वि वा ए॒तस्य॑ य॒ज्ञ ऋ॑ध्यते॒ यस्य॑ ह॒विर् अ॑ति॒रिच्य॑ते

सूर्यो॑ दे॒वो दि॑वि॒षद्भ्य॒ इत्य् आ॑ह

बृह॒स्पति॑ना चै॒वास्य॑ प्र॒जाप॑तिना च य॒ज्ञस्य॑ व्य्॑र्?द्ध॒म् अपि॑ वपति॒

रक्षाँ॑सि॒ वा ए॒तत् प॒शुँ स॑चन्ते॒ यद् ए॑कदेव॒त्य॑ आल॑ब्धो॒ भूया॒न् भव॑ति॒

यस्या॑स् ते॒ हरि॑तो॒ गर्भ॒ इत्य् आ॑ह

देव॒त्रैवैनां॑ गमयति॒ रक्ष॑सा॒म् अप॑हत्यै \

आ व॑र्तन वर्त॒येत्य् आ॑ह ॥

ब्रह्म॑णै॒वैन॒म् आ व॑र्तयति॒

वि ते॑ भिनद्मि तक॒रीम् इत्य् आ॑ह

यथाय॒जुर् ए॒वैतत् \

उ॒रु॒द्र॒प्सो वि॒श्वरू॑प॒ इन्दु॒र् इत्य् आ॑ह

प्र॒जा वै प॒शव॒ इन्दुः॑

प्र॒जयै॒वैन॑म् प॒शुभिः॒ सम् अ॑र्धयति॒

दिवं॒ वै य॒ज्ञस्य॑ व्य्॑र्?द्धं गछति

पृथि॒वीम् अति॑रिक्तम् \

तद् यन् न श॒मये॒द् आर्ति॒म् आर्छे॒द् यज॑मानस् \

म॒ही द्यौः पृ॑थि॒वी च॑ न॒ इति॑ ॥

आ॒ह॒

द्यावा॑पृथि॒वीभ्या॑म् ए॒व य॒ज्ञस्य॑ व्य्॑र्?द्धं॒ चाति॑रिक्तं च शमयति॒ नार्ति॒म् आर्छ॑ति॒ यज॑मानस् \

भस्म॑ना॒भि सम् ऊ॑हति स्व॒गाकृ॑त्यै॒ \

अथो॑ अ॒नयो॒र् वा ए॒ष गर्भो॒ऽनयो॑र् ए॒वैनं॑ दधाति॒

यद् अ॑व॒द्येद् अति॒ तद् रे॑चयेत् \

यन् नाव॒द्येत् प॒शोर् आल॑ब्धस्य॒ नाव॑ द्येत्

पु॒रस्ता॑न् {F } {W वै} {ग्लोस् } नाभ्या॑ अ॒न्यद् अ॑व॒द्येद् उ॒परि॑ष्टाद् अ॒न्यत्

पु॒रस्ता॒द् वै ना॑भ्यै ॥

प्रा॒ण उ॒परि॑ष्टाद् अपा॒नस् \

यावा॑न् ए॒व प॒शुस् तस्याव॑ द्यति

विष्णवे शिपिवि॒ष्टाय॑ जुहोति॒

यद् वै य॒ज्ञस्या॑ति॒रिच्य॑ते॒ यः प॒शोर् भू॒मा या पुष्टि॒स् तद् विष्णुः॑ शिपिवि॒ष्टस् \

अति॑रिक्त ए॒वाति॑रिक्तं दधा॒त्य् अति॑रिक्तस्य॒ शान्त्यै॑ \

अ॒ष्टाप्रू॒ड् ढिर॑ण्यं॒ दक्षि॑णा \

अ॒ष्टाप॑दी॒ ह्य् ए॑षा \

आ॒त्मा न॑व॒मः

प॒शोर् आप्त्यै॑ \

अन्तरको॒श उ॒ष्णीषे॒णावि॑ष्टितम् भवति \

ए॒वम् इ॑व॒ हि प॒शुर् उल्ब॑म् इव॒ चर्मे॑व माँ॒सम् इ॒वास्थी॑व

यावा॑न् ए॒व प॒शुस् तम् आ॒प्त्वाव॑ रुन्द्धे॒

यस्यै॒षा य॒ज्ञे प्राय॑श्चित्तिः क्रि॒यत॑ इ॒ष्ट्वा वसी॑यान् भवति ॥

आ वा॑यो भूष शुचिपा॒ उप॑ नः स॒हस्रं॑ ते नि॒युतो॑ विश्ववार । उपो॑ ते॒ अन्धो॒ मद्य॑म् अयामि॒ यस्य॑ देव दधि॒षे पू॑र्व॒पेय॑म् ॥

आकू॑त्यै त्वा॒ कामा॑य त्वा स॒मृधे॑ त्वा किक्कि॒टा ते॒ मनः॑ प्र॒जाप॑तये॒ स्वाहा॑ किक्कि॒टा ते॑ प्रा॒णं वा॒यवे॒ स्वाहा॑ किक्कि॒टा ते॒ चक्षुः॒ सूर्या॑य॒ स्वाहा॑ किक्कि॒टा ते॒ श्रोत्रं॒ द्यावा॑पृथि॒वीभ्याँ॒ स्वाहा॑ किक्कि॒टा ते॒ वाचँ॒ सर॑स्वत्यै॒ स्वाहा॑ ॥

त्वं तु॒रीया॑ व॒शिनी॑ व॒शासि॑ स॒कृद् यत् त्वा॒ मन॑सा॒ गर्भ॒ आश॑यत् । व॒शा त्वं व॒शिनी॑ गछ दे॒वान्त् स॒त्याः स॑न्तु॒ यज॑मानस्य॒ कामाः॑ ॥

अ॒जासि॑ रयि॒ष्ठा पृ॑थि॒व्याँ सी॑दो॒र्ध्वान्तरि॑क्ष॒म् उप॑ तिष्ठस्व दि॒वि ते॑ बृ॒हद् भाः ।

तन्तुं॑ त॒न्वन् रज॑सो भा॒नुम् अन्व् इ॑हि॒ ज्योति॑ष्मतः प॒थो र॑क्ष धि॒या कृ॒तान् ।

अ॒नु॒ल्ब॒णं व॑यत॒ जोग्न्वा॒म् अपो॒ मनु॑र् भव ज॒नया॒ दैव्यं॒ जन॑म् ॥

मन॑सो ह॒विर् अ॑सि प्र॒जाप॑ते॒र् वर्णो॒ गात्रा॑णां ते गात्र॒भाजो॑ भूयास्म ॥

इ॒मे वै स॒हास्ता॑म् \

ते वा॒युर् व्य् अ॑वा॒त्

ते ग॑र्भम् अदधाताम् \

तँ सोमः॒ प्राज॑नयद् अ॒ग्निर् अ॑ग्रसत॒

स ए॒तम् प्र॒जाप॑तिर् आग्ने॒यम् अ॒ष्टाक॑पालम् अपश्य॒त्

तं निर् अ॑वप॒त्

तेनै॒वैना॑म् अ॒ग्नेर् अधि॒ निर् अ॑क्रीणा॒त्

तस्मा॒द् अप्य् अ॑न्यदेव॒त्या॑म् आ॒लभ॑मान आग्ने॒यम् अ॒ष्टाक॑पालम् पु॒रस्ता॒न् निर् व॑पेत् \

अ॒ग्नेर् ए॒वैना॒म् अधि॑ नि॒ष्क्रीया ल॑भते॒

यत् ॥

वा॒युर् व्यवा॒त् तस्मा॑द् वाय॒व्या॑

यद् इ॒मे गर्भ॒म् अद॑धातां॒ तस्मा॑द् द्यावापृथि॒व्या॑

यत् सोमः॒ प्राज॑नयद् अ॒ग्निर् अग्र॑सत॒ तस्मा॑द् अग्नीषो॒मीया॒

यद् अ॒नयो॑र् विय॒त्योर् वाग् अव॑द॒त् तस्मा॑त् सारस्व॒ती

यत् प्र॒जाप॑तिर् अ॒ग्नेर् अधि॑ नि॒रक्री॑णा॒त् तस्मा॑त् प्राजाप॒त्या

सा वा ए॒षा स॑र्वदेव॒त्या॑ यद् अ॒जा व॒शा

वा॑य॒व्या॑म् आ ल॑भेत॒ भूति॑कामस् \

वा॒युर् वै क्षेपि॑ष्ठा दे॒वता॑

वा॒युम् ए॒व स्वेन॑ ॥

भा॒ग॒धेये॒नोप॑ धावति॒

स ए॒वैन॒म् भूतिं॑ गमयति

द्यावापृथि॒व्या॑म् आ ल॑भेत कृ॒षमा॑णः प्रति॒ष्ठाका॑मस् \

दि॒व ए॒वास्मै॑ प॒र्जन्यो॑ वर्षति॒ व्य् अ॑स्याम् ओष॑धयो रोहन्ति॒ सम॑र्धुकम् अस्य स॒स्यम् भ॑वति \

अग्नीषो॒मीया॒म् आ ल॑भेत॒ यः का॒मये॑त॒ \

अन्न॑वान् अन्ना॒दः स्या॒म् इति॑ \

अ॒ग्निनै॒वान्न॒म् अव॑ रुन्द्धे॒ सोमे॑ना॒न्नाद्य॒म्

अन्न॑वान् ए॒वान्ना॒दो भ॑वति

सारस्व॒तीम् आ ल॑भेत॒ यः ॥

ई॒श्व॒रो वा॒चो वदि॑तोः॒ सन् वाचं॒ न वदे॑त् \

वाग् वै सर॑स्वती॒

सर॑स्वतीम् ए॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒

सैवास्मि॒न् वाचं॑ दधाति

प्राजाप॒त्याम् आ ल॑भेत॒ यः का॒मये॑त॒ \

अन॑भिजितम् अ॒भि ज॑येय॒म् इति॑

वाय॒व्य॑योपाक॑रोति

वा॒योर् ए॒वैना॑म् अव॒रुध्या ल॑भते \

आकू॑त्यै त्वा॒ कामा॑य त्वा ॥

इत्य् आ॑ह

यथाय॒जुर् ए॒वैतत्

कि॑क्किटा॒कारं॑ जुहोति

किक्किटाका॒रेण॒ वै ग्रा॒म्याः प॒शवो॑ रमन्ते॒ प्रार॒ण्याः प॑तन्ति॒

यत् कि॑क्किटा॒कारं॑ जु॒होति॑ ग्रा॒म्याणा॑म् पशू॒नां धृत्यै॒

पर्य॑ग्नौ क्रि॒यमा॑णे जुहोति

जीव॑न्तीम् ए॒वैनाँ॑ सुव॒र्गं लो॒कम् ग॑मयति॒

त्वं तु॒रीया॑ व॒शिनी॑ व॒शासीत्य् आ॑ह

देव॒त्रैवैनां॑ गमयति

स॒त्याः स॑न्तु॒ यज॑मानस्य॒ कामा॒ इत्य् आ॑ह \

ए॒ष वै कामः॑ ॥

यज॑मानस्य॒ यद् अना॑र्त उ॒दृचं॒ गछ॑ति॒

तस्मा॑द् ए॒वम् आ॑ह \

अ॒जासि॑ रयि॒ष्ठेत्य् आ॑ह \

ए॒ष्व् ए॑वैनां॑ लो॒केषु॒ प्रति॑ ष्ठापयति

दि॒वि ते॑ बृ॒हद् भा इत्य् आ॑ह

सुव॒र्ग ए॒वास्मै॑ लो॒के ज्योति॑र् दधाति॒

तन्तुं॑ त॒न्वन् रज॑सो भा॒नुम् अन्व् इ॒हीत्य् आ॑ह \

इ॒मान् ए॒वास्मै॑ लो॒काञ् ज्योति॑ष्मतः करोति \

अनुल्ब॒णं व॑यत॒ जोगु॑वा॒म् अप॒ इति॑ ॥

आ॒ह॒

यद् ए॒व य॒ज्ञ उ॒ल्बणं॑ क्रि॒यते॒ तस्यै॒वैषा शान्ति॑स् \

मनु॑र् भव जञया॒ दैव्यं॒ जन॒म् इत्य् आ॑ह

मान॒व्यो॑ वै प्र॒जास् ता ए॒वाद्याः॑ कुरुते॒

मन॑सो ह॒विर् अ॒सीत्य् आ॑ह

स्व॒गाकृ॑त्यै

गात्रा॑णां ते गात्र॒भाजो॑ भूया॒स्मेत्य् आ॑ह \

आ॒शिष॑म् ए॒वैताम् आ शा॑स्ते॒

तस्यै॒ वा ए॒तस्या॒ एक॑म् ए॒वादे॑वयजनं॒ यद् आल॑ब्धायाम् अ॒भ्रः ॥

भव॑ति॒

यद् आल॑ब्धायाम् अ॒भ्रः स्याद् अ॒प्सु वा॑ प्रवे॒शये॒त् सर्वां॒ वा प्राश्नी॑यात् \

यद् अ॒प्सु प्र॑वे॒शये॑द् यज्ञवेश॒सं कु॑र्या॒त्

सर्वा॑म् ए॒व प्राश्नी॑याद् इन्द्रि॒यम् ए॒वात्मन् ध॑त्ते

सा वा ए॒ष त्रया॑णाम् ए॒वाव॑रुद्धा संवत्सर॒सदः॑ सहस्रया॒जिनो॑ गृहमे॒धिन॒स्

त ए॒वैतया॑ यजेर॒न्

तेषा॑म् ए॒वैषाप्ता ॥

चि॒त्तं च॒ चित्ति॒श् चाकू॑तं॒ चाकू॑तिश् च॒ विज्ञा॑तं च वि॒ज्ञानं॑ च॒ मन॑श् च॒ शक्व॑रीश् च॒ दर्श॑श् च पू॒र्णमा॑सश् च बृ॒हच् च॑ रथंत॒रं च॑

प्र॒जाप॑ति॒र् जया॒न् इन्द्रा॑य॒ वृष्णे॒ प्राय॑छद् उ॒ग्रः पृ॑त॒नाज्ये॑षु॒ तस्मै॑ विशः॒ सम् अ॑नमन्त॒ सर्वाः॒ स उ॒ग्रः स हि हव्यो॑ ब॒भूव॑

देवासु॒राः संय॑त्ता आस॒न्त् स इन्द्रः॑ प्र॒जाप॑ति॒म् उपा॑धाव॒त् तस्मा॑ ए॒ताञ् जया॒न् प्राय॑छ॒त् तान् अ॑जुहो॒त्

ततो॒ वै दे॒वा असु॑रान् अजय॒न्

यद् अज॑य॒न् तज् जया॑नां जय॒त्वम् \

स्पर्ध॑मानेनै॒ते हो॑त॒व्या॑ जय॑त्य् ए॒व ताम् पृत॑नाम् ॥

अ॒ग्निर् भू॒ताना॒म् अधि॑पतिः॒ स मा॑व॒त्व् इन्द्रो॑ ज्ये॒ष्ठानां॑ य॒मः पृ॑थि॒व्या वा॒युर् अ॒न्तरि॑क्षस्य॒ सूर्यो॑ दि॒वश् च॒न्द्रमा॒ नक्ष॑त्राणा॒म् बृह॒स्पति॒र् ब्रह्म॑णो मि॒त्रः स॒त्यानां॒ वरु॑णो॒ऽपाँ स॑मु॒द्रः स्रो॒त्याना॒म् अन्नँ॒ साम्रा॑ज्याना॒म् अधि॑पति॒ तन् मा॑वतु॒ सोम॒ ओष॑धीनाँ सवि॒ता प्र॑स॒वानाँ॑ रु॒द्रः प॑शू॒नां त्वष्टा॑ रू॒पाणां॒ विष्णुः॒ पर्व॑तानाम् म॒रुतो॑ ग॒णाना॒म् अधि॑पतय॒स् ते मा॑वन्तु॒

पित॑रः पितामहाः परेऽवरे॒ तता॑स् ततामहा इ॒ह मा॑वत ।

अ॒स्मिन् ब्रह्म॑न्न् अ॒स्मिन् क्ष॒त्रे॑ऽस्याम् आ॒शिष्य् अ॒स्याम् पु॑रो॒धाया॑म् अ॒स्मिन् कर्म॑न्न् अ॒स्यां दे॒वहू॑त्याम् ॥

दे॒वा वै यद् य॒ज्ञेऽकु॑र्वत॒ तद् असु॑रा अकुर्वत॒

ते दे॒वा ए॒तान् अ॑भ्याता॒नान् अ॑पश्यन्

तान् अ॒भ्यात॑न्वत॒

यद् दे॒वानां॒ कर्मासी॒द् आर्ध्य॑त॒ तत् \

यद् असु॑राणां॒ न तद् आ॑र्ध्यत॒

येन॒ कर्म॒णेर्त्से॒त् तत्र॑ होत॒व्या॑स् \

ऋ॒ध्नोत्य् ए॒व तेन॒ कर्म॑णा॒

यद् विश्वे॑ दे॒वाः स॒मभ॑र॒न् तस्मा॑द् अभ्याता॒ना वै॑श्वदे॒वास् \

यद् प्र॒जाप॑ति॒र् जया॒न् प्राय॑छ॒त् तस्मा॒ज् जयाः॑ प्राजापत्याः ॥

यद् रा॑ष्ट्र॒भृद्भी॑ रा॒ष्ट्रम् आद॑दत॒ तद् रा॑ष्ट्र॒भृताँ॑ राष्ट्रभृ॒त्त्वम् \

ते दे॒वा अ॑भ्याता॒नैर् असु॑रान् अ॒भ्यात॑न्वत॒ जयै॑र् अजयन् राष्ट्र॒भृद्भी॑ रा॒ष्ट्रम् आद॑दत॒

यद् दे॒वा अ॑भ्याता॒नैर् असु॑रान् अ॒भ्यात॑न्वत॒ तद् अ॑भ्याता॒नाना॑म् अभ्यातान॒त्वम् \

यज् जयै॒र् अज॑य॒न् तज् जवा॑नां जय॒त्वम् \

यद् रा॑ष्ट्र॒भृद्भी॑ रा॒ष्ट्रम् आद॑दत॒ तद् रा॑ष्ट्र॒भृताँ॑ राष्ट्रभृ॒त्त्वम् \

ततो॑ दे॒वा अभ॑व॒न् परासु॑रास् \

यो भ्रातृ॑व्यवा॒न्त् स्यात् स ए॒ताञ् जु॑हुयात् \

अ॒भ्या॒ता॒नैर् ए॒व भ्रातृ॑व्यान् अ॒भ्यात॑नुते॒ जयै॑र् जयति राष्ट्र॒भृद्भी॑ रा॒ष्ट्रम् आ द॑त्ते॒

भव॑त्य् आ॒त्मना॒ परा॑स्य॒ भ्रातृ॑व्यो भवति ॥

ऋ॒ता॒षाड् ऋ॒तधा॑मा॒ग्निर् ग॑न्ध॒र्वस् तस्यौष॑धयोऽप्स॒रस॒ ऊर्जो॒ नाम॒ स इ॒दम् ब्रह्म॑ क्ष॒त्रम् पा॑तु॒ ता इ॒दम् ब्रह्म॑ क्ष॒त्रम् पा॑न्तु॒ तस्मै॒ स्वाहा॒ ताभ्यः॒ स्वाहा॑

सँहि॒तो वि॒श्वसा॑मा॒ सूर्यो॑ गन्ध॒र्वस् तस्य॒ मरी॑चयोऽप्स॒रस॑ आ॒युवः॑

सुषु॒म्नः सूर्य॑रश्मिश् च॒न्द्रमा॑ गन्ध॒र्वस् तस्य॒ नक्ष॑त्राण्य् अप्स॒रसो॑ बे॒कुर॑यस् \

भु॒ज्युः सु॑प॒र्णो य॒ज्ञो ग॑न्ध॒र्वस् तस्य॒ दक्षि॑णा अप्स॒रस॑ स्त॒वाः

प्र॒जाप॑तिर् वि॒श्वक॑र्मा॒ मनः॑ ॥

ग॒न्ध॒र्वस् तस्य॑र्क्सा॒मान्य् अ॑प्स॒रसो॒ वह्न॑यस् \

इ॒षि॒रो वि॒श्वव्य॑चा॒ वातो॑ गन्ध॒र्वस् तस्यापो॑ऽप्स॒रसो॑ मु॒दास् \

भुव॑नस्य पते॒ यस्य॑ त उ॒परि॑ गृ॒हा इ॒ह च॑ । स नो॑ रा॒स्वाज्या॑निँ रा॒यस् पोषँ॑ सु॒वीर्यँ॑ संवत्स॒रीणाँ॑ स्व॒स्तिम्

प॑रमे॒ष्ठ्य् अधि॑पतिर् मृ॒त्युर् ग॑न्ध॒र्वस् तस्य॒ विश्व॑म् अप्स॒रसो॒ भुवः॑

सुक्षि॒तिः सुभू॑तिर् भद्र॒कृत् सुव॑र्वान् प॒र्जन्यो॑ गन्ध॒र्वस् तस्य॑ वि॒द्युतो॑ऽप्स॒रसो॒ रुच॑स् \

दू॒रेहे॑तिर् अमृड॒यः ॥

मृ॒त्युर् ग॑न्ध॒र्वस् तस्य॑ प्र॒जा अ॑प्स॒रसो॑ भी॒रुव॑स् \

चारुः॑ कृपणका॒शी कामो॑ गन्ध॒र्वस् तस्या॒धयो॑ऽप्स॒रसः॑ शो॒चय॑न्ती॒र् नाम॒ स इ॒दम् ब्राह्म॑ क्ष॒त्रम् पा॑तु॒ ता इ॒दम् ब्रह्म॑ क्ष॒त्रम् पा॑न्तु॒ तस्मै॒ स्वाह॒ ताभ्यः॒ स्वाहा॒

स नो॑ भुवनस्य पते॒ यस्य॑ त उ॒परि॑ गृ॒हा इ॒ह च॑ । उ॒रु ब्रह्म॑णे॒ऽस्मै क्ष॒त्राय॒ महि॒ शर्म॑ यछ ॥

रा॒ष्ट्रका॑माय होत॒व्या॑ रा॒ष्ट्रं वै रा॑ष्ट्र॒भृतो॑ रा॒ष्ट्रेणै॒वास्मै॑ रा॒ष्ट्रम् अव॑ रुन्द्धे रा॒ष्ट्रम् ए॒व भ॑वति \

आ॒त्मने॑ होत॒व्या॑ रा॒ष्ट्रं वै रा॑ष्ट्र॒भृतो॑ रा॒ष्ट्रम् प्र॒जा रा॒ष्ट्रम् प॒शवो॑ रा॒ष्ट्रं यच् छ्रेष्ठो॒ भव॑ति रा॒ष्ट्रेणै॒व रा॒ष्ट्रम् अव॑ रुन्द्धे॒ वसि॑ष्ठः समा॒नाना॑म् भवति

ग्राम॑कामाय होत॒व्या॑ रा॒ष्ट्रं वै रा॑ष्ट्र॒भृतो॑ रा॒ष्ट्रँ स॑जा॒ता रा॒ष्ट्रेणै॒वास्मै॑ रा॒ष्ट्रँ स॑जा॒तान् अव॑ रुन्द्धे ग्रा॒मी ॥

ए॒व भ॑वति \

अधि॒देव॑ने जुहोत्य् अधि॒देव॑न ए॒वास्मै॑ सजा॒तान् अव॑ रुन्द्धे॒ त ए॑न॒म् अव॑रुद्धा॒ उप॑ तिष्ठन्ते

रथमु॒ख ओज॑स्कामस्य होत॒व्या॑ ओजो॒ वै रा॑ष्ट्र॒भृत॒ ओजो॒ रथ॒ ओज॑सै॒वास्मा॒ ओजोऽव॑ रुन्द्ध ओज॒स्व्य् ए॑व भ॑वति॒

यो रा॒ष्ट्राद् अप॑भूतः॒ स्यात् तस्मै॑ होत॒व्या॑ याव॑न्तोऽस्य॒ रथाः॒ स्युस् तान् ब्रू॑याद् यु॒ङ्ग्ध्वम् इति॑ रा॒ष्ट्रम् ए॒वास्मै॑ युनक्ति ॥

आहु॑तयो॒ वा ए॒तस्याकॢ॑प्ता॒ यस्य॑ रा॒ष्ट्रं न कल्प॑ते स्वर॒थस्य॒ दक्षि॑णं च॒क्रम् प्र॒वृह्य॑ ना॒डीम् अ॒भि जु॑हुया॒द् आहु॑तीर् ए॒वास्य॑ कल्पयति॒ ता अ॑स्य॒ कल्प॑माना रा॒ष्ट्रम् अनु॑ कल्पते

संग्रा॒मे संय॑त्ते होत॒व्या॑ रा॒ष्ट्रं वै रा॑ष्ट्र॒भृतो॑ रा॒ष्ट्रे खलु॒ वा ए॒ते व्याय॑छन्ते॒ ये सं॑ग्रा॒मँ सं॒यन्ति॒ यस्य॒ पूर्व॑स्य॒ जुह्व॑ति॒ स ए॒व भ॑वति॒ जय॑ति॒ तं सं॑ग्रा॒मं मा॑न्धु॒क इ॒ध्मः ॥

भ॒व॒त्य् अङ्गा॑रा ए॒व प्र॑ति॒वेष्ट॑माना अ॒मित्रा॑णाम् अस्य॒ सेना॒म् प्रति॑ वेष्टयन्ति॒

य उ॒न्माद्ये॒त् तस्मै॑ होत॒व्या॑ गन्धर्वाप्स॒रसो॒ वा ए॒तम् उन् मा॑दयन्ति॒ य उ॒न्माद्य॑त्य् ए॒ते खलु॒ वै ग॑न्धर्वाप्स॒रसो॒ यद् रा॑ष्ट्र॒भृत॒स् तस्मै॒ स्वाहा॒ ताभ्यः॒ स्वाहेति॑ जुहोति॒ तेनै॒वैना॑ञ् छमयति॒

नैय॑ग्रोध॒ औदु॑म्बर॒ आश्व॑त्थः॒ प्लाक्ष॒ इती॒ध्मो भ॑वत्य् ए॒ते वै ग॑न्धर्वाप्स॒रसां॑ गृ॒हाः स्व ए॒वैना॑न् ॥

आ॒यत॑ने शमयति \

अभि॒चर॑ता प्रतिलो॒मँ हो॑त॒व्याः॑ प्रा॒णान् ए॒वास्य॑ प्र॒तीचः॒ प्रति॑ यौति॒ तं ततो॒ येन॒ केन॑ च स्तृणुते॒

स्वकृ॑त॒ इरि॑णे जुहोति प्रद॒रे वै॒तद् वा अ॒स्यै निरृ॑तिगृहीतं॒ निरृ॑तिगृहीत ए॒वैनं॒ निरृ॑त्या ग्राहयति॒ यद् वा॒चः क्रू॒रम् तेन॒ वष॑ट् करोति वा॒च ए॒वैनं॑ क्रू॒रेण॒ प्र वृ॑श्चति ता॒जग् आर्ति॒म् आर्छ॑ति॒

यस्य॑ का॒मये॑ता॒न्नाद्य॑म् ॥

आ द॑दी॒येति॒ तस्य॑ स॒भाया॑म् उत्ता॒नो नि॒पद्य॒ भुव॑नस्य पत॒ इति॒ तृणा॑नि॒ सं गृ॑ह्णीयात् प्र॒जाप॑ति॒र् वै भुव॑नस्य॒ पतिः॑ प्र॒जाप॑तिनै॒वास्या॒न्नाद्य॒म् आ द॑त्त इ॒दम् अ॒हम् अ॒मुष्या॑मुष्याय॒णस्या॒न्नाद्यँ॑ हरा॒मीत्य् आ॑हा॒न्नाद्य॑म् ए॒वास्य॑ हरति ष॒ड्भिर् ह॑रति॒ षड् वा ऋ॒तवः॑ प्र॒जाप॑तिनै॒वास्या॑न्नाद्यम् आ॒दाय॒र्तवो॑ऽस्मा॒ अनु॒ प्र य॑छन्ति ॥

यो ज्ये॒ष्ठब॑न्धु॒र् अप॑भूतः॒ स्यात् तँ स्थले॑ऽव॒साय्य॑ ब्रह्मौद॒नं चतुः॑शरावम् प॒क्त्वा तस्मै॑ होत॒व्या॑ वर्ष्म॒ वै रा॑ष्ट्र॒भृतो॒ वर्ष्म॒ स्थलं॒ वर्ष्म॑णै॒वैनं॒ वर्ष्म॑ समा॒नानां॑ गमयति॒ चतुः॑शरावो भवति दि॒क्ष्व् ए॑व प्रति॑ तिष्ठति क्षी॒रे भ॑वति॒ रुचं॑ ए॒वास्मि॑न् दधा॒त्य् उद् ध॑रति शृत॒त्वाय॑ स॒र्पिष्वा॑न् भवति मेध्य॒त्वाय॒ चत्वा॑र आर्षे॒याः प्राश्न॑न्ति दि॒शाम् ए॒व ज्योति॑षि जुहोति ॥

देवि॑का॒ निर् व॑पेत् प्र॒जाका॑म॒श् छन्दाँ॑सि॒ वै देवि॑का॒श् छन्दाँ॑सीव॒ खलु॒ वै प्र॒जाश् छन्दो॑भिर् ए॒वास्मै॑ प्र॒जाः प्र ज॑नयति

प्रथ॒मं धा॒तारं॑ करोति मिथु॒नी ए॒व तेन॑ करो॒त्य् अन्व् ए॒वास्मा॒ अनु॑मतिर् मन्यते रा॒ते रा॒का प्र सि॑नीव॒ली ज॑नयति प्र॒जास्व् ए॒व प्रजा॑तासु कु॒ह्वा॑ वाचं॑ दधाति \

ए॒ता ए॒व निर् व॑पेत् प॒शुका॑म॒श् छन्दाँ॑सि॒ वै देवि॑का॒श् छन्दाँ॑सि ॥

इ॒व॒ खलु॒ वै प॒शव॒श् छन्दो॑भिर् ए॒वास्मै॑ प॒शून् प्र ज॑नयति प्रथ॒मं धा॒तारं॑ करोति॒ प्रैव तेन॑ वापय॒त्य् अन्व् ए॒वास्मा॒ अनु॑मतिर् मन्यते रा॒ते रा॒का प्र सि॑नीवा॒ली ज॑नयति प॒शून् ए॒व प्रजा॑तान् कु॒ह्वा॑ प्रति॑ ष्ठापयति \

ए॒ता ए॒व निर् व॑पे॒द् ग्राम॑काम॒श् छन्दाँ॑सि॒ वै देवि॑का॒श् छन्दाँ॑सीव॒ खलु॒ वै ग्राम॒श् छन्दो॑भिर् ए॒वास्मै॒ ग्राम॑म् ॥

अव॑ रुन्द्धे मध्य॒तो धा॒तारं॑ करोति मध्य॒त ए॒वैनं॒ ग्राम॑स्य दधाति \

ए॒ता ए॒व निर् व॑पे॒ज् ज्योगा॑मयावी॒ छन्दाँ॑सि॒ वै देवि॑का॒श् छन्दाँ॑सि॒ खलु॒ वा ए॒तम् अ॒भि म॑नयन्ते॒ यस्य॒ ज्योग् आ॒मय॑ति॒ छन्दो॑भिर् ए॒वैन॑म् अग॒दं क॑रोति मध्य॒तो धा॒तारं॑ करोति मध्य॒तो वा ए॒तस्याकॢ॑प्तं॒ यस्य॒ ज्योग् आ॒मय॑ति मध्य॒त ए॒वास्य॒ तेन॑ कल्पयति \

ए॒ता ए॒व निः॑ ॥

व॒पे॒द् यं य॒ज्ञो नोप॒नमे॒च् छन्दाँ॑सि॒ वै देवि॑का॒श् छन्दाँ॑सि॒ खलु॒ वा ए॒तं नोप॑ नमन्ति॒ यं य॒ज्ञो नोप॒नम॑ति प्रथ॒मं धा॒तारं॑ करोति मुख॒त ए॒वास्मै॒ छन्दाँ॑सि दधा॒त्य् उपै॑नं य॒ज्ञो न॑मति \

ए॒ता ए॒व निर् व॑पेद् ईजा॒नश् छन्दाँ॑सि॒ वै देवि॑का या॒तया॑मानीव॒ खलु॒ वा ए॒तस्य॒ छन्दाँ॑सि॒ य ई॑जा॒न उ॑त्त॒मं धा॒तारं॑ करोति ॥

उ॒परि॑ष्टाद् ए॒वास्मै॒ छन्दाँ॒स्य् अया॑तयामा॒न्य् अव॑ रुन्द्ध॒ उपै॑न॒म् उत्त॑रो य॒ज्ञो न॑मति \

ए॒ता ए॒व निर् व॑पे॒द् यम् मे॒धा नोप॒नमे॒च् छन्दाँ॑सि॒ वै देवि॑का॒श् छन्दाँ॑सि॒ खलु॒ वा ए॒तं नोप॑ नम॒न्ति यम् मे॒धा नोप॒नम॑ति प्रथ॒मं धा॒तारं॑ करोति मुख॒त ए॒वास्मै॒ छन्दाँ॑सि दधा॒त्य् उपै॑नम् मे॒धा न॑मति \

ए॒ता ए॒व निर् व॑पेत् ॥

रुक्का॑म॒श् छन्दाँ॑सि॒ वै देवि॑का॒श् छन्दाँ॑सीव॒ खलु॒ वै रुक् छन्दो॑भिर् ए॒वास्मि॒न् रुचं॑ दधाति क्षी॒रे भ॑वन्ति॒ रुच॑म् ए॒वास्मि॑न् दधति मध्य॒तो धा॒तारं॑ करोति मध्य॒त ए॒वैनँ॑ रु॒चो द॑धाति

गाय॒त्री वा अनु॑मतिस् तृ॒ष्टुग् रा॒का जग॑ती सिनीवा॒ल्य् अ॑नु॒ष्टुप् कु॒हूर् धा॒ता व॑षट्का॒रः पू॑र्वप॒क्षो रा॒काप॑रप॒क्षः कु॒हूर् अ॑मावा॒स्या॑ सिनीव॒ली पौ॑र्णमा॒स्य् अनु॑मतिश् च॒न्द्रमा॑ धा॒ता \

अ॒ष्टौ ॥

वस॑वो॒ऽष्टाक्ष॑रा गाय॒त्र्य् एका॑दश रु॒द्रा एका॑दशाक्षरा त्रि॒ष्टुब् द्वाद॑शादि॒त्या द्वाद॑शाक्षरा॒ जग॑ती प्र॒जाप॑तिर् अनु॒ष्टुब् धा॒ता व॑षट्का॒रस् \

ए॒तद् वै देवि॑काः॒ सर्वा॑णि च॒ छन्दाँ॑सि॒ सर्वा॑श् च दे॒वता॑ वषट्का॒रस् ता यत् स॒ह सर्वा॑ नि॒र्वपे॑द् ईश्व॒रा ए॑नम् प्र॒दहो॒ द्वे प्र॑थ॒मे नि॒रुप्य॑ धा॒तुस् तृ॒तीयं॒ निर् व॑पे॒त् तथो॑ एवोत्तरे॒ निर् व॑पे॒त् तथै॑नं॒ न प्र द॑ह॒न्त्य् अथो॒ यस्मै॒ कामा॑य निरु॒प्यन्ते॒ तम् ए॒वाभि॒र् उपा॑प्नोति ॥

वास्तो॑ष् पते॒ प्रति॑ जानीह्य् अ॒स्मान्त् स्वा॑वे॒शो अ॑नमी॒वो भ॑वा नः । यत् त्वेम॑हे॒ प्रति॒ तन् नो॑ जुषस्व॒ शं न॑ एधि द्वि॒पदे॒ शं चतु॑ष्पदे ॥

वास्तो॑ष् पते श॒ग्मया॑ सँ॒सदा॑ ते सक्षी॒महि॑ र॒ण्वया॑ गातु॒मत्या॑ । आवः॒ क्षेम॑ उ॒त योगे॒ वरं॑ नो यू॒यम् पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥

यत् सा॒यम्प्रा॑तर् अग्निहो॒त्रं जु॒होत्य् आ॑हुतीष्ट॒का ए॒व ता उप॑ धत्ते ॥

यज॑मानोऽहोरा॒त्राणि॒ वा ए॒तस्येष्ट॑का॒ य आहि॑ताग्नि॒र् यत् सा॒यम्प्रा॑तर् जु॒होत्य् अ॑होरा॒त्राण्य् ए॒वाप्त्वेष्ट॑काः कृ॒त्वोप॑ धत्ते॒

दश॑ समा॒नत्र॑ जुहोति॒ दशा॑क्षरा वि॒राड् वि॒राज॑म् ए॒वाप्त्वेष्ट॑कां कृ॒त्वोप॑ धत्ते॒ \

अथो॑ वि॒राज्य् ए॒व य॒ज्ञम् आ॑प्नोति॒ चित्य॑श्चित्योऽस्य भवति॒ तस्मा॒द् यत्र॒ दशो॑षि॒त्वा प्र॒याति॒ तद् य॒ज्ञवा॒स्त्व् अवा॑स्त्व् ए॒व तद् यत् ततो॑ऽर्वा॒चीन॑म् ॥

रु॒द्रः खलु॒ वै वा॑स्तोष्प॒तिर् यद् अहु॑त्वा वास्तोष्प॒तीय॑म् प्रया॒याद् रु॒द्र ए॑नम् भू॒त्वाग्निर् अ॑नू॒त्थाय॑ हन्याद् वास्तोष्प॒तीयं॑ जुहोति भाग॒धेये॑नै॒वैनँ॑ शमयति॒ नार्ति॒म् आर्छ॑ति॒ यज॑मानस् \

यद् यु॒क्ते जु॑हु॒याद् यथा॒ प्रया॑ते॒ वास्ता॒व् आहु॑तिं जु॒होति॑ ता॒दृग् ए॒व तद् यद् अयु॑क्ते जुहु॒याद् यथा॒ क्षेम॒ आहु॑तिं जु॒होति॑ ता॒दृग् ए॒व तद् अहु॑तम् अस्य वास्तोष्प॒तीयँ॑ स्यात् ॥

दक्षि॑णो यु॒क्तो भव॑ति स॒व्योऽयु॑क्तस् \

अथ॑ वास्तोष्प॒तीयं॑ जुहोत्य् उ॒भय॑म् ए॒वाक॒र् अप॑रिवर्गम् ए॒वैनँ॑ शमयति॒

यद् एक॑या जुहु॒याद् द॑र्विहो॒मं कु॑र्यात् पुरोऽनुवा॒क्या॑म् अ॒नूच्य॑ या॒ज्य॑या जुहोति सदेव॒त्वाय॒

यद् धु॒त आ॑द॒ध्याद् रु॒द्रं गृ॒हान् अ॒न्वारो॑हये॒द् यद् अ॑व॒क्षाणा॒न्य् अस॑म्प्रक्षाप्य प्रया॒याद् यथा॑ यज्ञवेश॒सं वा॒दह॑नं वा ता॒दृग् ए॒व तत् \

अ॒यं ते॒ योनि॑र् ऋ॒त्विय॒ इत्य् अ॒रण्योः॑ स॒मारो॑हयति ॥

ए॒ष वा अ॒ग्नेर् योनिः॒ स्व ए॒वैनं॒ योनौ॑ स॒मारो॑हयति॒ \

अथो॒ खल्व् आ॑हु॒र् यद् अ॒रण्योः॑ स॒मारू॑ढो॒ नश्ये॒द् उद् अ॑स्या॒ग्निः सी॑देत् पुनरा॒धेयः॑ स्या॒द् इति॑

या ते॑ अग्ने य॒ज्ञिया॑ त॒नूस् तये॒ह्य् आ रो॒हेत्य् आ॒त्मन्त् स॒मारो॑हयते॒

यज॑मानो॒ वा अ॒ग्नेर् योनिः॒ स्वाया॑म् ए॒वैनं॒ योन्याँ॑ स॒मारो॑हयते ॥

त्वम् अ॑ग्ने बृ॒हद् वयो॒ दधा॑सि देव दा॒शुषे॑ । क॒विर् गृ॒हप॑ति॒र् युवा॑ ॥

ह॒व्य॒वाड् अ॒ग्निर् अ॒जरः॑ पि॒ता नो॑ वि॒भुर् वि॒भावा॑ सु॒दृशी॑को अ॒स्मे । सु॒गा॒र्ह॒प॒त्याः सम् इषो॑ दिदीह्य् अस्म॒द्रिय॒क् सम् मि॑मीहि॒ श्रवाँ॑सि ॥

त्वं च॑ सोम नो॒ वशो॑ जी॒वातुं॒ न म॑रामहे । प्रि॒यस्तो॑त्रो॒ वन॒स्पतिः॑ ॥

ब्र॒ह्मा दे॒वाना॑म् पद॒वीः क॑वी॒नाम् ऋषि॒र् विप्रा॑णाम् महि॒षो मृ॒गाणा॑म् । श्ये॒नो गृध्रा॑णाँ॒ स्वधि॑ति॒र् वना॑नाँ॒ सोमः॑ ॥

प॒वित्र॒म् अत्य् ए॑ति॒ रेभ॑न् ॥

आ वि॒श्वदे॑वँ॒ सत्प॑तिँ सू॒क्तैर् अ॒द्या वृ॑णीमहे । स॒त्यस॑वँ सवि॒तार॑म् ॥

आ स॒त्येन॒ रज॑सा॒ वर्त॑मानो निवे॒शय॑न्न् अ॒मृत॒म् मर्त्यं॑ च । हि॒र्ण्यये॑न सवि॒ता रथे॑ना दे॒वो या॑ति॒ भुव॑ना वि॒पश्य॑न् ॥

यथा॑ नो॒ अदि॑तिः॒ कर॒त् पश्वे॒ नृभ्यो॒ यथा॒ गवे॑ । यथा॑ तो॒काय॑ रु॒द्रिय॑म् ॥

मा न॑स् तो॒के तन॑ये॒ मा न॒ आयु॑षि॒ मा नो॒ गोषु॒ मा ॥

नो॒ अश्वे॑षु रीरिषः । वी॒रान् मा नो॑ रुद्र भामि॒तो व॑धीर् ह॒विष्म॑न्तो॒ नम॑सा विधेम ते ॥

उ॒द॒प्रुतो॒ न वयो॒ रक्ष॑माणा॒ वाव॑दतो अ॒भ्रिय॑स्येव॒ घोषाः॑ । गि॒रि॒भ्रजो॒ नोर्मयो॒ मद॑न्तो॒ बृह॒स्पति॑म् अ॒भ्य् अ॑र्का अ॑नावन् ॥

हँ॒सैर् इ॑व॒ सखि॑भि॒र् वाव॑दद्भिर् अश्म॒न्मया॑नि॒ नह॑ना॒ व्यस्य॑न् । बृह॒स्पति॑र् अभि॒कनि॑क्रद॒द् गा उ॒त प्रास्तौ॒द् उच् च॑ वि॒द्वान् अ॑गायत् ॥

एन्द्र॑ सान॒सिँ र॒यिम् ॥

स॒जित्वा॑नँ सदा॒सह॑म् । वर्षि॑ष्ठम् ऊ॒तये॑ भर ॥

प्र स॑साहिषे पुरुहूत॒ शत्रू॒ञ् ज्येष्ठ॑स् ते॒ शुष्म॑ इ॒ह रा॒तिर् अ॑स्तु । इन्द्रा॑ भव॒ दक्षि॑णेना॒ वसू॑नि॒ पतिः॒ सिन्धू॑नाम् असि रे॒वती॑नाम् ॥

त्वँ सु॒तस्य॑ पी॒तये॑ स॒द्यो वृ॒द्धो अ॑जायथाः । इन्द्र॒ ज्यैष्ठ्या॑य सुक्रतो ॥

भु॒वस् त्वम् इ॑न्द्र॒ ब्रह्म॑णा म॒हान् भुवो॒ विश्वे॑षु॒ सव॑नेषु य॒ज्ञियः॑ । भुवो॒ नॄँश् च्यौ॒त्नो विश्व॑स्मि॒न् भरे॒ ज्येष्ठ॑श् च॒ मन्त्रः॑ ॥

वि॒श्व॒च॒र्ष॒णे॒ ॥

मि॒त्रस्य॑ चर्षणी॒धृतः॒ श्रवो॑ दे॒वस्य॑ सान॒सिम् । स॒त्यं चि॒त्रश्र॑वस्तमम् ॥

मि॒त्रो जना॑न् यातयति प्रजा॒नन् मि॒त्रो दा॑धार पृथि॒वीम् उ॒त द्याम् । मि॒त्रः कृ॒ष्टीर् अनि॑मिषा॒भि च॑ष्टे स॒त्याय॑ ह॒व्यं घृ॒तव॑द् विधेम ॥

प्र स मि॑त्र॒ मर्तो॑ अस्तु॒ प्रय॑स्वा॒न् यस् त॑ आदित्य॒ शिक्ष॑ति व्र॒तेन॑ । न ह॑न्यते॒ न जी॑यते॒ त्वोतो॒ नैन॒म् अँहो॑ अश्नो॒त्य् अन्ति॑तो॒ न दू॒रात् ॥

यत् ॥

चि॒द् धि ते॒ विशो॑ यथा॒ प्र दे॑व वरुण व्र॒तम् । मि॒मी॒मसि॒ द्यवि॑द्यवि ॥

यत् किं चे॒दं व॑रुण॒ दैव्ये॒ जने॑ऽभिद्रो॒हम् म॑नु॒ष्या॑श् चरा॑मसि । अचि॑त्ती॒ यत् तव॒ धर्मा॑ युयोपि॒म मा न॒स् तस्मा॒द् एन॑सो देव रीरिषः ॥

कि॒त॒वासो॒ यद् रि॑रि॒पुर् न दी॒वि यद् वा॑ घा स॒त्यम् उ॒त यन् न वि॒द्म । सर्वा॒ ता वि ष्य॑ शिथि॒रेव॑ दे॒वाथा॑ ते स्याम वरुण प्रि॒यासः॑ ॥