒तं ते॑ सन्त्व् आ॒वृतः॑ स॒हस्रं॑ त उपा॒वृतः॑ । तासा॒म् पोष॑स्य॒ पोषे॑ण॒ पुन॑र् नो न॒ष्टम् आ कृ॑धि॒ पुन॑र् नो र॒यिम् आकृ॑धि ॥

पुन॑र् ऊ॒र्जा नि व॑र्तस्व॒ पुन॑र् अग्न इ॒षायु॑षा । पुन॑र् नः पाहि वि॒श्वतः॑ ॥

स॒ह र॒य्या नि व॑र्त॒स्वाग्ने॒ पिन्व॑स्व धा॒रया॑ । वि॒श्वप्स्नि॑या वि॒श्वत॒स् परि॑ ॥

उद् उ॑त्त॒मं व॑रुण॒ पाश॑म् अ॒स्मद् अवा॑ध॒मम् ॥

वि म॑ध्य॒मँ श्र॑थाय । अथा॑ व॒यम् आ॑दित्य व्र॒ते तवाना॑गसो॒ अदि॑तये स्याम ॥

आ त्वा॑हार्षम् अ॒न्तर् अ॑भूर् ध्रु॒वस् ति॒ष्ठावि॑चाचलिः । विश॑स् त्वा॒ सर्वा॑ वाञ्छन्त्व् अ॒स्मिन् रा॒ष्ट्रम् अधि॑ श्रय ॥

अग्रे॑ बृ॒हन्न् उ॒षसा॑म् ऊ॒र्ध्वो अ॑स्थान् निर्जग्मि॒वान् तम॑सो॒ ज्योति॒षागा॑त् । अ॒ग्निर् भा॒नुना॒ रुश॑ता॒ स्वङ्ग॒ आ जा॒तो वि॑श्वा॒ सद्मा॑न्य् अप्राः ॥

सीद॒ त्वम् मा॒तुर् अ॒स्याः ॥

उ॒पस्थे॒ विश्वा॑न्य् अग्ने व॒युना॑नि वि॒द्वान् । मैना॑म् अ॒र्चिषा॒ मा तप॑सा॒भि शू॑शुचो॒ऽन्तर् अ॑स्याँ शु॒क्रज्यो॑ति॒र् वि भा॑हि ॥

अ॒न्तर् अ॑ग्ने रु॒चा त्वम् उ॒खायै॒ सद॑ने॒ स्वे । तस्या॒स् त्वँ हर॑सा॒ तप॒ञ् जात॑वेदः शि॒वो भ॑व ॥

शि॒वो भू॒त्वा मह्य॑म् अ॒ग्नेऽथो॑ सीद शि॒वस् त्वम् । शि॒वाः कृ॒त्वा दिशः॒ सर्वाः॒ स्वां योनि॑म् इ॒हास॑दः ॥

हँ॒सः शु॑चि॒षद् वसु॑र् अन्तरिक्ष॒सद् धोता॑ वेदि॒षद् अति॑थिर् दुरोण॒सत् । नृ॒षद् व॑र॒सद् व्यो॑म॒सद् अ॒ब्जा गो॒जा ऋ॑त॒जा अ॑द्रि॒जा ऋ॒तम् बृ॒हत् ॥

दि॒वस् परि॑ प्रथ॒मं ज॑ज्ञे अ॒ग्निर् अ॒स्मद् द्वि॒तीय॒म् परि॑ जा॒तवे॑दाः । तृ॒तीय॑म् अ॒प्सु नृ॒मणा॒ अज॑स्र॒म् इन्धा॑न एनं जरते स्वा॒धीः ॥

वि॒द्मा ते॑ अग्ने त्रे॒धा त्र॒याणि॑ वि॒द्मा ते॒ सद्म॒ विभृ॑तम् पुरु॒त्रा । वि॒द्मा ते॒ नाम॑ पर॒मं गुहा॒ यद् वि॒द्मा तम् उत्सं॒ यत॑ आज॒गन्थ॑ ॥

स॒मु॒द्रे त्वा॑ नृ॒मणा॑ अ॒प्स्व् अ॑न्तर् नृ॒चक्षा॑ ईधे दि॒वो अ॑ग्न॒ ऊध॑न् । तृ॒तीये॑ त्वा ॥

रज॑सि तस्थि॒वाँस॑म् ऋ॒तस्य॒ योनौ॑ महि॒षा अ॑हिन्वन् ॥

अक्र॑न्दद् अ॒ग्नि स्त॒नय॑न्न् इव॒ द्यौः क्षामा॒ रेरि॑हद् वी॒रुधः॑ सम॒ञ्जन् । स॒द्यो ज॑ज्ञा॒नो वि हीम् इ॒द्धो अख्य॒द् आ रोद॑सी भा॒नुना॑ भात्य् अ॒न्तः ॥

उ॒शिक् पा॑व॒को अ॑र॒तिः सु॑मे॒धा मर्ते॑ष्व् अ॒ग्निर् अ॒मृतो॑ निधायि । इय॑र्ति धू॒मम् अ॑रु॒षम् भरि॑भ्र॒द् उच् छु॒क्रेण॑ शो॒चिषा॒ द्याम् इन॑क्षत् ॥

विश्व॑स्य के॒तुर् भुव॑नस्य॒ गर्भ॒ आ ॥

रोद॑सी अपृणा॒ज् जाय॑मानः । वी॒डुं चि॒द् अद्रि॑म् अभिनत् परा॒यञ् जना॒ यद् अ॒ग्निम् अय॑जन्त॒ पञ्च॑ ॥

श्री॒णाम् उ॑दा॒रो ध॒रुणो॑ रयी॒णाम् म॑नी॒षाणा॒म् प्रार्प॑णः॒ सोम॑गोपाः । वसोः॑ सू॒नुः सह॑सो अ॒प्सु राजा॒ वि भा॒त्य् अग्र॑ उ॒षसा॑म् इधा॒नः ॥

यस् ते॑ अ॒द्य कृ॒णव॑द् भद्रशोचेऽपू॒पं दे॑व घृ॒तव॑न्तम् अग्ने । प्र तं न॑य प्रत॒रां वस्यो॒ अछा॒भि द्यु॒म्नं दे॒वभ॑क्तं यविष्ठ ॥

आ ॥

तम् भ॑ज सौश्रवसेष्व् अग्न उ॒क्थौक्थ॒ आ भ॑ज श॒स्यमा॑ने । प्रि॒यः सूर्ये॑ प्रि॒यो अ॒ग्ना भ॑वा॒त्य् उज् जा॒तेन॑ भि॒नद॑द् उ॒ज् जनि॑त्वैः ॥

त्वाम् अ॑ग्ने॒ यज॑माना॒ अनु॒ द्यून् विश्वा॒ वसू॑नि दधिरे॒ वार्या॑णि । त्वया॑ स॒ह द्रवि॑णम् इ॒छमा॑ना व्र॒जं गोम॑न्तम् उ॒शिजो॒ वि व॑व्रुः ॥

दृ॒शा॒नो रु॒क्म उ॒र्व्या व्य् अ॑द्यौद् दु॒र्मर्ष॒म् आयुः॑ श्रि॒ये रु॑चा॒नः । अ॒ग्निर् अ॒मृतो॑ अभव॒द् वयो॑भि॒र् यद् ए॑नं॒ द्यौर् अज॑नयत् सु॒रेताः॑ ॥

अन्न॑प॒तेऽन्न॑स्य नो देह्य् अनमी॒वस्य॑ शु॒ष्मिणः॑ । प्र प्र॑दा॒तारं॑ तारिष॒ ऊर्जं॑ नो धेहि द्वि॒पदे॒ चतु॑ष्पदे ॥

उद् उ॑ त्वा॒ विश्वे॑ दे॒वा अग्ने॒ भर॑न्तु॒ चित्ति॑भिः । स नो॑ भव शि॒वत॑मः सु॒प्रती॑को वि॒भाव॑सुः ॥

प्रेद् अ॑ग्ने॒ ज्योति॑ष्मान् याहि शि॒वेभि॑र् अ॒र्चिभि॒स् त्वम् । बृ॒हद्भि॑र् भा॒नुभि॒र् भास॒न् मा हिँ॑सीस् त॒नुवा॑ प्र॒जाः ॥

स॒मिधा॒ग्निं दु॑वस्यत घृ॒तैर् बो॑धय॒ताति॑थिम् । आ ॥

अ॒स्मि॒न् ह॒व्या जु॑होतन ॥

प्रप्रा॒यम् अ॒ग्निर् भ॑र॒तस्य॑ शृण्वे॒ वि यत् सूर्यो॒ न रोच॑ते बृ॒हद् भाः । अ॒भि यः पू॒रुम् पृत॑नासु त॒स्थौ दी॒दाय॒ दैव्यो॒ अति॑थिः शि॒वो नः॑ ॥

आपो॑ देवीः॒ प्रति॑ गृह्णीत॒ भस्मै॒तत् स्यो॒ने कृ॑णुध्वँ सुर॒भाव् उ॑ लो॒के । तस्मै॑ नमन्तां॒ जन॑यः सु॒पत्नी॑र् मा॒तेव॑ पु॒त्रम् बि॑भृ॒ता स्व् ए॑नम् ॥

अ॒प्स्व् अ॑ग्ने॒ सधि॒ष् टव॑ ॥

सौष॑धी॒र् अनु॑ रुध्यसे । गर्भे॒ सञ् जा॑यसे॒ पुनः॑ ॥

गर्भो॑ अ॒स्य् ओष॑धीनां॒ गर्भो॒ वन॒स्पती॑नां । गर्भो॒ विश्व॑स्य भू॒तस्याग्ने॒ गर्भो॑ अ॒पाम् अ॑सि ॥

प्र॒सद्य॒ भस्म॑ना॒ योनि॑म् अ॒पश् च॑ पृथि॒वीम् अ॑ग्ने । सँ॒सृज्य॑ मा॒तृभि॒स् त्वं ज्योति॑ष्मा॒न् पुन॒र् आस॑दः ॥

पुन॑र् आ॒सद्य॒ सद॑नम् अ॒पश् च॑ पृथि॒वीम् अ॑ग्ने । शेषे॑ मा॒तुर् यथो॒पस्थे॒ऽन्तर् अ॒स्याँ शि॒वत॑मः ॥

पुन॑र् ऊ॒र्जा ॥

नि व॑र्तस्व॒ पुन॑र् अग्न इ॒षायु॑षा । पुन॑र् नः पाहि वि॒श्वतः॑ ॥

स॒ह र॒य्या नि व॑र्त॒स्वाग्ने॑ पिन्वस्व॒ धार॑या । वि॒श्वप्स्नि॑या वि॒श्वत॒स् परि॑ ॥

पुन॑स् त्वादि॒त्या रु॒द्रा वस॑वः॒ सम् इ॑न्धता॒म् पुन॑र् ब्र॒ह्माणो॑ वसुनीथ य॒ज्ञैः । घृ॒तेन॒ त्वं त॒नुवो॑ वर्धयस्व स॒त्याः स॑न्तु॒ यज॑मानस्य॒ कामाः॑ ॥

बोधा॑ नो अस्य॒ वच॑सो यविष्ठ॒ मँहि॑ष्ठस्य॒ प्रभृ॑तस्य स्वधावः । पीय॑ति त्वो॒ अनु॑ त्वो गृणाति व॒न्दारु॑स् ते त॒नुवं॑ वन्दे अग्ने ॥

स बो॑धि सू॒रिर् म॒घवा॑ वसु॒दावा॒ वसु॑पतिः । यु॒यो॒ध्य् अ॑स्मद् द्वेषाँ॑सि ॥

अपे॑त॒ वीत॒ वि च॑ सर्प॒तातो॒ येऽत्र॒ स्थ पु॑रा॒णा ये च॒ नूत॑नाः । अदा॑द् इ॒दं य॒मो॑ऽव॒सान॑म् पृथि॒व्या अक्र॑न्न् इ॒मम् पि॒तरो॑ लो॒कम् अ॑स्मै ॥

अ॒ग्नेर् भस्मा॑स्य् अ॒ग्नेः पुरी॑षम् असि

सं॒ज्ञान॑म् असि काम॒धर॑ण॒म् मयि॑ ते काम॒धर॑णम् भूया॒त्

सं या वः॑ प्रि॒यास् त॒नुवः॒ सम् प्रि॒या हृद॑यानि वः । आ॒त्मा वो॑ अस्तु ॥

सम्प्रि॑यः॒ सम्प्रि॑यास् त॒नुवो॒ मम॑ ॥

अ॒यँ सो अ॒ग्निर् यस्मि॒न्त् सोम॒म् इन्द्रः॑ सु॒तं द॒धे ज॒ठरे॑ वावशा॒नः । स॒ह॒स्रियं॒ वाज॒म् अत्यं॒ न सप्तिँ॑ सस॒वान्त् सन्त् स्तू॑यसे जातवेदः ॥

अग्ने॑ दि॒वो अर्ण॒म् अछा॑ जिगा॒स्य् अछा॑ दे॒वाँ ऊ॑चिषे॒ धिष्णि॑या॒ ये । याः प॒रस्ता॑द् रोच॒ने सूर्य॑स्य॒ याश् चा॒वस्ता॑द् उप॒तिष्ठ॑न्त॒ आपः॑ ॥

अग्ने॒ यत् ते॑ दि॒वि वर्चः॑ पृथि॒व्यां यद् ओष॑धीषु ॥

अ॒प्सु वा॑ यजत्र । येना॒न्तरि॑क्षम् उ॒र्व् आ॑त॒तन्थ॑ त्वे॒षः स भा॒नुर् अ॑र्ण॒वो नृ॒चक्षाः॑ ॥

पु॒री॒ष्या॑सो अ॒ग्नयः॑ प्राव॒णेभिः॑ सजोषसः । जु॒षन्ताँ॑ ह॒व्यम् आहु॑तम् अनमी॒वा इषो॑ म॒हीः ॥

इडा॑म् अग्ने पुरु॒दँसँ॑ स॒निं गोः श॑श्वत्त॒मँ हव॑मानाय साध । स्यान् नः॑ सु॒नुस् तन॑यो वि॒जावाग्ने॒ सा ते॑ सुम॒तिर् भू॑त्व् अ॒स्मे ॥

अ॒यं ते॒ योनि॑र् ऋ॒त्वियो॒ यतो॑ जा॒तो अरो॑चथाः । तं जा॒नन् ॥

अ॒ग्न॒ आ रो॒हाथा॑ नो वर्धया र॒यिम् ॥

चिद् अ॑सि॒ तया॑ दे॒वत॑याङ्गिर॒वद् ध्रु॒वा सी॑द

परि॒चिद् अ॑सि॒ तया॑ दे॒वत॑याङ्गिर॒स्वद् ध्रु॒वा सी॑द

लो॒कम् पृ॑ण छि॒द्रम् पृ॒णाथो॑ सीद शि॒वा त्वम् । इ॒न्द्रा॒ग्नी त्वा॒ बृह॒स्पति॑र् अ॒स्मिन् योना॑व् असीषदन् ॥

ता अ॑स्य॒ सूद॑दोहसः॒ सोमँ॑ श्रीणन्ति॒ पृश्न॑यः । जन्म॑न् दे॒वानां॒ विश॑स् त्रि॒ष्व् आ रो॑च॒ने दि॑वः ॥

सम् इ॑तँ॒ सं क॑ल्पेथाँ॒ सम्प्रि॑यौ रोचि॒ष्णू सु॑मन॒स्यमा॑नौ । इष॒म् ऊर्ज॑म् अ॒भि सं॒वसा॑नौ शं वा॒म् मनाँ॑सि॒ सं व्र॒ता सम् उ॑ चि॒त्तान्य् आक॑रम् ॥

अग्ने॑ पुरीष्याधि॒पा भ॑वा॒ त्वं नः॑ । इष॒म् ऊर्जं॒ यज॑मानाय धेहि ॥

पु॒री॒ष्य॑स् त्वम् अ॑ग्ने रयि॒मान् पु॑ष्टि॒माँ अ॑सि । शि॒वाः कृ॒त्वा दिशः॒ सर्वाः॒ स्वां योनि॑म् इ॒हास॑दः ॥

भव॑तं नः॒ सम॑नसौ॒ समो॑कसौ ॥

अ॒रे॒पसौ॑ । मा य॒ज्ञँ हिँ॑सिष्ट॒म् मा य॒ज्ञप॑तिं जातवेदसौ शि॒वौ भ॑वतम् अ॒द्य नः॑ ॥

मा॒तेव॑ पु॒त्रम् पृ॑थि॒वी पु॑री॒ष्य॑म् अ॒ग्निँ स्वे योना॑व् अभार् उ॒खा । तां विश्वै॑र् दे॒वैर् ऋ॒तुभिः॑ संविदा॒नः प्र॒जाप॑तिर् वि॒श्वक॑र्मा॒ वि मु॑ञ्चतु ॥

यद् अ॑स्य पा॒रे रज॑सः शु॒क्रं ज्योति॒र् अजा॑यत । तन् नः॑ पर्ष॒द् अति॒ द्विशोऽग्ने॑ वैश्वानर॒ स्वाहा॑ ॥

नमः॒ सु ते॑ निरृते विश्वरूपे ॥

अ॒य॒स्मयं॒ वि चृ॑ता ब॒न्धम् ए॒तम् । य॒मेन॒ त्वं य॑म्या॑ संविदा॒नोत्त॒मं नाक॒म् अधि॑ रोहये॒मम् ॥

यत् ते॑ दे॒वी निरृ॑तिर् आब॒बन्ध॒ दाम॑ ग्री॒वास्व् अ॑विच॒र्त्यम् । इ॒दं ते॒ तद् वि ष्या॒म्य् आयु॑षो॒ न मध्या॒द् अथा॑ जी॒वः पि॒तुम् अ॑द्धि॒ प्रमु॑क्तः ॥

यस्या॑स् ते अ॒स्याः क्रू॒र आ॒सञ् जु॒होम्य् ए॒षाम् ब॒न्धाना॑म् अव॒सर्ज॑नाय । भूमि॒र् इति॑ त्वा॒ जना॑ वि॒दुर् निरृ॑तिः ॥

इति॑ त्वा॒हम् परि॑ वेद वि॒श्वतः॑ ॥

असु॑न्वन्त॒म् अय॑जमानम् इछ स्ते॒नस्ये॒त्यां तस्क॑र॒स्यान्व् ए॑षि । अ॒न्यम् अ॒स्मद् इ॑छ॒ ष त॑ इ॒त्या नमो॑ देवि निरृते॒ तुभ्य॑म् अस्तु ॥

दे॒वीम् अ॒हं निरृ॑तिं॒ वन्द॑मानः पि॒तेव॑ पु॒त्रं द॑सये॒ वचो॑भिः । विश्व॑स्य॒ या जाय॑मानस्य॒ वेद॒ शिरः॑शिरः॒ प्रति॑ सू॒री वि च॑ष्टे ॥

नि॒वेश॑नः सं॒गम॑नो॒ वसू॑नां॒ विश्वा॑ रू॒पाभि च॑ष्टे ॥

शची॑भिः । दे॒व इ॑व सवि॒ता स॒त्यध॒र्मेन्द्रो॒ न त॑स्थौ सम॒रे प॑थी॒नाम् ॥

सं व॑र॒त्रा द॑धातन॒ निर् आ॑हा॒वान् कृ॑णोतन । सि॒ञ्चाम॑हा अव॒टम् उ॒द्रिणं॑ व॒यं विश्वाहाद॑स्त॒म् अक्षि॑तम् ॥

निष्कृ॑ताहावम् अव॒टँ सु॑वर॒त्रँ सु॑षेच॒नम् । उ॒द्रिणँ॑ सिञ्चे॒ अक्षि॑तम् ॥

सीरा॑ युञ्जन्ति क॒वयो॑ यु॒गा वि त॑न्वते॒ पृथ॑क् । धीरा॑ दे॒वेषु॑ सुम्न॒या

यु॒नक्त॒ सीरा॒ वि यु॒गा त॑नोत कृ॒ते योनौ॑ वपते॒ह ॥

बीज॑म् । गि॒रा च॑ श्रु॒ष्टिः सभ॑रा॒ अस॑न् नो॒ नेदी॑य॒ इत् सृ॑ण्या॑ प॒क्वम् आय॑त् ॥

लाङ्ग॑ल॒म् पवी॑रवँ सु॒शेवँ॑ सुम॒तित्स॑रु । उद् इत् कृ॑षति॒ गाम् अवि॑म् प्रफर्व॒यं॑ च॒ पीव॑रीम् । प्र॒स्थाव॑द् रथ॒वाह॑नम् ॥

शु॒नं नः॒ फाला॒ वि तु॑दन्तु॒ भूमिँ॑ शु॒नं की॒नाशा॑ अ॒भि य॑न्तु वा॒हान् । शु॒नम् प॒र्जन्यो॒ मधु॑ना॒ पयो॑भिः॒ शुना॑सीरा शु॒नम् अ॒स्मासु॑ धत्तम् ॥

कामं॑ कामदुघे धुक्ष्व मि॒त्राय॒ वरु॑णाय च । इन्द्रा॑या॒ग्नये॑ पू॒ष्ण ओष॑धीभ्यः प्र॒जाभ्यः॑ ॥

घृ॒तेन॒ सीता॒ मधु॑ना॒ सम॑क्ता॒ विश्वै॑र् दे॒वैर् अनु॑मता म॒रुद्भिः॑ । ऊर्ज॑स्वती॒ पय॑सा॒ पिन्व॑माना॒स्मान्त् सी॑ते॒ पय॑सा॒भ्याव॑वृत्स्व ॥

या जा॒ता ओष॑धयो दे॒वेभ्य॑स् त्रियु॒गम् पु॒रा । मन्दा॑मि ब॒भ्रूणा॑म् अ॒हँ श॒तं धामा॑नि स॒प्त च॑ ॥

श॒तं वो॑ अम्ब॒ धामा॑नि स॒हस्र॑म् उ॒त वो॒ रुहः॑ । अथा॑ शतक्रत्वो यू॒यम् इ॒मम् मे॑ अग॒दं कृ॑त ॥

पुष्पा॑वतीः प्र॒सूव॑तीः फ॒लिनी॑र् अफ॒ला उ॒त । अश्वा॑ इव स॒जित्व॑रीर् वी॒रुधः॑ पारयि॒ष्णवः॑ ॥

ओष॑धी॒र् इति॑ मातर॒स् तद् वो॑ देवी॒र् उप॑ ब्रुवे । रपाँ॑सि विघ्न॒तीर् इ॑त॒ रपः॑ ॥

चा॒तय॑मानाः ॥

अ॒श्व॒त्थे वो॑ नि॒षद॑नम् प॒र्णे वो॑ वस॒तिः कृ॒ता । गो॒भाज॒ इत् किला॑सथ॒ यत् स॒नव॑थ॒ पूरु॑षम् ॥

यद् अ॒हं वा॒जय॑न्न् इ॒मा ओष॑धी॒र् हस्त॑ आद॒धे । आ॒त्मा यक्ष्म॑स्य नश्यति पु॒रा जी॑व॒गृभो॑ यथा ॥

यद् ओष॑धयः सं॒गछ॑न्ते॒ राजा॑नः॒ समि॑ताव् इव । विप्रः॒ स उ॑च्यते भि॒षग् र॑क्षो॒हामी॑व॒चात॑नः ॥

निष्कृ॑ति॒र् नाम॑ वो मा॒ताथा॑ यू॒यँ स्थ॒ संकृ॑तीः । स॒राः प॑त॒त्रिणीः॑ ॥

स्थ॒न॒ यद् आ॒मय॑ति॒ निष् कृ॑त ॥

अ॒न्या वो॑ अ॒न्याम् अ॑वत्व् अ॒न्यान्यस्या॒ उपा॑वत । ताः सर्वा॒ ओष॑धयः संविदा॒ना इ॒दम् मे॒ प्राव॑ता॒ वचः॑ ॥

उच् छुष्मा॒ ओष॑धीनां॒ गावो॑ गो॒ष्ठाद् इ॑वेरते । धनँ॑ सनि॒ष्यन्ती॑नाम् आ॒त्मानं॒ तव॑ पूरुष ॥

अति॒ विश्वाः॑ परि॒ष्ठा स्ते॒न इ॑व व्र॒जम् अ॑क्रमुः । ओष॑धयः॒ प्राचु॑च्यवु॒र् यत् किं च॑ त॒नुवाँ॒ रपः॑ ॥

याः ॥

त॒ आ॒त॒स्थुर् आ॒त्मानं॒ या आ॑विवि॒शुः परुः॑परुः । तास् ते॒ यक्ष्मं॒ वि बा॑धन्ताम् उ॒ग्रो म॑ध्यम॒शीर् इ॑व ॥

सा॒कं य॑क्ष्म॒ प्र प॑त श्ये॒नेन॑ किकिदी॒विना॑ । सा॒कं वात॑स्य॒ ध्राज्या॑ सा॒कं न॑श्य नि॒हाक॑या ॥

अ॒श्वा॒व॒तीँ सो॑मव॒तीम् ऊ॒र्जय॑न्ती॒म् उदो॑जसम् । आ वि॑त्सि॒ सर्वा॒ ओष॑धीर् अ॒स्मा अ॑रि॒ष्टता॑तये ॥

याः फ॒लिनी॒र् या अ॑फ॒ला अ॑पु॒ष्पा याश् च॑ पु॒ष्पिणीः॑ । बृह॒स्पति॑प्रसूता॒स् ता नो॑ मुञ्च॒न्त्व् अँह॑सः ॥

याः ॥

ओष॑धयः॒ सोम॑राज्ञीः॒ प्रवि॑ष्टाः पृथि॒वीम् अनु॑ । तासां॒ त्वम् अ॑स्य् उत्त॒मा प्र णो॑ जी॒वात॑वे सुव ॥

अ॒व॒पत॑न्तीर् अवदन् दि॒व ओष॑धयः॒ परि॑ । यं जी॒वम् अ॒श्नवा॑महै॒ न स रि॑ष्याति॒ पूरु॑षः ॥

याश् चे॒दम् उ॑पशृ॒ण्वन्ति॒ याश् च॑ दू॒रम् परा॑गताः । इ॒ह सं॒गत्य॒ ताः सर्वा॑ अस्मै॒ सं द॑त्त भेष॒जम् ॥

मा वो॑ रिषत् खनि॒ता यस्मै॑ चा॒हं खना॑मि वः । द्वि॒पच् चतु॑ष्पद् अ॒स्माकँ॒ सर्व॑म् अस्त्व् अनातु॒रम् ॥

ओष॑धयः॒ सं व॑दन्ते॒ सोमे॑न स॒ह राज्ञा॑ । यस्मै॑ क॒रोति॑ ब्राह्म॒णस् तँ रा॑जन् पारयामसि ॥

मा नो॑ हिँसीज् जनि॒ता यः पृ॑थि॒व्या यो वा॒ दिवँ॑ स॒त्यध॑र्मा ज॒जान॑ । यश् चापश् च॒न्द्रा बृ॑ह॒तीर् ज॒जान॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥

अ॒भ्याव॑र्तस्व पृथिवि य॒ज्ञेन॒ पय॑सा स॒ह । व॒पां ते॑ अ॒ग्निर् इ॑षि॒तोऽव॑ सर्पतु ॥

अग्ने॒ यत् ते॑ शु॒क्रं यच् च॒न्द्रं यत् पू॒तं यद् य॒ज्ञिय॑म् । तद् दे॒वेभ्यो॑ भरामसि ॥

इष॒म् ऊर्ज॑म् अ॒हम् इ॒त आ ॥

द॒द॒ ऋ॒तस्य॒ धाम्नो॑ अ॒मृत॑स्य॒ योनेः॑ । आ नो॒ गोषु॑ विश॒त्व् औष॑धीषु॒ जहा॑मि से॒दिम् अनि॑रा॒म् अमी॑वाम् ॥

अग्ने॒ तव॒ श्रवो॒ वयो॒ महि॑ भ्राजन्त्य् अ॒र्चयो॑ विभावसो । बृह॑द्भानो॒ शव॑सा॒ वाज॑म् उ॒क्थ्यं॑ दधा॑सि दा॒सुषे॑ कवे ॥

इ॒र॒ज्यन्न् अ॑ग्ने प्रथयस्व ज॒न्तुभि॑र् अ॒स्मे रायो॑ अमर्त्य । स द॑र्श॒तस्य॒ वपु॑षो॒ वि रा॑जसि पृ॒णक्षि॑ सान॒सिँ र॒यिम् ॥

ऊर्जो॑ नपाज् जातवेदः सुश॒स्तिभि॒र् मन्द॑स्व ॥

धी॒तिभि॑र् हि॒तः । त्वे इषः॒ सं द॑धु॒र् भूरि॑रेतसश् चि॒त्रोत॑यो वा॒मजा॑ताः ॥

पा॒व॒कव॑र्चाः शु॒क्रव॑र्चा॒ अनू॑नवर्चा॒ उद् इ॑यर्षि भा॒नुना॑ । पु॒त्रः पि॒तरा॑ वि॒चर॒न्न् उपा॑वस्य् उ॒भे पृ॑णक्षि॒ रोद॑सी ॥

ऋ॒तावा॑नम् महि॒षं वि॒श्वच॑र्षणिम् अ॒ग्निँ सु॒म्नाय॑ दधिरे पु॒रो जनाः॑ । श्रुत्क॑र्णँ स॒प्रथ॑स्तमम् त्वा गि॒रा दैव्य॒म् मानु॑षा यु॒गा ॥

नि॒ष्क॒र्तार॑म् अध्व॒रस्य॒ प्रचे॑तसं॒ क्षय॑न्तँ॒ राध॑से म॒हे । रा॒तिम् भृगू॑णाम् उ॒शिजं॑ क॒विक्र॑तुम् पृ॒णक्षि॑ सान॒सिम् ॥

र॒यिम् ॥

चित॑ स्थ परि॒चित॑ ऊर्ध्व॒चितः॑ श्रयध्वं॒ तया॑ दे॒वत॑याङ्गिर॒स्वद् ध्रु॒वाः सी॑दत ॥

आ प्या॑यस्व॒ सम् ए॑तु ते वि॒श्वतः॑ सोम॒ वृष्णि॑यम् । भवा॒ वाज॑स्य संग॒थे ॥

सं ते॒ पयाँ॑सि॒ सम् उ॑ यन्तु॒ वाजाः॒ सं वृष्णि॑यान्य् अभिमाति॒षाहः॑ । आ॒प्याय॑मानो अ॒मृता॑य सोम दि॒वि श्रवा॑न्स्य् उत्त॒मानि॑ धिष्व ॥

अ॒भ्य् अ॑स्था॒द् विश्वाः॒ पृत॑ना॒ अरा॑ती॒स् तद् अ॒ग्निर् आ॑ह॒ तद् उ॒ सोम॑ आह । बृह॒स्पतिः॑ सवि॒ता तन् म॑ आह पु॒षा मा॑धात् सुकृ॒तस्य॑ लो॒के ॥

यद् अक्र॑न्दः प्रथ॒मं जाय॑मान उ॒द्यन्त् स॑मु॒द्राद् उ॒त वा॒ पुरी॑षात् । श्ये॒नस्य॑ प॒क्षा ह॑रि॒णस्य॑ बा॒हू उप॑स्तुतं॒ जनि॑म॒ तत् ते॑ अर्वन् ॥

अ॒पाम् पृ॒ष्ठम् अ॑सि॒ योनि॑र् अ॒ग्नेः स॑मु॒द्रम् अ॒भितः॒ पिन्व॑मानम् । वर्ध॑मानम् म॒हः ॥

आ च॒ पुष्क॑रं दि॒वो मात्र॑या व॒र्णा प्र॑थस्व ॥

ब्रह्म॑ जज्ञा॒नम् प्र॑थ॒मम् पु॒रस्ता॒द् वि सी॑म॒तः सु॒रुचो॑ वे॒न आ॑वः । स बु॒ध्निया॑ उप॒मा अ॑स्य वि॒ष्ठाः स॒तश् च॒ योनि॒म् अस॑तश् च॒ विवः॑ ॥

हि॒र॒ण्य॒ग॒र्भः सम् अ॑वर्त॒ताग्रे॑ भू॒तस्य॑ जा॒तः पति॒र् एक॑ आसीत् । स दा॑धार पृथि॒वीं द्याम् उ॒तेमां कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥

द्र॒प्सश् च॑स्कन्द पृथि॒वीम् अनु॑ ॥

द्याम् इ॒मं च॒ योनि॒म् अनु॒ यश् च॒ पूर्वः॑ । तृ॒तीयं॒ योनि॒म् अनु॑ सं॒चर॑न्तं द्र॒प्सं जु॑हो॒म्य् अनु॑ स॒प्त होत्राः॑ ॥

नमो॑ अस्तु स॒र्पेभ्यो॒ ये के च॑ पृथि॒वीम् अनु॑ । ये अ॒न्तरि॑क्षे॒ ये दि॒वि तेभ्यः॑ स॒र्पेभ्यो॒ नमः॑ ॥

ये॑ऽदो रो॑च॒ने दि॒वो ये वा॒ सूर्य॑स्य र॒श्मिषु॑ । येषा॑म् अ॒प्सु सदः॑ कृ॒तं तेभ्यः॑ स॒र्पेभ्यो॒ नमः॑ ॥

या इष॑वो यातु॒धाना॑नां॒ ये वा॒ वन॒स्पतीँ॒र् अनु॑ । ये वा॑व॒टेषु॒ शेर॑ते॒ तेभ्यः॑ स॒र्पेभ्यो॒ नमः॑ ॥

ध्रु॒वासि॑ ध॒रुणास्तृ॑ता वि॒श्वक॑र्मणा॒ सुक्रि॑ता । मा त्वा॑ समु॒द्र उद् व॑धी॒न् मा सु॑प॒र्णोऽव्य॑थमाना पृथि॒वीं दृँ॑ह ॥

प्र॒जाप॑तिस् त्वा सादयतु पृथि॒व्याः पृ॒ष्ठे व्यच॑स्वती॒म् प्रथ॑स्वती॒म् प्रथो॑ऽसि पृथि॒व्य् अ॑सि॒ भूर् अ॑सि॒ भूमि॑र् अ॒स्य् अदि॑तिर् असि वि॒श्वधा॑या॒ विश्व॑स्य॒ भुव॑नस्य ध॒र्त्री पृ॑थि॒वीं य॑छ पृथि॒वीं दृँ॑ह पृथि॒वीम् मा हिँ॑सी॒र् विश्व॑स्मै प्रा॒णाय॑ व्या॒नायो॑दा॒नाय॑ प्रति॒ष्ठायै॑ ॥

च॒रित्रा॑या॒ग्निस् त्वा॒भि पा॑तु म॒ह्या स्व॒स्त्या छ॒र्दिषा॒ शंत॑मेन॒ तया॑ दे॒वत॑याङ्गिर॒स्वद् ध्रु॒वा सी॑द

काण्डा॑त्काण्डात् प्र॒रोह॑न्ती॒ परु॑षःपरुषः॒ परि॑ । ए॒वा नो॑ दूर्वे॒ प्र त॑नु स॒हस्रे॑ण श॒तेन॑ च ॥

या श॒तेन॑ प्रत॒नोषि॑ स॒हस्रे॑ण वि॒रोह॑सि॒ तस्या॑स् ते देवीष्टके वि॒धेम॑ ह॒विषा॑ व॒यम् ॥

अषा॑ढासि॒ सह॑माना॒ सह॒स्वारा॑तीः॒ सह॑स्वारातीय॒तः

सह॑स्व॒ पृत॑नाः॒ सह॑स्व पृतन्य॒तः स॒हस्र॑वीर्या ॥

अ॒सि॒ सा मा॑ जिन्व ॥

मधु॒ वाता॑ ऋताय॒ते मधु॑ क्षरन्ति॒ सिन्ध॑वः । माध्वी॑र् नः स॒न्त्व् ओष॑धीः ॥

मधु॒ नक्त॑म् उ॒तोषसि॒ मधु॑म॒त् पार्थि॑वँ॒ रजः॑ । मधु॒ द्यौर् अ॑स्तु नः पि॒ता ॥

मधु॑मान् नो॒ वन॒स्पति॒र् मधु॑माँ अस्तु॒ सूर्यः॑ । माध्वी॒र् गावो॑ भवन्तु नः ॥

म॒ही द्यौः पृ॑थि॒वी च॑ न इ॒मं य॒ज्ञम् मि॑मिक्षताम् । पि॒पृ॒तां नो॒ भरी॑मभिः ॥

तद् विष्णोः॑ पर॒मम् ॥

प॒दँ सदा॑ पश्यन्ति सू॒रयः॑ । दि॒वीव॒ चक्षु॒र् आत॑तम् ॥

ध्रु॒वासि॑ पृथिवि॒ सह॑स्व पृतन्य॒तः । स्यू॒ता दे॒वेभि॑र् अ॒मृते॒नागाः॑ ॥

यास् ते॑ अग्ने॒ सूर्ये॒ रुच॑ उद्य॒तो दिव॑म् आत॒न्वन्ति॑ र॒श्मिभिः॑ । ताभिः॒ सर्वा॑भी रु॒चे जना॑य नस् कृधि ॥

या वो॑ देवाः॒ सूर्ये॒ रुचो॒ गोष्व् अश्वे॑षु॒ या रुचः॑ । इन्द्रा॑ग्नी॒ ताभिः॒ सर्वा॑भी॒ रुचं॑ नो धत्त बृहस्पते

वि॒राट् ॥

ज्योति॑र् अधारयत् स॒म्राड् ज्योति॑र् अधारयत् स्व॒राड् ज्योति॑र् अधारय॒त्

अग्ने॑ यु॒क्ष्वा हि ये तवा॑श्वासो देव सा॒धवः॑ । अरं॒ वह॑न्त्य् आ॒शवः॑ ॥

यु॒क्ष्वा हि दे॑व॒हूत॑माँ॒ अश्वाँ॑ अग्ने र॒थीर् इ॑व । नि होता॑ पू॒र्व्यः स॑दः ॥

द्र॒प्सश् च॑स्कन्द पृथि॒वीम् अनु॒ द्याम् इ॒मं च॒ योनि॒म् अनु॒ यश् च॒ पूर्वः॑ । तृ॒तीयं॒ योनि॒म् अनु॑ सं॒चर॑न्तं द्र॒प्सं जु॑हो॒म्य् अनु॑ स॒प्त ॥

होत्राः॑ ॥

अभू॑द् इ॒दं विश्व॑स्य॒ भुव॑नस्य॒ वाजि॑नम् अ॒ग्नेर् वै॑श्वान॒रस्य॑ च । अ॒ग्निर् ज्योति॑षा॒ ज्योति॑ष्मान् रु॒क्मो वर्च॑सा॒ वर्च॑स्वान् ॥

ऋ॒चे त्वा॑ रु॒चे त्वा॒

सम् इत् स्र॑वन्ति स॒रितो॒ न धेनाः॑ । अ॒न्तर् हृ॒दा मन॑सा पू॒यमा॑नाः । घृ॒तस्य॒ धारा॑ अ॒भि चा॑कशीमि । हि॒र॒ण्ययो॑ वेत॒सो मध्य॑ आसाम् ॥

तस्मि॑न्त् सुप॒र्णो म॑धु॒कृत् कु॑ला॒यी भज॑न्न् आस्ते॒ मधु॑ दे॒वता॑भ्यः । तस्या॑सते॒ हर॑यः स॒प्त तीरे॑ स्व॒धां दुहा॑ना अ॒मृत॑स्य॒ धारा॑म् ॥

आ॒दि॒त्यं गर्भ॒म् पय॑सा सम॒ञ्जन्त् स॒हस्र॑स्य प्रति॒मां वि॒श्वरू॑पम् । परि॑ वृङ्ग्धि॒ हर॑सा॒ माभि मृ॑क्षः श॒तायु॑षं कृणुहि ची॒यमा॑नः ॥

इ॒मम् मा हिँ॑सीर् द्वि॒पाद॑म् पशू॒नाँ सह॑स्राक्ष॒ मेध॒ आ ची॒यमा॑नः । मयु॑म् आर॒ण्यम् अनु॑ ते दिशामि॒ तेन॑ चिन्वा॒नस् त॒नुवो॒ नि षी॑द ॥

वात॑स्य॒ ध्राजिं॒ वरु॑णस्य॒ नाभि॒म् अश्वं॑ जज्ञा॒नँ स॑रि॒रस्य॒ मध्ये॑ । शिशुं॑ न॒दीनाँ॒ हरि॒म् अद्रि॑बुद्ध॒म् अग्ने॑ मा हिँसीः ॥

प॒र॒मे व्यो॑मन् ॥

इ॒मम् मा हिँ॑सी॒र् एक॑शफम् पशू॒नां क॑निक्र॒दं वा॒जिनं॒ वाजि॑नेषु । गौ॒रम् आ॑र॒ण्यम् अनु॑ ते दिशामि॒ तेन॑ चिन्वा॒नस् त॒नुवो॒ नि षी॑द ॥

अज॑स्र॒म् इन्दु॑म् अरु॒षम् भु॑र॒ण्युम् अ॒ग्निम् ई॑डे पू॒र्वचि॑त्तौ॒ नमो॑भिः । स पर्व॑भिर् ऋतु॒शः कल्प॑मानो॒ गाम् मा हिँ॑सी॒र् अदि॑तिं वि॒राज॑म् ॥

इ॒मँ स॑मु॒द्रँ श॒तधा॑र॒म् उत्सं॑ व्य॒च्यमा॑न॒म् भुव॑नस्य॒ मध्ये॑ । घृ॒तं दुहा॑ना॒म् अदि॑तिं॒ जना॒याग्ने॒ मा ॥

हिँ॒सीः॒ प॒र॒मे व्यो॑मन् । ग॒व॒यम् आ॑र॒ण्यम् अनु॑ ते दिशामि॒ तेन॑ चिन्वा॒नस् त॒नुवो॒ नि षी॑द ॥

वरू॑त्रिं॒ त्वष्टु॒र् वरु॑णस्य॒ नाभि॒म् अविं॑ जज्ञा॒नाँ रज॑सः॒ पर॑स्मात् । म॒हीँ सह॒स्रीम् असु॑रस्य म॒याम् अग्ने॒ मा हिँ॑सीः॒ पर॑मे॒ व्यो॑मन् ॥

इ॒माम् ऊ॑र्णा॒युं वरु॑णस्य मा॒यां त्वच॑म् पशू॒नां द्वि॒पदां॒ चतु॑ष्पदाम् । त्वष्टुः॑ प्र॒जाना॑म् प्रथ॒मं ज॒नित्र॒म् अग्ने॒ मा हिँ॑सीः॒ पर॑मे॒ व्यो॑मन् । उष्ट्र॑म् आर॒ण्यम् अनु॑ ॥

ते॒ दि॒शा॒मि॒ तेन॑ चिन्वा॒नस् त॒नुवो॒ नि षी॑द ॥

यो अ॒ग्निर् अ॒ग्नेस् तप॒सोऽधि॑ जा॒तः शोचा॑त् पृथि॒व्या उ॒त वा॒ दिव॒स् परि॑ । येन॑ प्र॒जा वि॒श्वक॑र्मा॒ व्यान॒ट् तम् अ॑ग्ने॒ हेडः॒ परि॑ ते वृणक्तु ॥

अ॒जा ह्य् अ॑ग्नेर् अज॑निष्ट॒ गर्भा॒त् सा वा अ॑पश्यज् जनि॒तार॒म् अग्रे॑ । तया॒ रोह॑म् आय॒न्न् उप॒ मेध्या॑सः॒ तया॑ दे॒वा दे॒वता॒म् अग्र॑ आयन् । श॒र॒भम् आ॑र॒ण्यम् आ॑नु ते दिशामि॒ तेन॑ चिन्वा॒नस् त॒नुवो॒ नि षी॑द ॥

इन्द्रा॑ग्नी रोच॒ना दि॒वः परि॒ वाजे॑षु भूषथः । तद् वां॑ चेति॒ प्र री॒व्य॑म् ॥

श्नथ॑द् वृ॒त्रम् उ॒त स॑नोति॒ वाज॒म् इन्द्रा॒ यो अ॒ग्नी सहु॑री सप॒र्यात् । इ॒र॒ज्यन्ता॑ वस॒व्य॑स्य॒ भूरेः॒ सह॑स्तमा स॒हसा॑ वाज॒यन्ता॑ ॥

प्र च॑र्ष॒णिभ्यः॑ पृतना॒ हवे॑षु॒ प्र पृ॑थि॒व्या रि॑रिचाथे दि॒वश् च॑ । प्र सिन्धु॑भ्यः॒ प्र गि॒रिभ्यो॑ महि॒त्वा प्रेन्द्रा॑ग्नी विश्वा॒ भुव॒नात्य् अ॒न्या ॥

मरु॑तो॒ यस्य॒ हि ॥

क्षये॑ पा॒था दि॒वो वि॑महसः । स सु॑गो॒पात॑मो॒ जनः॑ ॥

य॒ज्ञैर् वा॑ यज्ञवाहसो॒ विप्र॑स्य वा मती॒नाम् । मरु॑तः श्रिणु॒ता हव॑म् ॥

श्रि॒यसे॒ कम् भा॒नुभिः॒ सम् मि॑मिक्षिरे॒ ते र॒श्मिभि॒स् त ऋक्व॑भिः सुखा॒दयः॑ । ते वाशी॑मन्त इ॒ष्मिणो॒ अभी॑रवो वि॒द्रे प्रि॒यस्य॒ मारु॑तस्य॒ धाम्नः॑ ॥

अव॑ ते॒ हेड॒

उद् उ॑त्त॒मम् ।

कया॑ नश् चि॒त्र आ भु॑वद् ऊ॒ती स॒दावृ॑धः॒ सखा॑ । कया॒ शचि॑ष्ठया वृ॒ता ॥

को अ॒द्य यु॑ङ्क्ते धु॒रि गा ऋ॒तस्य॒ शिमी॑वतो भा॒मिनो॒ दुर्हृ॑णायून् । आ॒सन्नि॑षून् हृ॒त्स्वसो॑ मयो॒भून् य ए॑षाम् भृ॒त्याम् ऋ॒णध॒त् स जी॑वात् ॥

अग्ने॑ नय \

आ दे॒वाना॑म् \

शं॒ नो॒ भ॒व॒न्तु॒

वाजे॑वाजे

अ॒प्स्व् अ॑ग्ने॒ सधि॒ष् टव॒ सौष॑धी॒र् अनु॑ रुध्यसे॒ गर्भे॒ सञ् जा॑यसे॒ पुनः॑ ॥

वृषा॑ सोम द्यु॒माँ अ॑सि॒ वृषा॑ देव॒ वृष॑व्रतः । वृषा॒ धर्मा॑णि दधिषे ॥

इ॒मम् मे॑ वरुण॒

तत् त्वा॑ यामि॒

त्वं नो॑ अग्ने॒

स त्वं नो॑ अग्ने ॥