पू॒र्णा प॒श्चाद् उ॒त पू॒र्णा पु॒रस्ता॒द् उन् म॑ध्य॒तः पौ॑र्णमा॒सी जि॑गाय । तस्यां॑ दे॒वा अधि॑ सं॒वस॑न्त उत्त॒मे नाक॑ इ॒ह मा॑दयन्ताम् ॥
यत् ते॑ दे॒वा अद॑धुर् भाग॒धेय॒म् अमा॑वास्ये सं॒वस॑न्तो महि॒त्वा । सा नो॑ य॒ज्ञम् पि॑पृहि विश्ववारे र॒यिं नो॑ धेहि सुभगे सु॒वीर॑म् ॥
नि॒वेश॑नी सं॒गम॑नी॒ वसू॑नां॒ विश्वा॑ रू॒पाणि॒ वसू॑न्य् आवे॒शय॑न्ती । स॒ह॒स्र॒पो॒षँ सु॒भगा॒ ररा॑णा॒ सा न॒ आ ग॒न् वर्च॑सा ।=2 सं॒वि॒दा॒ना ॥
अग्नी॑षोमौ प्रथ॒मौ वी॒र्ये॑ण॒ वसू॑न् रु॒द्रान् आ॑दि॒त्यान् इ॒ह जि॑न्वतम् । मा॒ध्यँ हि पौ॑र्णमा॒सं जु॒षेथा॒म् ब्रह्म॑णा वृ॒द्धौ सु॑कृ॒तेन॑ सा॒ताव् अथा॒स्मभ्यँ॑ स॒हवी॑राँ र॒यिं नि य॑छतं ॥
आ॒दि॒त्याश् चा॑ङ्गिरसश् चा॒ग्नीन् आद॑धत॒ ते द॑र्शपूर्णमा॒सौ प॒रिप्स॒न्
तेषा॒म् अङ्गि॑रसां॒ निरु॑प्तँ ह॒विर् आसी॒द् अथा॑दि॒त्या ए॒तौ होमा॑व् अपश्य॒न् ताव् अ॑जुहवु॒स् ततो॒ वै ते द॑र्शपूर्णमा॒सौ ॥
पूर्व॒ आल॑भन्त
दर्शपूर्णमा॒साव् आ॒लभ॑मान ए॒तौ होमौ॑ पु॒रस्ता॑ज् जुहुयात् सा॒क्षाद् ए॒व द॑र्शपूर्णमा॒साव् आ ल॑भते
ब्रह्मवा॒दिनो॑ वदन्ति॒
स त्वै द॑र्शपूर्णमा॒साव् आल॑भेत॒ य ए॑नयोर् अनुलो॒मं च॑ प्रतिलो॒मं च॑ वि॒द्याद् इति॑ \
अमावा॒स्या॑या ऊ॒र्ध्वं तद् अ॑नुलो॒मम् पौ॑र्णमा॒स्यै प्र॑ती॒चीनं॒ तत् प्र॑तिलो॒मम् \
यत् पौ॑र्णमा॒सीम् पूर्वा॑म् आ॒लभे॑त प्रतिलो॒मम् ए॑ना॒व् आ ल॑भेता॒मुम् अ॑प॒क्षीय॑माण॒म् अन्व् अप॑ ॥
क्षी॒ये॒त॒
सा॒र॒स्व॒तौ होमौ॑ पु॒रस्ता॑ज् जुहुयाद् अमावा॒स्या॑ वै सर॑स्वत्य् अनुलो॒मम् ए॒वैना॒व् आ ल॑भते॒ऽमुम् आ॒प्याय॑मान॒म् अन्व् आ प्या॑यते \
आग्नावैष्ण॒वम् एका॑दशकपालम् पु॒रस्ता॒न् निर् व॑पे॒त् सर॑स्वत्यै च॒रुँ सर॑स्वते॒ द्वाद॑शकपालम् \
यद् आ॑ग्ने॒यो भव॑त्य् अ॒ग्निर् वै य॑ज्ञमु॒खं य॑ज्ञमु॒खम् ए॒वर्द्धि॑म् पु॒रस्ता॑द् धत्ते॒
यद् वै॑ष्ण॒वो भव॑ति य॒ज्ञो वै विष्णु॑र् य॒ज्ञम् ए॒वारभ्य॒ प्र त॑नुते॒
सर॑स्वत्यै च॒रुर् भ॑वति॒ सर॑स्वते॒ द्वाद॑शकपालोऽमावा॒स्या॑ वै सर॑स्वती पू॒र्णमा॑सः॒ सर॑स्वा॒न् ताव् ए॒व सा॒क्षाद् आ र॑भत ऋ॒ध्नोत्य् आ॑भ्याम् \
द्वाद॑शकपालः॒ सर॑स्वते भवति मिथुन॒त्वाय॒ प्रजा॑त्यै
मिथु॒नौ गावौ॒ दक्षि॑णा॒ समृ॑द्ध्यै ॥
ऋष॑यो॒ वा इन्द्र॑म् प्र॒त्यक्षं॒ नाप॑श्य॒न्
तं वसि॑ष्ठः प्र॒त्यक्ष॑म् पश्य॒त्
सो॑ऽब्रवी॒द् ब्राह्म॑णं ते वक्ष्यामि॒ यथा॒ त्वत्पु॑रोहिताः प्र॒जाः प्र॑जनि॒ष्यन्तेऽथ॒ मेत॑रेभ्य॒ ऋषि॑भ्यो॒ मा प्र वो॑च॒ इति॒
तस्मा॑ ए॒तान्त् स्तोम॑भागान् अब्रवी॒त्
ततो॒ वसि॑ष्ठपुरोहिताः प्र॒जाः प्राजा॑यन्त॒
तस्मा॑द् वासि॒ष्ठो ब्र॒ह्मा का॒र्यः॑ प्रैव जा॑यते
र॒श्मिर् अ॑सि॒ क्षया॑य त्वा॒ क्षयं॑ जि॒न्वेति॑ ॥
आ॒ह॒ दे॒वा वै क्षयो॑ दे॒वेभ्य॑ ए॒व य॒ज्ञम् प्राह॒
प्रेति॑र् असि॒ धर्मा॑य त्वा॒ धर्मं॑ जि॒न्वेत्य् आ॑ह मनु॒ष्या॑ वै धर्मो॑ मनु॒ष्ये॑भ्य ए॒व य॒ज्ञम् प्राहान्वि॑तिर् असि दि॒वे त्वा॒ दिवं॑ जि॒न्वेत्य् आ॑है॒भ्य ए॒व लो॒केभ्यो॑ य॒ज्ञम् प्राह॑
विष्ट॒म्भो॑ऽसि॒ वृष्ट्यै॑ त्वा॒ वृष्टिं॑ जि॒न्वेत्य् आ॑ह॒ वृष्टिं॑ ए॒वाव॑ ॥
रु॒न्द्धे॒
प्र॒वास्य् अ॑नु॒वासीत्य् आ॑ह मिथुन॒त्वाय॑ \
उ॒शिग् अ॑सि॒ वसु॑भ्यस् त्वा॒ वसू॑ञ् जि॒न्वेत्य् आ॑हा॒ष्टौ वस॑व॒ एका॑दश रु॒द्रा द्वाद॑शादि॒त्या ए॒ताव॑न्तो॒ वै दे॒वास् तेभ्य॑ ए॒व य॒ज्ञम् प्राह॒ \
ओजो॑ऽसि पि॒तृभ्य॑स् त्वा पि॒तॄञ् जि॒न्वेत्य् आ॑ह दे॒वान् ए॒व पि॒तॄन् अनु॒ सं त॑नोति॒
तन्तु॑र् असि प्र॒जाभ्य॑स् त्वा प्र॒जा जि॑न्व ॥
इत्य् आ॑ह पि॒तॄन् ए॒व प्र॒जा अनु॒ सं त॑नोति
पृतना॒षाड् अ॑सि प॒शुभ्य॑स् त्वा प॒शूञ् जि॒न्वेत्य् आ॑ह प्र॒जा ए॒व प॒शून् अनु॒ सं त॑नोति
रे॒वद् अ॒स्य् ओष॑धीभ्य॒स् त्वौष॑धीर् जि॒न्वेत्य् आ॒हौष॑धीष्व् ए॒व प॒शून् प्रति॑ ष्ठापयति \
अभि॒जिद् अ॑सि यु॒क्तग्रा॒वेन्द्रा॑य॒ त्वेन्द्रं॑ जि॒न्वेत्य् आ॑हा॒भिजि॑त्या॒ अधि॑पतिर् असि प्रा॒णाय॑ त्वा प्रा॒णम् ॥
जि॒न्वेत्य् आ॑ह प्र॒जास्व् ए॒व प्रा॒णान् द॑धाति
त्रि॒वृद् अ॑सि प्र॒वृद् अ॒सीत्य् आ॑ह मिथुन॒त्वाय॑
सँरो॒हो॑ऽसि नीरो॒हो॑ऽसीत्य् आ॑ह॒ प्रजा॑त्यै
वसु॒को॑ऽसि॒ वेष॑श्रिर् असि॒ वस्य॑ष्टिर् अ॒सीत्य् आ॑ह॒ प्रति॑ष्ठित्यै ॥
अ॒ग्निना॑ दे॒वेन॒ पृत॑ना जयामि गाय॒त्रेण॒ छन्द॑सा तृ॒वृता॒ स्तोमे॑न रथंत॒रेण॒ साम्ना॑ वषट्का॒रेण॒ वज्रे॑ण पूर्व॒जान् भ्रातृ॑व्या॒न् अध॑रान् पादया॒म्य् अवै॑नान् बाधे॒ प्रत्य् ए॑नान् नुदे॒ऽस्मिन् क्षये॒ऽस्मिन् भू॑मिलो॒के यो॑ऽस्मान् द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्मो विष्णोः॒ क्रमे॒णात्य् ए॑नान् क्रामामि॒ \
इन्द्रे॑ण दे॒वेन॒ पृत॑ना जयामि॒ त्रैष्टु॑भेन॒ छन्द॑सा पञ्चद॒शेन॒ स्तोमे॑न बृह॒ता साम्ना॑ वषट्का॒रेण॒ वज्रे॑ण ॥
स॒ह॒जान्
विश्वे॑भिर् दे॒वेभिः॒ पृत॑ना जयामि॒ जाग॑तेन॒ छन्द॑सा सप्तद॒शेन॒ स्तोमे॑न वामदे॒व्येन॒ साम्ना॑ वषट्का॒रेण॒ वज्रे॑णापर॒जान्
इन्द्रे॑ण स॒युजो॑ व॒यँ सा॑स॒ह्याम॑ पृतन्य॒तः । घ्नन्तो॑ वृ॒त्राण्य् अ॑प्र॒ति
यत् ते॑ अग्ने॒ तेज॒स् तेना॒हं ते॑ज॒स्वी भू॑यासं॒ यत् ते॑ अग्ने॒ वर्च॒स् तेना॒हं व॑च॒स्वी भू॑यासं॒ यत् ते॑ अग्ने॒ हर॒स् तेना॒हँ ह॑र॒स्वी भू॑यासम् ॥
ये दे॒वा य॑ज्ञ॒हनो॑ यज्ञ॒मुषः॑ पृथि॒व्याम् अध्य् आस॑ते । अ॒ग्निर् मा॒ तेभ्यो॑ रक्षतु॒ गछे॑म सु॒कृतो॑ व॒यम् ॥
आग॑न्म मित्रावरुणा वरेण्या॒ रात्री॑णाम् भा॒गो यु॒वयो॒र् यो अस्ति॑ । नाकं॑ गृह्णा॒नाः सु॑कृ॒तस्य॑ लो॒के तृ॒तीये॑ पृ॒ष्ठे अधि॑ रोच॒ने दि॒वः ॥
ये दे॒वा य॑ज्ञ॒हनो॑ यज्ञ॒मुषो॒ऽन्तरि॒क्षेऽध्य् आस॑ते । वा॒युर् मा॒ तेभ्यो॑ रक्षतु॒ गछे॑म सु॒कृतो॑ व॒यम् ॥
यास् ते॒ रात्रीः॑ सवितः ॥
दे॒व॒यानी॑र् अन्त॒रा द्यावा॑पृथि॒वी वि॒यन्ति॑ । गृ॒हैश् च॒ सर्वैः॑ प्र॒जया॒ न्व् अग्रे॒ सुवो॒ रुहा॑णास् तरता॒ रजाँ॑सि ॥
ये दे॒वा य॑ज्ञ॒हनो॑ यज्ञ॒मुषो॑ दि॒व्य् अध्य् आस॑ते । सूर्यो॑ मा॒ तेभ्यो॑ रक्षतु॒ गछे॑म सु॒कृतो॑ व॒यम् ॥
येनेन्द्रा॑य स॒मभ॑रः॒ पयाँ॑स्य् उत्त॒मेन॑ ह॒विषा॑ जातवेदः । तेना॑ग्ने॒ त्वम् उ॒त व॑र्धये॒मँ स॑जा॒तानाँ॒ श्रैष्ठ्य॒ आ धे॑ह्य् एनम् ॥
य॒ज्ञ॒हनो॒ वै दे॒वा य॑ज्ञ॒मुषः॑ ॥
स॒न्ति॒ त ए॒षु लो॒केष्व् आ॑सत आ॒ददा॑न विमथ्ना॒ना यो ददा॑ति॒ यो यज॑ते॒ तस्य॑ । ये दे॒वा य॑ज्ञ॒हनः॑ पृथि॒व्याम् अध्य् आस॑ते॒ ये अ॒न्तरि॑क्षे॒ ये दि॒वीत्य् आ॑हे॒मान् ए॒व लो॒काँस् ती॒र्त्वा सगृ॑हः॒ सप॑शुः सुव॒र्गं लो॒कम् ए॑ति॒ \
अप॒ वै सोमे॑नेजा॒नाद् दे॒वता॑श् च य॒ज्ञश् च॑ क्रामन्त्य् आग्ने॒यम् पञ्च॑कपालम् उदवसा॒नीयं॒ निर् व॑पेद् अ॒ग्निः सर्वा॑ दे॒वताः॑ ॥
पाङ्क्तो॑ य॒ज्ञो दे॒वता॑श् चै॒व य॒ज्ञं चाव॑ रुन्द्धे
गाय॒त्रो वा अ॒ग्निर् गा॑य॒त्रछ॑न्दा॒स् तं छन्द॑सा व्य् अर्धयति॒ यत् पञ्च॑कपालं क॒रोत्य् अ॒ष्टाक॑पालः का॒र्यो॑ऽष्टाक्ष॑रा गाय॒त्री गा॑य॒त्रो॑ऽग्निर् गा॑य॒त्रछ॑न्दाः॒ स्वेनै॒वैनं॒ छन्द॑सा॒ सम् अ॑र्धयति
प॒ङ्क्त्यौ॑ याज्यानुवा॒क्ये॑ भवतः पाङ्क्तो य॒ज्ञस् तेनै॒व य॒ज्ञान् नैति॑ ॥
सूर्यो॑ मा दे॒वो दे॒वेभ्यः॑ पातु वा॒युर् अ॒न्तरि॑क्षा॒द् यज॑मानो॒ऽग्निर् मा॑ पातु॒ चक्षु॑षः । सक्ष॒ शूष॒ सवि॑त॒र् विश्व॑चर्षण ए॒तेभिः॑ सोम॒ नाम॑भिर् विधेम ते॒ तेभिः॑ सोम॒ नाम॑भिर् विधेम ते ।
अ॒हम् प॒रस्ता॑द् अ॒हम् अ॒वस्ता॑द् अ॒हं ज्योति॑षा॒ वि तमो॑ ववार । यद् अ॒न्तरि॑क्षं॒ तद् उ॑ मे पि॒ताभू॑द् अ॒हँ सूर्य॑म् उभ॒यतो॑ ददर्शा॒हम् भू॑यासम् उत्त॒मः स॑मा॒नाना॑म् ॥
आ स॑मु॒द्राद् आन्तरि॑क्षात् प्र॒जाप॑तिर् उद॒धिं च्या॑वया॒तीन्द्रः॒ प्र स्नौ॑तु म॒रुतो॑ वर्षयन्तु॒ \
उन् न॑म्भय पृथि॒वीम् भि॒न्द्धीदं दि॒व्यं नभः॑ । उ॒द्नो दि॒व्यस्य॑ नो दे॒हीशा॑नो॒ वि सृ॑जा॒ दृति॑म् ॥
प॒शवो॒ वा ए॒ते यद् आ॑दि॒त्य ए॒ष रु॒द्रो यद् अ॒ग्निर् ओष॑धीः॒ प्रास्या॒ग्नाव् आ॑दि॒त्यं जु॑होति रु॒द्राद् ए॒व प॒शून् अ॒न्तर् द॑धा॒त्य् अथो॒ ओष॑धीष्व् ए॒व प॒शून् ॥
प्रति॑ ष्ठापयति
क॒विर् य॒ज्ञस्य॒ वि त॑नोति॒ पन्थां॒ नाक॑स्य पृ॒ष्ठे अधि॑ रोच॒ने दि॒वः । येन॑ ह॒व्यं वह॑सि॒ यासि॑ दू॒त इ॒तः प्रचे॑ता अ॒मुतः॒ सनी॑यान् ॥
यास् ते॒ विश्वाः॑ स॒मिधः॒ सन्त्य् अ॑ग्ने॒ याः पृ॑थि॒व्याम् ब॑र्हिषि॒ सूर्ये॒ याः । तास् ते॑ गछ॒न्त्व् आहु॑तिं घृ॒तस्य॑ देवाय॒ते यज॑मानाय॒ शर्म॑ ॥
आ॒शासा॑नः सु॒वीर्यँ॑ रा॒यस् पोषँ॒ स्वश्वि॑यम् । बृह॒स्पति॒ना रा॒या स्व॒गाकृ॑तो॒ मह्यं॒ यज॑मानाय तिष्ठ ॥
सं त्वा॑ नह्यामि॒ पय॑सा घृ॒तेन॒ सं त्वा॑ नह्याम्य् अ॒प ओष॑धीभिः । सं त्वा॑ नह्यामि प्र॒जया॒हम् अ॒द्य सा दी॑क्षि॒ता स॑नवो॒ वाज॑म् अ॒स्मे ॥
प्रैतु॒ ब्रह्म॑ण॒स् पत्नी॒ वेदिं॒ वर्णे॑न सीदतु ।
अथा॒हम् अ॑नुका॒मिनी॒ स्वे लो॒के वि॒शा इ॒ह ।
सु॒प्र॒जस॑स् त्वा व॒यँ सु॒पत्नी॒र् उप॑ सेदिम । अग्ने॑ सपत्न॒दम्भ॑न॒म् अद॑ब्धासो॒ अदा॑भ्यम् ॥
इ॒मं वि ष्या॑मि॒ वरु॑णस्य॒ पाश॑म् ॥
यम् अब॑ध्नीत स्वि॒ता सु॒केतः॑ । धा॒तुश् च॒ योनौ॑ सुकृ॒तस्य॑ लो॒के स्यो॒नम् मे॑ स॒ह पत्या॑ करोमि ॥
प्रेह्य् उ॒देह्य् ऋ॒तस्य॑ वा॒मीर् अन्व् अ॒ग्निस् तेऽग्रं॑ नय॒त्व् अदि॑ति॒र् मध्यं॑ ददताँ रु॒द्राव॑सृष्टासि यु॒वा नाम॒ मा मा॑ हिँसीस् \
वसु॑भ्यो रु॒द्रेभ्य॑ आदि॒त्येभ्यो॒ विश्वे॑भ्यो वो दे॒वेभ्यः॑ प॒न्नेज॑नीर् गृह्णामि
य॒ज्ञाय॑ वः प॒न्नेज॑नीः सादयामि॒
विश्व॑स्य ते॒ विश्वा॑वतो॒ वृष्णि॑यावतः ॥
तवा॑ग्ने वा॒मीर् अनु॑ सं॒दृशि॒ विश्वा॒ रेताँ॑सि धिषीय॒ \
अग॑न् दे॒वान् य॒ज्ञो नि दे॒वीर् दे॒वेभ्यो॑ य॒ज्ञम् अ॑शिषन्न् अ॒स्मिन्त् सु॑न्व॒ति यज॑मान आ॒शिषः॒ स्वाहा॑कृताः समुद्रे॒ष्ठा ग॑न्ध॒र्वम् आ ति॑ष्ठ॒तानु॑ । वात॑स्य॒ पत्म॑न्न् इ॒ड ई॑डि॒ताः ॥
व॒ष॒ट्का॒रो वै गा॑यत्रि॒यै शिरो॑ऽछिन॒त् तस्यै॒ रसः॒ परा॑पत॒त् स पृ॑थि॒वीम् प्रावि॑श॒त् स ख॑दि॒रो॑ऽभव॒द् यस्य॑ खादि॒रः स्रु॒वो भव॑ति॒ छन्द॑साम् ए॒व रसे॒नाव॑ द्यति॒ सर॑सा अ॒स्याहु॑तयो भवन्ति
तृ॒तीय॑स्याम् इ॒तो दि॒वि सोम॑ आसी॒त् तं गा॑य॒त्र्य् आह॑र॒त् तस्य॑ प॒र्णम् अ॑छिद्यत॒ तत् प॒र्णो॑ऽभव॒त् तत् प॒र्णस्य॑ पर्ण॒त्वं यस्य॑ पर्ण॒मयी॑ जुहूः ॥
भव॑ति सौ॒म्या अ॒स्याहु॑तयो भवन्ति जु॒षन्ते॑ऽस्य दे॒वा आहु॑तीस् \
दे॒वा वै ब्रह्म॑न्न् अवदन्त॒ तत् प॒र्ण उपा॑शृणोत् सु॒श्रवा॒ वै नाम॒ यस्य॑ पर्ण॒मयी॑ जु॒हूर् भव॑ति॒ न पा॒पँ श्लोकँ॑ शृणोति॒
ब्रह्म॒ वै प॒र्णो विण् म॒रुतोऽन्नं॒ विण् मा॑रु॒तो॑ऽश्व॒त्थो यस्य॑ पर्ण॒मयी॑ जु॒हूर् भव॒त्य् आश्व॑त्थ्य् उप॒भृद् ब्रह्म॑णै॒वान्न॒म् अव॑ रु॒न्द्धेऽथो॒ ब्रह्म॑ ॥
ए॒व वि॒श्य् अध्य् ऊ॑हति
रा॒ष्ट्रं वै प॒र्णो विड् अ॑श्व॒त्थो यत् प॑र्ण॒मयी॑ जु॒हूर् भव॒त्य् आश्व॑त्थ्य् उप॒भृद् रा॒ष्ट्रम् ए॒व वि॒श्य् अध्य् ऊ॑हति
प्र॒जाप॑ति॒र् वा अ॑जुहो॒त् सा यत्राहु॑तिः प्र॒त्यति॑ष्ठ॒त् ततो॒ विक॑ङ्कत॒ उद् अ॑तिष्ठ॒त् ततः॑ प्र॒जा अ॑सृजत॒ यस्य॒ वैक॑ङ्कती ध्रु॒वा भव॑ति॒ प्रत्य् ए॒वास्याहु॑तयस् तिष्ठ॒न्त्य् अथो॒ प्रैव जा॑यते \
ए॒तद् वै स्रु॒वाँ रू॒पं यस्यै॒वँरू॑पाः॒ स्रुचो॒ भव॑न्ति॒ सर्वा॑ण्य् ए॒वैनँ॑ रू॒पाणि॑ पशू॒नाम् उप॑ तिष्ठन्ते॒ नास्याप॑रूपम् आ॒त्मञ् जा॑यते ॥
उ॒प॒या॒मगृ॑हीतोऽसि प्र॒जाप॑तये त्वा॒ ज्योति॑ष्मते॒ ज्योति॑ष्मन्तं गृह्णामि॒ दक्षा॑य दक्ष॒वृधे॑ रा॒तं दे॒वेभ्यो॑ऽग्निजि॒ह्वेभ्य॑स् त्वर्ता॒युभ्य॒ इन्द्र॑ज्येष्ठेभ्यो॒ वरु॑णराजभ्यो॒ वाता॑पिभ्यः प॒र्जन्या॑त्मभ्यो दि॒वे त्वा॒न्तरि॑क्षाय त्वा पृथि॒व्यै त्वा॒ \
अपे॑न्द्र द्विष॒तो मनोऽप॒ जिज्या॑सतो ज॒ह्य् अप॒ यो नो॑ऽराती॒यति॒ तं ज॑हि
प्रा॒णाय॑ त्वापा॒नाय॑ त्वा व्या॒नाय॑ त्वा स॒ते त्वास॑ते त्वा॒द्भ्यस् त्वौष॑धीभ्यो॒ विश्वे॑भ्यस् त्वा भु॒तेभ्यो॒ यतः॑ प्र॒जा {F अक्खि॑द्रा॒}* {W अखि॑द्रा॒} {अस्स् अक्खि॑द्रा॒} {बि अरिख॑द्रा} {गोल्स् अक्खि॑द्रा॒} अजा॑यन्त॒ तस्मै॑ त्वा प्र॒जाप॑तये विभू॒दाव्ने॒ ज्योति॑ष्मते॒ ज्योति॑ष्मन्तं जुहोमि ॥
{Fन् थे॒ रेअ॒दि॒न्ग् अरिख॑द्रा ओf बि इस् समे अस् थत् ओf म्स्स् wहि॒छ् च॒ल॒न्द् स्हो॒wस् इ॒न् थे॒ नो॒ते॒ इ॒न् थे॒ ए॒दि॒तिओ॒न् ओ॒f बौ॒ध्श्स्।}
यां वा अ॑ध्व॒र्युश् च॒ यज॑मानश् च दे॒वता॑म् अन्तरि॒तस् तस्या॒ आ वृ॑श्च्येते
प्राजाप॒त्यं द॑धिग्र॒हं गृ॑ह्णीयात्
प्र॒जाप॑तिः॒ सर्वा॑ दे॒वता॑स् \
दे॒वता॑भ्य ए॒व नि ह्नु॑वाते
ज्ये॒ष्ठो वा ए॒ष ग्रहा॑णाम् \
यस्यै॒ष गृ॒ह्यते॒ ज्यैष्ठ्य॑म् ए॒व ग॑छति॒
सर्वा॑सां॒ वा ए॒तद् दे॒वता॑नाँ रू॒पं यद् ए॒ष ग्रह॑स् \
यस्यै॒ष गृ॒ह्यते॒ सर्वा॑ण्य् ए॒वैनँ॑ रू॒पाणि॑ पशू॒नाम् उप॑ तिष्ठन्ते \
उपया॒मगृ॑हीतः ॥
अ॒सि॒ प्र॒जाप॑तये त्वा॒ ज्योति॑ष्मते॒ ज्योति॑ष्मन्तं गृह्णा॒मीत्य् आ॑ह॒
ज्योति॑र् ए॒वैनँ॑ समा॒नानां॑ करोति \
अग्निजि॒ह्वेभ्य॑स् त्वर्ता॒युभ्य॒ इत्य् आ॑ह \
ए॒ताव॑ती॒र् वै दे॒वता॑स्
ताभ्य॑ ए॒वैनँ॒ सर्वा॑भ्यो गृह्णाति॒ \
अपे॑न्द्र द्विष॒तो मन॒ इत्य् आ॑ह
भ्रातृ॑व्यापनुत्त्यै
प्रा॒णाय॑ त्वापा॒नाय॒ त्वेत्य् आ॑ह
प्रा॒णान् ए॒व यज॑माने दधाति॒
तस्मै॑ त्वा प्र॒जाप॑तये विभू॒दाव्ने॒ ज्योति॑ष्मते॒ ज्योति॑ष्मन्तं जुहोमि ॥
इत्य् आ॑ह
प्र॒जाप॑तिः॒ सर्वा॑ दे॒वताः॒
सर्वा॑भ्य ए॒वैनं॑ दे॒वता॑भ्यो जुहोति \
आज्यग्र॒हं गृ॑ह्णीया॒त् तेज॑स्कामस्य॒
तेजो॒ वा आज्य॑म् \
ते॒ज॒स्व्य् ए॑व भ॑वति
सोमग्र॒हं गृ॑ह्णीयाद् ब्रह्मवर्च॒सका॑मस्य
ब्रह्मवर्च॒सं वै सोम॑स् \
ब्र॒ह्म॒व॒र्चस्य् ए॑व भ॑वति
दधिग्र॒हं गृ॑ह्णीयात् प॒शुका॑मस्य \
ऊर्ग् वै दधि॑ \
ऊर्क् प॒शव॑स् \
ऊ॒र्जैवास्मा॒ ऊर्ज॑म् प॒शून् अव॑ रुन्द्धे ॥
त्वे क्रतु॒म् अपि॑ वृञ्जन्ति॒ विश्वे॒ द्विर् यद् ए॒ते त्रिर् भव॒न्त्य् ऊमाः॑ । स्वा॒दोः स्वादी॑यः स्वा॒दुना॑ सृजा॒ सम् अत॑ ऊ॒ षु मधु॒ मधु॑ना॒भि यो॑धि ॥
उ॒प॒या॒मगृ॑हीतोऽसि प्र॒जाप॑तये त्वा॒ जुष्टं॑ गृह्णाम्य् ए॒ष ते॒ योनिः॑ प्र॒जाप॑तये त्वा ।
प्रा॒ण॒ग्र॒हान् गृ॑ह्णात्य् ए॒ताव॒द् वा अ॑स्ति॒ याव॑द् ए॒ते ग्रहा॒ स्तोमा॒श् छन्दाँ॑सि पृ॒ष्ठानि॒ दिशो॑ यावद् ए॒वास्ति॒ तत् ॥
अव॑ रुन्द्धे
ज्ये॒ष्ठा वा ए॒तान् ब्रा॑ह्म॒णाः पु॒रा वि॒द्वाम् अ॑क्र॒न् तस्मा॒त् तेषाँ॒ सर्वा॒ दिशो॒ऽभिजि॑ता अभूव॒न् यस्यै॒ते गृ॒ह्यन्ते॒ ज्यैष्ठ्य॑म् ए॒व ग॑छत्य् अ॒भि दिशो॑ जयति॒
पञ्च॑ गृह्यन्ते॒ पञ्च॒ दिशः॒ सर्वा॑स्व् ए॒व दि॑क्ष्व् ॑र्?ध्नुवन्ति॒
नव॑नव गृह्यन्ते॒ नव॒ वै पुरु॑षे प्रा॒णाः प्रा॒णान् ए॒व यज॑मानेषु दधति
प्राय॒णीये॑ चोदय॒नीये॑ च गृह्यन्ते प्रा॒णा वै प्रा॑णग्र॒हाः ॥
प्रा॒णैर् ए॒व प्र॒यन्ति॑ प्रा॒णैर् उद् य॑न्ति
दश॒मेऽह॑न् गृह्यन्ते प्रा॒णा वै प्रा॑णग्र॒हाः प्रा॒णेभ्यः॒ खलु॒ वा ए॒तत् प्र॒जा य॑न्ति॒ यद् वा॑मदे॒व्यं योने॒श् च्यव॑ते दश॒मेऽह॑न् वामदे॒व्यं योने॑श् च्यवते॒ यद् द॑श॒मेऽह॑न् गृ॒ह्यन्ते॑ प्रा॒णेभ्य॑ ए॒व तत् प्र॒जा न य॑न्ति ॥
प्र दे॒वं दे॒व्या धि॒या भर॑ता जा॒तवे॑दसम् । ह॒व्या नो॑ वक्षद् आनु॒षक् ॥
अ॒यम् उ॒ ष्य प्र दे॑व॒युर् हो॒ता य॒ज्ञाय॑ नीयते । रथो॒ न योर् अ॒भीवृ॑तो॒ घृणी॑वान् चेतति॒ त्मना॑ ॥
अ॒यम् अ॒ग्निर् उ॑रुष्यत्य् अ॒मृता॑द् इव॒ जन्म॑नः । सह॑सश् चि॒त् सही॑यान् दे॒वो जी॒वात॑वे कृ॒तः ॥
इडा॑यास् त्वा प॒दे व॒यं नाभा॑ पृथि॒व्या अधि॑ । जात॑वेदो॒ नि धी॑म॒ह्य् अग्ने॑ ह॒व्याय॒ वोढ॑वे ॥
अग्ने॒ विश्वे॑भिः स्वनीक दे॒वैर् ऊर्णा॑वन्तम् प्रथ॒मः सी॑द॒ योनि॑म् । कु॒ला॒यिनं॑ घृ॒तव॑न्तँ सवि॒त्रे य॒ज्ञं न॑य॒ यज॑मानाय सा॒धु ॥
सीद॑ होतः॒ स्व उ॑ लो॒के चि॑कि॒त्वान्त् सा॒दया॑ य॒ज्ञँ सु॑कृ॒तस्य॒ योनौ॑ । दे॒वा॒वीर् दे॒वान् ह॒विषा॑ यजा॒स्य् अग्ने॑ बृ॒हद् यज॑माने॒ वयो॑ धाः ॥
नि होता॑ होतृ॒षद॑ने॒ विदा॑नस् त्वे॒षो दी॑दि॒वाँ अ॑सदत् सु॒दक्षः॑ । अद॑ब्धव्रतप्रमति॒र् वसि॑ष्ठः सहस्रम्भ॒रः शुचि॑जिह्वो अ॒ग्निः ॥
त्वं दू॒तस् त्वम् ॥
उ॒ नः॒ प॒र॒स्पास् त्वं वस्य॒ आ वृ॑षभ प्रणे॒ता । अग्ने॑ तो॒कस्य॑ न॒स् तने॑ त॒नूना॒म् अप्र॑युछ॒न् दीद्य॑द् बोधि गो॒पाः ॥
अ॒भि त्वा॑ देव सवित॒र् ईशा॑नं॒ वार्या॑णाम् । सदा॑वन् भा॒गम् ई॑महे ॥
म॒ही द्यौः पृ॑थि॒वी च॑ न इ॒मं य॒ज्ञम् मि॑मिक्षताम् । पि॒पृ॒तां नो॒ भरी॑मभिः ॥
त्वाम् अ॑ग्ने॒ पुष्क॑रा॒द् अध्य् अथ॑र्वा॒ निर् अ॑मन्थत । मू॒र्ध्नो विश्व॑स्य वा॒घतः॑ ॥
तम् उ॑ ॥
त्वा॒ द॒ध्यङ्ङ् ऋषिः॑ पु॒त्र ई॑धे॒ अथ॑र्वणः । वृ॒त्र॒हण॑म् पुरंद॒रम् ॥
तम् उ॑ त्वा पा॒थ्यो वृषा॒ सम् ई॑धे दस्यु॒हन्त॑मम् धनंज॒यँ रणे॑रणे ॥
उ॒त ब्रु॑वन्तु ज॒न्तव॒ उद् अ॒ग्निर् वृ॑त्र॒हाज॑नि । ध॒नं॒ज॒यो रणे॑रणे ॥
आ यँ हस्ते॒ न खा॒दिनँ॒ शिशुं॑ जा॒तं न बिभ्र॑ति । वि॒शाम् अ॒ग्निँ स्व॑ध्व॒रम् ॥
प्र दे॒वं दे॒ववी॑तये॒ भर॑ता वसु॒वित्त॑मम् । आ स्वे योनौ॒ नि षी॑दतु ॥
आ ॥
जा॒तं जा॒तवे॑दसि प्रि॒यँ शि॑शी॒ताति॑थिम् । स्यो॒न आ गृ॒हप॑तिम् ॥
अ॒ग्निना॒ग्निः सम् इ॑ध्यते क॒विर् गृ॒हप॑ति॒र् युवा॑ । ह॒व्य॒वाड् जु॑ह्वा॑स्यः ॥
त्वँ ह्य् अ॑ग्ने अ॒ग्निना॒ विप्रो॒ विप्रे॑ण॒ सन्त् स॒ता । सकः॒ सख्या॑ समि॒ध्यसे॑ ॥
तम् म॑र्जयन्त सु॒क्रतु॑म् पुरो॒यावा॑नम् आ॒जिषु॑ । स्वेषु॒ क्षये॑षु वा॒जिन॑म् ॥
य॒ज्ञेन॑ य॒ज्ञम् अ॑यजन्त दे॒वास् तानि॒ धर्मा॑णि प्रथ॒मान्य् आ॑सन् । ते ह॒ नाक॑म् महि॒मानः॑ सचन्ते॒ यत्र॒ पूर्वे॑ सा॒ध्याः सन्ति॑ दे॒वाः ॥