यो वै पव॑मानानाम् अन्वारो॒हान् वि॒द्वान् यज॒तेऽनु॒ पव॑माना॒न् आ रो॑हति॒ न पव॑माने॒भ्योऽव॑ छिद्यते
श्ये॒नो॑ऽसि गाय॒त्रछ॑न्दा॒ अनु॒ त्वा र॑भे स्व॒स्ति मा॒ सम् पा॑रय
सुप॒र्णो॑ऽसि त्रि॒ष्टुप्छ॑न्दा॒ अनु॒ त्वा र॑भे स्व॒स्ति मा॒ सम् पा॑रय॒
सघा॑सि॒ जग॑तीछन्दा॒ अनु॒ त्वा र॑भे स्व॒स्ति मा॒ सम् पा॑रय॒ \
इत्य् आ॑ह \
ए॒ते ॥
वै पव॑मानानाम् अन्वारो॒हास्
तान् य ए॒वं वि॒द्वान् यज॒तेऽनु॒ पव॑माना॒न् आ रो॑हति॒ न पव॑माने॒भ्योऽव॑ छिद्यते॒
यो वै पव॑मानस्य॒ संत॑तिं॒ वेद॒ सर्व॒म् आयु॑र् एति॒ न पु॒रायु॑षः॒ प्र मी॑यते पशु॒मान् भ॑वति वि॒न्दते॑ प्र॒जाम्
पव॑मानस्य॒ ग्रहा॑ गृह्यन्ते॒ \
अथ॒ वा अ॑स्यै॒तेऽगृ॑हीता द्रोणकलश आधव॒नीयः॑ पूत॒भृत् तान् यद् अगृ॑हीत्वोपाकु॒र्यात् पव॑मानं॒ वि ॥
छि॒न्द्या॒त् तं वि॒छिद्य॑मानम् अध्व॒र्योः प्रा॒णोऽनु॒ वि छि॑द्येत \
उपया॒मगृ॑हीतोऽसि प्र॒जाप॑तये त्वा॒ \
इति॑ द्रोणकल॒शम् अ॒भि मृ॑शेत् \
इन्द्रा॑य त्वा॒ \
इत्य् आ॑धव॒नीय॑म् \
विश्वे॑भ्यस् त्वा दे॒वेभ्य॑स् \
इति॑ पूत॒भृत॒म् पव॑मानम् ए॒व तत् सं त॑नोति॒ सर्व॒म् आयु॑र् एति॒ न पु॒रायु॑षः॒ प्र मी॑यते पशु॒मान् भ॑वति वि॒न्दते॑ प्र॒जाम् ॥
त्रीणि॒ वाव सव॑नायि॒ \
अथ॑ तृ॒तीयँ॒ सव॑न॒म् अव॑ लुम्पन्त्य् अनँ॒शु कु॒र्वन्त॑ उपाँ॒शुँ हु॒त्वोपाँ॑शुपा॒त्रे॑ऽँशुम् अ॒वास्य॒ तं तृ॑तीयसव॒ने॑ऽपि॒सृज्या॒भि षु॑णुया॒द् यद् आ॑प्या॒यय॑ति॒ तेनाँ॑शु॒मद् यद् अ॑भिषु॒णोति॒ तेन॑र्जी॒षि
सर्वा॑ण्य् ए॒व तत् सव॑नान्य् अँशु॒मन्ति॑ शु॒क्रव॑न्ति स॒माव॑द्वीर्याणि करोति॒
द्वौ स॑मु॒द्रौ वित॑ताव् अजू॒र्यौ प॒र्याव॑र्तेते ज॒ठरे॑व॒ पादाः॑ । तयोः॒ पश्य॑न्तो॒ अति॑ यन्त्य् अ॒न्यम् अप॑श्यन्तः ॥
सेतु॒नाति॑ यन्त्य् अ॒न्यम् ॥
द्वे द्रध॑सी स॒तती॑ वस्त॒ एकः॑ के॒शी विश्वा॒ भुव॑नानि वि॒द्वान् । ति॒रो॒धायै॒त्य् असि॑तं॒ वसा॑नः शु॒क्रम् आ द॑त्ते अनु॒हाय॑ जा॒र्यै ॥
दे॒वा वै यद् य॒ज्ञेऽकु॑र्वत॒ तद् असु॑रा अकुर्वत॒
ते दे॒वा ए॒तम् म॑हाय॒ज्ञम् अ॑पश्य॒न्
तम् अ॑तन्वत \
अग्निहो॒त्रं व्र॒तम् अ॑कुर्वत॒
तस्मा॒द् द्विव्र॑तः स्यात् \
द्विर् ह्य् अ॑ग्निहो॒त्रं जुह्व॑ति
पौर्णमा॒सं य॒ज्ञम् अ॑ग्नीषो॒मीय॑म् ॥
प॒शुम् अ॑कुर्वत
दा॒र्श्यं य॒ज्ञम् आ॑ग्ने॒यम् प॒शुम् अ॑कुर्वत
वैश्वदे॒वम् प्रा॑तःसव॒नम् अ॑कुर्वत
वरुणप्रघा॒सान् माध्यं॑दिनँ॒ सव॑नँ साकमे॒धान् पि॑तृय॒ज्ञं त्र्य॑म्बकाँस् तृतीयसव॒नम् अ॑कुर्वत॒
तम् ए॑षा॒म् असु॑रा य॒ज्ञम् अ॒न्वव॑जिगाँस॒न् तं नान्ववा॑य॒न्
ते॑ऽब्रुवन्न् अध्वर्त॒व्या वा इ॒मे दे॒वा अ॑भूव॒न्न् इति॒
तद् अ॑ध्व॒रस्या॑ध्वर॒त्वम् \
ततो॑ दे॒वा अभ॑व॒न् परासु॑रास् \
य ए॒वं वि॒द्वान्त् सोमे॑न॒ यज॑ते॒ भव॑त्य् आ॒त्मना॒ परा॑स्य॒ भ्रातृ॑व्यो भवति ॥
प॒रि॒भूर् अ॒ग्निम् प॑रि॒भूर् इन्द्र॑म् परि॒भूर् विश्वा॑न् दे॒वान् प॑रि॒भूर् माँ सह॑ ब्रह्मवर्च॒सेन॒ स नः॑ पवस्व॒ शं गवे॒ शं जना॑य॒ शम् अर्व॑ते॒ शँ रा॑ज॒न्न् ओष॑धी॒भ्योऽछि॑न्नस्य ते रयिपते सु॒वीर्य॑स्य रा॒यस् पोष॑स्य ददि॒तारः॑ स्याम । तस्य॑ मे रास्व॒ तस्य॑ ते भक्षीय॒ तस्य॑ त इ॒दम् उन् मृ॑जे ॥
प्रा॒णाय॑ मे वर्चो॒दा वर्च॑से पवस्व \
अपा॒णाय॑
व्या॒नाय॑
वा॒चे ॥
द॒क्ष॒क्र॒तुभ्या॑म् \
चक्षु॑र्भ्याम् मे वर्चो॒दौ वर्च॑से पवेथाम् \
श्रोत्रा॑य \
आ॒त्मने॒ \
अङ्गे॑भ्यस् \
आयु॑षे
वी॒र्या॑य॒
विष्णो॑स् \
इन्द्र॑स्य॒
विश्वे॑षां दे॒वानां॑ ज॒ठर॑म् असि वर्चो॒दा मे॒ वर्च॑से पवस्व॒
को॑ऽसि॒ को नाम॒ कस्मै॑ त्वा॒ काय॑ त्वा॒ यं त्वा॒ सोमे॒नाती॑तृपं॒ यं त्वा॒ सोमे॒नामी॑मदँ सुप्र॒जाः प्र॒जया॑ भूयासँ सु॒वीरो॑ वी॒रैः सु॒वर्चा॒ वर्च॑सा सु॒पोषः॒ पोषै॒र्
विश्वे॑भ्यो मे रू॒पेभ्यो॑ वर्चो॒दाः ॥
वर्च॑से पवस्व॒ तस्य॑ मे रास्व॒ तस्य॑ ते भक्षीय॒ तस्य॑ त इ॒दम् उन् मृ॑जे ॥
बुभू॑ष॒न्न् अवे॑क्षेतै॒ष वै पात्रि॑यः प्र॒जाप॑तिर् य॒ज्ञः प्र॒जाप॑ति॒स् तम् ए॒व त॑र्पयति॒ स ए॒नं तृ॒प्तो भूत्या॒भिप॑वते
ब्रह्मवर्च॒सका॒मोऽवे॑क्षेतै॒ष वै पात्रि॑यः प्र॒जाप॑तिर् य॒ज्ञः प्र॒जाप॑ति॒स् तम् ए॒व त॑र्पयति॒ स ए॑नं तृ॒प्तो ब्र॑ह्मवर्च॒सेना॒भि प॑वत
आमया॒वी ॥
अ॒वेक्षे॑तै॒ष वै पात्रि॑यः प्र॒जाप॑तिर् य॒ज्ञः प्र॒जाप॑ति॒स् तम् ए॒व त॑र्पयति॒ स ए॑नं तृ॒प्त आयु॒षाभि प॑वते \
अभि॒चर॒न्न् अवे॑क्षेतै॒ष वै पात्रि॑यः प्र॒जाप॑तिर् य॒ज्ञः प्र॒जाप॑ति॒स् तम् ए॒व त॑र्पयति॒ स ए॑नं तृ॒प्तः प्रा॑णापा॒नाभ्यां॑ वा॒चो द॑क्षक्र॒तुभ्यां॒ चक्षु॑र्भ्याँ श्रोत्राभ्याम् आ॒त्मनोऽङ्गे॑भ्य॒ आयु॑षो॒ऽन्तर् ए॑ति ता॒जक् प्र ध॑न्वति ॥
स्फ्यः स्व॒स्तिर् वि॑घ॒नः स्व॒स्तिः पर्शु॒र् वेदिः॑ पर॒शुर् नः॑ स्व॒स्तिः । य॒ज्ञिया॑ यज्ञ॒कृत॑ स्थ॒ ते मा॒स्मिन् य॒ज्ञ उप॑ ह्वयध्व॒म्
उप॑ मा॒ द्यावा॑पृथिवी ह्वयेता॒म् उपा॑स्ता॒वः क॒लशः॒ सोमो॑ अ॒ग्निर् उप॑ दे॒वा उप॑ य॒ज्ञ उप॑ मा॒ होत्रा॑ उपह॒वे ह्व॑यन्ता॒म्
नमो॒ऽग्नये॑ मख॒घ्ने म॒खस्य॑ मा॒ यशो॑ऽर्यात् \
इत्य् आ॑हव॒नीय॒म् उप॑ तिष्ठते य॒ज्ञो वै म॒खः ॥
य॒ज्ञं वाव स तद् अ॑ह॒न् तस्मा॑ ए॒व न॑म॒स्कृत्य॒ सदः॒ प्र स॑र्पत्य् आ॒त्मनोऽना॑र्त्यै॒
नमो॑ रु॒द्राय॑ मख॒घ्ने नम॑स्कृत्या मा पाहि॒ \
इत्य् आग्नी॑ध्रं॒ तस्मा॑ ए॒व न॑म॒स्कृत्य॒ सदः॒ प्र स॑र्पत्य् आ॒त्मनोऽना॑र्त्यै॒
नम॒ इन्द्रा॑य मख॒घ्न इ॑न्द्रि॒यम् मे॑ वी॒र्य॑म् मा॒ निर् व॑धीस् \
इति॑ हो॒त्रीय॑म् आ॒शिष॑म् ए॒वैताम् आ शा॑स्त इन्द्रि॒यस्य॑ वी॒र्य॑स्यानि॑र्घाताय
या वै ॥
दे॒वताः॒ सद॒स्य् आर्ति॑म् आ॒र्पय॑न्ति॒ यस् ता वि॒द्वान् प्र॒सर्प॑ति॒ न सद॒स्य् आर्ति॒म् आर्छ॑ति॒ नमो॒ऽग्नये॑ मखघ्ने॒ \
इत्य् आ॑है॒ता वै दे॒वताः॒ सद॒स्य् आर्ति॒म् आर्छ॑ति
दृ॒धे स्थः॑ शिथि॒रे स॒मीची॒ माँह॑सस् पातम् \
सूर्यो॑ मा दे॒वो दि॒व्याद् अँह॑सस् पातु वा॒युर् अ॒न्तरि॑क्षात् ॥
अ॒ग्निः पृ॑थि॒व्या य॒मः पि॒तृभ्यः॒ सर॑स्वती मनु॒ष्ये॑भ्यस् \
देवी॑ द्वारौ॒ मा मा॒ सं ता॑प्त॒म्
नमः॒ सद॑से॒ नमः॒ सद॑स॒स् पत॑ये॒ नमः॒ सखी॑नां पुरोगाणां॒ चक्षु॑षे॒ नमो॑ दि॒वे नमः॑ पृथि॒व्यै \
अहे॑ दैधिष॒व्योद् अत॑स् तिष्ठा॒न्यस्य॒ सद॑ने सीद॒ यो॑ऽस्मत् पाक॑तरस् \
उन् नि॒वत॒ उद् उ॒द्वत॑श् च गेषम्
पा॒तम् मा॑ द्यावापृथिवी अ॒द्याह्नः॒
सदो॒ वै प्र॒सर्प॑न्तम् ॥
पि॒तरोऽनु॒ प्र स॑र्पन्ति॒ त ए॑नम् ईश्व॒रा हिँसि॑तोः॒ सदः॑ प्र॒सृप्य॑ दक्षिणा॒र्धम् परे॑क्षेत \
आग॑न्त पितरः पितृ॒मान् अ॒हं यु॒ष्माभि॑र् भूयासँ सुप्र॒जसो॒ मया॑ यू॒यम् भू॑यास्त॒ \
इति॒ तेभ्य॑ ए॒व न॑म॒स्कृत्य॒ सदः॒ प्र स॑र्पत्य् आ॒त्मनोऽना॑र्त्यै ॥
भक्षेहि॒ मा वि॑श दीर्घायु॒त्वाय॑ शंतनु॒त्वाय॑ रा॒यस् पोषा॑य॒ वर्च॑से सुप्रजा॒स्त्वायेहि॑ वसो पुरोवसो प्रि॒यो मे॑ हृ॒दो॑ऽसि \
अ॒श्विनो॑स् त्वा बा॒हुभ्याँ॑ सघ्यासम् \
नृ॒चक्ष॑सं त्वा देव सोम सु॒चक्षा॒ अव॑ ख्येषम्
म॒न्द्राभिभू॑तिः के॒तुर् य॒ज्ञानां॒ वाग् जु॑षा॒णा सोम॑स्य तृप्यतु म॒न्द्रा स्व॑र्वा॒च्य् अदि॑ति॒र् अना॑हतशीर्ष्णी॒ वाग् जु॑षा॒णा सोम॑स्य तृप्यतु॒ \
एहि॑ वश्वचर्षणे ॥
श॒म्भूर् म॑यो॒भूः स्व॒स्ति मा॑ हरिवर्ण॒ प्र च॑र॒ क्रत्वे॒ दक्षा॑य रा॒यस् पोषा॑य सुवी॒रता॑यै
मा मा॑ राज॒न् वि बी॑भिषो॒ मा मे॒ हार्दि॑ त्वि॒षा व॑धीः । वृष॑णे॒ शुष्मा॒यायु॑षे॒ वर्च॑से ॥
वसु॑मद्गणस्य सोम देव ते मति॒विदः॑ प्रातःसव॒नस्य॑ गाय॒त्रछ॑न्दस॒ इन्द्र॑पीतस्य॒ नरा॒शँस॑पीतस्य पि॒तृपी॑तस्य॒ मधु॑मत॒ उप॑हूत॒स्योप॑हूतो भक्षयामि
रु॒द्रव॑द्गणस्य सोम देव ते मति॒विदो॒ माध्यं॑दिनस्य॒ सव॑नस्य तृ॒ष्टुप्छ॑न्दस॒ इन्द्र॑पीतस्य॒ नरा॒शँस॑पीतस्य ॥
पि॒तृपी॑तस्य॒ मधु॑मत॒ उप॑हूत॒स्योप॑हूतो भक्षयामि \
आदित्य॒वद्ग॑णस्य सोम देव ते मति॒विद॑स् तृ॒तीय॑स्य॒ सव॑नस्य॒ जग॑तीछन्दस॒ इन्द्र॑पीतस्य॒ नरा॒शँस॑पीतस्य पि॒तृपी॑तस्य॒ मधु॑मत॒ उप॑हूत॒स्योप॑हूतो भक्षयामि ॥
आ प्या॑यस्व॒ सम् ए॑तु ते वि॒श्वतः॑ सोम॒ वृष्णि॑यम् । भवा॒ वाज॑स्य संग॒थे ॥
हिन्व॑ मे॒ गात्रा॑ हरिवो ग॒णान् मे॒ मा वि ती॑तृषः । शि॒वो मे॑ सप्त॒र्षीन् उप॑ तिष्ठस्व॒ मा मेवा॒ङ् नाभि॒म् अति॑ ॥
गाः॒ ॥
अपा॑म॒ सोम॑म् अ॒मृता॑ अभू॒माद॑र्श्म॒ ज्योति॒र् अवि॑दाम दे॒वान् । किम् अ॒स्मान् कृ॑णव॒द् अरा॑तिः॒ किम् उ॑ धू॒र्तिर् अ॑मृत॒ मर्त्य॑स्य ॥
यन् म॑ आ॒त्मनो॑ मि॒न्दाभू॑द् अ॒ग्निस् तत् पुन॒र् आहा॑र् जा॒तवे॑दा॒ विच॑र्षणिः । पुन॑र् अ॒ग्निश् चक्षु॑र् अदा॒त् पुन॒र् इन्द्रो॒ बृह॒स्पतिः॑ । पुन॑र् मे अश्विना यु॒वं चक्षु॑र् आ धत्तम् अ॒क्ष्योः ॥
इ॒ष्टय॑जुषस् ते देव सोम स्तु॒तस्तो॑मस्य ॥
श॒स्तोक्थ॑स्य॒ हरि॑वत॒ इन्द्र॑पीतस्य॒ मधु॑मत॒ उप॑हूत॒स्योप॑हूतो भक्षयामि ॥
आ॒पूर्या॒ स्था मा॑ पूरयत प्र॒जया॑ च॒ धने॑न च ॥
ए॒तत् ते॑ तत॒ ये च॒ त्वाम् अन्व् एत॑त् ते पितामह प्रपितामह॒ ये च॒ त्वाम् अनु॒ \
अत्र॑ पितरो यथाभा॒गम् म॑न्दध्वम् \
नमो॑ वः पितरो॒ रसा॑य॒ नमो॑ वः पितरः॒ शुष्मा॑य॒ नमो॑ वः पितरो जी॒वाय॒ नमो॑ वः पितरः ॥
स्व॒धायै॒ नमो॑ वः पितरो म॒न्यवे॒ नमो॑ वः पितरो घो॒राय॒ पित॑रो॒ नमो॑ वस् \
य ए॒तस्मिँ॑ लो॒के स्थ यु॒ष्माँस् तेऽनु॒ ये॑ऽस्मिँ लो॒के मां तेऽनु॒
य ए॒तस्मिँ॑ लो॒के स्थ यू॒यं तेषां॒ वसि॑ष्ठा भूयास्त॒ येऽस्मिँ लो॒के॑ऽहं तेषां॒ वसि॑ष्ठो भूयासम्
प्रजा॑पते॒ न त्वद् ए॒तान्य् अ॒न्यो विश्वा॑ जा॒तानि॒ परि॒ ता ब॑भूव ॥
यत्का॑मास् ते जुहु॒मस् तन् नो॑ अस्तु व॒यँ स्या॑म॒ पत॑यो रयी॒णाम् ॥
दे॒वकृ॑त॒स्यैन॑सोऽव॒यज॑नम् असि मनु॒ष्य॑कृत॒स्यैन॑सोऽव॒यज॑नम् असि पि॒तृकृ॑त॒स्यैन॑सोऽव॒यज॑नम् असि \
अ॒प्सु धौ॒तस्य॑ सोम देव ते॒ नृभिः॑ सु॒तस्ये॒ष्टय॑जुष स्तु॒तस्तो॑मस्य श॒स्तोक्थ॑स्य॒ यो भ॒क्षो अ॑श्व॒सनि॒र् यो गो॒सनि॒स् तस्य॑ ते पि॒तृभि॑र् भ॒क्षंकृ॑त॒स्योप॑हूत॒स्योप॑हूतो भक्षयामि ॥
म॒ही॒नाम् पयो॑ऽसि॒ विश्वे॑षां दे॒वानां॑ त॒नूर् ऋ॒ध्यास॑म् अ॒द्य पृष॑तीनां॒ ग्रह॒म् पृष॑तीनां॒ ग्रहो॑ऽसि॒ विष्णो॒र् हृद॑यम् अ॒स्य् एक॑म् इष॒ विष्णु॒स् त्वानु॒ वि च॑क्रमे भू॒तिर् द॒ध्ना घृ॒तेन॑ वर्धतां॒ तस्य॑ मे॒ष्टस्य॑ वी॒तस्य॒ द्रवि॑ण॒म् आ ग॑म्या॒ज् ज्योति॑र् असि वैश्वान॒रम् पृश्नि॑यै दु॒ग्धम् \
याव॑ती॒ द्यावा॑पृथि॒वी म॑हि॒त्वा याव॑च् च स॒प्त सिन्ध॑वो वित॒स्थुः । ताव॑न्तम् इन्द्र ते ॥
ग्रहँ॑ स॒होर्जा गृ॑ह्णा॒म्य् अस्तृ॑तम् ॥
यत् कृ॑ष्णशकु॒नः पृ॑षदा॒ज्यम् अ॑वपृ॒शेच् छू॒द्रा अ॑स्य प्र॒मायु॑काः स्यु॒र् यच् छ्वाव॑मृ॒शेच् चतु॑ष्पादोऽस्य प॒शवः॒ प्रमा॑युकाः स्यु॒र् यत् स्कन्दे॒द् यज॑मानः प्र॒मायु॑कः स्यात्
प॒शवो॒ वै पृ॑षदा॒ज्यम् प॒शवो॒ वा ए॒तस्य॑ स्कन्दन्ति॒ यस्य॑ पृषदा॒ज्यँ स्कन्द॑ति॒ यत् पृ॑षदा॒ज्यम् पुन॑र् गृ॒ह्णाति॑ प॒शून् ए॒वास्मै॒ पुन॑र् गृह्णाति
प्रा॒णो वै पृ॑षदा॒ज्यम् प्रा॒णो वै ॥
ए॒तस्य॑ स्कन्दति॒ यस्य॑ पृषदा॒ज्यँ स्कन्द॑ति॒ यत् पृ॑षदा॒ज्यम् पुन॑र् गृ॒ह्णाति॑ प्रा॒णम् ए॒वास्मै॒ पुन॑र् गृह्णाति॒
हिर॑ण्यम् अव॒धाय॑ गृह्णात्य् अ॒मृतं॒ वै हिर॑ण्यम् प्रा॒णः पृ॑षदा॒ज्यम् अ॒मृत॑म् ए॒वास्य॑ प्रा॒णे द॑धाति
श॒तमा॑नम् भवति श॒तायुः॒ पुरु॑षः श॒तेन्द्रि॑य॒ आयु॑ष्य् ए॒वेन्द्रि॒ये प्रति॑ तिष्ठति॒ \
अश्व॒म् अव॑ घ्रापयति प्राजाप॒त्यो वा अ॑श्वः प्राजाप॒त्यः प्रा॒णः स्वाद् ए॒वास्मै॒ योनेः॑ प्रा॒णं निर् मि॑मीते॒
वि वा ए॒तस्य॑ य॒ज्ञश् छि॑द्यते॒ यस्य॑ पृषदा॒ज्यँ स्कन्द॑ति वैष्ण॒व्यर्चा पुन॑र् गृह्णाति य॒ज्ञो वै विष्णु॑र् य॒ज्ञेनै॒व य॒ज्ञँ सं त॑नोति ॥
दे॒व स॑वितर् ए॒तत् ते॒ प्राह॒ तत् प्र च॑ सु॒व प्र च॑ यज
बृह॑स्पतिर् ब्र॒ह्मा \
आयु॑ष्मत्या ऋ॒चो मागा॑त तनू॒पात् साम्नः॑
स॒त्या व॑ आ॒शिषः॑ सन्तु स॒त्या आकू॑तयस् \
ऋ॒तं च॑ स॒त्यं च॑ वदत
स्तु॒त दे॒वस्य॑ सवि॒तुः प्र॑स॒वे
स्तु॒तस्य॑ स्तु॒तम् अ॒स्य् ऊर्ज॒म् मह्यँ॑ स्तु॒तं दु॑हा॒म् आ मा॑ स्तु॒तस्य॑ स्तु॒तं ग॑म्यात् \
श॒स्त्रस्य॑ शस्त्रम् ॥
अ॒स्य् ऊर्ज॒म् मह्यँ॑ श॒स्त्रं दु॑हा॒म् आ मा॑ श॒स्त्रस्य॑ श॒स्त्रं ग॑म्यात् \
इ॒न्द्रि॒याव॑न्तो वनामहे धुक्षी॒महि॑ प्र॒जाम् इष॑म् ।
सा मे॑ स॒त्याशीर् दे॒वेषु॑ भूयात् \
ब्र॒ह्म॒व॒र्च॒सम् माग॑म्यात् ॥
य॒ज्ञो ब॑भूव॒ स आ ब॑भूव॒ स प्र ज॑ज्ञे॒ स वा॑वृधे । स दे॒वाना॒म् अधि॑पतिर् बभूव॒ सो अ॒स्माँ अधि॑पतीन् करोतु व॒यँ स्या॑म॒ पत॑यो रयी॒णाम् ॥
य॒ज्ञो वा॒ वै ॥
य॒ज्ञप॑तिं दु॒हे य॒ज्ञप॑तिर् वा य॒ज्ञं दु॑हे॒
स य स्तु॑तश॒स्त्रयो॒र् दोह॒म् अवि॑द्वा॒न् यज॑ते॒ तं य॒ज्ञो दु॑हे॒ स इ॒ष्ट्वा पापी॑यान् भवति॒ य ए॑नयो॒र् दोहं॑ वि॒द्वान् यज॑ते॒ स य॒ज्ञं दु॑हे॒ स इ॒ष्ट्वा वसी॑यान् भवति
स्तु॒तस्य॑ स्तु॒तम् अ॒स्य् ऊर्ज॒म् मह्यँ॑ स्तु॒तं दु॑हा॒म् आ मा॑ स्तु॒तस्य॑ स्तु॒तं ग॑म्याच् छ॒स्त्रस्य॑ श॒स्त्रम् अ॒स्य् ऊर्ज॒म् मह्यँ॑ श॒स्त्रं दु॑हा॒म् आ मा॑ श॒स्त्रस्य॑ श॒स्त्रं ग॑म्या॒द् इत्य् आ॑है॒ष वै स्तु॑तश॒स्त्रयो॒ दोह॑स् तं॒ य ए॒वं वि॒द्वान् यज॑ते दु॒ह ए॒व य॒ज्ञम् इ॒ष्ट्वा वसी॑यान् भवति ॥
श्ये॒नाय॒ पत्व॑ने॒ स्वाहा॒ वट् स्व॒यम॑भिगूर्ताय॒ नमो॑ विष्ट॒म्भाय॒ धर्म॑णे॒ स्वाहा॒ वट् स्व॒यम॑भिगूर्ताय॒ नमो॑ परि॒धये॑ जन॒प्रथ॑नाय॒ स्वाहा॒ वट् स्व॒यम॑भिगूर्ताय॒ नम॑ ऊ॒र्जे होत्रा॑णाँ॒ स्वाहा॒ वट् स्व॒यम॑भिगूर्ताय॒ नमः॒ पय॑से॒ होत्रा॑णाँ॒ स्वाहा॒ वट् स्व॒यम॑भिगूर्ताय॒ नमः॑ प्र॒जाप॑तये॒ मन॑वे॒ स्वाहा॒ वट् स्व॒यम॑भिगूर्ताय॒ नम॑ ऋ॒तम् ऋ॑तपाः सुवर्वा॒ट् स्वाहा॒ वट् स्व॒यम॑भिगूर्ताय॒ नम॑स्
तृ॒म्पन्ताँ॒ होत्रा॒ मधो॑र् घृ॒तस्य॑
य॒ज्ञप॑ति॒म् ऋष॑य॒ एन॑सा ॥
आ॒हुः॒ प्र॒जा निर्भ॑क्ता अनुत॒प्यमा॑ना मध॒व्यौ॑ स्तो॒काव् अप॒ तौ र॑राध॒ सं न॒स् ताभ्याँ॑ सृजतु वि॒श्वक॑र्मा
घो॒रा ऋष॑यो॒ नमो॑ अस्त्व् एभ्यः । चक्षु॑ष एषा॒म् मन॑सश् च सं॒धौ बृह॒स्पत॑ये॒ महि॒ षद् द्यु॒मन् नमः॑ । नमो॑ वि॒श्वक॑र्मणे॒ स उ॑ पात्व् अ॒स्मान्
अ॑न॒न्यान्त् सो॑म॒पान् मन्य॑मानः । प्रा॒णस्य॑ वि॒द्वान्त् स॑म॒रे न धीर॒ एन॑श् चकृ॒वान् महि॑ ब॒द्ध ए॑षाम् । तं वि॑श्वकर्मन् ॥
प्र मु॑ञ्चा स्व॒स्तये॒
ये भ॒क्षय॑न्तो॒ न वसू॑न्य् आनृ॒हुः । यान् अ॒ग्नयो॒ऽन्वत॑प्यन्त॒ धिष्णि॑या इ॒यं तेषा॑म् अव॒या दुरि॑ष्ट्यै॒ स्वि॑ष्टिं न॒स् तां कृ॑णोतु वि॒श्वक॑र्मा॒
नमः॑ पि॒तृभ्यो॑ अ॒भि ये नो॒ अख्य॑न् यज्ञ॒कृतो॑ य॒ज्ञका॑माः सुदे॒वा अका॑मा वो॒ दक्षि॑णां॒ न नी॑निम॒ मा न॒स् तस्मा॒द् एन॑सः पापयिष्ट
याव॑न्तो॒ वै स॑द॒स्य॑स् ते॑ सर्वे॑ दक्षि॒ण्य॑स् तेभ्यो॒ यो दक्षि॑णां॒ न ॥
नये॒द् ऐभ्यो॑ वृश्च्येत॒ यद् वै॑श्वकर्म॒णानि॑ जु॒होति॑ सद॒स्या॑न् ए॒व तत् प्री॑णाति \
अ॒स्मे दे॑वासो॒ वपु॑षे चिकित्सत॒ यम् आ॒शिरा॒ दम्प॑ती वा॒मम् अ॑श्नु॒तः । पुमा॑न् पु॒त्रो जा॑यते वि॒न्दते॒ वस्व् अथ॒ विश्वे॑ अर॒पा ए॑धते गृ॒हः ॥
आ॒शी॒र्दा॒या दम्प॑ती वा॒मम् अ॑श्नुता॒म् अरि॑ष्टो॒ रायः॑ सचताँ॒ समो॑क्सा । य आसि॑च॒त् संदु॑ग्धं कु॒म्भ्या स॒हेष्टेन॒ याम॒न्न् अम॑तिं जहातु॒ सः ॥
स॒र्पि॒र्ग्री॒वी ॥
पीव॑र्य् अस्य जा॒या पीवा॑नः पु॒त्रा अकृ॑शासो अस्य । स॒ह जा॑नि॒र् यः सु॑मख॒स्यमा॑न॒ इन्द्रा॑या॒शिरँ॑ स॒ह कु॒म्भ्यादा॑त् ॥
आ॒शीर् म॒ ऊर्ज॑म् उ॒त सु॑प्रजा॒स्त्वम् इषं॑ दधातु॒ द्रवि॑णँ॒ सव॑र्चसम् । सं॒जय॒न् क्षेत्रा॑णि॒ सह॑सा॒हम् इ॑न्द्र कृण्वा॒नो अ॒न्याँ अध॑रान्त् स॒पत्ना॑न् ॥
भू॒तम् अ॑सि भू॒ते म॑ धा॒ मुख॑म् असि॒ मुख॑म् भूयासम् \
द्यावा॑पृथि॒वीभ्यां॑ त्वा॒ परि॑ गृह्णामि॒
विश्वे॑ त्वा दे॒वा वै॑श्वानराः ॥
प्र च्या॑वयन्तु
दि॒वि दे॒वान् दृँ॑हा॒न्तरि॑क्षे॒ वयाँ॑सि पृथि॒व्याम् पार्थि॑वान्
ध्रु॒वं ध्रु॒वेण॑ ह॒विषाव॒ सोमं॑ नयामसि । यथा॑ नः॒ सर्व॒म् इज् जग॑द् अय॒क्ष्मँ सु॒मना॒ अस॑त् ॥
यथा॑ न॒ इन्द्र॒ इद् विशः॒ केव॑लीः॒ सर्वाः॒ सम॑नसः॒ कर॑त् । यथा॑ नः॒ सर्वा॒ इद् दिशो॒ऽस्माकं॒ केव॑ली॒र् अस॑न् ॥
यद् वै होता॑ध्व॒र्युम् अ॑भ्या॒ह्वय॑ते॒ वज्र॑म् एनम् अ॒भि प्र व॑र्तयति॒ \
उक्थ॑शा॒ इत्य् आ॑ह प्रातःसव॒नम् प्र॑ति॒गीर्य॒ त्रीण्य् ए॒तान्य् अ॒क्षरा॑णि त्रि॒पदा॑ गाय॒त्री गा॑य॒त्रम् प्रा॑तःसव॒नं गा॑यत्रि॒यैव प्रा॑तःसव॒ने वज्र॑म् अ॒न्तर् ध॑त्ते \
उ॒क्थं वा॒चीत्य् आ॑ह॒ माध्यं॑दिनँ॒ सव॑नम् प्रति॒गीर्य॑ च॒त्वार्य् ए॒तान्य् अ॒क्षरा॑णि॒ चतु॑ष्पदा त्रि॒ष्टुप् त्रैष्टु॑भ॒म् माध्यं॑दिनँ॒ सव॑नं त्रि॒ष्टुभै॒व माध्यं॑दिने॒ सव॑ने॒ वज्र॑म् अ॒न्तर् ध॑त्ते ॥
उ॒क्थं वा॒चीन्द्रा॒येत्य् आ॑ह तृतीयसव॒नम् प्र॑ति॒गीर्य॑ स॒प्तैतान्य् अ॒क्षरा॑णि स॒प्तप॑दा॒ शक्व॑री शाक्व॒रो वज्रो॒ वज्रे॑णै॒व तृ॑तीयसव॒ने वज्र॑म् अ॒न्तर् ध॑त्ते
ब्रह्मवा॒दिनो॑ वदन्ति॒
स त्वा अ॑ध्व॒र्युः स्या॒द् यो य॑थासव॒नम् प्र॑तिग॒रे छन्दाँ॑सि सम्पा॒दये॒त् तेजः॑ प्रातःसव॒न आ॒त्मन् दधी॑तेन्द्रि॒यम् माध्यं॑दिने॒ सव॑ने प॒शूँस् तृ॑तीयसव॒न इ॑ति॒ \
उक्थ॑शा॒ इत्य् आ॑ह प्रातःसव॒नम् प्र॑ति॒गीर्य॒ त्रीण्य् ए॒तान्य् अ॒क्षरा॑णि ॥
त्रि॒पदा॑ गाय॒त्री गा॑य॒त्रम् प्रा॑तःसव॒नम् प्रा॑तःसव॒न ए॒व प्र॑तिग॒रे छन्दाँ॑सि॒ सम् पा॑दयति॒ \
अथो॒ तेजो॒ वै गा॑य॒त्री तेजः॑ प्रातःसव॒नं तेज॑ ए॒व प्रा॑तःसव॒न आ॒त्मन् ध॑त्ते \
उ॒क्थं वा॒चीत्य् आ॑ह॒ माध्यं॑दिनँ सव॒नम् प्र॑ति॒गीर्य॑ च॒त्वार्य् ए॒तान्य् अ॒क्षरा॑णि॒ चतु॑ष्पदा त्रि॒ष्टुप् त्रैष्टु॑भ॒म् माध्यं॑दिनँ॒ सव॑न॒म् माध्यं॑दिन ए॒व सव॑ने प्रतिग॒रे छन्दाँ॑सि॒ सम् प्रा॑दयति॒ \
अथो॑ इन्द्रि॒यं वै त्रि॒ष्टुग् इ॑न्द्रि॒यम् माध्यं॑दिनँ॒ सव॑नम् ॥
इ॒न्द्रि॒यम् ए॒व माध्यं॑दिने॒ सव॑न आ॒त्मन् ध॑त्ते \
उ॒क्थं वा॒चीन्द्रा॒येत्य् आ॑ह तृतीयसव॒नम् प्र॑ति॒गीर्य॑ स॒प्तैतान्य् अ॒क्षरा॑णि स॒प्तप॑दा॒ शक्व॑री शाक्व॒राः प॒शवो॒ जाग॑तं तृतीयसव॒नं तृ॑तीयसव॒न ए॒व प्र॑तिग॒रे छन्दाँ॑सि॒ सम् पा॑दयति॒ \
अथो॑ पशवो॒ वै जग॑ती प॒शव॑स् तृतीयसव॒नम् प॒शून् ए॒व तृ॑तीयसव॒न आ॒त्मन् ध॑त्ते॒
यद् वै होता॑ध्व॒र्युम् अ॑भ्या॒ह्वय॑त आ॒व्य॑म् अस्मिन् दधाति॒ तद् यन् न ॥
अ॒प॒हनी॑त पु॒रास्य॑ संवत्स॒राद् गृ॒ह आ वे॑वीरन् \
शोँसा॒ मोद॑ इ॒वेति॑ प्र॒त्याह्व॑यते॒ तेनै॒व तद् अप॑ हते॒
यथा॒ वा आय॑ताम् प्र॒तीक्ष॑त ए॒वम् अ॑ध्व॒र्युः प्र॑तिग॒रम् प्रती॑क्षते॒
यद् अ॑भिप्रतिगृणी॒याद् यथाय॑तया समृ॒छते॑ ता॒दृग् ए॒व तत् \
यद् अ॑र्ध॒र्चाल् लुप्ये॑त॒ यथा॒ धाव॑द्भ्यो॒ हीय॑ते ता॒दृग् ए॒व त॑त्
प्र॒बाहु॒ग् वा ऋ॒त्विजा॑म् उद्गी॒था उ॑द्गी॒थ ए॒वोद्गा॑तृ॒णाम् ॥
ऋ॒चः प्र॑ण॒व उ॑क्थशँ॒सिना॑म् प्रतिग॒रो॑ऽध्वर्यू॒णाम् \
य ए॒वं वि॒द्वान् प्र॑तिगृ॒णात्य् अ॑न्ना॒द ए॒व भ॑व॒त्य् आस्य॑ प्र॒जायां॑ वा॒जी जा॑यते \
इ॒यम् वै होता॒साव् अ॑ध्व॒र्युस् \
यद् आसी॑नः॒ शँस॑त्य् अ॒स्या ए॒व तद् धोता॒ नैत्य् आस्त॑ इव॒ हीयम् अथो॑ इ॒माम् ए॒व तेन॒ यज॑मानो दुहे॒
यत् तिष्ठ॑न् प्रतिग्रि॒णात्य् अ॒मुष्या॑ ए॒व तद् अ॑ध्व॒र्युर् नैति॑ ॥
तिष्ठ॑तीव॒ ह्य् अ॑साव् अथो॑ अ॒मूम् ए॒व तेन॒ यज॑मानो दुहे॒
यद् आसी॑नः॒ शँस॑ति॒ तस्मा॑द् इ॒तःप्र॑दानं दे॒वा उप॑ जीवन्ति॒ यत् तिष्ठ॑न् प्रतिगृ॒णाति॒ तस्मा॑द् अ॒मुतः॑प्रदानम् मनु॒ष्या॑ उप॑ जीवन्ति॒
यत् प्राङ् आसी॑नः॒ शँस॑ति प्र॒त्यङ् तिष्ठ॑न् प्रतिगृ॒णाति॒ तस्मा॒त् प्राची॑नँ॒ रेतो॑ धीयते॒ प्रती॑चीः प्र॒जा जा॑यन्ते॒
यद् वै होता॑ध्व॒र्युम् अ॑भ्या॒ह्वय॑ते॒ वज्र॑म् एनम् अ॒भि प्र व॑र्तयति॒ परा॒ङ् आ व॑र्तते॒ वज्र॑म् ए॒व तन् नि क॑रोति ॥
उ॒प॒या॒मगृ॑हीतोऽसि वाक्ष॒सद् अ॑सि वा॒क्पाभ्यां॑ त्वा क्रतु॒पाभ्या॑म् अ॒स्य य॒ज्ञस्य॑ ध्रु॒वस्याध्य॑क्षाभ्यां गृह्णामि \
उपया॒मगृ॑हीतोऽस्य् ऋत॒सद् अ॑सि चक्षु॒ष्पाभ्यां॑ त्वा क्रतु॒पाभ्या॑म् अ॒स्य य॒ज्ञस्य॑ ध्रु॒वस्याध्य॑क्षाभ्यां गृह्णामि \
उपया॒मगृ॑हीतोऽसि श्रुत॒सद् अ॑सि श्रोत्र॒पाभ्यां॑ त्वा क्रतु॒पाभ्या॑म् अ॒स्य य॒ज्ञस्य॑ ध्रु॒वस्याध्य॑क्षाभ्यां गृह्णामि
दे॒वेभ्य॑स् त्वा
वि॒श्वदे॑वेभ्यस् त्वा॒
विश्वे॑भ्यस् त्वा दे॒वेभ्य॑स् \
विष्ण॑व् उरुक्र॒मैष ते॒ सोम॒स् तँ र॑क्षस्व ॥
तं ते॑ दु॒श्चक्षा॒ माव॑ ख्यत् \
मयि॒ वसुः॑ पुरो॒वसु॑र् वा॒क्पा वाच॑म् मे पाहि॒
मयि॒ वसु॑र् वि॒दद्व॑सुश् चक्षु॒ष्पाश् चक्षु॑र् मे पाहि॒
मयि॒ वसुः॑ सं॒यद्व॑सुः श्रोत्र॒पाः श्रोत्र॑म् मे पाहि
भूर् अ॑सि॒ श्रेष्ठो॑ रश्मी॒नाम् प्रा॑ण॒पाः प्रा॒णम् मे॑ पाहि
धूर् अ॑सि॒ श्रेष्ठो॑ रश्मी॒नाम् अ॑पान॒पा अ॑पा॒नम् मे॑ पाहि॒
यो न॑ इन्द्रवायू
मित्रावरुणौ \
अश्विनाव् अभि॒दास॑ति॒ भ्रातृ॑व्य उ॒त्पिपी॑ते शुभस् पती इ॒दम् अ॒हं तम् अध॑रम् पादयामि॒ यथे॑न्द्रा॒हम् उ॑त्त॒मश् चे॒तया॑नि ॥
प्र सो अ॑ग्ने॒ तवो॑तिभिः सु॒वीरा॑भिस् तरति॒ वाज॑कर्मभिः । यस्य॒ त्वँ स॒ख्यम् आवि॑थ ॥
प्र होत्रे॑ पू॒र्व्यं वचो॒ऽग्नये॑ भरता बृ॒हत् । वि॒पां ज्योतीँ॑षि॒ बिभ्र॑ते॒ न वे॒धसे॑ ॥
अग्ने॒ त्री ते॒ वाजि॑ना॒ त्री ष॒धस्था॑ ति॒स्रस् ते॑ जि॒ह्वा ऋ॑तजात पू॒र्वीः । ति॒स्र उ॑ ते त॒नुवो॑ दे॒ववा॑ता॒स् ताभि॑र् नः पाहि॒ गिरो॒ अप्र॑युछन् ॥
सं वां॒ कर्म॑णा॒ सम् इ॒षा ॥
हि॒नो॒मीन्द्रा॑विष्णू॒ अप॑सस् पा॒रे अ॒स्य । जु॒षेथां॑ य॒ज्ञं द्रवि॑णं च धत्त॒म् अरि॑ष्टैर् नः प॒थिभिः॑ पा॒रय॑न्ता ॥
उ॒भा जि॑ग्यथु॒र् न परा॑ जयेथे॒ न परा॑ जिग्ये कत॒रश् च॒नैनोः॑ । इन्द्र॑श् च विष्णो॒ यद् अप॑स्पृधेथां त्रे॒धा स॒हस्रं॒ वि तद् ऐ॑रयेथाम् ॥
त्रीण्य् आयूँ॑षि॒ तव॑ जातवेदस् ति॒स्र आ॒जानी॑र् उ॒षस॑स् ते अग्ने । ताभि॑र् दे॒वाना॒म् अवो॑ यक्षि वि॒द्वान् अथ॑ ॥
भ॒व॒ यज॑मानाय॒ शं योः ॥
अ॒ग्निस् त्रीणि॑ त्रि॒धातू॒न्य् आ क्षे॑ति वि॒दथा॑ क॒विः । स त्रीँर् ए॑काद॒शाँ इ॒ह । यक्ष॑च् च पि॒प्रय॑च् च नो॒ विप्रो॑ दू॒तः परि॑ष्कृतः । नभ॑न्ताम् अन्य॒के स॑मे ॥
इन्द्रा॑विष्णू दृँहि॒ताः शम्ब॑रस्य॒ नव॒ पुरो॑ नव॒तिं च॑ श्नथिष्टम् । श॒तं व॒र्चिनः॑ स॒हस्रं॑ च सा॒कँ ह॒थो अ॑प्र॒त्य् असु॑रस्य वी॒रान् ॥
उ॒त मा॒ता म॑हि॒षम् अन्व् अ॑वेनद् अ॒मी त्वा॑ जहति पुत्र दे॒वाः । अथा॑ब्रवीद् वृ॒त्रम् इन्द्रो॑ हनि॒ष्यन्त् सखे॑ विष्णो वित॒रं वि क्र॑मस्व ॥