स॒मिधो॑ यजति वस॒न्तम् ए॒वर्तू॒नाम् अव॑ रुन्द्धे॒
तनू॒नपा॑तं यजति ग्री॒ष्मम् ए॒वाव॑ रुन्द्धे \
इ॒डो य॑जति व॒र्षा ए॒वाव॑ रुन्द्धे
ब॒र्हिर् य॑जति श॒रद॑म् ए॒वाव॑ रुन्द्धे
स्वाहाका॒रं य॑जति हेम॒न्तम् ए॒वाव॑ रुन्द्धे॒ तस्मा॒त् स्वाहा॑कृता॒ हेम॑न् प॒शवोऽव॑ सीदन्ति
स॒मिधो॑ यजत्य् उ॒षस॑ ए॒व दे॒वता॑ना॒म् अव॑ रुन्द्धे॒
तनू॒नपा॑तं यजति य॒ज्ञम् ए॒वाव॑ रुन्द्धे ॥
इ॒डो य॑जति प॒शून् ए॒वाव॑ रुन्द्धे
ब॒र्हिर् य॑जति प्र॒जाम् ए॒वाव॑ रुन्द्धे
स॒मान॑यत उप॒भृत॒स्
तेजो॒ वा आज्य॑म् प्र॒जा ब॒र्हिः
प्र॒जास्व् ए॒व तेजो॑ दधाति
स्वाहाका॒रं य॑जति
वाच॑म् ए॒वाव॑ रुन्द्धे॒
दश॒ सम् प॑द्यन्ते॒
दशा॑क्षरा { वि॒राड् ^ वि॒राज् }
वि॒राजै॒वान्नाद्य॒म् अव॑ रुन्द्धे
स॒मिधो॑ यजत्य् अ॒स्मिन्न् ए॒व लो॒के प्रति॑ तिष्ठति॒
तनू॒नपा॑तं यजति ॥
य॒ज्ञ ए॒वान्तरि॑क्षे॒ प्रति॑ तिष्ठति \
इ॒डो य॑जति प॒शुष्व् ए॒व प्रति॑ तिष्ठति
ब॒र्हिर् य॑जति॒ य ए॒व दे॑व॒यानाः॒ पन्था॑न॒स् तेष्व् ए॒व प्रति॑ तिष्ठति
स्वाहाका॒रं य॑जति सुव॒र्ग ए॒व लो॒के प्रति॑ तिष्ठति \
ए॒ताव॑न्तो॒ वै दे॑वलो॒कास् तेष्व् ए॒व य॑थापू॒र्वम् प्रति॑ तिष्ठति
देवासु॒रा ए॒षु लो॒केष्व् अ॑स्पर्धन्त॒
ते दे॒वाः प्र॑या॒जैर् ए॒भ्यो लो॒केभ्योऽसु॑रा॒न् प्राणु॑दन्त॒
तत् प्र॑या॒जाना॑म् ॥
प्र॒या॒ज॒त्वम् \
यस्यै॒वं वि॒दुषः॑ प्रया॒जा इ॒ज्यन्ते॒ प्रैभ्यो लो॒केभ्यो॒ भ्रातृ॑व्यान् नुदते \
अभि॒क्रामं॑ जुहोति \
अ॒भिजि॑त्यै॒
यो वै प्र॑या॒जाना॑म् मिथु॒नं वेद॒ प्र प्र॒जया॑ प॒शुभि॑र् मिथु॒नैर् जा॑यते
स॒मिधो॑ ब॒ह्वीर् इ॑व यजति॒
तनू॒नपा॑त॒म् एक॑म् इव
मिथु॒नं तत् \
इ॒डो ब॒ह्वीर् इ॑व यजति ब॒र्हिर् एक॑म् इव
मिथु॒नं तत् \
ए॒तद् वै प्र॑या॒जाना॑म् मिथु॒नम् \
य ए॒वं वेद॒ प्र ॥
प्र॒जया॑ प॒शुभि॑र् मिथु॒नैर् जा॑यते
दे॒वानां॒ वा अनि॑ष्टा दे॒वता॑ आसन् \
अथासु॑रा य॒ज्ञम् अ॑जिघाँस॒न्
ते दे॒वा गा॑य॒त्रीं व्य् औ॑ह॒न्
पञ्चा॒क्षरा॑णि प्रा॒चीना॑नि॒ त्रीणि॑ प्रती॒चीना॑नि॒
ततो॒ वर्म॑ य॒ज्ञायाभ॑व॒द् वर्म॒ यज॑मानाय॒
यत् प्र॑याजानूया॒जा इ॒ज्यन्ते॒ वर्मै॒व तद् य॒ज्ञाय॑ क्रियते॒ वर्म॒ यज॑मानाय॒ भ्रातृ॑व्याभिभूत्यै॒
तस्मा॒द् वरू॑थम् पु॒रस्ता॒द् वर्षी॑यः प॒श्चाद् ध्रसी॑यस् \
दे॒वा वै पु॒रा रक्षो॑भ्यः ॥
इति॑ स्वाहाका॒रेण॑ प्रया॒जेषु॑ य॒ज्ञँ सँ॒स्थाप्य॑म् अपश्य॒न्
तँ स्वाहा॑का॒रेण॑ प्रया॒जेषु॒ सम् अ॑स्थापय॒न्
वि वा ए॒तद् य॒ज्ञं छि॑न्दन्ति॒ यत् स्वा॑हाका॒रेण॑ प्रया॒जेषु॑ सँस्था॒पय॑न्ति
प्रया॒जान् इ॒ष्ट्वा ह॒वीँष्य् अ॒भि घा॑रयति य॒ज्ञस्य॒ संत॑त्यै॒ \
अथो॑ ह॒विर् ए॒वाक॒र्
अथो॑ यथापू॒र्वम् उपै॑ति
पि॒ता वै प्र॒याजाः प्र॒जानू॑या॒जास् \
यत् प्र॑या॒जान् इ॒ष्ट्वा ह॒वीँष्य् अ॑भिघा॒रय॑ति पि॒तैव तत् पु॒त्रेण॒ साधा॑रणम् ॥
कु॒रु॒ते॒
तस्मा॑द् आहु॒र् यश् चै॒वं वेद॒ यश् च॒ न
क॒था पु॒त्रस्य॒ केव॑लं क॒था साधा॑रणम् पि॒तुर् इति॒ \
अस्क॑न्नम् ए॒व तद् यत् प्र॑या॒जेष्व् इ॒ष्टेषु॒ स्कन्द॑ति
गाय॒त्र्य् ए॑व तेन॒ गर्भं॑ धत्ते
सा प्र॒जाम् प॒शून् यज॑मानाय॒ प्र ज॑नयति ॥
चक्षु॑षी॒ वा ए॒ते य॒ज्ञस्य॒ यद् आज्य॑भागौ॒
यद् आज्य॑भागौ॒ यज॑ति॒ चक्षु॑षी ए॒व तद् य॒ज्ञस्य॒ प्रति॑ दधाति
पूर्वा॒र्धे जु॑होति॒
तस्मा॑त् पूर्वा॒र्धे चक्षु॑षी
प्र॒बाहु॑ग् जुहोति॒
तस्मा॑त् प्र॒बाहु॒क् चक्षु॑षी
देवलो॒कं वा अ॒ग्निना॒ यज॑मा॒नोऽनु॑ पश्यति पितृलो॒कँ सोमे॑न \
उत्तरा॒र्धे॑ऽग्नये॑ जुहोति दक्षिणा॒र्धे सोमा॑य \
ए॒वम् इ॑व॒ हीमौ लो॒काव् अ॒नयो॑र् लो॒कयो॒र् अनु॑ख्यात्यै
राजा॑नौ॒ वा ए॒तौ दे॒वता॑नाम् ॥
यद् अ॒ग्नीषोमौ॑ \
अन्त॒रा दे॒वता॑ इज्येते दे॒वता॑नां॒ विधृ॑त्यै॒
तस्मा॒द् राज्ञा॑ मनु॒ष्या॑ विधृ॑तास् \
ब्र॒ह्म॒वा॒दिनो॑ वदन्ति॒
किं तद् य॒ज्ञे यज॑मानः कुरुते॒ येना॒न्यतो॑दतश् च प॒शून् दा॒धारो॑ऽभ॒यतो॑दत॒श् चेति॑ \
ऋच॑म् अ॒नूच्याज्य॑भागस्य जुषा॒णेन॑ यजति॒ तेना॒न्यतो॑दतो दाधार \
ऋच॑म् अ॒नूच्य॑ ह॒विष॑ ऋ॒चा य॑जति॒ तेनो॑भ॒यतो॑दतो दाधार
मूर्ध॒न्वती॑ पुरोऽनुवा॒क्या॑ भवति मू॒र्धान॑म् ए॒वैनँ॑ समा॒नानां॑ करोति ॥
नि॒युत्व॑त्या यजति॒ भ्रातृ॑व्यस्यै॒व प॒शून् नि यु॑वते
के॒शिनँ॑ ह दा॒र्भ्यं के॒शी सात्य॑कामिर् उवाच
स॒प्तप॑दां ते॒ शक्व॑रीँ॒ श्वो य॒ज्ञे प्र॑यो॒क्तासे॒ यस्यै॑ वी॒र्ये॑ण॒ प्र जा॒तान् भ्रातृ॑व्यान् नु॒दते॒ प्रति॑ जनि॒ष्यमा॑ना॒न् यस्यै॑ वी॒र्ये॑णो॒भयो॑र् लो॒कयो॒र् ज्योति॑र् ध॒त्ते यस्यै॑ वी॒र्ये॑ण पूर्वा॒र्धेना॑न॒ड्वान् भु॒नक्ति॑ जघना॒र्धेन॑ धे॒नुर् इति॑
पु॒रस्ता॑ल्लक्ष्मा पुरोऽनुवा॒क्या॑ भवति जा॒तान् ए॒व भ्रातृ॑व्या॒न् प्र णु॑दते \
उ॒परि॒ष्टाल्ल॑क्ष्मा ॥
या॒ज्या॑ जनि॒ष्यमा॑णान् ए॒व प्रति॑ नुदते
पु॒रस्ता॑ल्लक्ष्मा पुरोऽनुवा॒क्या॑ भवत्य् अ॒स्मिन्न् ए॒व लो॒के ज्योति॑र् धत्ते \
उ॒परि॑ष्टाल्लक्ष्मा या॒ज्या॑मुष्मि॑न्न् ए॒व लो॒के ज्योति॑र् धत्ते॒
ज्योति॑ष्मन्ताव् अस्मा इ॒मौ लो॒कौ भ॑वतो॒ य ए॒वं वेद॑
पु॒रस्ता॑ल्लक्ष्मा पुरोऽनुवा॒क्या॑ भवति॒ तस्मा॑त् पूर्व॒र्धेना॑न॒ड्वान् भु॑नक्ति \
उ॒परि॑ष्टाल्लक्ष्मा या॒ज्या॑ तस्मा॑ज् जघना॒र्धेन॑ धे॒नुस् \
य ए॒वं वेद॑ भु॒ङ्क्त ए॑नम् ए॒तौ
वज्र॒ आज्यं॒ वज्र॒ आज्य॑भागौ ॥
वज्रो॑ वषट्का॒रस्
त्रि॒वृत॑म् ए॒व वज्रँ॑ स॒म्भृत्य॒ भ्रातृ॑व्याय॒ प्र ह॑र॒त्य् अछ॑म्बट्कारम्
अप॒गूर्य॒ वष॑ट् करोति॒ स्तृत्यै॑
गाय॒त्री पु॑रोऽनुवा॒क्या॑ भवति त्रि॒ष्टुग् या॑ज्या॑
ब्रह्म॑न्न् ए॒व क्ष॒त्रम् अ॒न्वार॑म्भयति॒
तस्मा॑द् ब्राह्म॒णो मुख्य॑स् \
मुख्यो॑ भवति॒ य ए॒वं वेद॒
प्रैवैन॑म् पुरोऽनुवा॒क्य॑याह॒
प्र ण॑यति या॒ज्य॑या
ग॒मय॑ति वषट्का॒रेण॒ \
ऐवैन॑म् पुरोऽनुवा॒क्य॑या दत्ते॒
प्र य॑छति या॒ज्य॑या॒
प्रति॑ ॥
व॒ष॒ट्का॒रेण॑ स्थापयति
त्रि॒पदा॑ पुरोऽनुवा॒क्या॑ भवति॒
त्रय॑ इ॒मे लो॒कास् \
ए॒ष्व् ए॑व लो॒केषु॒ प्रति॑ तिष्ठति॒
चतु॑ष्पदा या॒ज्या॑
चतु॑ष्पद ए॒व प॒शून् अव॑ रुन्द्धे
द्व्य॒क्ष॒रो व॑षट्का॒रो द्वि॒पाद् यज॑मानः प॒शुष्व् ए॒वोपरि॑ष्टा॒त् प्रति॑ तिष्ठति
गाय॒त्री पु॑रोऽनुवा॒क्या॑ भवति त्रि॒ष्टुग् या॑ज्या॑ \
ए॒षा वै स॒प्तप॑दा॒ शक्व॑री॒
यद् वा ए॒तया॑ दे॒वा अशि॑क्ष॒न् तद् अ॑शक्नुव॒न्
य ए॒वं वेद॑ श॒क्नोत्य् ए॒व यच् छिक्ष॑ति ॥
प्र॒जाप॑तिर् दे॒वेभ्यो॑ य॒ज्ञान् व्यादि॑श॒त् स आ॒त्मन्न् आज्य॑म् अधत्त॒ तं दे॒वा अ॑ब्रुवन्न् ए॒ष वाव य॒ज्ञो यद् आज्य॒म् अप्य् ए॒व नोत्रा॒स्त्व् इति॒ सो॑ऽब्रवी॒द् यजा॑न् व॒ आज्य॑ भागा॒व् उप॑ स्तृणान् अ॒भि घा॑रया॒न् इति॒ तस्मा॒द् यज॒न्त्य् आज्य॑भागा॒व् उप॑ स्तृणन्त्य् अ॒भि घा॑रयन्ति
ब्रह्मवा॒दिनो॑ वदन्ति॒ कस्मा॑त् स॒त्याद् या॒तया॑मान्य् अ॒न्यानि॑ ह॒वीँष्य् अया॑तयाम॒म् आज्य॒म् इति॑ प्राजाप॒त्यम् इति॑ ब्रूया॒द् अया॑तयामा॒ हि दे॒वाना॑म् प्र॒जाप॑ति॒र् इति॒
छन्दाँ॑सि दे॒वेभ्योऽपा॑क्राम॒न् न वो॑ऽभा॒गानि॑ ह॒व्यं व॑क्ष्याम॒ इति॒ तेभ्य॑ ए॒तच् च॑तुरव॒त्तम् अ॑धारयन् पुरोऽनुवा॒क्या॑यै या॒ज्या॑यै दे॒वता॑यै वषट्का॒राय॒ यच् च॑तुरव॒त्तं जु॒होति॒ छन्दाँ॑स्य् ए॒व तत् प्री॑णाति॒ तान्य् अ॑स्य प्री॒तानि॑ दे॒वेभ्यो॑ ह॒व्यं व॑हन्ति॒ \
अङ्गि॑रसो॒ वा इ॒त उ॑त्त॒माः सु॑व॒र्गं लो॒कम् आ॑य॒न् तद् ऋष॑यो य॒ज्ञवा॒स्त्व् अ॑भ्य॒वाय॒न् ते ॥
अ॒प॒श्य॒न् पु॒रो॒डाशं॑ कू॒र्मम् भू॒तँ सर्प॑न्तं॒ तम् अ॑ब्रुव॒न्न् इन्द्रा॑य ध्रियस्व॒ बृह॒स्पत॑ये ध्रियस्व॒ विश्वे॑भ्यो दे॒वेभ्यो॑ ध्रिय॒स्वेति॒ स नाध्रि॑यत॒ तम् अ॑ब्रुवन्न् अ॒ग्नये॑ ध्रिय॒स्वेति॒ सो॑ऽग्नये॑ऽध्रियत॒ यद् आ॑ग्ने॒यो॑ऽष्टाक॑पालोऽमावा॒स्या॑यां च पौर्णमा॒स्यां चा॑च्यु॒तो भव॑ति सुव॒र्गस्य॑ लो॒कस्या॒भिजि॑त्यै॒
तम् अ॑ब्रुवन् क॒थाहा॑स्था॒ इत्य् अनु॑पाक्तोऽभूव॒म् इत्य् अ॑ब्रवी॒द् यथा॒क्षोऽनु॑पाक्तः ॥
अ॒वार्छ॑त्य् ए॒वम् अवा॑र॒म् इत्य् उ॒परि॑ष्टाद् अ॒भ्यज्या॒धस्ता॒द् उपा॑नक्ति सुव॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै॒
सर्वा॑णि क॒पाला॑न्य् अ॒भि प्र॑थयति॒ ताव॑तः पुरो॒डाशा॑न् अ॒मुष्मिँ॑ लो॒के॑ऽभि ज॑यति॒
यो विद॑ग्धः॒ स नै॑रृ॒तो योऽशृ॑तः॒ स रौ॒द्रो यः शृ॒तः स सदे॑व॒स् तस्मा॒द् अवि॑दहता शृतं॒कृत्यः॑ सदेव॒त्वाय॒
भस्म॑ना॒भि वा॑सयति॒ तस्मा॑न् माँशे॒नास्थि॑ छ॒न्नं वे॒देना॒भि वा॑सयति॒ तस्मा॑त् ॥
केशैः॒ शिर॑श् छ॒न्नम्
प्रच्यु॑तं॒ वा ए॒तद् अ॒स्माल् लो॒काद् अग॑तं देवलो॒कं यच् छृ॒तँ ह॒विर् अन॑भिघारितम् अभि॒घार्योद् वा॑सयति देव॒त्रैवैन॑द् गमयति॒
यद्य् एकं॑ क॒पालं॒ नश्ये॒द् एको॒ मासः॑ संवत्स॒रस्यान॑वेतः स्या॒द् अथ॒ यज॑मानः॒ प्र मी॑येत॒ यद् द्वे नश्ये॑तां॒ द्वौ मासौ॑ संवत्स॒रस्यान॑वेतौ स्याता॒म् अथ॒ यज॑मानः॒ प्र मी॑येत सं॒ख्यायोद् वा॑सयति॒ यज॑मानस्य ॥
गो॒पी॒थाय॒
यदि॒ नश्ये॑द् आश्वि॒नं द्वि॑कपा॒लं निर् व॑पेद् द्यावापृथि॒व्या॑म् एक॑कपालम् अ॒श्विनौ॒ वै दे॒वाना॑म् भि॒षजौ॒ ताभ्या॑म् ए॒वास्मै॑ भेष॒जं क॑रोति
द्यावापृथि॒व्य॑ एक॑कपालो भवत्य् अ॒नयो॒र् वा ए॒तन् न॑श्यति॒ यन् नश्य॑त्य् अ॒नयो॑र् ए॒वैन॑द् विन्दति॒ प्रति॑ष्ठित्यै ॥
दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒व इति॒ स्फ्यम् आ द॑त्ते॒ प्रसू॑त्यै \
अ॒श्विनो॑र् बा॒हुभ्या॒म् इत्य् आ॑हा॒श्विनौ॒ हि दे॒वाना॑म् अध्व॒र्यू आस्ता॑म्
पू॒ष्णो हस्ता॑भ्या॒म् इत्य् आ॑ह॒ यत्यै॑ ।
श॒तभृ॑ष्टिर् असि वानस्प॒त्यो द्वि॑ष॒तो व॒ध इत्य् आ॑ह॒ वज्र॑म् ए॒व तत् सँ श्य॑ति
भ्रातृ॑व्याय प्रहरि॒ष्यन्त् ।
स्त॒म्ब॒य॒जुर् ह॑रत्य् ए॒ताव॑ती॒ वै पृ॑थि॒वी याव॑ती॒ वेदि॒स् तस्या॑ ए॒ताव॑त ए॒व भ्रातृ॑व्यं॒ निर् भ॑जति ॥
तस्मा॒न् नाभा॒गं निर् भ॑जन्ति ।
त्रिर् ह॑रति॒ त्रय॑ इ॒मे लो॒का ए॒भ्य ए॒वैनं॑ लो॒केभ्यो॒ निर् भ॑जति
तू॒ष्णीं च॑तु॒र्थँ ह॑र॒त्य् अप॑रिमिताद् ए॒वैनं॒ निर्भ॑जति॒ \
उद् ध॑न्ति॒ यद् ए॒वास्या॑ अमे॒ध्यं तद् अप॑ हन्ति॒ \
उद् ध॑न्ति॒ तस्मा॒द् ओष॑धयः॒ परा॑ भवन्ति
मूलं॑ छिनत्ति॒ भ्रातृ॑ब्यस्यै॒व मूलं॑ छिनत्ति
पितृदेव॒त्याति॑खा॒तेय॑तीं खनति प्र॒जाप॑तिना ॥
य॒ज्ञ॒मु॒खेन॒ सम्मि॑ताम्
आ प्र॑ति॒ष्ठायै॑ खनति॒ यज॑मानम् ए॒व प्र॑ति॒ष्ठां ग॑मयति
दक्षिण॒तो वर्षी॑यसीं करोति देव॒यज॑नस्यै॒व रू॒पम् अ॑कः॒
पुरी॑षवतीं करोति प्र॒जा वै प॒शवः॒ पुरी॑षम् प्र॒जयै॒वैन॑म् प॒शुभिः॒ पुरी॑षवन्तं करोति॒ \
उत्त॑रम् परिग्रा॒हम् परि॑ गृह्णात्य् ए॒ताव॑ती॒ वै पृ॑थि॒वी याव॑ती॒ वेदि॒स् तस्या॑ ए॒ताव॑त ए॒व भ्रातृ॑व्यं नि॒र्भज्या॒त्मन॒ उत्त॑रम् परिग्रा॒हम् परि॑ गृह्णाति
क्रू॒रम् इ॑व॒ वै ॥
ए॒तत् क॑रोति॒ यद् वेदिं॑ क॒रोति॑
धा अ॑सि स्व॒धा अ॒सीति॑ योयुप्यते॒ शान्त्यै॒
प्रोक्ष॑णी॒र् आ सा॑दय॒त्य् आपो॒ वै र॑क्षो॒घ्नी रक्ष॑सा॒म् अप॑हत्यै
स्फ्यस्य॒ वर्त्म॑न्त् सादयति य॒ज्ञस्य॒ संत॑त्यै॒
यं द्वि॒ष्यात् तं ध्या॑येच् छु॒चैवैन॑म् अर्पयति ॥
ब्र॒ह्म॒वा॒दिनो॑ वदन्ति \
अ॒द्भिर् ह॒वीँषि॒ प्रौक्षीः॒ केना॒प इति॒
ब्रह्म॒णेति॑ ब्रूयात् \
अ॒द्भिर् ह्य् ए॑व ह॑वीँषि प्रो॒क्षति॒ ब्रह्म॑णा॒पस् \
इ॒ध्माब॒र्हिः प्रोक्ष॑ति॒
मेध्य॑म् ए॒वैन॑त् करोति॒
वेदि॒म् प्रोक्ष॑ति \
ऋ॒क्षा वा ए॒षालो॒मका॑मे॒ध्या यद् वेदि॑स् \
मेध्या॑म् ए॒वैनां॑ करोति
दि॒वे त्वा॒न्तरि॑क्षाय त्वा पृथि॒व्यै त्वेति॑ ब॒र्हिर् आ॒साद्य॒ प्र ॥
उ॒क्ष॒ति॒ \
ए॒भ्य ए॒वैन॑ल् लो॒केभ्यः॒ प्रोक्ष॑ति
क्रू॒रम् इ॑व॒ वा ए॒तत् क॑रोति॒ यत् खन॑ति \
अ॒पो नि न॑यति॒ शान्त्यै॑
पु॒रस्ता॑त् प्रस्त॒रं गृ॑ह्णाति॒ मुख्य॑म् ए॒वैनं॑ करोति॒ \
इय॑न्तं गृह्णाति प्र॒जाप॑तिना यज्ञमु॒खेन॒ सम्मि॑तम्
ब॒र्हि स्तृ॑णाति
प्र॒जा वै ब॒र्हिः पृ॑थि॒वी वेदिः॑
प्र॒जा ए॒व पृ॑थि॒व्याम् प्रति॑ ष्ठापयति॒ \
अन॑तिदृश्नँ स्तृणाति
प्र॒जयै॒वैन॑म् प॒शुभि॒र् अन॑तिदृश्नं करोति ॥
उत्त॑रम् ब॒र्हिषः॑ प्रस्त॒रँ सा॑दयति
प्र॒जावै ब॒र्हिर् यज॑मानः प्रस्त॒रस् \
यज॑मानम् ए॒वाय॑जमाना॒द् उत्त॑रं करोति॒
तस्मा॒द् यज॑मा॒नोऽय॑जमाना॒द् उत्त॑रस् \
अ॒न्तर् द॑धाति
व्यावृ॑त्त्यै \
अ॒नक्ति॑
ह॒विष्कृ॑तम् ए॒वैनँ॑ सुव॒र्गं लो॒कं ग॑मयति
त्रे॒धान॑क्ति॒
त्रय॑ इ॒मे लो॒कास् \
ए॒भ्य ए॒वैनं॑ लो॒केभ्यो॑ऽनक्ति॒
न प्रति॑ शृणाति॒
यत् प्र॑तिशृणी॒याद् अनू॑र्ध्वम्भावुकं॒ यज॑मानस्य स्यात् \
उ॒परी॑व॒ प्र ह॑रति ॥
उ॒परी॑व॒ हि सु॑व॒र्गो लो॒कस् \
नि य॑छति
वृष्टि॑म् ए॒वास्मै॒ नि य॑छति
नात्य॑ग्र॒म् प्र ह॑रेत् \
यद् अत्य॑ग्रम् प्र॒हरे॑द् अत्यासा॒रिण्य् अ॑ध्व॒र्योर् नाशु॑का स्यात् \
न पु॒रस्ता॒त् प्रत्य् अ॑स्येत् \
यत् पु॒रस्ता॑त् प्र॒त्यस्या॑त् सुव॒र्गाल् लो॒काद् यज॑मान॒म् प्रति॑ नुदेत्
प्राञ्च॒म् प्र ह॑रति॒
यज॑मानम् ए॒व सु॑व॒र्गं लो॒कं ग॑मयति॒
न विष्व॑ञ्चं॒ वि यु॑यात् \
यद् विष्व॑ञ्चं वियु॒यात् ॥
स्त्र्य् अ॑स्य जायेत \
ऊ॒र्ध्वम् उद् यौ॑ति \
ऊ॒र्ध्वम् इ॑व॒ हि पुँ॒सः पुमा॑न् ए॒वास्य॑ जायते॒
यत् स्फ्येन॑ वोपवे॒षेण॑ वा योयु॒प्येत॒ स्तृति॑र् ए॒वास्य॒ सा
हस्ते॑न योयुप्यते॒ यज॑मानस्य गोपी॒थाय॑
ब्रह्मवा॒दिनो॑ वदन्ति॒
किं य॒ज्ञस्य॒ यज॑मान॒ इति॑
प्रस्त॒र इति॒
तस्य॒ क्व॑ सुव॒र्गो लो॒क इति॑ \
आहव॒नीय॒ इति॑ ब्रूयात् \
यत् प्र॑स्त॒रम् आ॑हव॒नीये॑ प्र॒हर॑ति॒ यज॑मानम् ए॒व ॥
सु॒व॒र्गं लो॒कं ग॑मयति॒
वि वा ए॒तद् यज॑मानो लिशते॒ यत् प्र॑स्त॒रं यो॑यु॒प्यन्ते॑
ब॒र्हिर् अनु॒ प्रह॑रति॒ शान्त्यै॑ \
अनारम्भ॒ण इ॑व॒ वा ए॒तर्ह्य् अ॑ध्व॒र्युः
स ई॑श्व॒रो वे॑प॒नो भवि॑तोस् \
ध्रु॒वासीती॒माम् अ॒भि मृ॑शति \
इ॒यं वै ध्रु॒वा \
अ॒स्याम् ए॒व प्रति॑ तिष्ठति॒
न वे॑प॒नो भ॑वति॒ \
अगा3न् अ॑ग्नी॒द् इत्य् आ॑ह॒
यद् ब्रू॒यात् \
अग॑न्न् अ॒ग्निर् इत्य् अ॒ग्नाव् अ॒ग्निं ग॑मये॒न् निर् यज॑मानँ सुव॒र्गाल् लो॒काद् भ॑जेत् \
अग॒न्न् इत्य् ए॒व ब्रू॑या॒द् यज॑मानम् ए॒व सु॑व॒र्गं लो॒कं ग॑मयति ॥
अ॒ग्नेस् त्रयो॒ ज्यायाँ॑सो॒ भ्रात॑र आस॒न् ते दे॒वेभ्यो॑ ह॒व्यं वह॑न्तः॒ प्रामी॑यन्त॒
सो॑ऽग्निर् अ॑बिभेद् इ॒त्थं वाव स्य आर्ति॒म् आरि॑ष्य॒तीति॒ स निला॑यत॒ सो॑ऽपः प्रावि॑श॒त् तं दे॒वताः॒ प्रैष॑म् ऐछ॒न्
तम् मत्स्यः॒ प्राब्र॑वी॒त् तम् अ॑शपद् धि॒याधि॑या त्वा वध्यासु॒र् यो मा॒ प्रावो॑च॒ इति॒
तस्मा॒न् मत्स्यं॑ धि॒याधि॑या घ्नन्ति श॒प्तः ॥
हि
तम् अन्व् अ॑विन्द॒न् तम् अ॑ब्रुव॒न्न् उप॑ न॒ आ व॑र्तस्व ह॒व्यं नो॑ व॒हेति॒
सो॑ऽब्रवी॒द् वरं॑ वृणै॒ यद् ए॒व गृ॑ही॒तस्याहु॑तस्य बहिःपरि॒धि स्कन्दा॒त् तन् मे॒ भ्रातृ॑णाम् भाग॒धेय॑म् अस॒द् इति॒ तस्मा॒द् यद् गृ॑ही॒तस्याहु॑तस्य बहिःपरि॒धि स्कन्द॑ति॒ तेषां॒ तद् भा॑ग॒धेयं॒ तान् ए॒व तेन॑ प्रीणाति
परि॒धीन् परि॑ दधाति॒ रक्ष॑सा॒म् अप॑हत्यै॒
सँ स्प॑र्शयति ॥
रक्ष॑सा॒म् अन॑न्ववचाराय॒
न पु॒रस्ता॒त् परि॑ दधात्य् आदि॒त्यो ह्य् ए॑वोद्यन् पु॒रस्ता॒द् रक्षाँ॑स्य् अप॒हन्ति॑ \
ऊ॒र्ध्वे स॒मिधा॒व् आ द॑धात्य् उ॒परि॑ष्टाद् ए॒व रक्षाँ॒स्य् अप॑ हन्ति॒
यजु॑षा॒न्यां तू॒ष्णीम् अ॒न्याम् मि॑थुन॒ त्वाय॒
द्वे आ द॑धाति द्वि॒पाद् यज॑मानः॒ प्रति॑ष्ठित्यै
ब्रह्मवा॒दिनो॑ वदन्ति॒
स त्वै य॑जेत॒ यो य॒ज्ञस्यार्त्या॒ वसी॑य॒न्त् स्याद् इति॑
भूप॑तये॒ स्वाहा॒ भुव॑नपतये॒ स्वाहा॑ भू॒ताना॑म् ॥
पत॑ये॒ स्वाहे॑ति॒ स्कन्न॒म् अनु॑ मन्त्रयेत
य॒ज्ञस्यै॒व तद् आर्त्या॒ यज॑मानो॒ वसी॑यान् भवति॒ भूय॑सी॒र् हि दे॒वताः॑ प्री॒णाति॑
जा॒मि वा ए॒तद् य॒ज्ञस्य॑ क्रियते॒ यद् अ॒न्वञ्चौ॑ पुरो॒डाशौ॑ \
उपाँशुया॒जम् अ॑न्त॒रा य॑ज॒त्य् अजा॑मित्वा॒याथो॑ मिथुन॒त्वाय॑ \
अ॒ग्निर् अ॒मुष्मिँ॑ लो॒क आसी॑द् य॒मो॑ऽस्मिन्
ते दे॒वा अ॑ब्रुव॒न्न् एते॒मौ वि पर्य् ऊ॑हा॒मेति॑ \
अ॒न्नाद्ये॑न दे॒वा अ॒ग्निम् ॥
उ॒पाम॑न्त्रयन्त रा॒ज्येन॑ पि॒तरो॑ य॒मं तस्मा॑द् अ॒ग्निर् दे॒वाना॑म् अन्ना॒दो य॒मः पि॑तृ॒णाँ राजा॒
य ए॒वं वेद॒ प्र रा॒ज्यम् अ॒न्नाद्य॑म् आप्नोति॒
तस्मा॑ ए॒तद् भा॑ग॒धेय॒म् प्राय॑छ॒न् यद् अ॒ग्नये॑ स्विष्ट॒कृते॑ऽव॒द्यन्ति॒
यद् अ॒ग्नये॑ स्विष्ट॒कृते॑ऽव॒द्यति॑ भाग॒धेये॑नै॒व तद् रु॒द्रँ सम् अ॑र्धयति
स॒कृत्स॑कृ॒द् अव॑ द्यति स॒कृद् इ॑व॒ हि रु॒द्रस् \
उ॒त्त॒रा॒र्धाद् अव॑ द्यत्य् ए॒षा वै रु॒द्रस्य॑ ॥
दिक् स्वाया॑म् ए॒व दिशि॑ रु॒द्रं नि॒रव॑दयते॒
द्विर् अ॒भि घा॑रयति चतुरव॒त्तस्या॑प्त्यै
प॒शवो॒ वै पूर्वा॒ आहु॑तयस् \
ए॒ष रु॒द्रो यद् अ॒ग्निस् \
यत् पू॑र्वा॒ आहु॑तीर् अ॒भि जु॑हु॒याद् रु॒द्राय॑ प॒शून् अपि॑ दध्यात् \
अ॒प॒शुर् यज॑मानः स्यात् \
अ॒ति॒हाय॒ पूर्वा॒ आहु॑तीर् जुहोति पशू॒नां गो॑पी॒थाय॑ ॥
मनुः॑ पृथि॒व्या य॒ज्ञिय॑म् ऐछ॒त्
स घृ॒तं निषि॑क्तम् अविन्द॒त्
सो॑ऽब्रवी॒त्
को॑ऽस्येश्व॒रो य॒ज्ञेऽपि॒ कर्तो॒र् इति॑
ताव् अ॑ब्रूताम् मि॒त्रावरु॑णौ॒
गोर् ए॒वावम् ई॑श्व॒रौ कर्तोः॑ स्व॒ इति॒
तौ ततो॒ गाँ सम् ऐ॑रयताम् \
सा यत्र॑यत्र॒ न्यक्रा॑म॒त् ततो॑ घृ॒तम् अ॑पीड्यत॒
तस्मा॑द् घृ॒तप॑द्य् उच्यते॒
तद् अ॑स्यै॒ जन्म॒ \
उप॑हूतँ रथंत॒रँ स॒ह पृ॑थि॒व्येत्य् आ॑ह ॥
इ॒यं वै र॑थंत॒रम्
इ॒माम् ए॒व स॒हान्नाद्ये॒नोप॑ ह्वयते॒ \
उप॑हूतं वामदे॒व्यँ स॒हान्तरि॑क्षे॒णेत्य् आ॑ह
प॒शवो॒ वै वा॑मदे॒व्यम्
प॒शून् ए॒व स॒हान्तरि॑क्षे॒णोप॑ ह्वयते॒ \
उप॑हूतम् बृ॒हत् स॒ह दि॒वेत्य् आ॑ह \
ऐ॒रं वै बृ॒हत् \
इरा॑म् ए॒व स॒ह दि॒वोप॑ ह्वयते॒ \
उप॑हूता धे॒नुः ॥
स॒हर्ष॒भेत्य् आ॑ह
मिथु॒नम् ए॒वोप॑ ह्वयते॒ \
उप॑हूतो भ॒क्षः सखेत्य् आ॑ह
सोमपी॒थम् ए॒वोप॑ ह्वयते॒ \
उप॑हूता॒3ँ हो इत्य् आ॑ह \
आ॒त्मान॑म् ए॒वोप॑ ह्वयते \
आ॒त्मा ह्य् उप॑हूतानां॒ वसि॑ष्ठस् \
इडा॒म् उप॑ ह्वयते
प॒शवो॒ वा इडा॑
प॒शून् ए॒वोप॑ ह्वयते॒
चतु॒र् उप॑ ह्वयते॒
चतु॑ष्पादो॒ हि प॒शव॑स् \
मा॒न॒वीत्य् आ॑ह॒ मनु॒र् ह्य् ए॑ताम् ॥
अग्रेऽप॑श्यत् \
घृ॒तप॒दीत्य् आ॑ह॒ यद् ए॒वास्यै॑ प॒दाद् घृ॒तम् अपी॑ड्यत॒ तस्मा॑द् ए॒वम् आ॑ह
मैत्रावरु॒णीत्य् आ॑ह मि॒त्रावरु॑णौ॒ ह्य् ए॑नाँ समैरयताम्
ब्रह्म॑ दे॒वकृ॑त॒म् उप॑हूत॒म् इत्य् आ॑ह॒
ब्रमै॒वोप॑ ह्वयते॒
दैव्या॑ अध्व॒र्यव॒ उप॑हूता॒ उप॑हूता मनु॒ष्या॑ इत्य् आ॑ह
देवमनु॒ष्यान् ए॒वोप॑ ह्वयते॒
य इ॒मं य॒ज्ञम् अवा॒न् ये य॒ज्ञप॑तिं॒ वर्धा॒न् इत्य् आ॑ह ॥
य॒ज्ञाय॑ चै॒व यज॑मानाय चा॒शिष॒म् आ शा॑स्ते॒ \
उप॑हूते॒ द्यावा॑पृथि॒वी इत्य् आ॑ह
द्यावा॑पृथि॒वी ए॒वोप॑ ह्वयते
पूर्व॒जे ऋ॒ताव॑री॒ इत्य् आ॑ह पूर्व॒जे ह्य् ए॑ते ऋ॒ताव॑री
दे॒वा दे॒वपु॑त्रे॒ इत्य् आ॑ह दे॒वी ह्य् ए॑ते दे॒वपु॑त्रे॒
उप॑हूतो॒ऽयं यज॑मान॒ इत्य् आ॑ह॒
यज॑मानम् ए॒वोप॑ ह्वयते॒ \
उत्त॑रस्यां देवय॒ज्याया॒म् उप॑हूतो॒ भूय॑सि हवि॒ष्कर॑ण॒ उप॑हूतो दि॒व्ये धाम॒न्न् उप॑हूतः ॥
इत्य् आ॑ह
प्र॒जा वा उत्त॑रा देवय॒ज्या प॒शवो॒ भूयो॑ हवि॒ष्कर॑णँ सुव॒र्गो लो॒को दि॒व्यं धाम॑ \
इ॒दम् अ॑सी॒दम् अ॒सीत्य् ए॒व य॒ज्ञस्य॑ प्रि॒यं धामोप॑ ह्वयते॒
विश्व॑म् अस्य प्रि॒यम् उप॑हूत॒म् इत्य् आ॑ह॒ \
अछ॑म्बट्कारम् ए॒वोप॑ ह्वयते ॥
प॒शवो॒ वा इडा॑ स्व॒यम् आ द॑त्ते॒ काम॑म् ए॒वात्मना॑ पशू॒नाम् आ द॑त्ते॒ न ह्य् अ॑न्यः का॒मम् प॑शू॒नाम् प्र॒यछ॑ति
वा॒चस् पत॑ये त्वा हु॒तम् प्राश्ना॒मीत्य् आ॑ह॒ वाच॑म् ए॒व भा॑ग॒धेये॑न प्रीणाति॒ सद॑स॒स् पत॑ये त्वा हु॒तम् प्राश्ना॒मीत्य् आ॑ह स्व॒गाकृ॑त्यै
चतुरव॒त्तम् भ॑वति ह॒विर् वै च॑तुरव॒त्तम् प॒शव॑श् चतुरव॒त्तम् \
यद् धोता॑ प्राश्नी॒याद् धोता॑ ॥
आर्ति॒म् आर्छे॒द् यद् अ॒ग्नौ जु॑हु॒याद् रु॒द्राय॑ प॒शून् अपि॑ दध्याद् अप॒शुर् यज॑मानः स्यात् \
वा॒चस् पत॑ये त्वा हु॒तम् प्राश्ना॒मीत्य् आ॑ह परो॒ऽक्षम् ए॒वैन॑ज् जुहोति॒ सद॑स॒स् पत॑ये त्वा हु॒तम् प्राश्ना॒मीत्य् आ॑ह स्व॒गाकृ॑त्यै
प्राश्न॑न्ति ती॒र्थ ए॒व प्राश्न॑न्ति॒ दक्षि॑णां ददाति ती॒र्थ ए॒व दक्षि॑णां ददाति॒
वि वा ए॒तद् य॒ज्ञम् ॥
छि॒न्द॒न्ति॒ यन् म॑ध्य॒तः प्रा॒श्नन्त्य् अ॒द्भिर् मा॑र्जयन्त॒ आपो॒ वै सर्वा॑ दे॒वता॑ दे॒वता॑भिर् ए॒व य॒ज्ञँ सं त॑न्वन्ति
दे॒वा वै य॒ज्ञाद् रु॒द्रम् अ॒न्तर् आ॑य॒न्त् स य॒ज्ञम् अ॑विध्य॒त् तं दे॒वा अ॒भि सम् अ॑गछन्त॒
कल्प॑तां न इ॒दम् इति॒ ते॑ऽब्रुव॒न्त् स्वि॑ष्टं॒ वै न॑ इ॒दम् भ॑विष्यति॒ यद् इ॒मँ रा॑धयि॒ष्याम॒ इति॒ तत् स्वि॑ष्ट॒कृतः॑ स्विष्टकृ॒त्त्वम् \
तस्यावि॑द्धं॒ निः ॥
अ॒कृ॒न्त॒न् यवे॑न॒ सम्मि॑तं॒ तस्मा॑द् यवमा॒त्रम् अव॑ द्ये॒द् यज् ज्यायो॑ऽव॒द्येद् रो॒पये॒त् तद् य॒ज्ञस्य॒ यद् उप॑ च स्तृणी॒याद् अ॒भि च॑ घा॒रये॑द् उभयतःसँश्वा॒यि कु॑र्यात् \
अ॒व॒दाया॒भि घा॑रयति॒ द्विः सम् प॑द्यते द्वि॒पाद् यज॑मानः॒ प्रति॑ष्ठित्यै॒
यत् ति॑र॒श्चीन॑म् अति॒हरे॒द् अन॑भिविद्धं य॒ज्ञस्या॒भि वि॑ध्येत् \
अग्रे॑ण॒ परि॑ हरति ती॒र्थेनै॒व परि॑ हरति॒ तत् पू॒ष्णे पर्य् अ॑हर॒न्
तत् ॥
पू॒षा प्राश्य॑ द॒तो॑ऽरुण॒त् तस्मा॑त् पू॒षा प्र॑पि॒ष्टभा॑गोऽद॒न्तको॒ हि
तं दे॒वा अ॑ब्रुव॒न्
वि वा अ॒यम् अ॑र्ध्य् अप्राशित्रि॒यो वा अ॒यम् अ॑भू॒द् इति॒
तद् बृह॒स्पत॑ये॒ पर्य् अ॑हर॒न्त् सो॑ऽबिभे॒द् बृह॒स्पति॑र् इ॒त्थं वाव स्य आर्ति॒म् आरि॑ष्य॒तीति॒
स ए॒तम् मन्त्र॑म् अपश्य॒त् सूर्य॑स्य त्वा॒ चक्षु॑षा॒ प्रति॑ पश्या॒मीत्य् अ॑ब्रवी॒न् न हि सूर्य॑स्य॒ चक्षुः॑ ॥
किं च॒न हि॒नस्ति॒
सो॑ऽबिभेत् प्रतिगृ॒ह्णन्त॑म् मा हिँसिष्य॒तीति॑ दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे॑ऽश्विनो॑र् बा॒हुभ्या॑म् पू॒ष्णो हस्ता॑भ्या॒म् प्रति॑ गृह्णा॒मीत्य् अ॑ब्रवीत् सवि॒तृप्र॑सूत ए॒वैन॒द् ब्रह्म॑णा दे॒वता॑भिः॒ प्रत्य् अ॑गृह्णा॒त्
सो॑ऽबिभेत् प्रा॒श्नन्त॑म् मा हिँसिष्य॒तीत्य् अ॒ग्नेस् त्वा॒स्ये॑न॒ प्राश्ना॒मीत्य् अ॑ब्रवी॒न् न ह्य् अ॑ग्नेर् आ॒स्यं॑ किं च॒न हि॒नस्ति॒
सो॑ऽबिभेत् ॥
प्राशि॑तम् मा हिँसिष्य॒तीति॑ ब्राह्म॒णस्यो॒दरे॒णेत्य् अ॑ब्रवी॒न् न हि ब्रा॑ह्म॒णस्यो॒दरं॒ किं च॒न हि॒नस्ति॒ बृह॒स्पते॒र् ब्रह्म॒णेति॒ स हि ब्रह्मि॑ष्ठस् \
अप॒ वा ए॒तस्मा॑त् प्रा॒णाः क्रा॑मन्ति॒ यः प्रा॑शि॒त्रम् प्रा॒श्नाति॑ \
अ॒द्भिर् मा॑र्जयि॒त्वा प्रा॒णान्त् सम् मृ॑शते \
अ॒मृतं॒ वै प्रा॒णा अ॒मृत॒म् आपः॑ प्रा॒णान् ए॒व य॑थास्था॒नम् उप॑ ह्वयते ॥
अ॒ग्नीध॒ आ द॑धात्य् अ॒ग्निमु॑खान् ए॒वर्तून् प्री॑णाति
स॒मिध॒म् आ द॑धा॒त्य् उत्त॑रासा॒म् आहु॑तीना॒म् प्रति॑ष्ठित्या॒ अथो॑ स॒मिद्व॑त्य् ए॒व जु॑होति
परि॒धीन्त् सम् मा॑र्ष्टि पु॒नात्य् ए॒वैना॑न्त् स॒कृत्स॑कृ॒त् सम् मा॑र्ष्टि॒ परा॑ङ् इव॒ ह्य् ए॑तर्हि॑ य॒ज्ञस् \
च॒तुः सम् प॑द्यते॒ चतु॑ष्पादः प॒शवः॑ प॒शून् ए॒वाव॑ रुन्द्धे॒
ब्रह्म॒न् प्र स्था॑स्याम॒ इत्य् आ॒हात्र॒ वा ए॒तर्हि॑ य॒ज्ञः श्रि॒तः ॥
यत्र॑ ब्र॒ह्मा यत्रै॒व य॒ज्ञः श्रि॒तस् तत॑ ए॒वैन॒म् आ र॑भते॒
यद् धस्ते॑न प्र॒मीवे॑द् वेप॒नः स्या॒द् यच् छी॒र्ष्णा शी॑र्षक्ति॒वान्त् स्या॒द् यत् तू॒ष्णीम् आसी॒तास॑म्प्रत्तो य॒ज्ञः स्या॑त्
प्र ति॒ष्ठेत्य् ए॒व ब्रू॑याद्
वा॒चि वै य॒ज्ञः श्रि॒तो यत्रै॒व य॒ज्ञः श्रि॒तस् तत॑ ए॒वैनँ॒ सम् प्र य॑छति॒
देव॑ सवितर् ए॒तत् ते॒ प्र ॥
आ॒हेत्य् आ॑ह॒ प्रसू॑त्यै
बृह॒स्पति॑र् ब्र॒ह्मेत्य् आ॑ह॒ स हि ब्रह्मि॑ष्ठः॒
स य॒ज्ञम् पा॑हि॒ स य॒ज्ञप॑तिम् पाहि॒ स मा॑म् पा॒हीत्य् आ॑ह
य॒ज्ञाय॒ यज॑मानाया॒त्मने॒ तेभ्य॑ ए॒वाशिष॒म् आ शा॒स्तेऽना॑र्त्या
आ॒श्राव्या॑ह
दे॒वान् य॒जेति॑
ब्रह्मवा॒दिनो॑ वदन्ती॒ष्टा दे॒वता॒ अथ॑ कत॒म ए॒ते दे॒वा इति॒ छन्दाँ॒सीति॑ ब्रूयाद् गाय॒त्रीं त्रि॒ष्टुभ॑म् ॥
जग॑ती॒म् इत्य्
अथो॒ खल्व् आ॑हुर्
ब्रा॒ह्म॒णा वै छन्दाँ॒सीति॑
तान् ए॒व तद् य॑जति
दे॒वानां॒ वा इ॒ष्टा दे॒वता॑ आस॒न्न् अथा॒ग्निर् नोद् अ॑ज्वल॒त् तं दे॒वा आहु॑तीभिर् अनूया॒जेष्व् अन्व् अ॑विन्द॒न्
यद् अ॑नूया॒जान् यज॑ति \
अ॒ग्निम् ए॒व तत् सम् इ॑न्द्धे \
ए॒तदु॒र् वै नामा॑सु॒र आ॑सी॒त्
स ए॒तर्हि॑ य॒ज्ञस्या॒शिष॑म् अवृङ्क्त॒
यद् ब्रू॒याद् ए॒तत् ॥
उ॒ द्या॒वा॒पृ॒थि॒वी॒ भ॒द्रम् अ॑भू॒द् इत्य् ए॒तदु॑म् ए॒वासु॒रं य॒ज्ञस्या॒शिषं॑ गमयेद्
इ॒दं द्या॑वापृथिवी भ॒द्रम् अ॑भू॒द् इत्य् ए॒व ब्रू॑या॒द् यज॑मानम् ए॒व य॒ज्ञस्या॑शिषम् गमयत्य्
आर्ध्म॑ सूक्तवा॒कम् उ॒त न॑मोवा॒कम् इत्य् आ॑हे॒दम् अ॑रा॒त्स्मेति॒ वावैतद् आ॑ह॒ \
उप॑श्रितो दि॒वः पृ॑थि॒व्योर् इत्य् आ॑ह॒ द्यावा॑पृथि॒व्योर् हि य॒ज्ञ उप॑श्रितस् \
ओम॑न्वती ते॒ऽस्मिन् य॒ज्ञे य॑जमान॒ द्यावा॑पृथि॒वी ॥
स्ता॒म् इत्य् आ॑हा॒शिष॑म् ए॒वैताम् आ शा॑स्ते॒
यद् ब्रू॒यात् सू॑पावसा॒ना च॑ स्वध्यवसा॒ना चेति॑ प्र॒मायु॑को॒ यज॑मानः स्या॒द् यदा॒ हि प्र॒मीय॑ते॒ \
अथे॒माम् उ॑पाव॒स्यति॑
सूपचर॒णा च॑ स्वधिचर॒णा चेत्य् ए॒व ब्रू॑या॒द् वरी॑यसीम् ए॒वास्मै॒ गव्यू॑ति॒म् आ शा॑स्ते॒ न प्र॒मायु॑को भवति॒
तयो॑ आ॒विद्य् अ॒ग्निर् इ॒दँ ह॒विर् अ॑जुष॒तेत्य् आ॑ह॒ या अया॑क्ष्म ॥
दे॒वता॒स् ता अ॑रीरधा॒मेति॒ वावैतद् आ॑ह॒
यन् न नि॑र्दि॒शेत् प्रति॑वेशं य॒ज्ञस्या॒शीर् ग॑छेद्
आ शा॑स्ते॒ऽयं यज॑मानो॒ऽसाव् इत्य् आ॑ह नि॒र्दिश्यै॒वैनँ॑ सुव॒र्गं लो॒कं ग॑मयति \
आयु॒र् आ शा॑स्ते सुप्रजा॒स्त्वम् आ शा॑स्त॒ इत्य् आ॑हा॒शिष॑म् ए॒वैताम् आ शा॑स्ते
सजातवन॒स्याम् आ शा॑स्त॒ इत्य् आ॑ह प्रा॒णा वै स॑जा॒ताः प्रा॒णान् ए॒व ॥
नान्तर् ए॑ति॒
तद् अ॒ग्निर् दे॒वो दे॒वेभ्यो॒ वन॑ते व॒यम् अ॒ग्नेर् मानु॑षा॒ इत्य् आ॑हा॒ग्निर् दे॒वेभ्यो॑ वनु॒ते व॒यम् म॑नु॒ष्ये॑भ्य॒ इति॒ वावैतद् आ॑ह \
इ॒ह गति॑र् वा॒मस्ये॒दं च॒ नमो॑ दे॒वेभ्य॒ इत्य् आ॑ह॒ याश् चै॒व दे॒वता॒ यज॑ति॒ याश् च॒ न ताभ्य॑ ए॒वोभ्ययी॑भ्यो॒ नम॑स् करोत्य् आ॒त्मनोऽना॑र्त्यै ॥
दे॒वा वै य॒ज्ञस्य॑ स्वगाक॒र्तारं॒ नावि॑न्द॒न्
ते श॒म्युम् बा॑र्हस्प॒त्यम् अ॑ब्रुवन् \
इ॒मं नो॑ य॒ज्ञँ स्व॒गा कु॒र्व् इति॒
सो॑ऽब्रवीत् \
वरं॑ वृणै॒ यद् ए॒वाब्रा॑ह्मणो॒क्तोऽश्र॑द्दधानो॒ यजा॑तै॒ सा मे॑ य॒ज्ञस्या॒शीर् अ॑स॒द् इति॒
तस्मा॒द् यद् अब्रा॑ह्मणो॒क्तोऽश्र॑द्दधानो॒ यज॑ते श॒म्युम् ए॒व तस्य॑ बार्हस्प॒त्यं य॒ज्ञस्या॒शीर् ग॑छति \
ए॒तन् ममेत्य् अ॑ब्रवी॒त् किम् मे॑ प्र॒जायाः॑ ॥
इति॒
यो॑ऽपगु॒रातै॑ श॒तेन॑ यातयात् \
यो नि॒हन॑त् स॒हस्रे॑ण यातयात् \
यो लोहि॑तं क॒रव॒द् याव॑तः प्र॒स्कद्य॑ पाँ॒सून्त् सं॑गृ॒ह्णात् ताव॑तः संवत्स॒रान् पि॑तृलो॒कं न प्र जा॑ना॒द् इति॒
तस्मा॑द् ब्राह्म॒णाय॒ नाप॑ गुरेत॒ न नि ह॑न्या॒न् न लोहि॑तं कुर्यात् \
ए॒ताव॑ता॒ हैन॑सा भवति॒
तच् छ॒म्योर् आ वृ॑णीमह॒ इत्य् आ॑ह
य॒ज्ञम् ए॒व तत् स्व॒गा क॑रोति॒
तत् ॥
श॒म्योर् आ वृ॑णीमह॒ इत्य् आ॑ह
श॒म्युम् ए॒व बा॑र्हस्प॒त्यम् भा॑ग॒धेये॑न॒ सम् अ॑र्धयति
गा॒तुं य॒ज्ञाय॑ गा॒तुं य॒ज्ञप॑तय॒ इत्य् आ॑ह \
आ॒शिष॑म् ए॒वैताम् आ शा॑स्ते॒
सोमं॑ यजति॒ रेत॑ ए॒व तद् द॑धाति॒
त्वष्टा॑रं यजति॒ रेत॑ ए॒व हि॒तं त्वष्टा॑ रू॒पाणि॒ वि क॑रोति
दे॒वाना॒म् पत्नी॑र् यजति मिथुन॒त्वाय॑ \
अ॒ग्निं गृ॒हप॑तिं यजति॒ प्रति॑ष्ठित्यै
जा॒मि वा ए॒तद् य॒ज्ञस्य॑ क्रियते ॥
यद् आज्ये॑न प्रया॒जा इ॒ज्यन्त॒ आज्ये॑न पत्नीसंया॒जास् \
ऋच॑म् अ॒नूच्य॑ पत्नीसंया॒जाना॑म् ऋ॒चा य॑जति॒ \
अजा॑मित्वा॒याथो॑ मिथुन॒त्वाय॑
प॒ङ्क्तिप्रा॑यणो॒ वै य॒ज्ञः प॒ङ्क्त्यु॑दयनः॒
पञ्च॑ प्रया॒जा इ॑ज्यन्ते
च॒त्वारः॑ पत्नीसंया॒जाः स॑मिष्टय॒जुः प॑ञ्च॒मम्
प॒ङ्क्तिम् ए॒वानु॑ प्र॒यन्ति॑ प॒ङ्क्तिम् {F अनूद्} {W अनू॑द्} {ग्लोस् अनूद्} य॑न्ति ॥
यु॒क्ष्वा {F हि} {W हि॑} {ग्लोस् हि} दे॑व॒हूत॑माँ॒ अश्वाँ॑ अग्ने र॒थीर् इ॑व । नि होता॑ पू॒र्व्यः स॑दः ॥
उ॒त नो॑ देव दे॒वाँ अछा॑ वोचो वि॒दुष्ट॑रः । श्रद् विश्वा॒ वार्या॑ कृधि ॥
त्वँ ह॒ यद् य॑विष्ठ्य॒ सह॑सः सूनव् आहुत । ऋ॒तावा॑ य॒ज्ञियो॒ भुवः॑ ॥
अ॒यम् अ॒ग्निः स॑ह॒स्रिणो॒ वाज॑स्य श॒तिन॒स् पतिः॑ । मू॒र्धा क॒वी र॑यी॒णाम् ॥
तं ने॒मिम् ऋ॒भवो॑ य॒था न॑मस्व॒ सहू॑तिभिः । नेदी॑यो य॒ज्ञम् ॥
अ॒ङ्गि॒रः॒ ॥
तस्मै॑ नू॒नम् अ॒भिद्य॑वे वा॒चा वि॑रूप॒ नित्य॑या । वृष्णे॑ चोदस्व सुष्टु॒तिम् ॥
कम् उ॑ ष्विद् अस्य॒ सेन॑या॒ग्नेर् अपा॑कचक्षसः । प॒णिं गोषु॑ स्तरामहे ॥
मा नो॑ दे॒वानां॒ विशः॑ प्रस्ना॒तीर् इ॑वो॒स्राः । कृ॒शं न हा॑सु॒र् अघ्नि॑याः ॥
मा नः॑ समस्य दू॒ढ्यः॑ परि॑द्वेषसो अँह॒तिः ऊ॒र्मिर् न नाव॒म् आ व॑धीत् ॥
नम॑स् ते अग्न॒ ओज॑से गृ॒णन्ति॑ देव कृ॒ष्टयः॑ । अमैः॑ ॥
अ॒मित्र॑म् अर्दय ॥
कु॒वित् सु नो॒ गवि॑ष्ट॒येऽग्ने॑ सं॒वेषि॑षो र॒यिम् । उरु॑कृद् उ॒रु ण॑स् कृधि ॥
मा नो॑ अ॒स्मिन् म॑हाध॒ने परा॑ वर्ग् भार॒भृद् य॑था । सं॒वर्गँ॒ सँ र॒यिँ ज॑य ॥
अ॒न्यम् अ॒स्मद् भि॒या इ॒यम् अग्ने॒ सिष॑क्तु दु॒छुना॑ । वर्धा॑ नो॒ अम॑व॒च् छवः॑ ॥
यस्याजु॑षन् नम॒स्विनः॒ शमी॒म् अदु॑र्मखस्य वा । तं घेद् अ॒ग्निर् वृ॒धाव॑ति ॥
पर॑स्या॒ अधि॑ ॥
सं॒वतोऽव॑राँ अ॒भ्य् आ त॑र । यत्रा॒हम् अस्मि॒ ताँ अ॑व ॥
वि॒द्मा हि ते॑ पु॒रा व॒यम् अग्ने॑ पि॒तुर् यथाव॑सः । अधा॑ ते सु॒म्नम् ई॑महे ।
य उ॒ग्र इ॑व शर्य॒हा ति॒ग्मशृ॑ङ्गो॒ न वँस॑गः । अग्ने॒ पुरो॑ रु॒रोजि॑थ ॥
सखा॑यः॒ सं वः॑ स॒म्यञ्च॒म् इषँ॒ स्तोमं॑ चा॒ग्नये॑ । वर्षि॑ष्ठाय क्षिती॒नाम् ऊ॒र्जो नप्त्रे॒ सह॑स्वते ॥
सँस॒म् इद् यु॑वसे वृष॒न्न् अग्ने॒ विश्वा॑न्य् अ॒र्य आ । इ॒डस् प॒दे सम् इ॑ध्यसे॒ स नो॒ वसू॒न्य् आ भ॑र ॥
प्रजा॑पते॒
स वे॑द॒
सोमा॑पूषणा \
इ॒मौ दे॒वौ ॥
उ॒शन्त॑स् त्वा हवामह उ॒शन्तः॒ सम् इ॑धीमहि । उ॒शन्न् उ॑श॒त आ व॑ह पि॒तॄन् ह॒विषे॒ अत्त॑वे ॥
त्वँ सो॑म॒ प्रचि॑कितो मनी॒षा त्वँ रजि॑ष्ठ॒म् अनु॑ नेषि॒ पन्था॑म् । तव॒ प्रणी॑ती पि॒तरो॑ न इन्दो दे॒वेषु॒ रत्न॑म् अभजन्त॒ धीराः॑ ॥
त्वया॒ हि नः॑ पि॒तरः॑ सोम॒ पूर्वे॒ कर्मा॑णि च॒क्रुः प॑वमान॒ धीराः॑ । व॒न्वन्न् अवा॑तः परि॒धीँर् अपो॑र्णु वी॒रेभि॒र् अश्वै॑र् म॒घवा॑ भव ॥
नः॒ ॥
त्वँ सो॑म पि॒तृभिः॑ संविदा॒नोऽनु॒ द्यावा॑पृथि॒वी आ त॑तन्थ । तस्मै॑ त इन्दो ह॒विषा॑ विधेम व॒यँ स्या॑म॒ पत॑यो रयी॒णाम् ॥
अग्नि॑ष्वात्ताः पितर॒ एह ग॑छत॒ सदः॑सदः सदत सुप्रणीतयः । अ॒त्ता ह॑वीँषि॒ प्रय॑तानि ब॒र्हिष्य् अथा॑ र॒यिँ सर्व॑वीरं दधातन ॥
बर्हि॑षदः पितर ऊ॒त्य् अ॑र्वाग् इ॒मा वो॑ ह॒व्या च॑कृमा जु॒षध्व॑म् । त आ ग॒ताव॑सा॒ शंत॑मे॒नाथा॒स्मभ्य॑म् ॥
शं योर् अ॑र॒पो द॑धात ॥
आहम् पि॒तॄन्त् सु॑वि॒दत्राँ॑ अवित्सि॒ नपा॑तं च वि॒क्रम॑णं च॒ विष्णोः॑ । ब॒र्हि॒षदो॒ ये स्व॒धया॑ सु॒तस्य॒ भज॑न्त पि॒त्वस् त इ॒हाग॑मिष्ठाः ॥
उप॑हूताः पि॒तरः॑ सो॒म्यासो॑ बर्हि॒ष्ये॑षु नि॒धिषु॑ प्रि॒येषु॑ । त आ ग॑मन्तु॒ त इ॒ह श्रु॑व॒न्त्व् अधि॑ ब्रुवन्तु॒ ते अ॑वन्त्व् अ॒स्मान् ॥
उद् ई॑रता॒म् अव॑र॒ उत् परा॑स॒ उन् म॑ध्य॒माः पि॒तरः॑ सो॒म्यासः॑ । असु॑म् ॥
य ई॒युर् अ॑वृ॒का ऋ॑त॒ज्ञास् ते नो॑ऽवन्तु पि॒तरो॒ हवे॑षु ॥
इ॒दम् पि॒तृभ्यो॒ नमो॑ अस्त्व् अ॒द्य ये पूर्वा॑सो॒ य उप॑रास् ई॒युः । ये पार्थि॑वे॒ रज॒स्य् आ निष॑त्ता॒ ये वा॑ नू॒नँ सु॑वृ॒जना॑सु वि॒क्षु ॥
अधा॒ यथा॑ नः पि॒तरः॒ परा॑सः प्र॒त्नासो॑ अग्न ऋ॒तम् आ॑शुषा॒णाः । शुचीद् अ॑य॒न् दीधि॑तिम् उक्थ॒शासः॒ क्षामा॑ भि॒न्दन्तो॑ अरु॒णीर् अप॑ व्रन् ॥
यद् अ॑ग्ने ॥
क॒व्य॒वा॒ह॒न॒ पि॒तॄन् यक्ष्य् ऋ॑ता॒वृधः॑ । प्र च॑ ह॒व्यानि॑ वक्ष्यसि दे॒वेभ्य॑श् च पि॒तृभ्य॒ आ ॥
त्वम् अ॑ग्न ईडि॒तो जा॑तवे॒दोऽवा॑ड् ढ॒व्यानि॑ सुर॒भीणि॑ कृ॒त्वा । प्रादाः॑ पि॒तृभ्यः॑ स्व॒धया॒ ते अ॑क्षन्न् अ॒द्धि त्वं दे॑व॒ प्रय॑ता ह॒वीँषि॑ ॥
मात॑ली क॒व्यैर् य॒मो अङ्गि॑रोभि॒र् बृह॒स्पति॒र् ऋक्व॑भिर् वावृधा॒नः । याँश् च॑ दे॒वा वा॑वृ॒धुर् ये च॑ दे॒वान्त् स्वाहा॒न्ये स्व॒धया॒न्ये म॑दन्ति ॥
इ॒मं य॑म प्रस्त॒रम् आ हि सीदाङ्गि॑रोभिः पि॒तृभिः॑ संविदा॒नः । आ त्वा॒ मन्त्राः॑ कविश॒स्ता व॑हन्त्व् ए॒ना रा॑जन् ह॒विषा॑ मादयस्व ॥
अङ्गि॑रोभि॒र् आ ग॑हि य॒ज्ञिये॑भि॒र् यम॑ वैरू॒पैर् इ॒ह मा॑दयस्व । विव॑स्वन्तँ हुवे॒ यः पि॒ता ते॒ऽस्मिन् य॒ज्ञे ब॒र्हिष्य् आ नि॒षद्य॑ ॥
अङ्गि॑रसो नः पि॒तरो॒ नव॑ग्वा॒ अथ॑र्वाणो॒ भृग॑वः सो॒म्यासः॑ । तेषां॑ व॒यँ सु॑म॒तौ य॒ज्ञिया॑ना॒म् अपि॑ भ॒द्रे सौ॑मन॒से स्या॑म ॥