प्र॒जाप॑तिर् अकामयत प्र॒जाः सृ॑जे॒येति॒

स तपो॑ऽतप्यत॒ स स॒र्पान् अ॑सृजत॒

सो॑ऽकामयत प्र॒जाः सृ॑जे॒येति॒

स द्वि॒तीय॑म् अतप्यत॒ स वयाँ॑स्य् असृजत॒

सो॑ऽकामयत प्र॒जाः सृ॑जे॒येति॒

स तृ॒तीय॑म् अतप्यत॒ स ए॒तं दी॑क्षितवा॒दम् अ॑पश्य॒त् तम् अ॑वद॒त् ततो॒ वै स प्र॒जा अ॑सृजत॒

यत् तप॑स् त॒प्त्वा दी॑क्षितवा॒दं वद॑ति प्र॒जा ए॒व तद् यज॑मानः ॥

सृ॒ज॒ते॒

यद् वै दी॑क्षि॒तो॑ऽमे॒ध्यम् पश्य॒त्य् अपा॑स्माद् दी॒क्षा क्रा॑मति॒ नील॑म् अस्य॒ हरो॒ व्य् ए॑ति॒ \

अब॑द्ध॒म् मनो॑ द॒रिद्रं॒ चक्षुः॒ सूर्यो॒ ज्योति॑षाँ॒ श्रेष्ठो॑ दीक्षे॒ मा मा॑ हासीस् \

इत्य् आ॑ह

नास्मा॑द् दी॒क्षाप॑ क्रामति॒ नास्य॒ नीलं॒ न हरो॒ व्य् ए॑ति॒

यद् वै दी॑क्षि॒तम् अ॑भि॒वर्ष॑ति दि॒व्या आपोऽशा॑न्ता॒ ओजो॒ बलं॑ दी॒क्षाम् ॥

तपो॑ऽस्य॒ निर् घ्न॑न्ति \

उन्द॒तीर् बलं॑ ध॒त्तौजो॑ धत्त॒ बलं॑ धत्त॒ मा मे॑ दी॒क्षाम् मा तपो॒ निर् व॑धिष्ट॒ \

इत्य् आ॑ह \

ए॒तद् ए॒व सर्व॑म् आ॒त्मन् ध॑त्ते

नास्यौजो॒ बलं॒ न दी॒क्षां न तपो॒ निर् घ्न॑न्ति \

अ॒ग्निर् वै दी॑क्षि॒तस्य॑ दे॒वता॒

सो॑ऽस्माद् ए॒तर्हि॑ ति॒र इ॑व॒ यर्हि॒ याति॒ तम् ई॑श्व॒रँ रक्षाँ॑सि॒ हन्तोः॑ ॥

भ॒द्राद् अ॒भि श्रेयः॒ प्रेहि॒ बृह॒स्पतिः॑ पुरए॒ता ते॑ अ॒स्त्व् इत्य् आ॑ह॒ ब्रह्म॒ वै दे॒वाना॒म् बृह॒स्पति॒स् तम् ए॒वान्वार॑भते॒ स ए॑नँ॒ सम् पा॑रयति॒ \

एदम् अ॑गन्म देव॒यज॑नम् पृथि॒व्या इत्य् आ॑ह

देव॒यज॑नँ॒ ह्य् ए॑ष पृ॑थि॒व्या आ॒गछ॑ति॒ यो यज॑ते॒

विश्वे॑ दे॒वा यद् अजु॑षन्त॒ पूर्व॒ इत्य् आ॑ह॒ विश्वे॒ ह्य् ए॑तद् दे॒वा जो॒षय॑न्ते॒ यद् ब्रा॑ह्म॒णा ऋ॑क्षा॒माभ्यां॒ यजु॑षा सं॒तर॑न्त॒ इत्य् आ॑ह \

ऋक्सा॒माभ्याँ॒ ह्य् ए॑ष यजु॑षा सं॒तर॑ति॒ यो यज॑ते

रा॒यस् पोषे॑ण॒ सम् इ॒षा म॑दे॒मेत्य् आ॑हा॒शिष॑म् ए॒वैताम् आ शा॑स्ते ॥

ए॒ष ते॑ गाय॒त्रो भा॒ग इति॑ मे॒ सोमा॑य ब्रूतात् \

ए॒ष ते॒ त्रैष्टु॑भो॒ जाग॑तो भा॒ग इति॑ मे॒ सोमा॑य ब्रूतात् \

छ॒न्दो॒मानाँ॒ साम्रा॑ज्यं ग॒छेति॑ मे॒ सोमा॑य ब्रूतात् \

यो वै सोमँ॒ राजा॑नँ॒ साम्रा॑ज्यं लो॒कं ग॑मयि॒त्वा क्री॒णाति॒ गछ॑ति॒ स्वानाँ॒ साम्रा॑ज्यं॒ छन्दाँ॑सि॒ खलु॒ वै सोम॑स्य॒ राज्ञः॒ साम्रा॑ज्यो लो॒कः

पु॒रस्ता॒त् सोम॑स्य क्र॒याद् ए॒वम् अ॒भि म॑न्त्रयेत

साम्रा॑ज्यम् ए॒व ॥

ए॒नं॒ लो॒कं ग॑मयि॒त्वा क्री॑णाति॒ गछ॑ति॒ स्वानाँ॒ साम्रा॑ज्य॒म्

यो वै ता॑नून॒प्त्रस्य॑ प्रति॒ष्ठां वेद॒ प्रत्य् ए॒व ति॑ष्ठति

ब्रह्मवा॒दिनो॑ वदन्ति॒

न प्रा॒श्नन्ति॒ न जु॑ह्व॒त्य् अथ॒ क्व॑ तानून॒प्त्रम् प्रति॑ तिष्ठ॒तीति॑ प्र॒जाप॑तौ॒ मन॒सीति॑ ब्रूयात्

त्रिर् अव॑ जिघ्रेत्

प्र॒जाप॑तौ त्वा॒ मन॑सि जुहोमि॒ \

इत्य् ए॒षा वै ता॑नून॒प्त्रस्य॑ प्रति॒ष्ठा य ए॒वं वेद॒ प्रत्य् ए॒व ति॑ष्ठति॒

यः ॥

वा अ॑ध्व॒र्योः प्र॑ति॒ष्ठां वेद॒ प्रत्य् ए॒व ति॑ष्ठति॒

यतो॒ मन्ये॒तान॑भिक्रम्य होष्या॒मीति॒ तत् तिष्ठ॒न्न् आ श्रा॑वयेत्

ए॒षा वा अ॑ध्व॒र्योः प्र॑ति॒ष्ठा य ए॒वं वेद॒ प्रत्य् ए॒व ति॑ष्ठति॒

यद् अ॑भि॒क्रम्य॑ जुहु॒यात् प्र॑ति॒ष्ठाया॑ इया॒त् तस्मा॑त् समा॒नत्र॒ तिष्ठ॑ता होत॒व्य॑म् प्रति॑ष्ठित्यै॒

यो वा अ॑ध्व॒र्योः स्वं वेद॒ स्ववा॑न् ए॒व भ॑वति॒

स्रुग् वा अ॑स्य॒ स्वं वा॑य॒व्य॑म् अस्य ॥

स्वं च॑म॒सो॑ऽस्य॒ स्वं यद् वा॑य॒व्यं॑ वा चम॒सं वान॑न्वारभ्याश्रा॒वये॒त् स्वाद् इ॑या॒त् तस्मा॑द् अन्वा॒रभ्या॒श्राव्यँ॒ स्वाद् ए॒व नैति॒

यो वै सोम॒म् अप्र॑तिष्ठाप्य स्तो॒त्रम् उ॑पाक॒रोत्य् अप्र॑तिष्ठितः॒ सोमो॒ भव॒त्य् अप्र॑तिष्ठितः॒ स्तोमोऽप्र॑तिष्ठितान्य् उ॒क्थान्य् अप्र॑तिष्ठितो॒ यज॑मा॒नोऽप्र॑तिष्ठितोऽध्व॒र्युस् \

वा॒य॒व्यं॑ वै सोम॑स्य प्रति॒ष्ठा च॑म॒सो॑ऽस्य प्रति॒ष्ठा सोमः॒ स्तोम॑स्य॒ स्तोम॑ उ॒क्थानां॒ ग्रहं॑ वा गृही॒त्वा च॑म॒सं वो॒न्नीय॑ स्तो॒त्रम् उ॒पाकु॑र्यात्

प्रत्य् ए॒व सोमँ॑ स्था॒पय॑ति॒ प्रति॒ स्तोम॒म् प्रत्य् उ॒क्थानि॒ प्रति॒ यज॑मान॒स् तिष्ठ॑ति॒ प्रत्य् अ॑ध्व॒र्युः ॥

य॒ज्ञं वा ए॒तत् सम् भ॑रन्ति॒ यत् सो॑म॒क्रय॑ण्यै प॒दम् \

य॒ज्ञ॒मु॒खँ ह॑वि॒र्धाने॒

यर्हि॑ हवि॒र्धाने॒ प्राची॑ प्रव॒र्तये॑यु॒स् तर्हि॒ तेनाक्ष॒म् उपा॑ञ्ज्यात् \

य॒ज्ञ॒मु॒ख ए॒व य॒ज्ञम् अनु॒ सं त॑नोति

प्राञ्च॑म् अ॒ग्निम् प्र ह॑र॒न्त्य् उत् पत्नी॒म् आ न॑य॒न्त्य् अन्व् अनाँ॑सि॒ प्र व॑र्तयन्ति॒ \

अथ॒ वा अ॑स्यै॒ष धिष्णि॑यो हीयते॒ सोऽनु॑ ध्यायति॒ स ई॑श्व॒रो रु॒द्रो भू॒त्वा ॥

प्र॒जाम् प॒शून् यज॑मानस्य॒ शम॑यितोस् \

यर्हि॑ प॒शुम् आप्री॑त॒म् उद॑ञ्चं॒ नय॑न्ति॒ तर्हि॒ तस्य॑ पशु॒श्रप॑णँ हरे॒त् तेनै॒वैन॑म् भा॒गिनं॑ करोति॒

यज॑मानो॒ वा आ॑हव॒नीय॑स् \

यज॑मानं॒ वा ए॒तद् वि क॑र्षन्ते॒ यद् आ॑हव॒नीया॑त् पशु॒श्रप॑णँ॒ हर॑न्ति॒

स वै॒व स्यान् नि॑र्म॒न्थ्यं॑ वा कुर्या॒द् यज॑मानस्य सात्म॒त्वाय॒

यदि॑ प॒शोर् अ॑व॒दानं॒ नश्ये॒द् आज्य॑स्य प्रत्या॒ख्याय॒म् अव॑ द्ये॒त्

सैव ततः॒ प्राय॑श्चित्तिस् \

ये प॒शुं वि॑मथ्नी॒रन् यस् तान् का॒मये॑त \

आर्ति॒म् आर्छे॑यु॒र् इति॑ कु॒विद् अ॒ङ्गेति॒ नमो॑वृक्तिवत्य॒र्चाग्नी॑ध्रे जुहुयात् \

नमो॑वृक्तिम् ए॒वैषां॑ वृङ्क्ते ताज॒ग् आर्ति॒म् आर्छ॑न्ति ॥

प्र॒जाप॑ते॒र् जाय॑मानाः प्र॒जा जा॒ताश् च॒ या इ॒माः । तस्मै॒ प्रति॒ प्र वे॑दय चिकि॒त्वाँ अनु॑ मन्यताम् ॥

इ॒मम् प॒शुम् प॑शुपते ते अ॒द्य ब॒ध्नाम्य् अ॑ग्ने सुकृ॒तस्य॒ मध्ये॑ । अनु॑ मन्यस्व सु॒यजा॑ यजाम॒ जुष्टं॑ दे॒वाना॑म् इ॒दम् अ॑स्तु ह॒व्यम् ॥

प्र॒जा॒नन्तः॒ प्रति॑ गृह्णन्ति॒ पूर्वे॑ प्रा॒णम् अङ्गे॑भ्यः॒ पर्य् आ॒चर॑न्तम् । सु॒व॒र्गं या॑हि प॒थिभि॑र् देव॒यानै॒र् ओष॑धीषु॒ प्रति॑ तिष्ठा॒ शरी॑रैः ॥

येषा॒म् ईशे॑ ॥

प॒शु॒पतिः॑ पशू॒नां चतु॑ष्पदाम् उ॒त च॑ द्वि॒पदा॑म् । निष्क्री॑तो॒ऽयं य॒ज्ञिय॑म् भा॒गम् ए॑तु रा॒यस् पोषा॒ यज॑मानस्य सन्तु ॥

ये ब॒ध्यमा॑न॒म् अनु॑ ब॒ध्यमा॑ना अ॒भ्यैक्ष॑न्त॒ मन॑सा॒ चक्षु॑षा च । अ॒ग्निस् ताँ अग्रे॒ प्र मु॑मोक्तु दे॒वः प्र॒जाप॑तिः प्र॒जया॑ संविदा॒नः ॥

य आ॑र॒ण्याः प॒शवो॑ वि॒श्वरू॑पा॒ विरू॑पाः॒ सन्तो॑ बहु॒धैक॑रूपाः । वा॒युस् ताँ अग्रे॒ प्र मु॑मोक्तु दे॒वः प्र॒जाप॑तिः प्र॒जया॑ संविदा॒नः ॥

प्र॒मु॒ञ्चमा॑नाः ॥

भुव॑नस्य॒ रेतो॑ गा॒तुं ध॑त्त॒ यज॑मानाय देवाः । उ॒पाकृ॑तँ शशमा॒नं यद् अस्था॑ज् जी॒वं दे॒वाना॒म् अप्य् ए॑तु॒ पाथः॑ ॥

नाना॑ प्रा॒णो यज॑मानस्य प॒शुना॑ य॒ज्ञो दे॒वेभिः॑ स॒ह दे॑व॒यानः॑ । जी॒वं दे॒वाना॒म् अप्य् ए॑तु॒ पाथः॑ स॒त्याः स॑न्तु॒ यज॑मानस्य॒ कामाः॑ ॥

यत् प॒शुर् मा॒युम् अकृ॒तोरो॑ वा प॒द्भिर् आ॑ह॒ते । अ॒ग्निर् मा॒ तस्मा॒द् एन॑सो॒ विश्वा॑न् मुञ्च॒त्व् अँह॑सः ॥

शमि॑तार उ॒पेत॑न य॒ज्ञम् ॥

दे॒वेभि॑र् इन्वि॒तम् । पाशा॑त् प॒शुम् प्र मु॑ञ्चत ब॒न्धाद् य॒ज्ञप॑ति॒म् परि॑ ॥

अदि॑तिः॒ पाश॒म् प्र मु॑मोक्त्व् ए॒तं नमः॑ प॒शुभ्यः॑ पशु॒पत॑ये करोमि । अ॒रा॒ती॒यन्त॒म् अध॑रं कृणोमि॒ यं द्वि॒ष्मस् तस्मि॒न् प्रति॑ मुञ्चामि॒ पाश॑म् ॥

त्वाम् उ॒ ते द॑धिरे हव्य॒वाहँ॑ शृतंक॒र्तार॑म् उ॒त य॒ज्ञियं॑ च । अग्ने॒ सद॑क्षः॒ सत॑नु॒र् हि भू॒त्वाथ॑ ह॒व्या जा॑तवेदो जुषस्व ॥

जात॑वेदो व॒पया॑ गछ दे॒वान् त्वँ हि होता॑ प्रथ॒मो ब॒भूथ॑ । घृ॒तेन॒ त्वं त॒नुवो॑ वर्धयस्व॒ स्वाहा॑कृतँ ह॒विर् अ॑दन्तु दे॒वाः ॥

स्वाहा॑ दे॒वेभ्यो॑ दे॒वेभ्यः॒ स्वाहा॑ ॥

पा॒जा॒प॒त्या वै प॒शव॒स् तेषाँ॑ रु॒द्रोऽधि॑पतिस् \

यद् ए॒ताभ्या॑म् उपाक॒रोति॒ ताभ्या॑म् ए॒वैन॑म् प्रति॒प्रोच्या ल॑भत आ॒त्मनोऽना॑व्रस्काय

द्वाभ्या॑म् उ॒पाक॑रोति

द्वि॒पाद् यज॑मानः

प्रति॑ष्ठित्यै \

उपा॒कृत्य॒ पञ्च॑ जुहोति

पाङ्क्ताः॑ प॒शवः॑

प॒शून् ए॒वाव॑ रुन्द्धे

मृ॒त्यवे॒ वा ए॒ष नी॑यते॒ यत् प॒शुस्

तं यद् अ॑न्वा॒रभे॑त प्र॒मायु॑को॒ यज॑मानः स्यात् \

नाना॑ प्रा॒णो यज॑मानस्य प॒शुनेत्य् आ॑ह॒ व्यावृ॑त्त्यै ॥

यत् प॒शुर् मा॒युम् अकृ॒तेति॑ जुहोति॒ शान्त्यै॒

शमि॑तार उ॒पेत॒नेत्य् आ॑ह

यथाय॒जुर् ए॒वैतत् \

व॒पायां॒ वा आ॑ह्रि॒यमा॑णायाम् अ॒ग्नेर् मेधोऽप॑ क्रामति

त्वाम् उ॑ ते दधिरे हव्य॒वाह॒म् इति॑ व॒पाम् अ॒भि जु॑होति \

अ॒ग्नेर् ए॒व मेध॒म् अव॑ रुन्द्धे॒ \

अथो॑ शृत॒त्वाय॑

पु॒रस्ता॑त्स्वाहाकृतयो॒ वा अ॒न्ये दे॒वा {F उ॒परि॑ष्टात्स्वाहाकृतयो} {W उ॒परि॑ष्टात्स्वाकाकृतयो} {ग्लोस् उ॒परि॑ष्टात्स्वाहाकृतयो॒}ऽन्ये

स्वाहा॑ दे॒वेभ्यो॑ दे॒वेभ्यः॒ स्वाहेत्य् अ॒भितो॑ व॒पां जु॑होति

तान् ए॒वोभया॑न् प्रीणाति ॥

यो वा अय॑थादेवतं य॒ज्ञम् उ॑प॒चर॒त्य् आ दे॒वता॑भ्यो वृश्च्यते॒ पापी॑यान् भवति॒ यो य॑थादेव॒तं न दे॒वता॑भ्य॒ आ वृ॑श्च्यते॒ वसी॑यान् भवति \

आग्ने॒य्यर्चाग्नी॑ध्रम् अ॒भि मृ॑शेद् वैष्ण॒व्या ह॑वि॒र्धान॑म् आग्ने॒य्या स्रुचो॑ वाय॒व्य॑या वाय॒व्या॑न्य् ऐन्द्रि॒या सदो॑ यथादेव॒तम् ए॒व य॒ज्ञम् उप॑ चरति॒ न दे॒वता॑भ्य॒ आ वृ॑श्च्यते॒ वसी॑यान् भवति

यु॒नज्मि॑ ते पृथि॒वीं ज्योति॑षा स॒ह यु॒नज्मि॑ वा॒युम् अ॒न्तरि॑क्षेण ॥

ते॒ स॒ह यु॒नज्मि॒ वाचँ॑ स॒ह सूर्ये॑ण ते यु॒नज्मि॑ ति॒स्रो वि॒पृचः॒ सूर्य॑स्य ते

अ॒ग्निर् दे॒वता॑ गाय॒त्री छन्द॑ उपाँ॒शोः पात्र॑म् असि॒ सोमो॑ दे॒वता॑ त्रि॒ष्टुप् छ॑न्दोऽन्तर्या॒मस्य॒ पात्र॑म् अ॒सीन्द्रो॑ दे॒वता॒ जग॑ती॒ छन्द॑ इन्द्रवायु॒वोः पात्र॑म् असि॒ बृह॒स्पति॑र् दे॒वता॑नु॒ष्टुप् छन्दो॑ मि॒त्रावरु॑णयोः॒ पात्र॑म् अस्य् अश्विनौ दे॒वता॑ प॒ङ्क्तिश् छन्दो॒ऽश्विनोः॒ पात्र॑म् असि॒ सूर्यो॑ दे॒वता॑ बृह॒ती ॥

छन्दः॑ शु॒क्रस्य॒ पात्र॑म् असि च॒न्द्रमा॑ दे॒वता॑ स॒तोबृ॑हती॒ छन्दो॑ म॒न्थिनः॒ पात्र॑म् असि॒ विश्वे॑ दे॒वा दे॒वतो॒ष्णिहा॒ छन्द॑ आग्रय॒णस्य॒ पात्र॑म् अ॒सीन्द्रो॑ दे॒वता॑ क॒कुच् छन्द॑ उ॒क्थाना॒म् पात्र॑म् असि पृथि॒वी दे॒वता॑ वि॒राट् छन्दो॒ ध्रुव॑स्य॒ पात्र॑म् असि ॥

इ॒ष्टर्गो॒ वा अ॑ध्व॒र्युर् यज॑मानस्ये॒ष्टर्गः॒ खलु॒ वै पूर्वो॒ऽर्ष्टुः क्षी॑यते \

आस॒न्या॑न् मा॒ मन्त्रा॑त् पाहि॒ कस्या॑श् चिद् अ॒भिश॑स्त्यास् \

इति॑ पु॒रा प्रा॑तरनुवा॒काज् जु॑हुयाद् आ॒त्मन॑ एव॒ तद् अ॑ध्व॒र्युः पु॒रस्ता॒च् छर्म॑ नह्य॒तेऽना॑र्त्यै

संवे॒शाय॑ त्वोपवे॒शाय॑ त्वा गायत्रि॒यास् त्रि॒ष्टुभो॒ जग॑त्या अ॒भिभू॑त्यै॒ स्वाहा॑

प्राणा॑पानौ मृ॒त्योर् मा॑ पात॒म् प्राणा॑पानौ॒ मा मा॑ हासिष्टं दे॒वता॑सु॒ वा ए॒ते प्रा॑णापा॒नयोः॑ ॥

व्याय॑छन्ते॒ येषाँ॒ सोमः॑ समृ॒छते॑

संवे॒शाय॑ त्वोपवे॒शाय॑ त्वा॒ \

इत्य् आ॑ह॒ छन्दाँ॑सि॒ वै सं॑वे॒श उ॑पवे॒शश् छन्दो॑भिर् ए॒वास्य॒ छन्दाँ॑सि वृङ्क्ते॒

प्रेति॑व॒न्त्य् आज्या॑नि भवन्त्य् अ॒भिजि॑त्यै म॒रुत्व॑तीः प्रति॒पदो॒ विजि॑त्यै \

उ॒भे बृ॑हद्रथन्त॒रे भ॑वतस् \

इ॒यं वाव र॑थंत॒रम् अ॒सौ बृ॒हद् आ॒भ्याम् ए॒वैन॑म् अ॒न्तर् ए॑ति \

अ॒द्य वाव र॑थंत॒रँ श्वो॑ बृ॒हद् अ॑द्या॒श्वाद् ए॒वैन॑म् अ॒न्तर् ए॑ति

भू॒तम् ॥

वाव र॑थंत॒रम् भ॑वि॒ष्यद् बृ॒हद् भू॒ताश् चै॒वैन॑म् भविष्य॒तश् चा॒न्तर् ए॑ति॒

परि॑मितं॒ वाव र॑थंत॒रम् अप॑रिमितम् बृ॒हत् परि॑मिताच् चै॒वैन॒म् अप॑रिमिताच् च॒न्तर् ए॑ति

विश्वामित्रजमद॒ग्नी वसि॑ष्ठेनास्पर्धेताँ॒ स ए॒तज् ज॒मद॑ग्निर् विह॒व्य॑म् अपश्य॒त् तेन॒ वै स वसि॑ष्ठस्येन्द्रि॒यं वी॒र्य॑म् अवृङ्क्त॒

यद् वि॑ह॒व्यँ॑ श्स्यत॑ इन्द्रि॒यम् ए॒व तद् वी॒र्यं॑ यज॑मानो॒ भ्रातृ॑व्यस्य वृङ्क्ते॒

यस्य॒ भूयाँ॑सो यज्ञक्र॒तव॒ इत्य् आ॑हुः॒

स दे॒वता॑ वृङ्क्त॒ इति॒

यद्य् अ॑ग्निष्टो॒मः सोमः॑ प॒रस्ता॒त् स्याद् उ॒क्थ्यं॑ कुर्वीत॒ यद्य् उ॒क्थ्यः॑ स्याद् अ॑तिरा॒त्रं कु॑र्वीत यज्ञक्र॒तुभि॑र् ए॒वास्य॑ दे॒वता॑ वृङ्क्ते॒ वसी॑यान् भवति ॥

नि॒ग्रा॒भ्या॑ स्थ देव॒श्रुत॒ आयु॑र् मे तर्पयत प्रा॒णम् मे॑ तर्पयतापा॒नम् मे॑ तर्पयत व्या॒नम् मे॑ तर्पयत॒ चक्षु॑र् मे तर्पयत॒ श्रोत्र॑म् मे तर्पयत॒ मनो॑ मे तर्पयत॒ वाच॑म् मे तर्पयता॒त्मान॑म् मे तर्पय॒ताङ्गा॑नि मे तर्पयत प्र॒जाम् मे॑ तर्पयत प॒शून् मे॑ तर्पयत गृ॒हान् मे॑ तर्पयत ग॒णान् मे॑ तर्पयत स॒र्वग॑णम् मा तरपयत तर्पयत मा ॥

ग॒णा मे॒ मा वि तृ॑षन् \

ओष॑धयो॒ वै सोम॑स्य॒ विशो॒ विशः॒ खलु॒ वै राज्ञः॒ प्रदा॑तोर् ईश्व॒रा ऐ॒न्द्रः सोम॑स् \

अवी॑वृधं वो॒ मन॑सा सुजाता॒ ऋत॑प्रजाता॒ भग॒ इद् वः॑ स्याम । इन्द्रे॑ण दे॒वीर् वी॒रुधः॑ संविदा॒ना अनु॑ मन्यन्ताँ॒ सव॑नाय॒ सोम॒म्

इत्य् आ॒हौष॑धीभ्य ए॒वैनँ॒ स्वायै॑ वि॒शः स्वायै॑ दे॒वता॑यै नि॒र्याच्या॒भि षु॑णोति॒

यो वै सोम॑स्याभिषू॒यमा॑णस्य ॥

प्र॒थ॒मो॑ऽँशु स्कन्द॑ति॒ स ई॑श्व॒र इ॑न्द्रि॒यं वी॒र्य॑म् प्र॒जाम् प॒शून् यज॑मानस्य॒ निर्ह॑न्तो॒स् तम् अ॒भि म॑न्त्रयेत \

आ मा॑स्कान्त् स॒ह प्र॒जया॑ स॒ह रा॒यस् पोषे॑णेन्द्रि॒यम् मे॑ वी॒र्य॑म् मा निर् व॑धीस् \

इत्य् आ॒शिष॑म् ए॒वैताम् आ शा॑स्त इन्द्रि॒यस्य॑ वी॒र्य॑स्य प्र॒जायै॑ पशू॒नाम् अनि॑र्घाताय

द्र॒प्सश् च॑स्कन्द पृथि॒वीम् अनु॒ द्याम् इ॒मं च॒ योनि॒म् अनु॒ यश् च॒ पूर्वः॑ । तृ॒तीयं॒ योनि॒म् अनु॑ सं॒चर॑न्तं द्र॒प्सं जु॑हो॒म्य् अनु॑ स॒प्त होत्राः॑ ॥

यो वै दे॒वान् दे॑वयश॒सेना॒र्पय॑ति मनु॒ष्या॑न् मनुष्ययश॒सेन॑ देवयश॒स्य् ए॑व दे॒वेषु॒ भव॑ति मनुष्ययश॒सी म॑नु॒ष्ये॑षु

यान् प्रा॒चीन॑म् आग्रय॒णाद् ग्रहा॑न् गृह्णी॒यात् तान् उ॑पाँ॒शु गृ॑ह्णीया॒द् यान् ऊ॒र्ध्वाँस् तान् उ॑पब्दि॒मतो॑ दे॒वान् ए॒व तद् दे॑वयश॒सेना॑र्पयति मनु॒ष्या॑न् मनुष्ययश॒सेन॑ देवयश॒स्य् ए॑व दे॒वेषु॑ भवति मनुष्ययश॒सी म॑नु॒ष्ये॑षु \

अ॒ग्निः प्रा॑तःसव॒ने पा॑त्व् अ॒स्मान् वै॑श्वान॒रो म॑हि॒ना वि॒श्वश॑म्भूः । स नः॑ पाव॒को द्रवि॑णं दधातु ॥

आयु॑ष्मन्तः स॒हभ॑क्षाः स्याम ॥

विश्वे॑ दे॒वा म॒रुत॒ इन्द्रो॑ अ॒स्मान् अ॒स्मिन् द्वि॒तीये॒ सव॑ने॒ न ज॑ह्युः । आयु॑ष्मन्तः प्रि॒यम् ए॒षां वद॑न्तो व॒यं दे॒वानाँ॑ सुम॒तौ स्या॑म ॥

इ॒दं त्रि॒तीयँ॒ सव॑नं कवी॒नाम् ऋ॒तेन॒ ये च॑म॒सम् ऐर॑यन्त । ते सौ॑धन्व॒नाः सुव॑र् आनशा॒नाः स्वि॑ष्टिं नो अ॒भि वसी॑यो नयन्तु ॥

आ॒यत॑नवती॒र् वा अ॒न्या आहु॑तयो हू॒यन्ते॑ऽनायत॒ना अ॒न्यास् \

या आ॑घा॒रव॑ती॒स् ता आ॒यत॑नवती॒र् याः ॥

सौ॒म्यास् ता अ॑नायत॒ना ऐ॑न्द्रवाय॒वम् आ॒दाया॑घा॒रम् आ घा॑रयेत् \

अ॒ध्व॒रो य॒ज्ञो॑ऽयम् अ॑स्तु देवा॒ ओष॑धीभ्यः प॒शवे॑ नो॒ जना॑य॒ विश्व॑स्मै॒ भूताया॑ध्व॒रो॑ऽसि॒ स पि॑न्वस्व घृत॒वद् दे॑व सोम॒ \

इति॑

सौ॒म्या ए॒व तद् आहु॑तीर् आ॒यत॑नवतीः करोत्य् आ॒यत॑नवान् भवति॒ य ए॒वं वेद॒ \

अथो॒ द्यावा॑पृथि॒वी ए॒व घृ॒तेन॒ व्य् उ॑नत्ति॒

ते व्यु॑नत्ते उपजीवा॒नीये॑ भवत उपवीव॒नीयो॑ भवति ॥

य ए॒वं वेद॑ \

ए॒ष ते॑ रुद्र भा॒गो यं नि॒रया॑चथा॒स् तं जु॑षस्व वि॒देर् गौ॑प॒त्यँ रा॒यस् {F पोषँ॑} {W पोषँ} {गोल्स् पोषँ॑} सु॒वीर्यँ॑ संवत्स॒रीणाँ॑ स्व॒स्तिम्

मनुः॑ पु॒त्रेभ्यो॑ दा॒यं व्य् अ॑भज॒त् स नाभा॒नेदि॑ष्ठम् ब्रह्म॒चर्यं॒ वस॑न्तं॒ निर् अ॑भज॒त् स आग॑छ॒त् सो॑ऽब्रवीत्

क॒था मा॒ निर् अ॑भा॒ग् इति॒

न त्वा॒ निर् अ॑भाक्ष॒म् इत्य् अ॑ब्रवी॒द् अङ्गि॑रस इ॒मे स॒त्तम् आ॑सते॒ ते ॥

सु॒व॒र्गं लो॒कं न प्र जा॑नन्ति॒ तेभ्य॑ इ॒दम् ब्राह्म॑णम् ब्रूहि॒ ते सु॑व॒र्गं लो॒कम् यन्तो॒ य ए॑षाम् प॒शव॒स् ताँस् ते॑ दास्य॒न्तीति॒

तद् ए॑भ्योऽब्रवी॒त् ते सु॑व॒र्गं लो॒कं यन्तो॒ य ए॑षाम् प॒शव॒ आस॒न् तान् अ॑स्मा अददु॒स्

तम् प॒शुभि॒श् चर॑न्तं यज्ञवा॒स्तौ रु॒द्र आग॑छ॒त् सो॑ऽब्रवी॒न् मम॒ वा इ॒मे प॒शव॒ इत्य् अदु॒र् वै ॥

मह्य॑म् इ॒मान् इत्य् अ॑रवी॒न् न वै तस्य॒ त ई॑शत॒ इत्य् अ॑ब्रवी॒द् यद् य॑ज्ञवा॒स्तौ हीय॑ते॒ मम॒ वै तद् इति॒ तस्मा॑द् यज्ञवा॒स्तु नाभ्य॒वेत्य॑म् \

सो॑ऽब्रवीद् य॒ज्ञे मा भ॑जाथ ते प॒शून् नाभि मँ॑स्य॒ इति॒

तस्मा॑ ए॒तम् म॒न्थिनः॑ सँस्रा॒वम् अ॑जुहो॒त् ततो॒ वै तस्य॑ रु॒द्रः प॒शून् नाभ्य् अ॑मन्यत॒

यत्रै॒तम् ए॒वं वि॒द्वान् म॒न्थिनः॑ सँस्रा॒वं जु॒होति॒ न तत्र॑ रु॒द्रः प॒शून् अ॒भि म॑न्यते ॥

जुष्टो॑ वा॒चो भू॑यासं॒ जुष्टो॑ वा॒चस् पत॑ये॒ देवि॑ वाक् । यद् वा॒चो मधु॑म॒त् तस्मि॑न् मा धाः॒ स्वाहा॒ सर॑स्वत्यै ॥

ऋ॒चा स्तोमँ॒ सम् अ॑र्धय गाय॒त्रेण॑ रथंत॒रम् । बृ॒हद् गा॑य॒त्रव॑र्तनि ॥

यस् ते॑ द्र॒प्स स्कन्द॑ति॒ यस् ते॑ अँ॒शुर् बा॒हुच्यु॑तो धि॒षण॑योर् उ॒पस्था॑त् । अ॒ध्व॒र्योर् वा॒ परि॒ यस् ते॑ प॒वित्रा॒त् स्वाहा॑कृत॒म् इन्द्रा॑य॒ तं जु॑होमि ॥

यो द्र॒प्सो अँ॒शुः प॑ति॒तः प्र॑थि॒व्याम् प॑रिवा॒पात् ॥

पु॒रो॒डाशा॑त् कर॒म्भात् । धा॒ना॒सो॒मान् म॒न्थिन॑ इन्द्र शु॒क्रात् स्वाहा॑कृत॒म् इन्द्रा॑य॒ तं जु॑होति ॥

यस् ते॑ द्र॒प्सो मधु॑माँ इन्द्रि॒यावा॒न्त् स्वाहा॑कृतः॒ पुन॑र् अ॒प्येति॑ दे॒वान् । दि॒वः पृ॑थि॒व्याः पर्य् अ॒न्तरि॑क्षा॒त् स्वाहा॑कृत॒म् इन्द्रा॑य॒ तं जु॑होमि ॥

अ॒ध्व॒र्युर् वा ऋ॒त्विजा॑म् प्रथ॒मो यु॑ज्यते॒ तेन॒ स्तोमो॑ योक्त॒व्य॑स् \

इत्य् आ॑हुस् \

वाग् अ॑ग्रे॒गा अग्र॑ एत्व् ऋजु॒गा दे॒वेभ्यो॒ यशो॒ मयि॒ दध॑ती प्रा॒णान् प॒शुषु॑ प्र॒जाम् मयि॑ ॥

च॒ यज॑माने च॒ \

इत्य् आ॑ह॒ वाच॑म् ए॒व तद् य॑ज्ञमु॒खे यु॑नक्ति

वास्तु॒ वा ए॒तद् य॒ज्ञस्य॑ क्रियते॒ यद् ग्र॒हान् गृ॑ही॒त्वा ब॑हिष्पवमा॒नँ सर्प॑न्ति॒

परा॑ञ्चो॒ हि यन्ति॒ परा॑चीभि स्तु॒वते॑ वैष्ण॒व्यर्चा पुन॒र् एत्योप॑ तिष्ठते य॒ज्ञो वै विष्णु॑र् य॒ज्ञम् ए॒वाक॒र्

विष्णो॒ त्वं नो॒ अन्त॑मः॒ शर्म॑ यछ सहन्त्य । प्र ते॒ धारा॑ मधु॒श्चुत॒ उत्सं॑ दुह्रत॒ अक्षि॑त॒म्

इत्य् आ॑ह॒ यद् ए॒वास्य॒ शया॑न॒स्योप॒शुष्य॑ति॒ तद् ए॒वास्यै॒तेना प्या॑य्यति ॥

अ॒ग्निना॑ र॒यिम् अ॑श्नव॒त् पोष॑म् ए॒व दि॒वेदि॑वे । य॒शसं॑ वी॒रव॑त्तमम् ॥

गोमाँ॑ अ॒ग्नेऽवि॑माँ अ॒श्वी य॒ज्ञो नृ॒वत्स॑खा॒ सद॒म् इद् अ॑प्रमृ॒ष्यः । इडा॑वाँ ए॒षो अ॑सुर प्र॒जावा॑न् दी॒र्घो र॒यिः पृ॑थुबु॒ध्नः स॒भावा॑न् ॥

आ प्या॑यस्व॒

सं ते॑ ॥

इ॒ह त्वष्टा॑रम् अग्रि॒यं वि॒श्वरू॑प॒म् उप॑ ह्वये । अ॒स्माक॑म् अस्तु॒ केव॑लः ॥

तन् न॑स् तु॒रीप॒म् अध॑ पोषयि॒त्नु देव॑ त्वष्ट॒र् वि र॑रा॒णः स्य॑स्व । यतो॑ वी॒रः ॥

क॒र्म॒ण्यः॑ सु॒दक्षो॑ यु॒क्तग्रा॑वा॒ जाय॑ते दे॒वका॑मः ॥

शि॒वस् त्व॑ष्टर् इ॒हा ग॑हि वि॒भुः पोष॑ उ॒त त्मना॑ । य॒ज्ञेय॑ज्ञे न॒ उद् अ॑व ॥

पि॒शंग॑रूपः सु॒भरो॑ वयो॒धाः श्रु॒ष्टी वी॒रो जा॑यते दे॒वका॑मः । प्र॒जां त्वष्टा॒ वि ष्य॑तु॒ नाभि॑म् अ॒स्मे अथा॑ दे॒वाना॒म् अप्य् ए॑तु॒ पाथः॑ ॥

प्र णो॑ दे॒वी \

आ नो॑ दि॒वः ॥

पी॒पि॒वाँसँ॒ सर॑स्वत॒ स्तनं॒ यो वि॒श्वद॑र्शतः । धु॒क्षी॒महि॑ प्र॒जाम् इष॑म् ॥

ये ते॑ सरस्व ऊ॒र्मयो॒ मधु॑मन्तो घृत॒श्चुतः॑ । तेषां॑ ते सु॒म्नम् ई॑महे ॥

यस्य॑ व्र॒तम् प॒शवो॒ यन्ति॒ सर्वे॒ यस्य॑ व्र॒तम् उ॑प॒तिष्ठ॑न्त॒ आपः॑ । यस्य॑ व्र॒ते पु॑ष्टि॒पति॒र् निवि॑ष्ट॒स् तँ सर॑स्वन्त॒म् अव॑से हुवेम ॥

दि॒व्यँ सु॑प॒र्णं व॑य॒सम् बृ॒हन्त॑म् अ॒पां गर्भं॑ वृष॒भम् ओष॑धीनाम् । अ॒भी॒प॒तो वृ॒ष्ट्या त॒र्पय॑न्तं॒ तँ सर॑स्वन्त॒म् अव॑से हुवेम ॥

सिनी॑वालि॒ पृथु॑ष्टुके॒ या दे॒वाना॒म् असि॒ स्वसा॑ । जु॒षस्व॑ ह॒व्यम् ॥

आहु॑तम् प्र॒जां दे॑वि दिदिड्ढि नः ॥

या सु॑पा॒णिः स्व॑ङ्गु॒रिः सु॒षूमा॑ बहु॒सूव॑री । तस्यै॑ वि॒श्पत्नि॑यै ह॒विः सि॑नीवा॒ल्यै जु॑होतन ॥

इन्द्रं॑ वो वि॒श्वत॒स् परि॒ \

इन्द्रं॒ नरः॑ ॥

असि॑तवर्णा॒ हर॑यः सुप॒र्णा मिहो॒ वसा॑ना॒ दिव॒म् उत् प॑तन्ति । त आव॑वृत्र॒न्त् सद॑नानि कृ॒त्वाद् इत् पृ॑थि॒वी घृ॒तैर् व्य् उ॑द्यते ॥

हिर॑ण्यकेशो॒ रज॑सो विसा॒रेऽहि॒र् धुनि॒र् वात॑ इव॒ ध्रजी॑मान् । शुचि॑भ्राजा उ॒षसः॑ ॥

नवे॑दा॒ यश॑स्वतीर् अप॒स्युवो॒ न स॒त्याः ॥

आ ते॑ सुप्र॒णा अ॑मिनन्त॒ एवैः॑ कृ॒ष्णो नो॑नाव वृष॒भो यदी॒दम् । शि॒वाभि॒र् न स्मय॑मानाभि॒र् आगा॒त् पत॑न्ति॒ मिह॑ स्त॒नय॑न्त्य् अ॒भ्रा ॥

वा॒श्रेव॑ वि॒द्युन् मि॑माति व॒त्सं न मा॒ता सि॑षक्ति । यद् ए॑षां वृ॒ष्टिर् अस॑र्जि ॥

पर्व॑तश् चि॒न् महि॑ वृ॒द्धो बि॑भाय दि॒वश् चि॒त् सानु॑ रेजत स्व॒ने वः॑ । यत् क्रीड॑थ मरुतः ॥

ऋ॒ष्टि॒मन्त॒ आप॑ इव स॒ध्रिय॑ञ्चो धवध्वे ॥

अ॒भि क्र॑न्द स्त॒नय॒ गर्भ॒म् आ धा॑ उद॒न्वता॒ परि॑ दीया॒ रथे॑न । दृतिँ॒ सु क॑र्ष॒ विषि॑तं॒ न्य॑ञ्चँ स॒मा भ॑वन्तू॒द्वता॑ निपा॒दाः ॥

त्वं त्या चि॒द् अच्यु॒ताग्ने॑ प॒शुर् न यव॑से । धामा॑ ह॒ यत् ते॑ अजर॒ वना॑ वृ॒श्चन्ति॒ शिक्व॑सः ॥

अग्ने॒ भूरी॑णि॒ तव॑ जातवेदो॒ देव॑ स्वधावोऽमृ॒तस्य॒ धाम॑ । याश् च॑ ॥

मा॒या मा॒यिनां॑ विश्वमिन्व॒ त्वे पू॒र्वीः सं॑द॒धुः पृ॑ष्टबन्धो ॥

दि॒वो नो॑ वृ॒ष्टिम् म॑रुतो ररीध्व॒म् प्र पि॑न्वत॒ वृष्णो॒ अश्व॑स्य॒ धाराः॑ । अ॒र्वाङ् ए॒तेन॑ स्तनयि॒त्नुतेह्य् अ॒पो नि॑षि॒ञ्चन्न् असु॑रः पि॒ता नः॑ ॥

पिन्व॑न्त्य् अ॒पो म॒रुतः॑ सु॒दान॑वः॒ पयो॑ घृ॒तव॑द् वि॒दथे॑ष्व् आ॒भुवः॑ । अत्यं॒ न मि॒हे वि न॑यन्ति वा॒जिन॒म् उत्सं॑ दुहन्ति स्त॒नय॑न्त॒म् अक्षि॑तम् ॥

उ॒द॒प्रुतो॑ मरुत॒स् ताँ इ॑यर्त॒ वृष्टि॑म् ॥

ये विश्वे॑ म॒रुतो॑ जु॒नन्ति॑ । क्रोशा॑ति॒ गर्दा॑ क॒न्ये॑व तु॒न्ना पेरुं॑ तुञ्जा॒ना पत्ये॑व जा॒या ॥

घृ॒तेन॒ द्यावा॑पृथि॒वी मधु॑ना॒ सम् उ॑क्षत॒ पय॑स्वतीः कृणु॒ताप॒ ओष॑धीः । ऊर्जं॑ च॒ तत्र॑ सुम॒तिं च॑ पिन्वथ॒ यत्रा॑ नरो मरुतः सि॒ञ्चथा॒ मधु॑ ॥

उद् उ॒ त्यम् \

चि॒त्रम् ॥

औ॒र्व॒भृ॒गु॒वच् छुचि॑म् अप्नवान॒वद् आ हु॑वे । अ॒ग्निँ स॑मु॒द्रवा॑ससम् ॥

आ स॒वँ स॑वि॒तुर् य॑था॒ भग॑स्येव भु॒जिँ हु॑वे । अ॒ग्निँ स॑मु॒द्रवा॑ससम् ॥

हु॒वे वात॑स्वनं क॒विम् प॒र्जन्य॑क्रन्द्यँ॒ सहः॑ । अ॒ग्निँ स॑मु॒द्रवा॑ससम् ॥