यु॒ञ्जा॒नः प्र॑थ॒मम् मन॑स् त॒त्वाय॑ सवि॒ता धियः॑ । अ॒ग्निं ज्योति॑र् नि॒चाय्य॑ पृथि॒व्या अध्य् आभ॑रत् ॥
यु॒क्त्वाय॒ मन॑सा दे॒वान्त् सुव॑र् य॒तो धि॒या दिव॑म् । बृ॒हज् ज्योतिः॑ करिष्य॒तः स॑वि॒ता प्र सु॑वति॒ तान् ॥
यु॒क्तेन॒ मन॑सा व॒यं दे॒वस्य॑ सवि॒तुः स॒वे । सु॒व॒र्गेया॑य॒ शक्त्यै॑ ॥
यु॒ञ्जते॒ मन॑ उ॒त यु॑ञ्जते॒ धियो॒ विप्रा॒ विप्र॑स्य बृह॒तो वि॑प॒श्चितः॑ । वि होत्रा॑ दधे वयुणा॒विद् एक॒ इत् ॥
म॒ही दे॒वस्य॑ सवि॒तुः परि॑ष्टुतिः ॥
यु॒जे वा॒म् ब्रह्म॑ पू॒र्व्यं नमो॑भि॒र् वि श्लोका॑ यन्ति प॒थ्ये॑व॒ सूराः॑ । शृ॒ण्वन्ति॒ विश्वे॑ अ॒मृत॑स्य पु॒त्रा आ ये धामा॑नि दि॒व्यानि॑ त॒स्थुः ॥
यस्य॑ प्र॒याण॒म् अव् अ॒न्य इद् य॒युर् दे॒वा दे॒वस्य॑ महि॒मान॒म् अर्च॑तः । यः पार्थि॑वानि विम॒मे स एत॑शो॒ रजाँ॑सि दे॒वः स॑वि॒ता म॑हित्व॒ना ॥
देव॑ सवितः॒ प्र सु॑व य॒ज्ञम् प्र सु॑व ॥
य॒ज्ञप॑ति॒म् भगा॑य दि॒व्यो ग॑न्ध॒र्वः के॑त॒पूः केतं॑ नः पुनातु वा॒चस् पति॒र् वाच॑म् अ॒द्य स्व॑दाति नः ॥
इ॒मं नो॑ देव सवितर् य॒ज्ञम् प्र सु॑व देवा॒युवँ॑ सखि॒विदँ॑ सत्रा॒जितं॑ धन॒जितँ॑ सुव॒र्जित॑म् ॥
ऋ॒चा स्तोमँ॒ सम् अ॑र्धय गाय॒त्रेण॑ रथंत॒रम् । बृ॒हद् गा॑य॒त्रव॑र्तनि ॥
दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे॑ऽश्विनो॑र् बा॒हुभ्या॑म् पू॒ष्णो हस्ता॑भ्याम् गाय॒त्रेण॒ छन्द॒सा द॑देऽङ्गिर॒स्वत् \
अभ्रि॑र् असि॒ नारिः॑ ॥
अ॒सि॒ पृ॒थि॒व्याः स॒धस्था॑द् अ॒ग्निम् पु॑री॒ष्य॑म् अङ्गिर॒स्वद् आ भ॑र त्रैष्टु॒भेन॑ त्वा॒ छन्द॒सा द॑देऽङ्गिर॒स्वत् \
बभ्रि॑र् असि॒ नारि॑र् असि॒ त्वया॑ व॒यँ स॒धस्थ॒ आग्निँ श॑केम॒ खनि॑तुम् पुरी॒ष्यं॑ जाग॑तेन त्वा॒ छन्द॒सा द॑देऽङ्गिर॒स्वत् \
हस्त॑ आ॒धाय॑ सवि॒ता बिभ्र॒द् अभ्रिँ॑ हिर॒ण्ययी॑म् । तया॒ ज्योति॒र् अज॑स्र॒म् इद् अ॒ग्निं खा॒त्वी न॒ आ भ॒रानु॑ष्टुभेन त्वा॒ छन्द॒सा द॑देऽङ्गिर॒स्वत् ॥
इ॒माम् अ॑गृभ्णन् रश॒नाम् ऋ॒तस्य॒ पूर्व॒ आयु॑षि वि॒दथे॑षु क॒व्या । तया॑ दे॒वाः सु॒तम् आ ब॑भूवुर् ऋ॒तस्य॒ साम॑न्त् स॒रम् आ॒रप॑न्ती ॥
प्रतू॑र्तं {F वाजिन्न्} {W वजि॑न्न्} {अस्स् वा॒जि॒न्न्} {बि वा॒जि॒न्न्} {गोल्स् -} आ द्र॑व॒ वरि॑ष्ठा॒म् अनु॑ सं॒वत॑म् । दि॒वि ते॒ जन्म॑ पर॒मम् अ॒न्तरि॑क्षे॒ नाभिः॑ पृथि॒व्याम् अधि॒ योनिः॑ ॥
यु॒ञ्जाथाँ॒ रास॑भं यु॒वम् अ॒स्मिन् यामे॑ वृषण्वसू । अ॒ग्निम् भर॑न्तम् अस्म॒युम् ॥
योगे॑योगे त॒वस्त॑रं॒ वाजे॑-वाजे हवामहे । सखा॑य॒ इन्द्र॑म् ऊ॒तये॑ ॥
प्र॒तूर्व॑न् ॥
एह्य् अ॑व॒क्राम॒न्न् अश॑स्ती रु॒द्रस्य॒ गाण॑पत्यान् मयो॒भूर् एहि॑ । उ॒र्व् अ॑न्तरि॑क्ष॒म् अन्व् इ॑हि स्व॒स्तिग॑व्यूति॒र् अभ॑यानि कृ॒ण्वन् ॥
पू॒ष्णा स॒युजा॑ स॒ह पृ॑थि॒व्याः स॒धस्था॑द् अ॒ग्निम् पु॑रि॒ष्य॑म् अङ्गिर॒स्वद् अछे॑हि \
अ॒ग्निम् पु॑री॒ष्य॑म् अङ्गिर॒स्वद् अछे॑मस् \
अ॒ग्निम् पु॑री॒ष्य॑म् अङ्गिर॒स्वद् भ॑रिष्यामस् \
अ॒ग्निम् पु॑री॒ष्य॑म् अङ्गिर॒स्वद् भ॑रामः ।
अन्व् अ॒ग्निर् उ॒षसा॒म् अग्र॑म् अख्य॒द् अन्व् अहा॑नि प्रथ॒मो जा॒तवे॑दाः । अनु॒ सूर्य॑स्य ॥
पु॒रु॒त्रा च॑ र॒श्मीन् अनु॒ द्यावा॑पृथि॒वी आ त॑तान ॥
आ॒गत्य॑ वा॒ज्य् अध्व॑नः॒ सर्वा॒ मृधो॒ वि धू॑नुते । अ॒ग्निँ स॒धस्थे॑ मह॒ति चक्षु॑षा॒ नि चि॑कीषते ॥
आ॒क्रम्य॑ वाजिन् पृथि॒वीम् अ॒ग्निम् इ॑छ रु॒चा त्वम् । भूया॑ वृ॒त्वाय॑ नो ब्रूहि॒ यतः॒ खना॑म॒ तं व॒यम् ॥
द्यौस् ते॑ पृ॒ष्ठम् पृ॑थि॒वी स॒धस्थ॑म् आ॒त्मान्तरि॑क्षँ समु॒द्रस् ते॒ योनिः॑ । वि॒ख्याय॒ चक्षु॑षा॒ त्वम् अ॒भि ति॑ष्ठ ॥
पृ॒त॒न्य॒तः ॥
उत् क्रा॑म मह॒ते सौभ॑गाया॒स्माद् आ॒स्थाना॑द् द्रविणो॒दा वा॑जिन् । व॒यँ स्या॑म सुम॒तौ पृ॑थि॒व्या अ॒ग्निं ख॑नि॒ष्यन्त॑ उ॒पस्थे॑ अस्याः ॥
उद् अ॑क्रमीद् द्रविणो॒दा वा॒ज्य् अर्वाकः॒ स लो॒कँ सुकृ॑तम् पृथि॒व्याः । ततः॑ खनेम सु॒प्रती॑कम् अ॒ग्निँ सुवो॒ रुहा॑णा॒ अधि॒ नाक॑ उत्त॒मे ॥
{F अ॒पो} {W अ॒पो} {अस्स् अ॒पो} {बि अ॒पो॑} {गोल्स् -} दे॒वीर् उप॑ सृज॒ मधु॑मतीर् अय॒क्ष्माय॑ प्र॒जाभ्यः॑ । तासाँ॒ स्थाना॒द् उज् जि॑हता॒म् ओष॑धयः सुपिप्प॒लाः ॥
जिघ॑र्मि ॥
अ॒ग्निम् मन॑सा घृ॒तेन॑ प्रति॒क्ष्यन्त॒म् भुव॑नानि॒ विश्वा॑ । पृ॒थुं ति॑र॒श्चा वय॑सा बृ॒हन्तं॒ व्यचि॑ष्ठ॒म् अन्नँ॑ रभ॒सं विदा॑नम् ॥
आ त्वा॑ जिघर्मि॒ वच॑सा घृ॒तेना॑र॒क्षसा॒ मन॑सा॒ तज् जु॑षस्व । मर्य॑श्री स्पृह॒यद्व॑र्णो अ॒ग्निर् नाभि॒मृशे॑ त॒नुवा॒ जर्हृ॑षाणः ॥
परि॒ वाज॑पतिः क॒विर् अ॒ग्निर् हव्या॑न्य् अक्रमीत् । दध॒द् रत्ना॑नि दा॒शुषे॑ ॥
परि॑ त्वाग्ने॒ पुरं॑ व॒यं विप्रँ॑ सहस्य धीमहि । धृ॒षद्व॑र्णं दि॒वेदि॑वे भे॒त्तार॑म् भङ्गु॒राव॑तः ॥
त्वम् अ॑ग्ने॒ द्युभि॒स् त्वम् आ॑शुशु॒क्षणि॒स् त्वम् अ॒द्भ्यस् त्वम् अश्म॑न॒स् परि॑ । त्वं वने॑भ्य॒स् त्वम् ओष॑धीभ्य॒स् त्वं नृ॒णां नृ॑पते जायसे॒ शुचिः॑ ॥
दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे॑ऽश्विनो॑र् बा॒हुभ्या॑म् पू॒ष्णो हस्ता॑भ्याम् पृथि॒व्याः स॒धस्थे॒ऽग्निम् पु॑री॒ष्य॑म् अङ्गिर॒स्वत् ख॑नामि ॥
ज्योति॑ष्मन्तं त्वाग्ने सु॒प्रती॑क॒म् अज॑स्रेण भा॒नुना॒ दीद्या॑नम् । शि॒वम् प्र॒जाभ्योऽहिँ॑सन्तम् पृथि॒व्याः स॒धस्थे॒ऽग्निम् पु॑री॒ष्य॑म् अङ्गिर॒स्वत् ख॑नामि ॥
अ॒पाम् पृ॒ष्ठम् अ॑सि स॒प्रथा॑ उ॒र्व् अ॑ग्निम् भ॑रि॒ष्यद् अप॑रावपिष्ठम् । वर्ध॑मानम् म॒ह आ च॒ पुष्क॑रं दि॒वो मात्र॑या वरि॒णा प्र॑थस्व ॥
शर्म॑ च स्थः ॥
वर्म॑ च स्थो॒ अछि॑द्रे बहु॒ले उ॒भे । व्यच॑स्वती॒ सं व॑साथाम् भ॒र्तम् अ॒ग्निम् पु॑री॒ष्य॑म् ॥
सं व॑साथाँ सुव॒र्विदा॑ स॒मीची॒ उर॑सा॒ त्मना॑ । अ॒ग्निम् अ॒न्तर् भ॑रि॒ष्यन्ती॒ ज्योति॑ष्मन्त॒म् अज॑स्र॒म् इत् ॥
पु॒री॒ष्यो॑ऽसि वि॒श्वभ॑राः । अथ॑र्वा त्वा प्रथ॒मो निर् अ॑मन्थद् अग्ने
त्वाम् अ॑ग्ने॒ पुष्क॑रा॒द् अध्य् अथ॑र्वा॒ निर् अ॑मन्थत । मू॒र्ध्नो विश्व॑स्य वा॒घतः॑ ॥
तम् उ॑ त्वा द॒ध्यङ्ङ् ऋषिः॑ पु॒त्र ई॑धे ॥
अथ॑र्वणः । वृ॒त्र॒हण॑म् पुरं द॒रम् ॥
तम् उ॑ त्वा पा॒थ्यो वृषा॒ सम् ई॑धे दस्यु॒हन्त॑मम् । ध॒नं॒ज॒यँ रणे॑रणे ॥
सीद॑ होतः॒ स्व उ॑ लो॒के चि॑कि॒त्वान्त् सा॒दया॑ य॒ज्ञँ सु॑कृ॒तस्य॒ योनौ॑ । दे॒वा॒वीर् दे॒वान् ह॒विषा॑ यजा॒स्य् अग्ने॑ बृ॒हद् यज॑माने॒ वयो॑ धाः ॥
नि होता॑ होतृ॒षद॑ने॒ विदा॑नस् त्वे॒षो दी॑दि॒वाँ अ॑सदत् सु॒दक्षः॑ । अद॑ब्धव्रतप्रमति॒र् वसि॑ष्ठः सहस्रम्भ॒रः शुचि॑जिह्वो अ॒ग्निः ॥
सँ सी॑दस्व म॒हाँ अ॑सि॒ शोच॑स्व ॥
दे॒व॒वीत॑मः । वि धू॒मम् अ॑ग्ने अरु॒षम् मि॑येध्य सृ॒ज प्र॑शस्त दर्श॒तम् ॥
जनि॑ष्वा॒ हि जेन्यो॒ अग्रे॒ अह्ना॑म् हि॒तो हि॒तेष्व् अ॑रु॒षो वने॑षु । दमे॑दमे स॒प्त रत्ना॒ दधा॑नो॒ऽग्निर् होता॒ नि ष॑सादा॒ यजी॑यान् ॥
सं ते॑ वा॒युर् मा॑तरिश्वा दधातूत्ता॒नायै॒ हृद॑यं॒ यद् विलि॑ष्टम् । दे॒वानां॒ यश् चर॑ति प्रा॒णथे॑न॒ तस्मै॑ च देवि॒ वष॑ड् अस्तु॒ तुभ्य॑म् ॥
सुजा॑तो॒ ज्योति॑षा स॒ह शर्म॒ वरू॑थ॒म् आस॑दः॒ सुवः॑ । वासो॑ अग्ने वि॒श्वरू॑पँ॒ सं व्य॑यस्व विभावसो ॥
उद् उ॑ तिष्ठ स्वध्व॒रावा॑ नो दे॒व्या कृ॒पा । दृ॒शे च॑ भा॒सा बृ॑ह॒ता सु॑शु॒क्वनि॒र् आग्ने॑ याहि सुश॒स्तिभिः॑ ॥
ऊ॒र्ध्व ऊ॒ षु ण॑ ऊ॒तये॒ तिष्ठा॑ दे॒वो न स॑वि॒ता । ऊ॒र्ध्वो वाज॑स्य॒ सनि॑ता॒ यद् अ॒ञ्जिभि॑र् वा॒घद्भि॑र् वि॒ह्वया॑महे ॥
स जा॒तो गर्भो॑ असि॒ रोद॑स्यो॒र् अग्ने॒ चारु॒र् विभृ॑त॒ ओष॑धीषु । चि॒त्रः शिशुः॒ परि॒ तमाँ॑स्य् अ॒क्तः प्र मा॒तृभ्यो॒ अधि॒ कनि॑क्रदद् गाः ॥
स्थि॒रो भ॑व वी॒ड्व॑ङ्ग आ॒शुर् भ॑व वा॒ज्य् अ॑र्वन् । पृ॒थुर् भ॑व सु॒षद॒स् त्वम् अ॒ग्नेः पु॑रीष॒वाह॑नः ॥
शि॒वो भ॑व ॥
प्र॒जाभ्यो॒ मानु॑षीभ्य॒स् त्वम् अ॑ङ्गिरः । मा द्यावा॑पृथि॒वी अ॒भि शू॑शुचो॒ मान्तरि॑क्ष॒म् मा वन॒स्पती॑न् ॥
प्रैतु॑ वा॒जी कनि॑क्रद॒न् नान॑द॒द् रास॑भः॒ पत्वा॑ । भर॑न्न् अ॒ग्निम् पु॑री॒ष्य॑म् मा पा॒द्य् आयु॑षः पु॒रा ॥
रास॑भो वां॒ कनि॑क्रद॒त् सुयु॑क्तो वृषणा॒ रथे॑ । स वा॑म् अ॒ग्निम् पु॑री॒ष्य॑म् आ॒शुर् दू॒तो व॑हाद् इ॒तः ॥
वृषा॒ग्निं वृष॑ण॒म् भर॑न्न् अ॒पां गर्भँ॑ समु॒द्रिय॑म् । अग्न॒ आ या॑हि ॥
वी॒तय॑ ऋ॒तँ स॒त्यम् ॥
ओष॑धयः॒ प्रति॑ गृह्णीता॒ग्निम् ए॒तँ शि॒वम् आ॒यन्त॑म् अ॒भ्य् अत्र॑ यु॒ष्मान् । व्यस्य॒न् विश्वा॒ अम॑ती॒र् अरा॑तीर् नि॒षीद॑न् नो॒ अप॑ दुर्म॒तिँ ह॑नत् ॥
ओष॑धयः॒ प्रति॑ मोदध्वम् एन॒म् पुष्पा॑वतीः सुपिप्प॒लाः । अ॒यं वो॒ गर्भ॑ ऋ॒त्वियः॑ प्र॒त्नँ स॒धस्थ॒म् आस॑दत् ॥
वि पाज॑सा पृ॒थुना॒ शोशु॑चानो॒ बाध॑स्व द्वि॒षो र॒क्षसो॒ अमी॑वाः । सु॒शर्म॑णो बृह॒तः शर्म॑णि स्याम् अ॒ग्नेर् अ॒हँ सु॒हव॑स्य॒ प्रणी॑तौ ॥
आपो॒ हि ष्ठा म॑यो॒भुव॒स् ता न॑ ऊ॒र्जे द॑धातन । म॒हे रणा॑य॒ चक्ष॑से ॥
यो वः॑ शि॒वत॑मो॒ रस॒स् तस्य॑ भाजयते॒ऽह नः॑ । उ॒श॒तीर् इ॑व मा॒तरः॑ ॥
तस्मा॒ अरं॑ गमाम वो॒ यस्य॒ क्षया॑य॒ जिन्व॑थ । आपो॑ ज॒नय॑था च नः ॥
मि॒त्रः ॥
सँ॒सृज्य॑ पृथि॒वीम् भूमिं॑ च॒ ज्योति॑षा स॒ह । सुजा॑तं जा॒तवे॑दसम् अ॒ग्निं वै॑श्वान॒रं वि॒भुम् ॥
अ॒य॒क्ष्माय॑ त्वा॒ सँ सृ॑जामि प्र॒जाभ्यः॑ । विश्वे॑ त्वा दे॒वा वै॑श्वान॒राः सँ सृ॑ज॒न्त्व् आनु॑ष्टुभेन॒ छन्द॑साङ्गिर॒स्वत् ॥
रु॒द्राः स॒म्भृत्य॑ पृथि॒वीम् बृ॒हज् ज्योतिः॒ सम् ई॑धिरे । तेषा॑म् भा॒नुर् अज॑स्र॒ इच् छु॒क्रो दे॒वेषु॑ रोचते ॥
सँसृ॑ष्टां॒ वसु॑भी रु॒द्रैर् धीरैः॑ कर्म॒ण्या॑म् मृद॑म् । हस्ता॑भ्याम् मृ॒द्वीं कृ॒त्वा सि॑नीवा॒ली क॑रोतु ॥
ताम् ॥
सि॒नी॒व॒ली सु॑कप॒र्दा सु॑क्री॒रा स्वौ॑प॒शा । सा तुभ्य॑म् अदिते मह॒ ओखां द॑धातु॒ हस्त॑योः ॥
उ॒खां क॑रोतु॒ शक्त्या॑ बा॒हुभ्या॒म् अदि॑तिर् धि॒या । मा॒ता पु॒त्रं यथो॒पस्थे॒ साग्निम् बि॑भर्तु॒ गर्भ॒ आ ॥
म॒खस्य॒ शिरो॑ऽसि
य॒ज्ञस्य॑ प॒दे स्थः॑ ।
वस॑वस् त्वा कृण्वन्तु गाय॒त्रेण॒ छन्द॑साङ्गिर॒स्वत् पृ॑थि॒व्य् अ॑सि रु॒द्रास् त्वा॑ कृण्वन्तु॒ त्रैष्टु॑भेन॒ छन्द॑साङ्गिर॒स्वद् अ॒न्तरि॑क्षम् असि ॥
आ॒दि॒त्यास् त्वा॑ कृण्वन्तु॒ जाग॑तेन॒ छन्द॑साङ्गिर॒स्वद् द्यौर् अ॑सि॒ विश्वे॑ त्वा दे॒वा वै॑श्वान॒राः कृ॑ण्व॒न्त्व् आनु॑ष्टुभेन॒ छन्द॑साङ्गिर॒स्वद् दिशो॑ऽसि ध्रु॒वासि॑ धा॒रया॒ मयि॑ प्र॒जाँ रा॒यस् पोषं॑ गौप॒त्यँ सु॒रीर्यँ॑ सजा॒तान् यज॑मानाय॒ \
अदि॑त्यै॒ रास्ना॑सि॒ \
अदि॑तिस् ते॒ बिलं॑ गृह्णातु॒ पाङ्क्ते॑न॒ छन्द॑साङ्गिर॒स्वत् ।
कृ॒त्वाय॒ सा म॒हीम् उ॒खाम् मृ॒न्मयीं॒ योनि॑म् अ॒ग्नये॑ । ताम् पु॒त्रेभ्यः॒ सम् प्राय॑छ॒द् अदि॑तिः श्र॒पया॒न् इति॑ ॥
वस॑वस् त्वा धूपयन्तु गाय॒त्रेण॒ छन्द॑साङ्गिर॒स्वद् रु॒द्रास् त्वा॑ धूपयन्तु॒ त्रैष्टु॑भेन॒ छन्द॑साङ्गिर॒स्वद् आ॑दि॒त्यास् त्वा॑ धूपयन्तु॒ जाग॑तेन॒ छन्द॑साङ्गिर॒स्वद् विश्वे॑ त्वा दे॒वा वै॑श्वान॒रा धू॑पय॒न्त्व् आनु॑ष्टुभेन॒ छन्द॑साङ्गिर॒स्वद् इन्द्र॑स् त्वा धूपयत्व् अङ्गिर॒स्वद् विष्णु॑स् त्वा धूपयत्व् अङ्गिर॒स्वद् वरु॑णस् त्वा धूपयत्व् अङ्गिर॒स्वत् \
अदि॑तिस् त्वा दे॒वी वि॒श्वदे॑व्यावती पृथि॒व्याः स॒धस्थे॑ऽङ्गिर॒स्वत् ख॑नत्व् अवट
दे॒वानां॑ त्वा॒ पत्नीः॑ ॥
दे॒वीर् वि॒श्वदे॑व्यावतीः पृथि॒व्याः स॒धस्थे॑ऽङ्गिर॒स्वद् द॑धतूखे
धि॒षणा॑स् त्वा दे॒वीर् वि॒श्वदे॑व्यावतीः पृथि॒व्याः स॒धस्थे॑ऽङ्गिर॒स्वद् अ॒भीन्ध॑ताम् उखे॒ ग्नास् त्वा॑ दे॒वीर् वि॒श्वदे॑व्यावतीः पृथि॒व्याः स॒धस्थे॑ऽङ्गिर॒स्वच् छ्र॑पयन्तूखे॒ वरू॑त्रयो॒ जन॑यस् त्वा दे॒वीर् वि॒श्वदे॑व्यावतीः पृथि॒व्याः स॒धस्थे॑ऽङ्गिर॒स्वत् प॑चन्तूखे ।
मित्रै॒ताम् उ॒खाम् प॑चै॒षा मा भे॑दि ।
ए॒तां ते॒ परि॑ ददा॒म्य् अभि॑त्त्यै
अ॒भीमाम् ॥
म॒हि॒ना दिव॑म् मि॒त्रो ब॑भूव स॒प्रथाः॑ । उ॒त श्रव॑सा पृथि॒वीम् ॥
मित्र॑स्य चर्षणी॒धृतः॒ श्रवो॑ दे॒वस्य॑ सान॒सिम् । द्यु॒म्नं चि॒त्रश्र॑वस्तमम् ॥
दे॒वस् त्वा॑ सवि॒तोद् व॑पतु सुपा॒णिः स्व॑ङ्गु॒रिः । सु॒बा॒हुर् उ॒त शक्त्या॑ ॥
अप॑द्यमाना पृथि॒व्य् आशा॒ दिश॒ आ पृ॑ण । उत् ति॑ष्ठ बृह॒ती भ॑वो॒र्ध्वा ति॑ष्ठ ध्रु॒वा त्वम् ॥
वस॑व॒स् त्वा छृ॑न्दन्तु गाय॒त्रेण॒ छन्द॑साङ्गिर॒स्वद् रु॒द्रास् त्वा छृ॑न्दन्तु॒ त्रैष्टु॑भेन॒ छन्द॑साङ्गिर॒स्वद् आ॑दि॒त्यास् त्वा॑ छृन्दन्तु॒ जाग॑तेन॒ छन्द॑साङ्गिर॒स्वद् वि॑श्वे त्वा दे॒वा वै॑श्वान॒रा आ छृ॑न्द॒न्त्व् आनु॑ष्टुभेन॒ छन्द॑साङ्गिर॒स्वत् ॥
समा॑स् त्वाग्न ऋ॒तवो॑ वर्धयन्तु संवत्स॒रा ऋष॑यो॒ यानि॑ स॒त्या । सं दि॒व्येन॑ दीदिहि रोच॒नेन॒ विश्वा॒ आ भा॑हि प्र॒दिशः॑ पृथि॒व्याः ॥
सं चे॒ध्यस्वा॑ग्ने॒ प्र च॑ बोधयैन॒म् उच् च॑ तिष्ठ मह॒ते सौभ॑गाय । मा च॑ ऋषद् उपस॒त्ता ते॑ अग्ने ब्र॒ह्माण॑स् ते य॒शसः॑ सन्तु॒ मान्ये ॥
त्वाम् अ॑ग्ने वृणते ब्राह्म॒णा इ॒मे शि॒वो अ॑ग्ने ॥
सं॒वर॑णे भवा नः । स॒प॒त्न॒हा नो॑ अभिमाति॒जिच् च॒ स्वे गये॑ जागृ॒ह्य् अप्र॑युछन् ॥
इ॒हैवाग्ने॒ अधि॑ धारया र॒यिम् मा त्वा॒ नि क्र॑न् पूर्व॒चितो॑ निका॒रिणः॑ । क्ष॒त्रम् अ॑ग्ने सु॒यम॑म् अस्तु॒ तुभ्य॑म् उपस॒त्ता व॑र्धतां ते॒ अनि॑ष्टृतः ॥
क्ष॒त्रेणा॑ग्ने॒ स्वायुः॒ सँ र॑भस्व मि॒त्रेणा॑ग्ने मित्र॒धेये॑ यतस्व । स॒जा॒ताना॑म् मध्यम॒स्था ए॑धि रा॒ज्ञाम् अ॑ग्ने विह॒व्यो॑ दीदिही॒ह ॥
अति॑ ॥
निबो॒ अति॒ स्रिधोऽत्य् अचि॑त्ति॒म् अत्य् अरा॑तिम् अग्ने । वि॒श्वा॒ ह्य् अ॑ग्ने दुरि॒ता सह॒स्वाथा॒स्मभ्यँ॑ स॒हवी॑राँ र॒यिं दाः॑ ॥
अ॒ना॒धृ॒ष्यो जा॒तवे॑दा॒ अनि॑ष्टृतो वि॒राड् अ॑ग्ने क्षत्र॒भृद् दी॑दिही॒ह । विश्वा॒ आशाः॑ प्रमु॒ञ्चन् मानु॑षीर् भि॒यः शि॒वाभि॑र् अ॒द्य परि॑ पाहि नो वृ॒धे ॥
बृह॑स्पते सवितर् बो॒धयै॑नँ॒ सँशि॑तं चित् संत॒राँ सँ शि॑शाधि । व॒र्धयै॑नम् मह॒ते सौभ॑गाय ॥
विश्व॑ एन॒म् अनु॑ मदन्तु दे॒वाः ॥
अ॒मु॒त्र॒भूया॒द् अध॒ यद् य॒मस्य॒ बृह॑स्पते अ॒भिश॑स्ते॒र् अमु॑ञ्चः । प्रत्य् औ॑हताम् अ॒श्विना॑ मृ॒त्युम् अ॑स्माद् दे॒वाना॑म् अग्ने भि॒षजा॒ शची॑भिः ॥
उद् व॒यं तम॑स॒स् परि॒ पश्य॑न्तो॒ ज्योति॒र् उत्त॑रम् । दे॒वं दे॑व॒त्रा सू॑र्य॒म् अग॑न्म॒ ज्योति॑र् उत्त॒मम् ॥
ऊ॒र्ध्वा॒ अ॒स्य॒ स॒मिधो॑ भवन्त्य् ऊ॒र्ध्वा शु॒क्रा शो॒चीँष्य् अ॒ग्नेः । द्यु॒मत्त॑मा सु॒प्रती॑कस्य सू॒नोः ॥
तनू॒नपा॒द् असु॑रो वि॒श्ववे॑दा दे॒वो दे॒वेषु॑ दे॒वः । प॒थ आन॑क्ति॒ मध्वा॑ घृ॒तेन॑ ॥
मध्वा॑ य॒ज्ञं न॑क्षसे प्रीणा॒नो नरा॒शँसो॑ अग्ने । सु॒कृद् दे॒वः स॑वि॒ता वि॒श्ववा॑रः ॥
अछा॒यम् ए॑ति॒ शव॑सा घृ॒तेने॑डा॒नो वह्नि॒र् नम॑सा । अ॒ग्निँ स्रुचो॑ अध्व॒रेषु॑ प्र॒यत्सु॑ ॥
स य॑क्षद् अस्य महि॒मान॑म् अ॒ग्नेः सः ॥
ई॒ म॒न्द्रासु॑ प्र॒यसः॑ । वसु॒श् चेति॑ष्ठो वसु॒धात॑मश् च ॥
द्वारो॑ दे॒वीर् अन्व् अ॑स्य॒ विश्वे॑ व्र॒ता द॑दन्ते अ॒ग्नेः । उ॒रु॒व्यच॑सो॒ धाम्ना॒ पत्य॑मानाः ॥
ते अ॑स्य योषणे दि॒व्ये न योना॑व् उ॒षासा॒नक्ता॑ । इ॒मं य॒ज्ञम् अ॑वताम् अध्व॒रं नः॑ ॥
दैव्या॑ होताराव् ऊ॒र्ध्वम् अ॑ध्व॒रं नो॒ऽग्नेर् जि॒ह्वाम् अ॒भि गृ॑णीतम् । कृ॒णु॒तं नः॒ स्वि॑ष्टिम् ॥
ति॒स्रो दे॒वीर् ब॒र्हिर् एदँ स॑द॒न्त्व् इडा॒ सर॑स्वती ॥
भार॑ती म॒ही गृ॑णा॒ना ॥
तन् न॑स् तु॒रीप॒म् अद्भु॑तम् पुरु॒क्षु त्वष्टा॑ सु॒वीर॑म् । रा॒यस् पोषं॒ वि ष्य॑तु॒ नाभि॑म् अ॒स्मे ॥
वन॑स्प॒तेऽव॑ सृजा॒ ररा॑ण॒स् त्मना॑ दे॒वेषु॑ । अ॒ग्निर् ह॒व्यँ श॑मि॒ता सू॑दयाति ॥
अग्ने॒ स्वाहा॑ कृणुहि जातवेद॒ इन्द्रा॑य ह॒व्यम् । विश्वे॑ दे॒वा ह॒विर् इ॒दं जु॑षन्ताम् ॥
हि॒र॒ण्य॒ग॒र्भः सम् अ॑वर्त॒ताग्रे॑ भू॒तस्य॑ जा॒तः पति॒र् एक॑ आसीत् । स दा॑धार पृथि॒वीं द्याम् ॥
उ॒तेमां कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥
यः प्राण॑तो निमिष॒तो म॑हि॒त्वैक॒ इद् राजा॒ जग॑तो ब॒भूव॑ । य ईशे॑ अस्य द्वि॒पद॒श् चतु॑ष्पदः॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥
य आ॑त्म॒दा ब॑ल॒दा यस्य॒ विश्व॑ उ॒पास॑ते प्रशिषं॒ यस्य॑ दे॒वाः । यस्य॑ छा॒यामृतं॒ यस्य॑ मृ॒त्युः कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥
यस्ये॑मे हि॒म व॑न्तो महि॒त्वा यस्य॑ समु॒द्रँ र॒सया॑ स॒ह ॥
आ॒हुः । यस्ये॒माः प्र॒दिशो॒ यस्य॑ बा॒हू कस्मै॑ दे॒वाय॑ ब॒विषा॑ विधेम ॥
यं क्रन्द॑सी॒ अव॑सा त॒स्तभा॑ने अ॒भ्यैक्षे॑ता॒म् मन॑सा॒ रेज॑माने । यत्राधि॒ सूर॒ उदि॑तौ॒ व्येति॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥
येन॒ द्यौर् उ॒ग्रा पृ॑थि॒वी च॑ दृ॒ढे येन॒ सुव॒ स्तभि॑तं॒ येन॒ नाकः॑ । यो अ॒न्तरि॑क्षे॒ रज॑सो वि॒मानः॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥
आपो॑ ह॒ यन् म॑ह॒तीर् विश्व॑म् ॥
आय॒न् दक्षं॒ दधा॑ना ज॒नय॑न्तीर् अ॒ग्निम् । ततो॑ दे॒वानां॒ निर् अ॑वर्त॒तासु॒र् एकः॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥
यश् चि॒द् आपो॑ महि॒ना प॒र्यप॑श्य॒द् दक्षं॒ दधा॑ना ज॒नय॑न्तीर् अ॒ग्निम् । यो दे॒वेष्व् अधि॑ दे॒व एक॒ आसी॒त् कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥
आकू॑तिम् अ॒ग्निम् प्र॒युजँ॒ स्वाहा॒ मनो॑ मे॒धाम् अ॒ग्निम् प्र॒युजँ॒ स्वाहा॑ चि॒त्तं विज्ञा॑तम् अ॒ग्निम् प्र॒युजँ॒ स्वाहा॑ वा॒चो विधृ॑तिम् अ॒ग्निम् प्र॒युजँ॒ स्वाहा॑ प्र॒जाप॑तये॒ मन॑वे॒ स्वाहा॒ग्नये॑ वैश्वान॒राय॒ स्वाहा॒
विश्वे॑ दे॒वस्य॑ ने॒तुर् मर्तो॑ वृणीत स॒ख्यं विश्वे॑ रा॒य इ॑षुध्यसि द्यु॒म्नं वृ॑णीत पु॒ष्यसे॒ स्वाहा॑
मा सु भि॑त्था॒ मा सु रि॑षो॒ दृँह॑स्व वी॒डय॑स्व॒ सु । अम्ब॑ धृष्णु वी॒रय॑स्व ॥
अ॒ग्निश् चे॒दं क॑रिष्यथः ॥
दृँह॑स्व देवि पृथिवि स्व॒स्तय॑ आसु॒री मा॒या स्व॒धया॑ कृ॒तासि॑ । जुष्टं॑ दे॒वानां॑ इ॒दम् अ॑स्तु ह॒व्यम् अरि॑ष्टा॒ त्वम् उद् इ॑हि य॒ज्ञे अ॒स्मिन् ॥
मित्रै॒ताम् उ॒खां त॑पै॒षा मा भे॑दि ।
ए॒ताम् ते॒ परि॑ ददा॒म्य् अभि॑त्त्यै ।
द्र्व॑न्नः स॒र्पिरा॑सुतिः प्र॒त्नो होता॒ वरे॑ण्यः । सह॑सस् पु॒त्रो अद्भु॑तः ॥
पर॑स्या॒ अधि॑ सं॒वतोऽव॑राँ अ॒भ्य् आ ॥
त॒र॒ । यत्रा॒हम् अस्मि॒ ताँ अ॑व ॥
प॒र॒मस्याः॑ परा॒वतो॒ र्हिद॑श्व इ॒हा ग॑हि । पु॒री॒ष्यः॑ पुरुप्रि॒योऽग्ने॒ त्वं त॑रा॒ मृधः॑ ॥
सीद॒ त्वम् मा॒तुर् अ॒स्या उ॒पस्थे॒ विश्वा॑न्य् अग्ने व॒युना॑नि वि॒द्वान् । मैना॑म् अ॒र्चिषा॒ मा तप॑सा॒भि शू॑शुचो॒ऽन्तर् अ॑स्याँ शु॒क्रज्यो॑ति॒र् वि भा॑हि ॥
अ॒न्तर् अ॑ग्ने रु॒चा त्वम् उ॒खायै॒ सद॑ने॒ स्वे । तस्या॒स् त्वँ हर॑सा॒ तप॒ङ् जात॑वेदः शि॒वो भ॑व ॥
शि॒वो भू॒त्वा म॒ह्यम् अ॒ग्नेऽथो॑ सीद शि॒वस् त्वम् । शि॒वाः कृ॒त्वा दिशः॒ सर्वाः॒ स्वां योनि॑म् इ॒हास॑दः ॥
यद् अ॑ग्ने॒ यानि॒ कानि॒ चा ते॒ दारू॑णि द॒ध्मसि॑ । तद् अ॑स्तु॒ तुभ्य॒म् इद् घृ॒तं तज् जु॑षस्व यविष्ठ्य ॥
यद् अत्त्य् उ॑प॒जिह्वि॑का॒ यद् व॒म्रो अ॑ति॒सर्प॑ति । सर्वं॒ तद् अ॑स्तु ते घृ॒तं तज् जु॑षस्व यविष्ठ्य ॥
रात्रिँ॑रात्रि॒म् अप्र॑याव॒म् भर॒त्नोऽश्वा॑येव॒ तिष्ठ॑ते घा॒सम् अ॑स्मै । रा॒यस् पोषे॑ण॒ सम् इ॒षा मद॒न्तोऽग्ने॒ मा ते॒ प्रति॑वेशा रिषाम ॥
नाभा॑ ॥
पृ॒थि॒व्याः स॑मिधा॒नम् अ॒ग्निँ रा॒यस् पोषा॑य बृह॒ते ह॑वामहे । इ॒र॒म्म॒दम् बृ॒हदु॑क्थं॒ यज॑त्रं॒ जेता॑रम् अ॒ग्निम् पृत॑नासु सास॒हिम् ॥
याः सेना॑ अ॒भीत्व॑रीर् आव्या॒धिनी॒र् उग॑णा उ॒त । ये स्ते॒ना ये च॒ तस्क॑रा॒स् ताँस् ते॑ अ॒ग्नेऽपि॑ दधाम्य् आ॒स्ये॑ ॥
दँष्ट्रा॑भ्याम् म॒लिम्लू॒ञ् जम्भ्यै॒स् तस्क॑राँ उ॒त । हनू॑भ्याँ॒ स्तेना॑न् भगव॒स् ताँस् त्वं खा॑द॒ सुखा॑दितान् ॥
ये जने॑षु म॒लिम्ल॑व स्ते॒नास॒स् तस्क॑रा॒ वने॑ । ये ॥
कक्षे॑ष्व् अघा॒यव॒स् ताँस् ते॑ दधामि॒ जम्भ॑योः ॥
यो अ॒स्मभ्य॑म् अराती॒याद् यश् च॑ नो॒ द्वेष॑ते॒ जनः॑ । निन्दा॒द् यो अ॒स्मान् दिप्सा॑च् च॒ सर्वं॒ तम् म॑स्म॒सा कु॑रु ॥
सँशि॑तम् मे॒ ब्रह्म॒ सँशि॑तं वी॒र्य॑म् बल॑म् । सँशि॑तम् क्ष॒त्रं जि॒ष्णु यस्या॒हम् अस्मि॑ पु॒रोहि॑तः ॥
उद् ए॑षाम् बा॒हू अ॑तिर॒म् उद् वर्च॒ उद् ऊ॒ बल॑म् । क्षि॒णोमि॒ ब्रह्म॑णा॒मित्रा॒न् उन् न॑यामि ॥
स्वाँ अ॒हम् ।
दृ॒शा॒नो रु॒क्म उ॒र्व्या व्य् अ॑द्यौद् दु॒र्मर्ष॒म् आयुः॑ श्रि॒ये रु॑चा॒नः । अ॒ग्निर् अ॒मृतो॑ अभव॒द् वयो॑भि॒र् यद् ए॑नं॒ द्यौर् अज॑नयत् सु॒रेताः॑ ॥
विश्वा॑ रू॒पाणि॒ प्रति॑ मुञ्चते क॒विः प्रासा॑वीद् भ॒द्रं द्वि॒पदे॒ चतु॑ष्पदे । वि नाक॑म् अख्यत् सवि॒ता वरे॒ण्योऽनु॑ प्र॒याण॑म् उ॒षसो॒ वि रा॑जति ॥
नक्तो॒षासा॒ सम॑नसा॒ विरू॑पे धा॒पये॑ते॒ शिशु॒म् एकँ॑ समी॒ची । द्यावा॒ क्षामा॑ रु॒क्मः ॥
अ॒न्तर् वि भा॑ति दे॒वा अ॒ग्निं धा॑रयन् द्रविणो॒दाः ॥
सु॒प॒र्णो॑ऽसि ग॒रुत्मा॑न् त्रि॒वृत् ते॑ शिरो गाय॒त्रं चक्षु॒ स्तोम॑ आ॒त्मा साम॑ ते त॒नूर् वा॑मदे॒व्यम् बृ॑हद्रथन्त॒रे पक्षौ॑ यज्ञाय॒ज्ञिय॒म् पुछं॒ छन्दाँ॒स्य् अङ्गा॑नि॒ धिष्णि॑याः॒ शफा॒ यजूँ॑षि॒ नाम॑ ।
सु॒प॒र्णो॑ऽसि ग॒रुत्मा॒न् दिवं॑ गछ॒ सुवः॑ पत ॥
अग्ने॒ यं य॒ज्ञम् अ॑ध्व॒रं वि॒श्वतः॑ परि॒भूर् असि॑ । स इद् दे॒वेषु॑ गछति ॥
सोम॒ यास् ते॑ मयो॒भुव॑ ऊ॒तयः॒ सन्ति॑ दा॒शुषे॑ । ताभि॑र् नोऽवि॒ता भ॑व ॥
अ॒ग्निर् मू॒र्धा
भुवः॑ ।
त्वं नः॑ सोम
या ते॒ धामा॑नि ।
तत् स॑वि॒तुर् वरे॑ण्य॒म् भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ यो नः॑ प्रचो॒दया॑त् ॥
अचि॑त्ती॒ यच् च॑कृ॒मा दैव्ये॒ जने॒ दीनै॒र् दक्षैः॒ प्रभू॑ती पूरुष॒त्वता॑ ॥
दे॒वेषु॑ च सवित॒र् मानु॑षेषु च॒ त्वं नो॒ अत्र॑ सुवता॒द् अना॑गसः ॥
चो॒द॒यि॒त्री सू॒नृता॑नां॒ चेत॑न्ती सुमती॒नाम् । य॒ज्ञं द॑धे॒ सर॑स्वती ॥
पावी॑रवी क॒न्या॑ चि॒त्रायुः॒ सर॑स्वती वी॒रप॑त्नी॒ धियं॑ धात् । ग्नाभि॒र् अछि॑द्रँ शर॒णँ स॒जोषा॑ दुरा॒धर्षं॑ गृण॒ते शर्म॑ यँसत् ॥
पू॒षा गा अन्व् ए॑तु नः पू॒षा र॑क्ष॒त्व् अर्व॑तः । पू॒षा वाजँ॑ सनोतु नः ॥
शु॒क्रं ते॑ अ॒न्यद् य॑ज॒तं ते॑ अ॒न्यत् ॥
विषु॑रूपे॒ अह॑नी॒ द्यौर् इ॑वासि । विश्वा॒ हि मा॒या अव॑सि स्वधावो भ॒द्रा ते॑ पूषन्न् इ॒ह रा॒तिर् अ॑स्तु ॥
ते॑ऽवर्धन्त॒ स्वत॑वसो महित्व॒ना नाकं॑ त॒स्थुर् उ॒रु च॑क्रिरे॒ सदः॑ । विष्णु॒र् यद् धाव॒द् वृष॑णम् मद॒च्युतं॒ वयो॒ न सी॑द॒न्न् अधि॑ ब॒र्हिषि॑ प्रि॒ये ।
प्र चि॒त्रम् अ॒र्कं गृ॑ण॒ते तु॒राय॒ मारु॑ताय॒ स्वत॑वसे भरध्वम् । ये सहाँ॑सि॒ सह॑सा॒ सह॑न्ते ॥
रेज॑ते अग्ने पृथि॒वी म॒खेभ्यः॑ ॥
विश्वे॑ दे॒वास् \
विश्वे॑ दे॒वाः ।
द्यावा॑ नः पृथि॒वी इ॒मँ सि॒ध्रम् अ॒द्य दि॑वि॒स्पृश॑म् । य॒ज्ञं दे॒वेषु॑ यछताम् ॥
प्र पू॑र्व॒जे पि॒तरा॒ नव्य॑सीभिर् गी॒र्भिः कृ॑णुध्वँ॒ सद॑ने ऋ॒तस्य॑ । आ नो॑ द्यावापृथिवी॒ दैव्ये॑न॒ जने॑न यातम् म॒हि वां॒ वरू॑थम् ॥
अ॒ग्निँ स्तोमे॑न बोधय समिधा॒नो अम॑र्त्यम् । ह॒व्या दे॒वेषु॑ नो दधत् ॥
स ह॑व्य॒वाड् अम॑र्त्य उ॒शिग् दू॒तश् चनो॑हितः । अ॒ग्निर् धि॒या सम् ऋ॑ण्वति ॥
शं नो॑ भवन्तु
वाजे॑वाजे ॥