वि॒श्वरू॑पो॒ वै त्वा॒ष्ट्रः पु॒रोहि॑तो दे॒वाना॑म् आसीत् स्व॒स्रीयोऽसु॑राणाम् \
तस्य॒ त्रीणि॑ शी॒र्षाण्य् आ॑सन्त् सोम॒पानँ॑ सुरा॒पान॑म् अ॒न्नाद॑नम् \
स प्र॒त्यक्षं॑ दे॒वेभ्यो॑ भा॒गम् अ॑वदत् प॒रोऽक्ष॒म् असु॑रेभ्यः॒ सर्व॑स्मै॒ वै प्र॒त्यक्ष॑म् भा॒गं व॑दन्ति॒ यस्मा॑ ए॒व प॒रोऽक्षं॒ वद॑न्ति॒ तस्य॑ भा॒ग उ॑दि॒तस्
तस्मा॒द् इन्द्रो॑ऽबिभेद्
ई॒दृङ् वै रा॒ष्ट्रं वि प॒र्याव॑र्तय॒तीति॒
तस्य॒ वज्र॑म् आ॒दाय॑ शी॒र्षाण्य् अ॑छिन॒द् यत् सो॑म॒पान॑म् ॥
आसी॒त् स क॒पिञ्ज॑लोऽभव॒त् यत् सु॑रा॒पानँ॒ स क॑ल॒विङ्को॒ यद् अ॒न्नाद॑नँ॒ स ति॑त्ति॒रिस् । तस्या॑ञ्ज॒लिना॑ ब्रमह॒त्याम् उपा॑गृह्णा॒त् ताँ सं॑वत्स॒रं अ॑बिभ॒स् तम् भू॒तान्य् अ॒भ्य् अ॑क्रोशन्
ब्रह्म॑ह॒न्न् इति॑ । स पृ॑थि॒वीम् उपा॑सीदद्
अ॒स्यै ब्र॑ह्मह॒त्यायै॒ तृती॑य॒म् प्रति॑ गृहा॒णेति॑
साब्र॑वी॒द्
वरं॑ वृणै खा॒तात् प॑राभवि॒ष्यन्ती॑ मन्ये॒ ततो॒ मा प॒रा भू॑व॒म् इति॑
पु॒रा ते॑ ॥
सं॒व॒त्स॒राद् अपि॑ रोहा॒द् इत्य् अ॑ब्रवी॒त् तस्मा॑त् पु॒रा सं॑वत्स॒रात् पृ॑थि॒व्यै खा॒तम् अपि॑ रोहति॒ वारे॑वृतँ॒ ह्य् अ॑स्यै
तृती॑यम् ब्रह्मह॒त्यायै॒ प्रत्य् अ॑गृह्णा॒त् तत् स्वकृ॑त॒म् इरि॑णम् अभव॒त् तस्मा॒द् आहि॑ताग्निः श्र॒द्धादे॑वः॒ स्वकृ॑त॒ इरि॑णे॒ नाव॑ स्येद् ब्रह्मह॒त्यायै॒ ह्य् ए॑ष वर्णः॑ । स वन॒स्पती॒न् उपा॑सीदद्
अ॒स्यै ब्र॑ह्मह॒त्यायै॒ तृती॑य॒म् प्रति॑ गृह्णी॒तेति॒
ते॑ऽब्रुव॒न्
वरं॑ वृणामहै वृ॒क्णात् ॥
प॒रा॒भ॒वि॒ष्यन्तो॑ मन्यामहे॒ ततो॒ मा परा॑ भू॒मेति॑ \
आ॒व्रश्च॑ना॒द् वो भूयाँ॑स॒ उत् ति॑ष्ठा॒न् इत्य् अ॑ब्रवी॒त् तस्मा॑द् आ॒व्रश्च॑नाद् वृ॒क्षाणा॒म् भूयाँ॑स॒ उत् ति॑ष्ठन्ति॒ वारे॑वृतँ॒ ह्य् ए॑षाम् \
तृती॑यम् ब्रह्मह॒त्यायै॒ प्रत्य् अ॑गृह्ण॒न्त् स नि॑र्या॒सो॑ऽभव॒त् तस्मा॑न् निर्या॒सस्य॒ नाश्य॑म् ब्रह्मह॒त्यायै॒ ह्य् ए॑ष वर्णोऽथो॒ खलु॒ य ए॒व लोहि॑तो॒ यो वा॒व्रश्च॑नान् नि॒र्येष॑ति॒ तस्य॒ नाश्य॑म् ॥
काम॑म् अ॒न्यस्य॑ । स स्त्री॑षँसा॒दम् उपा॑सीदद्
अ॒स्यै ब्र॑ह्मह॒त्यायै॒ तृती॑य॒म् प्रति॑ गृह्णी॒तेति॑
ता अ॑ब्रुव॒न्
वरं॑ वृणामहा॒ ऋत्वि॑यात् प्र॒जां वि॑न्दामहै॒ काम॒म् आ विज॑नितोः॒ सम् भ॑वा॒मेति॒ तस्मा॒द् ऋत्वि॑या॒त् स्त्रियः॑ प्र॒जां वि॑न्दन्ते॒ काम॒म् आ विज॑नितोः॒ सम् भ॑वन्ति॒ वारे॑वृतँ॒ ह्य् आ॑साम् \
तृती॑यम् ब्रह्मह॒त्यायै॒ प्रत्य् अ॑गृह्ण॒न्त् सा मल॑वद्वासा अभव॒त् तस्मा॒न् मल॑वद्वाससा॒ न सं व॑देत ॥
न स॒हासी॑त॒ नास्या॒ अन्न॑म् अ॒द्याद् ब्र॑ह्मह॒त्यायै॒ ह्य् ए॑षा वर्ण॑म् प्रति॒मुच्यास्ते॒ \
अथो॒ खल्व् आ॑हुर्
अ॒भ्यञ्ज॑नं॒ वाव स्त्रि॒या अन्न॑म् अ॒भ्यञ्ज॑नम् ए॒व न प्र॑ति॒गृह्यं॒ काम॑म् अ॒न्यद् इति॑ । याम् मल॑वद्वाससँ स॒म्भव॑न्ति॒ यस् ततो॒ जाय॑ते॒ सो॑ऽभिश॒स्तो याम् अर॑ण्ये॒ तस्यै॑ स्ते॒नो याम् परा॑चीं॒ तस्यै॑ ह्रीतमु॒ख्य् अ॑पग॒ल्भो या स्नाति॒ तस्या॑ अ॒प्सु मारु॑को॒ या ॥
अ॒भ्य॒ङ्क्ते तस्यै॑ दु॒श्चर्मा॒ या प्र॑लि॒खते॒ तस्यै॑ खल॒तिर् अ॑पमा॒री याङ्क्ते तस्यै॑ का॒णो या द॒तो धाव॑ते॒ तस्यै॑ श्या॒वद॒न् या न॒खानि॑ निकृ॒न्तते॒ तस्यै॑ कुन॒खी या कृ॒णत्ति॒ तस्यै॑ क्ली॒बो या रज्जुँ॑ सृ॒जति॒ तस्या॑ उ॒द्बन्धु॑को॒ या प॒र्णेन॒ पिब॑ति॒ तस्या॑ उ॒न्मादु॑को॒ या ख॒र्वेण॒ पिब॑ति॒ तस्यै॑ ख॒र्वस्
ति॒स्रो रात्री॑र् व्र॒तं च॑रेद् अञ्ज॒लिना॑ वा॒ पिबे॒द् अख॑र्वेण वा॒ पात्रे॑ण प्र॒जायै॑ गोपी॒थाय॑ ॥
त्वष्टा॑ ह॒तपु॑त्रो॒ वीन्द्रँ॒ सोम॒म् आह॑र॒त्
तस्मि॒न्न् इन्द्र॑ उपह॒वम् ऐ॑छत॒
तं नोपा॑ह्वयत
पु॒त्रम् मे॑ऽवधी॒र् इति॒
स य॑ज्ञवेश॒सं कृ॒त्वा प्रा॒सहा॒ सोम॑म् अपिब॒त्
तस्य॒ यद् अ॒त्यशि॑ष्यत॒ तत् त्वष्टा॑हव॒नीय॒म् उप॒ प्राव॑र्तयत्
स्वाहेन्द्र॑शत्रुर् वर्ध॒स्वेति॒
यद् अव॑र्तय॒त् तद् वृ॒त्रस्य॑ वृत्र॒त्वम् \
यद् अब्र॑वीत्
स्वाहेन्द्र॑शत्रुर् वर्ध॒स्वेति॒ तस्मा॑द् अस्य ॥
इन्द्रः॒ शत्रु॑र् अभव॒त्
स स॒म्भव॑न्न् अ॒ग्नीषोमा॑व् अ॒भि सम् अ॑भव॒त्
स इ॑षुमा॒त्रमि॑षुमात्रं॒ विष्व॑ङ्ङ् अवर्धत॒
स इ॒माँ लो॒कान् अ॑वृणोत् \
यद् इ॒माँ लो॒कान् अवृ॑णो॒त् तद् वृ॒त्रस्य॑ वृत्र॒त्वम् \
तस्मा॒द् इन्द्रो॑ऽबिभे॒त्
स प्र॒जाप॑ति॒म् उपा॑धावत् \
शत्रु॑र् मेऽज॒नीति॒
तस्मै॒ वज्रँ॑ सि॒क्त्वा प्राय॑छत् \
ए॒तेन॑ ज॒हीति॒ तेना॑भ्य् आ॑यत
ताव् अ॑ब्रूताम् अ॒ग्नीषोमौ॑
मा ॥
प्र हा॑र् आ॒वम् अ॒न्तः स्व॒ इति॒
मम॒ वै यु॒वँ स्थ॒ इत्य् अ॑ब्रवी॒न् माम् अ॒भ्य् एत॒म् इति॒
तौ भा॑ग॒धेय॑म् ऐछेताम् \
ताभ्या॑म् ए॒तम् अ॑ग्नीषो॒मीय॒म् एका॑दशकपालम् पू॒र्णमा॑से॒ प्राय॑छत्
ताव् अ॑ब्रूताम्
अ॒भि संद॑ष्टौ॒ वै स्वो॒ न श॑क्नुव॒ ऐतु॒म् इति॒
स इन्द्र॑ आ॒त्मनः॑ शीतरू॒राव् अ॑जनय॒त्
तच् छी॑तरू॒रयो॒र् जन्म॒
य ए॒वँ शी॑तरू॒रयो॒र् जन्म॒ वेद॑ ॥
नैनँ॑ शीतरू॒रौ ह॑तस्
ताभ्या॑म् एनम् अ॒भ्य् अ॑नय॒त्
तस्मा॑ज् जञ्ज॒भ्यमा॑नाद् अ॒ग्नीषोमौ॒ निर् अ॑क्रामताम्
प्रा॒णा॒पा॒नौ वा ए॑नं॒ तद् अ॑जहिताम्
प्रा॒नो वै दक्षो॑ऽपा॒नः क्रतु॒स्
तस्मा॑ज् जञ्ज॒भ्यमा॑नो ब्रूयात् \
मयि॑ दक्षक्र॒तू इति॑
प्राणापा॒नाव् ए॒वात्मन् ध॑त्ते॒
सर्व॒म् आयु॑र् एति॒
स दे॒वता॑ वृ॒त्रान् नि॒र्हूय॒ वार्त्र॑घ्नँ ह॒विः पू॒र्णमा॑से॒ निर् अ॑वपत् \
घ्नन्ति॒ वा ए॑नम् पू॒र्णमा॑स॒ आ ॥
अ॒मा॒वा॒स्या॑याम् प्याययन्ति॒
तस्मा॒द् वार्त्र॑घ्नी पू॒र्णमा॒सेऽनू॑च्येते॒ वृध॑न्वती अमावा॒स्या॑याम् \
तत् सँ॒स्थाप्य॒ वार्त्र॑घ्नँ ह॒विर् वज्र॑म् आ॒दाय॒ पुन॑र् अ॒भ्य् आ॑यत॒
ते अ॑ब्रूतां॒ द्यावा॑पृथि॒वी
मा प्र हा॑र् आ॒वयो॒र् वै श्रि॒त इति॒
ते अ॑ब्रूताम् \
वरं॑ वृणावहै॒ नक्ष॑त्रविहिता॒हम् अ॑सा॒नीत्य् अ॒साव् अ॑ब्रवीच् चि॒त्रवि॑हिता॒हम् इती॒यम् \
तस्मा॒न् नक्ष॑त्रविहिता॒सौ चि॒त्रवि॑हिते॒ऽयम् \
य ए॒वं द्यावा॑पृथि॒व्योः ॥
वरं॒ वेदैनं॒ वरो॑ गछति॒
स आ॒भ्याम् ए॒व प्रसू॑त॒ इन्द्रो॑ वृ॒त्रम् अ॑ह॒न्
ते दे॒वा वृ॒त्रँ ह॒त्वाग्नीषोमा॑व् अब्रुवन्
ह॒व्यं नो॑ वहत॒म् इति॑
ताव् अ॑ब्रूता॒म्
अप॑तेजसौ॒ वै त्यौ वृ॒त्रे वै त्ययो॒स् तेज॒ इति॒
ते॑ऽब्रुव॒न्
क इ॒दम् अछै॒तीति॒
गौर् इत्य् अ॑ब्रुव॒न् गौर् वाव सर्व॑स्य मि॒त्रम् इति॑
साब्र॑वीत् ॥
वरं॑ वृणै॒ मय्य् ए॒व स॒तोऽभये॑न भुनजाध्वा॒ इति॒
तद् गौर् आह॑र॒त्
तस्मा॒द् गवि॑ स॒तोऽभये॑न भुञ्जते \
ए॒तद् वा अ॒ग्नेस् तेजो॒ यद् घृ॒तम्
ए॒तत् सोम॑स्य॒ यत् पय॑स् \
य ए॒वम् अ॒ग्नीषोम॑यो॒स् तेजो॒ वेद॑ तेज॒स्व्य् ए॑व भ॑वति
ब्रह्मवा॒दिनो॑ वदन्ति
किंदेव॒त्य॑म् पौ॒र्णमा॑स॒म् इति॑
प्राजाप॒त्यम् इति॑ ब्रूया॒त्
तेनेन्द्रं॑ ज्ये॒ष्ठम् पु॒त्रं नि॒रवा॑सायय॒द् इति॒
तस्मा॑ज् ज्ये॒ष्ठम् पु॒त्रं धने॑न नि॒रव॑साययन्ति ॥
इन्द्रं॑ वृ॒त्रं ज॑घनि॒वाँस॒म् मृधो॒ऽभि प्रावे॑पन्त॒ स ए॒तं वै॑मृ॒धम् पू॒णमा॑सेऽनुनिर्वा॒प्य॑म् अपश्य॒त् तं निर् अ॑वप॒त् तेन॒ वै स मृधोऽपा॑हत॒ यद् वै॑मृ॒धः पू॒र्णमा॑सेऽनुनिर्वा॒प्यो॑ भव॑ति॒ मृध॑ ए॒व तेन॒ यज॑मा॒नोऽप॑ हते॒ \
इन्द्रो॑ वृ॒त्रँ ह॒त्वा दे॒वता॑भिश् चेन्द्रि॒येण॑ च॒ व्य् आ॑र्ध्यत॒ स ए॒तम् आ॑ग्ने॒यम् अ॒ष्टाक॑पालम् अमावा॒स्या॑याम् अपश्यद् ऐ॒न्द्रं दधि॑ ॥
तं निर् अ॑वप॒त् तेन॒ वै स दे॒वता॑श् चेन्द्रि॒यं चावा॑रुन्द्ध॒
यद् आ॑ग्ने॒यो॑ऽष्टाकपालोऽमावा॒स्या॑या॒म् भव॑त्य् ऐ॒न्द्रं दधि॑ दे॒वता॑श् चै॒व तेने॑न्द्रि॒यं च॒ यज॑मा॒नोऽव॑ रुन्द्धे॒ \
इन्द्र॑स्य {F वृ॒त्रं} {W व्रि॒त्रं} {गोल्स् वृ॒त्रं} ज॒घ्नुष॑ इन्द्रि॒यं वी॒र्य॑म् पृथि॒वीम् अनु॑ व्य् आ॑र्छ॒त् तद् ओष॑धयो वी॒रुधो॑ऽभव॒न्
स प्र॒जाप॑ति॒म् उपा॑धावद्
वृ॒त्रम् मे॑ ज॒घ्नुष॑ इन्द्रि॒यं वी॒र्य॑म् ॥
पृ॒थि॒वीम् अनु॑ व्य् आ॑र॒त् तद् ओष॑धयो वी॒रुधो॑ऽभूव॒न् इति॒
तत् प॒शव॒ ओष॑धी॒भ्योऽध्य् आ॒त्मन्त् सम् अ॑नय॒न् तत् प्रत्य् अ॑दुह॒न् यत् स॒मन॑य॒न् तत् सां॑ना॒य्यस्य॑ सांनाय्य॒त्वं यत् प्र॒त्यदु॑ह॒न् तत् प्र॑ति॒धुषः॑ प्रतिधु॒क्त्वम् \
सम् अ॑नैषुः॒ प्रत्य् अ॑धुक्ष॒न् न तु मयि॑ श्रयत॒ इत्य् अ॑ब्रवीद् ए॒तद् अ॑स्मै ॥
शृ॒तं कु॑रु॒तेत्य् अ॑ब्रवी॒त् तद् अ॑स्मै शृ॒तम् अ॑कुर्वन्न् इन्द्रि॒यं वावास्मि॑न् वी॒र्यं॑ तद् अ॑श्रय॒न् तच् छृ॒तस्य॑ शृत॒त्वम् \
सम् अ॑नैषुः॒ प्रत्य् अ॑धुक्षञ् छृ॒तम् अ॑क्र॒न् न तु मा॑ धिनो॒तीत्य् अ॑ब्रवीद् ए॒तद् अ॑स्मै॒ दधि॑ कुरु॒तेत्य् अ॑ब्रवी॒त् तद् अ॑स्मै॒ दध्य् अ॑कुर्व॒न् तद् ए॑नम् अधिनो॒त् तद् द॒ध्नो द॑धि॒त्वम्
ब्र॒ह्म॒वा॒दिनो॑ वदन्ति द॒ध्नः पूर्व॑स्याव॒देय॑म् ॥
दधि॒ हि पूर्वं॑ क्रि॒यत॒ इत्य् अना॑दृत्य॒ तच् छृ॒तस्यै॒व पूर्व॒स्याव॑ द्येद् इन्रि॒यम् ए॒वास्मि॑न् वी॒र्यँ॑ श्रि॒त्वा द॒ध्नोपरि॑ष्टाद् धिनोति यथापू॒र्वम् उपै॑ति॒
यत् पू॒तीकै॑र् वा पर्णव॒ल्कैर् वा॑त॒ञ्च्यात् सौ॒म्यं तद् यत् क्व॑लै राक्ष॒सं तद् यत् त॑ण्डु॒लैर् वै॑श्वदे॒वं तद् यद् आ॒तञ्च॑नेन मानु॒षं तद् यद् द॒ध्ना तत् सेन्द्रं॑ द॒ध्ना त॑नक्ति ॥
से॒न्द्र॒त्वाय॑ \
अग्निहोत्रोछेष॒णम् अ॒भ्यात॑नक्ति य॒ज्ञस्य॒ संत॑त्यै॒ \
इन्द्रो॑ वृ॒त्रँ ह॒त्वा परा॑म् परा॒वत॑म् अगछ॒द् अपा॑राध॒म् इति॒ मन्य॑मान॒स् तं दे॒वताः॒ प्रैष॑म् ऐछ॒न्त् सो॑ऽब्रवीत् प्र॒जाप॑ति॒र् यः प्र॑थ॒मो॑ऽनुवि॒न्दति॒ तस्य॑ प्रथ॒मम् भा॑ग॒धेय॒म् इति॒ तम् पि॒तरोऽन्व् अ॑विन्द॒न् तस्मा॑त् पि॒तृभ्यः॑ पूर्वे॒द्युः क्रि॑यते॒
सो॑ऽमावा॒स्या॑म् प्रत्य् आग॑छ॒त् तं दे॒वा अ॒भि सम् अ॑गछ॒न्तामा वै नः॑ ॥
अ॒द्य वसु॑ वस॒तीतीन्द्रो॒ हि दे॒वानां॒ वसु॒ तद् अ॑मावा॒स्या॑या अमावास्य॒त्वम्
ब्र॒ह्म॒वा॒दिनो॑ वदन्ति किंदेव॒त्यँ॑ सांना॒य्यम् इति॑ वैश्वदे॒वम् इति॑ ब्रूया॒द् विश्वे॒ हि तद् दे॒वा भा॑ग॒धेय॑म् अ॒भि स॒मग॑छ॒न्तेत्य् अथो॒ खल्व् ऐ॒न्द्रम् इत्य् ए॒व ब्रू॑या॒द् इन्द्रं॒ वाव ते तद् भि॑ष॒ज्यन्तो॒ऽभि सम् अ॑गछ॒न्तेति॑ ॥
ब्र॒ह्म॒वा॒दिनो॑ वदन्ति॒
स त्वै द॑र्शपूर्णमा॒सौ य॑जेत॒ य ए॑नौ॒ सेन्द्रौ॒ यजे॒तेति॑
वैमृ॒धः पू॒र्णमा॑सेऽनुनिर्वा॒प्यो॑ भवति॒ तेन॑ पू॒र्णमा॑सः॒ सेन्द्र॑ ऐ॒न्द्रं दध्य् अ॑मावा॒स्या॑यां॒ तेना॑मावा॒स्या॑ सेन्द्रा॒ य ए॒वं वि॒द्वान् द॑र्शपूर्णमा॒सौ यज॑ते॒ सेन्द्रा॑व् ए॒वैनौ॑ यजते॒ श्वःश्वो॑ऽस्मा ईजा॒नाय॒ वसी॑यो भवति
दे॒वा वै यद् य॒ज्ञेऽकु॑र्वत॒ तद् असु॑रा अकुर्वत॒ ते दे॒वा ए॒ताम् ॥
इष्टि॑म् अपश्यन् \
आ॒ग्ना॒वै॒ष्ण॒वम् एका॑दशकपालँ॒ सर॑स्वत्यै च॒रुँ सर॑स्वते च॒रुं ताम् पौ॑र्णमा॒सँ सँ॒स्थाप्यानु॒ निर् अ॑वप॒न् ततो॑ दे॒वा अभ॑व॒न् परासु॑रास् \
यो भ्रातृ॑व्यवा॒न्त् स्यात् स पौ॑र्णमा॒सँ सँ॒स्थाप्यै॒ताम् इष्टि॒म् अनु॒ निर् व॑पेत् पौर्णमा॒सेनै॒व वज्र॒म् भ्रातृ॑व्याय प्र॒हृत्या॑ग्नावैष्ण॒वेन॑ दे॒वता॑श् च य॒ज्ञं च॒ भ्रातृ॑व्यस्य वृङ्क्ते
मिथु॒नान् प॒शून्त् सा॑रस्व॒ताभ्यां॒ याव॑द् ए॒वा स्यास्ति॒ तत् ॥
सर्वं॑ वृङ्क्ते
पौर्णमा॒सीम् ए॒व य॑जेत॒ भ्रातृ॑व्यवा॒न् नामा॑वा॒स्याँ॑ ह॒त्वा भ्रातृ॑व्यं॒ ना प्या॑ययति
साकम्प्रस्था॒यीये॑न यजेत प॒शुका॑मस् \
यस्मै॒ वा अल्पे॑ना॒हर॑न्ति॒ नात्मना॒ तृप्य॑ति॒ नान्यस्मै॑ ददाति॒ यस्मै॑ मह॒ता तृप्य॑त्य् आ॒त्मना॒ ददा॑त्य् अ॒न्यस्मै॑ मह॒ता पू॒र्णँ हो॑त॒व्य॑म् \
तृ॒प्त ए॒वैन॒म् इन्द्रः॑ प्र॒जया॑ प॒शुभि॑स् तर्पयति
दारुपा॒त्रेण॑ जुहोति॒
न हि मृ॒न्मय॒म् आहु॑तिं आन॒शे \
औदु॑म्बरम् ॥
भ॒व॒त्य् ऊर्ग् वा उ॑दु॒म्बर॒ ऊर्क् प॒शव॑ ऊ॒र्जैवास्मा॒ ऊर्ज॑म् प॒शून् अव॑ रुन्द्धे
नाग॑तश्रीर् महे॒न्द्रं य॑जेत॒
त्रयो॒ वै ग॒तश्रि॑यः शुश्रु॒वान् ग्रा॑म॒णी रा॑ज॒न्य॑स् तेषा॑म् महे॒न्द्रो दे॒वता॒ यो वै स्वां दे॒वतां॑ अति॒यज॑ते॒ प्रस्वायै॑ दे॒वता॑यै च्यवते॒ न परा॒म् प्राप्नो॑ति॒ पापी॑यान् भवति
संवत्स॒रम् इन्द्रं॑ यजेत संवत्स॒रँ हि व्र॒तं नाति॒ स्वा ॥
ए॒वैनं॑ दे॒वते॒ज्यमा॑ना॒ भूत्या॑ इन्द्धे॒ वसी॑यान् भवति
संवत्स॒रस्य॑ प॒रस्ता॑द् अ॒ग्नये॑ व्र॒तप॑तये पुरो॒डाश॑म् अ॒ष्टाक॑पालं॒ निर् व॑पेत्
संवत्स॒रम् ए॒वैनं॑ वृ॒त्रं ज॑घ्नि॒वाँस॑म् अ॒ग्निर् व्र॒तप॑तिर् व्र॒तम् आ ल॑म्भयति॒
ततोऽधि॒ कामं॑ यजेत ॥
नासो॑मयाजी॒ सं न॑ये॒द् अना॑गतं॒ वा ए॒तस्य॒ पयो॒ योऽसो॑मयाजी॒
यद् असो॑मयाजी सं॒नये॑त् परिमो॒ष ए॒व सोऽनृ॑तं करोति॒ \
अथो॒ परै॒व सि॑च्यते
सोमया॒ज्य् ए॑व सं न॑ये॒त् पयो॒ वै सोमः॒ पयः॑ सांना॒य्यम् पय॑सै॒व पय॑ आ॒त्मन् ध॑त्ते॒
वि वा ए॒तम् प्र॒जया॑ प॒शुभि॑र् अर्धयति व॒र्धय॑त्य् अस्य॒ भ्रातृ॑व्यं॒ यस्य॑ ह॒विर् निरु॑प्तम् पु॒रस्ता॑च् च॒न्द्रमाः॑ ॥
अ॒भ्य् उ॑देति॑
त्रे॒धा त॑ण्डु॒लान् वि भ॑जे॒द्
ये म॑ध्य॒माः स्युस् तान् अ॒ग्नये॑ दा॒त्रे पु॑रो॒डाश॑म् अ॒ष्टाक॑पालं कुर्या॒द्
ये स्थवि॑ष्ठा॒स् तान् इन्द्रा॑य प्रदा॒त्रे द॒धँश् च॒रुम् \
येऽणि॑ष्ठा॒स् तान् विष्ण॑वे शिपिवि॒ष्टाय॑ शृ॒ते च॒रुम्
अ॒ग्निर् ए॒वास्मै॑प्र॒जाम् प्र॑ज॒नय॑ति वृ॒द्धाम् इन्द्रः॒ प्र य॑छति
य॒ज्ञो वै विष्णुः॑ प॒शवः॒ शिपि॑र् य॒ज्ञ ए॒व प॒शुषु॒ प्रति॑ तिष्ठति॒
न द्वे ॥
य॒जे॒त॒
यत् पूर्व॑या सम्प्र॒ति यजे॒तोत्त॑रया छ॒म्बट् कु॑र्या॒द्
यद् उत्त॑रया सम्प्र॒ति यजे॑त॒ पूर्व॑या छ॒म्बट् कु॑र्या॒न् नेष्टि॒र् भव॑ति॒ न य॒ज्ञस् तद् अनु॑ ह्रीत मु॒ख्य् अ॑पग॒ल्भो जा॑यते॒ \
एका॑म् ए॒व य॑जेत प्रग॒ल्भो॑ऽस्य जायते \
अनादृत्य॒ तद् द्वे ए॒व य॑जेत
यज्ञमु॒खम् ए॒व पूर्व॑या॒लभ॑ते॒ यज॑त॒ उत्त॑रया दे॒वता॑ ए॒व पूर्व॑यावरु॒न्द्ध इ॑न्द्रि॒यम् उत्त॑रया देवलो॒कम् ए॒व ॥
पूर्व॑याभि॒जय॑ति मनुष्यलो॒कम् उत्त॑रया
भूय॑सो यज्ञक्र॒तून् उपै॑ति \
ए॒षा वै सु॒मना॒ नामे॑ष्टि॒र् यम् अ॒द्येजा॒नम् प॒श्चाच् च॒न्द्रमा॑ अ॒भ्य् उ॑देत्य् अ॒स्मिन्न् ए॒वास्मै॑ लो॒केऽर्धु॑कम् भवति
दाक्षायणय॒ज्ञेन॑ सुव॒र्गका॑मो यजेत
पू॒र्णमा॑से॒ सं न॑येन् मैत्रावरु॒ण्यामिक्ष॑यामावा॒स्या॑यां यजेत
पू॒र्णमा॑से॒ वै दे॒वानाँ॑ सु॒तस् तेषा॑म् ए॒तम् अ॑र्धमा॒सम् प्रसु॑तस्
तेश्षाम् मैत्रावरु॒णी व॒शामा॑वा॒स्या॑याम् अनूब॒न्ध्या॑ यत् ॥
पू॒र्वे॒द्युर् यज॑ते॒ वेदि॑म् ए॒व तत् क॑रोति॒
यद् व॒त्सान् अ॑पाक॒रोति॑ सदोहविर्धा॒ने ए॒व सम् मि॑नोति॒
यद् यज॑ते दे॒वैर् ए॒व सु॒त्याँ सम् पा॑दयति॒ स ए॒तम् अ॑र्धमा॒सँ स॑ध॒मादं॑ दे॒वैः सोम॑म् पिबति॒
यन् मै॑त्रावरु॒ण्यामि॑क्षयामावा॒स्या॑यां॒ यज॑ते॒ यैवासौ दे॒वानां॑ व॒शानू॑ब॒न्ध्या॑ सो ए॒वैषैतस्य॑
सा॒क्षाद् वा ए॒ष दे॒वान् अ॒भ्यारो॑हति॒ य ए॑षां य॒ज्ञम् ॥
अ॒भ्या॒रोह॑ति॒ यथा॒ खलु॒ वै श्रेया॑न् अ॒भ्यारू॑ढः का॒मय॑ते॒ तथा॑ करोति॒
यद्य् अ॑व॒विध्य॑ति॒ पापी॑यान् भवति॒ यदि॒ नाव॒विध्य॑ति स॒दृङ् व्या॒वृत्का॑म ए॒तेन॑ य॒ज्ञेन॑ यजेत क्षु॒रप॑वि॒र् ह्य् ए॑ष य॒ज्ञस् ता॒जक् पुण्यो॑ वा॒ भव॑ति॒ प्र वा॑ मीयते॒
तस्यै॒तद् व्र॒तम् \
नानृ॑तं वदे॒न् न माँ॒सम् अ॑श्नीया॒न् न स्त्रिय॒म् उपे॑या॒न् नास्य॒ पल्पू॑लनेन॒ वासः॑ पल्पूलयेयुर् ए॒तद् धि दे॒वाः सर्वं॒ न कु॒र्वन्ति॑ ॥
ए॒ष वै दे॑वर॒थो यद् द॑र्शपूर्णमा॒सौ
यो द॑र्शपूर्णमा॒साव् इ॒ष्ट्वा सोमे॑न॒ यज॑ते॒ रथ॑स्पष्ट ए॒वाव॒साने॒ वरे॑ दे॒वाना॒म् अव॑ स्यति \
ए॒तानि॒ वा अङ्गा॒परूँ॑षि संवत्स॒रस्य॒ यद् द॑र्शपूर्णमा॒सौ
य ए॒वं वि॒द्वान् द॑र्शपूर्णमा॒सौ यज॒तेऽङ्गा॒परूँ॑ष्य् ए॒व सं॑वत्स॒रस्य॒ प्रति॑ दधाति \
ए॒ते वै सं॑वत्स॒रस्य॒ चक्षु॑षी॒ यद् द॑र्शपूर्णमा॒सौ
य ए॒वं वि॒द्वान् द॑र्शपूर्णमा॒सौ यज॑ते॒ ताभ्या॑म् ए॒व सु॑व॒र्गं लो॒कम् अनु॑ पश्यति ॥
ए॒षा वै दे॒वानां॒ विक्रा॑न्ति॒र् यद् द॑र्शपूर्णमा॒सौ
य ए॒वं वि॒द्वान् द॑र्शपूर्णमा॒सौ यज॑ते दे॒वाना॑म् ए॒व विक्रा॑न्ति॒म् अनु॒ वि क्र॑मते \
ए॒ष वै दे॑व॒यानः॒ पन्था॒ यद् द॑र्शपूर्णमा॒सौ
य ए॒वं वि॒द्वान् द॑र्शपूर्णमा॒सौ यज॑ते॒ य ए॒व दे॑व॒यानः॒ पन्था॒स् तँ स॒मारो॑हति \
ए॒तौ वै दे॒वानाँ॒ हरी॒ यद् द॑र्शपूर्णमा॒सौ
य ए॒वं वि॒द्वान् द॑र्शपूर्णमा॒सौ यज॑ते॒ याव् ए॒व दे॒वानाँ॒ हरी॒ ताभ्या॑म् ॥
ए॒वैभ्यो॑ ह॒व्यं व॑हति \
ए॒तद् वै दे॒वाना॑म् आ॒स्यं॑ यद् द॑र्शपूर्णमा॒सौ
य ए॒वं वि॒द्वान् द॑र्शपूर्णमा॒सौ यज॑ते सा॒क्षाद् ए॒व दे॒वाना॑म् आ॒स्ये॑ जुहोति \
ए॒ष वै ह॑विर्धा॒नी यो द॑र्शपूर्णमासया॒जी
सा॒यम्प्रा॑तर् अग्निहो॒त्रं जु॑होति॒ यज॑ते दर्शपूर्णमा॒साव् अह॑रहर् हविर्धा॒निनाँ॑ सु॒तस् \
य ए॒वं वि॒द्वान् द॑र्शपूर्णमा॒सौ यज॑ते हविर्धा॒न्य् अ॑स्मीति॒ सर्व॑म् ए॒वास्य॑ बर्हि॒ष्यं॑ द॒त्तम् भ॑वति
दे॒वा वा अहः॑ ॥
य॒ज्ञियं॒ नावि॑न्द॒न् ते द॑र्शपूर्णमा॒साव् अ॑पुन॒न्
तौ वा ए॒तौ पू॒तौ मेध्यौ॒ यद् द॑र्शपूर्णमा॒सौ
य ए॒वं वि॒द्वान् द॑र्शपूर्णमा॒सौ यज॑ते पू॒ताव् ए॒वैनौ॒ मेध्यौ॑ यजते
नामा॑वा॒स्या॑यां च पौर्णमा॒स्यां च॒ स्त्रिय॒म् उपे॑यात् \
यद् उ॑पे॒यान् निरि॑न्द्रियः स्या॒त्
सोम॑स्य॒ वै राज्ञो॑ऽर्ध॒मास॑स्य॒ रात्र॑यः॒ पत्न॑य आसन्
तासा॑म् अमावा॒स्यां॑ च पौर्णमा॒सीं च॒ नोपै॑त् ॥
ते ए॑नम् अ॒भि सम् अ॑नह्येताम् \
तं यक्ष्म॑ आर्छत् \
राजा॑नं॒ यक्ष्म॑ आर॒द् इति॒ तद् रा॑जय॒क्ष्मस्य॒ जन्म॒
यत् पापी॑या॒न् अभ॑व॒त् तत् पा॑पय॒क्ष्मस्य॒
यज् जा॒याभ्या॒म् अवि॑न्द॒त् तज् जा॒येन्य॑स्य॒
य ए॒वम् ए॒तेषां॒ यक्ष्मा॑णां॒ जन्म॒ वेद॒ नैन॑म् ए॒ते यक्ष्मा॑ विन्दन्ति॒
स ए॒ते ए॒व न॑म॒स्यन्न् उपा॑धाव॒त्
ते अ॑ब्रूताम् \
वरं॑ वृणावहा आ॒वं दे॒वाना॑म् भाग॒धे अ॑साव ॥
आ॒वद् अधि॑ दे॒वा इ॑ज्यान्ता॒ इति॒
तस्मा॑त् स॒दृशी॑नाँ॒ रात्री॑णाम् अमावा॒स्या॑यां च पौर्णमा॒स्यां च॑ दे॒वा इ॑ज्यन्ते \
ए॒ते हि दे॒वाना॑म् भाग॒धे
भा॑ग॒धा अ॑स्मै मनु॒ष्या॑ भवन्ति॒ य ए॒वं वेद॑
भू॒तानि॒ क्षुध॑म् अघ्नन्त् स॒द्यो म॑नु॒ष्या॑ अर्धमा॒से दे॒वा मा॒सि पि॒तरः॑ संवत्स॒रे वन॒स्पत॑य॒स्
तस्मा॒द् अह॑रहर् मनु॒ष्या॑ अश॑नम् इछन्तेऽर्धमा॒से दे॒वा इ॑ज्यन्ते मा॒सि पि॒तृभ्यः॑ क्रियते संवत्स॒रे वन॒स्पत॑यः॒ फलं॑ गृह्णन्ति॒
य ए॒वं वेद॒ हन्ति॒ क्षुध॒म् भ्रातृ॑व्यम् ॥
दे॒वा वै नर्चि न यजु॑ष्य् अश्रयन्त॒
ते साम॑न्न् ए॒वाश्र॑यन्त॒
हिं क॑रोति॒ सामै॒वाक॒र्
हिं क॑रोति॒ यत्रै॒व दे॒वा अश्र॑यन्त॒ तत॑ ए॒वैना॒न् प्र यु॑ङ्क्ते॒
हिं क॑रोति वा॒च ए॒वैष योग॑स् \
हिं क॑रोति प्र॒जा ए॒व तद् यज॑मानः सृजते॒
त्रिः प्र॑थ॒माम् अन्व् आ॑ह॒ त्रिर् उ॑त्त॒माम् \
य॒ज्ञस्यै॒व तद् ब॒र्सम् ॥
न॒ह्य॒त्य् अप्र॑स्रँसाय॒
संत॑त॒म् अन्व् आ॑ह प्रा॒णाना॑म् अ॒न्नाद्य॑स्य॒ संत॑त्यै॒ \
अथो॒ रक्ष॑सा॒म् अप॑हत्यै
राथं॑तरीम् प्रथ॒माम् अन्व् आ॑ह
राथं॑तरो॒ वा अ॒यं लो॒कस् \
इ॒मम् ए॒व लो॒कम् अ॒भि ज॑यति॒
त्रिर् वि गृ॑ह्णाति॒
त्रय॑ इ॒मे लो॒कास् \
इ॒मान् ए॒व लो॒कान् अ॒भि ज॑यति
बार्ह॑तीम् उत्त॒माम् अन्व् आ॑ह
बार्ह॑तो॒ वा अ॒सौ लो॒कस् \
अ॒मुम् ए॒व लो॒कम् अ॒भि ज॑यति॒
प्र वः॑ ॥
वाजा॒ इत्य् अनि॑रुक्ताम् प्राजाप॒त्याम् अन्व् आ॑ह
य॒ज्ञो वै प्र॒जाप॑तिस् \
य॒ज्ञम् ए॒व प्र॒जाप॑ति॒म् आ र॑भते॒
प्र वो॒ वाजा॒ इत्य् अन्व् आ॑ह॒ \
अन्नं॒ वै वाज॑स् \
अन्न॑म् ए॒वाव॑ रुन्द्धे॒
प्र वो॒ वाजा॒ इत्य् आ॑न्व् आह॒
तस्मा॑त् प्रा॒चीनँ॒ रेतो॑ धीयते॒ \
अग्न॒ आ या॑हि वी॒तय॒ इत्य् आ॑ह॒
तस्मा॑त् प्र॒तीचीः॑ प्र॒जा जा॑यन्ते॒
प्र वो॒ वाजाः॑ ॥
इत्य् अन्व् आ॑ह
मासा॒ वै वाजा॑ अर्धमा॒सा अ॒भिद्य॑वो दे॒वा ह॒विष्म॑न्तो॒ गौर् घृ॒ताची॑ य॒ज्ञो दे॒वाञ् जि॑गाति॒ यज॑मानः सुम्न॒युस् \
इ॒दम् अ॑सी॒दम् अ॒सीत्य् ए॒व य॒ज्ञस्य॑ प्रि॒यं धामाव॑ रुन्द्धे॒
यं का॒मये॑त॒
सर्व॒म् आयु॑र् इया॒द् इति॒ प्र वो॒ वाजा॒ इति॒ तस्या॒नूच्याग्न॒ आ या॑हि वी॒तय॒ इति॒ सं त॑त॒म् उत्त॑रम् अर्ध॒र्चम् आ ल॑भेत ॥
प्रा॒णेनै॒वास्या॑पा॒नं द॑धार॒ सर्व॒म् आयु॑र् एति॒
यो वा अ॑र॒त्निँ सा॑मिधे॒नीनां॒ वेदा॑र॒त्नाव् ए॒व भ्रातृ॑व्यं कुरुते \
अर्ध॒र्चौ सं द॑धाति \
ए॒ष वा अ॑र॒त्निः सा॑मिधे॒नीना॑म् \
य ए॒वं वेदा॑र॒त्नाव् ए॒व भ्रातृ॑व्यं कुरुते \
ऋषे॑रृषे॒र् वा ए॒ता निर्मि॑ता॒ यत् सा॑मिधे॒न्य॑स्
ता यद् असं॑युक्ताः॒ स्युः प्र॒जया॑ प॒शुभि॒र् यज॑मानस्य॒ वि ति॑ष्ठेरन् \
अ॒र्ध॒र्चौ संद॑धाति॒
सं यु॑नक्त्य् ए॒वैना॑स्
ता अ॑स्मै॒ संयु॑क्ता अ॒वरु॑द्धाः॒ सर्वा॑म् आ॒शिषं॑ दुह्रे ॥
अय॑ज्ञो॒ वा ए॒ष यो॑ऽसा॒मा \
अग्न॒ आ या॑हि वी॒तय॒ इत्य् आ॑ह राथंत॒रस्यै॒ष वर्ण॒स्
तं त्वा॑ स॒मिद्भि॑र् अङ्गिर॒ इत्य् आ॑ह वामदे॒व्यस्यै॒ष वर्ण॑स् \
बृ॒हद् अ॑ग्ने सु॒वीर्य॒म् इत्य् आ॑ह बृह॒त ए॒ष वर्ण॑स् \
यद् ए॒तं तृ॒चम् अ॒न्वाह॑ य॒ज्ञम् ए॒व तत् साम॑न्वन्तं करोति \
अ॒ग्निर् अ॑मुष्मिँ लो॒क आसी॑द् आदि॒त्यो॑ऽस्मिन्
ताव् इ॒मौ लो॒काव् अशा॑न्तौ ॥
आ॒स्ता॒म् \
ते दे॒वा अ॑ब्रुवन् \
एते॒मौ वि पर्य् ऊ॑हा॒मेति॒ \
अग्न॒ आ या॑हि वी॒तय॒ इत्य् अ॑स्मिँ लो॒के॑ऽग्निम् अ॑दधुर् बृ॒हद् अ॑ग्ने सु॒वीर्य॒म् इत्य् अ॒मुष्मिँ॑ लो॒क आ॑दि॒त्यम् \
ततो॒ वा इ॒मौ लो॒काव् अ॑शाम्यताम् \
यद् ए॒वम् अ॒न्वाहा॒नयो॑र् लो॒कयोः॒ शान्त्यै॑
शाम्य॑तोऽस्मा इ॒मौ लो॒कौ य ए॒वं वेद॒
पञ्च॑दश सामिधे॒नीर् अन्व् आ॑ह॒
पञ्च॑दश ॥
वा अ॑र्धमा॒सस्य॒ रात्र॑यस् \
अ॒र्ध॒मा॒स॒शः सं॑वत्स॒र आ॑प्यते
तासां॒ त्रीणि॑ च श॒तानि॑ ष॒ष्टिश् चा॒क्षरा॑णि
ताव॑तीः संवत्स॒रस्य॒ रात्र॑यस् \
अ॒क्ष॒र॒श ए॒व सं॑वत्स॒रम् आ॑प्नोति
नृ॒मेध॑श् च॒ परु॑छेपश् च ब्रह्म॒वाद्य॑म् अवदेताम्
अ॒स्मिन् दारा॑व् आ॒र्द्रे॑ऽग्निं ज॑नयाव॒ यत॑रो नौ॒ ब्रह्मी॑या॒न् इति॑
नृ॒मेधो॒ऽभ्य् अ॑वद॒त् स धू॒मम् अ॑जनय॒त्
परु॑छेपो॒ऽभ्य् अ॑वद॒त् सो॑ऽग्निम् अ॑जनयत् \
ऋष॒ इत्य् अ॑ब्रवीत् ॥
यत् स॒माव॑द् वि॒द्व क॒था त्वम् अ॒ग्निम् अजी॑जनो॒ नाहम् इति॑
सामिधे॒नीना॑म् ए॒वाहं वर्णं॑ वे॒देत्य् अ॑ब्रवीत् \
यद् घृ॒तव॑त् प॒दम् अ॑नू॒च्यते॒ स आ॑सां॒ वर्ण॒स्
तं त्वा॑ स॒मिद्भि॑र् अङ्गिर॒ इत्य् आ॑ह सामिधे॒नीष्व् ए॒व तज् ज्योति॑र् जनयति
स्त्रिय॒स् तेन॒ यद् ऋच॒ स्त्रिय॒स् तेन॒ यद् गा॑य॒त्रिय॒ स्त्रिय॒स् तेन॒ यत् सा॑मिधे॒न्य॑स् \
वृष॑ण्वती॒म् अन्व् आ॑ह ॥
तेन॒ पुँस्व॑ती॒स् तेन॒ सेन्द्रा॒स् तेन॑ मिथु॒नास् \
अ॒ग्निर् दे॒वानां॑ दू॒त आसी॑द् उ॒शना॑ का॒व्योऽसु॑राणाम् \
तौ प्र॒जाप॑तिम् प्र॒श्नम् ऐ॑ता॒म्
स प्र॒जाप॑तिर् अ॒ग्निं दू॒तं वृ॑णीमह॒ इत्य् अ॒भि प॑र्यावर्तत॒
ततो॑ दे॒वा अभ॑वन् प॒रासु॑रास् \
यस्यै॒वं वि॒दुषो॒ऽग्निं दू॒तं वृ॑णीमह॒ इत्य् अ॒न्वाह॒ भव॑त्य् आ॒त्मना॒ परा॑स्य॒ भ्रातृ॑व्यो भवति \
अध्व॒रव॑ती॒म् अन्व् आ॑ह
भ्रातृ॑व्यम् ए॒वैतया॑ ॥
ध्व॒र॒ति॒
शो॒चिष्के॑श॒स् तम् ई॑मह॒ इत्य् आ॑ह
प॒वित्र॑म् ए॒वैतत् \
यज॑मानम् ए॒वैतया॑ पवयति॒
समि॑द्धो अग्न आहु॒तेत्य् आ॑ह
परि॒धिम् ए॒वैतम् परि॑ दधा॒त्य् अस्क॑न्दाय॒
यद् अत॑ ऊ॒र्ध्वम् अ॑भ्याद॒ध्याद् यथा॑ बहिःपरि॒धि स्कन्द॑ति ता॒दृग् ए॒व तत्
त्रयो॒ वा अ॒ग्नयो॑ हव्य॒वाह॑नो दे॒वानां॑ कव्य॒वाह॑नः पितृ॒णाँ स॒हर॑क्षा॒ असु॑राणाम् \
त ए॒तर्ह्य् आ शँ॑सन्ते
मां व॑रिष्यते॒ माम् ॥
इति॑
वृणी॒ध्वँ ह॑व्य॒वाह॑न॒म् इत्य् आ॑ह॒
य ए॒व दे॒वानां॒ तं वृ॑णीते \
आर्षे॒यं वृ॑णीते॒
बन्धो॑र् ए॒व नैति॒ \
अथो॒ संत॑त्यै
प॒रस्ता॑द् अ॒र्वाचो॑ वृणीते॒
तस्मा॑त् प॒रस्ता॑द् अ॒र्वाञ्चो॑ मनु॒ष्या॑न् पित॒रोऽनु॒ प्र पि॑पते ॥
अग्ने॑ म॒हाँ अ॒सीत्य् आ॑ह म॒हान् ह्य् ए॑ष यद् अ॒ग्निस् \
ब्रा॒ह्म॒णेत्य् आ॑ह ब्राह्म॒णो ह्य् { ए॑ष ^ ए॑षस् }
भा॒र॒तेत्य् आ॑है॒ष हि दे॒वेभ्यो॑ ह॒व्यम् भर॑ति
दे॒वेद्ध॒ इत्य् आ॑ह दे॒वा ह्य् ए॑तम् ऐन्ध॑त॒
मन्वि॑द्ध॒ इत्य् आ॑ह॒ मनु॒र् ह्य् ए॑तम् उत्त॑रो दे॒वेभ्य॒ ऐन्द्ध॑ \
ऋषि॑ष्टुत॒ इत्य् आ॒हर्ष॑यो॒ ह्य् ए॑तम् अस्तु॑व॒न्
विप्रा॑नुमदित॒ इत्य् आ॑ह ॥
विप्रा॒ ह्य् ए॑ते यच् छु॑श्रु॒वाँसः॑
कविश॒स्त इत्य् आ॑ह क॒वयो॒ ह्य् ए॑ते यच् छ्श्रु॒वाँस॑स् \
ब्रह्म॑सँशित॒ इत्य् आ॑ह॒ ब्रह्म॑सँशितो॒ ह्य् { ए॑ष ^ ए॑षस् }
घृ॒ताह॑वन॒ इत्य् आ॑ह घृताहु॒तिर् ह्य् अ॑स्य प्रि॒यत॑मा
प्र॒णीर् य॒ज्ञाना॒म् इत्य् आ॑ह प्र॒णीर् ह्य् ए॑ष य॒ज्ञाना॑म् \
र॒थीर् अ॑ध्व॒राणा॒म् इत्य् आ॑है॒ष हि दे॑वर॒थस् \
अ॒तूर्तो॒ होतेत्य् आ॑ह॒ न ह्य् ए॑तं कश् च॒न ॥
तर॑ति
तूर्णि॑र् हव्य॒वाड् इत्य् आ॑ह॒
सर्वँ॒ ह्य् ए॑ष तर॑ति \
आस्पात्रं॑ जु॒हूर् दे॒वाना॒म् इत्य् आ॑ह जु॒हूर् ह्य् ए॑ष दे॒वाना॑म् \
च॒म॒सो दे॑व॒पान॒ इत्य् आ॑ह चम॒सो ह्य् ए॑ष दे॑व॒पान॑स् \
अ॒राँ इ॑वाग्ने ने॒मिर् दे॒वाँस् त्वम् प॑रि॒धूर् अ॒सीत्य् आ॑ह दे॒वान् ह्य् ए॑ष प॑रि॒भूस् \
यद् ब्रू॒यात् \
आ व॑ह दे॒वान् दे॑वय॒ते यज॑माना॒येति॒ भ्रातृ॑व्यम् अस्मै ॥
ज॒न॒ये॒त् \
आ व॑ह दे॒वान् यज॑माना॒येत्य् आ॑ह॒ यज॑मानम् ए॒वैतेन॑ वर्धयति \
अ॒ग्निम् अ॑ग्न॒ आ व॑ह॒ सोम॒म् आ व॒हेत्य् आ॑ह दे॒वता॑ ए॒व तद् य॑थापू॒र्वम् उप॑ ह्वयते \
आ चा॑ग्ने दे॒वान् व॑ह सु॒यजा॑ च यज जातवेद॒ इत्य् आ॑ह \
अ॒ग्निम् ए॒व तत् सँ श्य॑ति॒
सो॑ऽस्य॒ सँशि॑तो दे॒वेभ्यो॑ ह॒व्यं व॑हति \
अ॒ग्निर् होता॑ ॥
इत्य् आ॑ह \
अ॒ग्निर् वै दे॒वानाँ॒ होता॒
य ए॒व दे॒वानाँ॒ होता॒ तं वृ॑णीते॒
स्मो व॒यम् इत्य् आ॑हा॒त्मान॑म् ए॒व स॒त्त्वं ग॑मयति
सा॒धु ते॑ यजमान दे॒वतेत्य् आ॑हा॒शिष॑म् ए॒वैताम् आ शा॑स्ते॒
यद् ब्रू॒यात् \
यो॑ऽग्निँ होता॑र॒म् अवृ॑था॒ इत्य् अ॒ग्निनो॑ऽभ॒यतो॒ यज॑मान॒म् परि॑ गृह्णीयात्
प्र॒मायु॑कः स्यात् \
य॒ज॒मा॒न॒दे॒व॒त्या॑ वै जु॒हूर् भ्रा॑तृव्यदेव॒त्यो॑ऽप॒भृत् ॥
यद् द्वे इ॑व ब्रू॒याद् भ्रातृ॑व्यम् अस्मै जनयेत् \
घृ॒तव॑तीम् अध्वर्यो॒ स्रुच॒म् आस्य॒स्वेत्य् आ॑ह॒ यज॑मानम् ए॒वैतेन॑ वर्धयति
देवा॒युव॒म् इत्य् आ॑ह दे॒वान् ह्य् ए॑षाव॑ति
वि॒श्ववा॑रा॒म् इत्य् आ॑ह॒ विश्वँ॒ ह्य् ए॑षाव॑ति \
ईडा॑महै दे॒वाँ ई॒डेन्या॑न् नम॒स्याम॒ वा ई॒डेन्याः॑ पि॒तरो॑ नम॒स्या॑ दे॒वा य॒ज्ञिया॑स् \
दे॒वता॑ ए॒व तद् य॑थाभा॒गं य॑जति ॥
{F त्रीँस्} {W त्रीँ॒स्} {ग्लोस् त्रीँस्} तृ॒चान् अनु॑ ब्रूयाद् राज॒न्य॑स्य॒
त्रयो॒ वा अ॒न्ये रा॑ज॒न्या॑त् पुरु॑षा ब्राह्म॒णो वैश्यः॑ शू॒द्रस् तान् ए॒वास्मा॒ अनु॑कान् करोति॒
पञ्च॑द॒शानु॑ ब्रूयाद् राज॒न्य॑स्य
पञ्चद॒शो वै रा॑ज॒न्यः॑
स्व ए॒वैनँ॒ स्तोमे॒ प्रति॑ ष्ठापयति
तृ॒ष्टुभा॒ परि॑ दध्यात् \
इ॒न्द्रि॒यं वै { त्रि॒ष्टुग् ^ त्रि॒ष्टुभ् }
इ॒न्द्रि॒यका॑मः॒ खलु॒ वै रा॑ज॒न्यो॑ यजते
त्रिष्टुभै॒वास्मा॑ इन्द्रि॒यम् परि॑ गृह्णाति॒
यदि॑ का॒मये॑त ॥
ब्र॒ह्म॒व॒र्च॒सम् अ॒स्त्व् इति॑ गायत्रि॒या परि॑ दध्यात् \
ब्र॒ह्म॒व॒र्च॒सं वै गा॑य॒त्री
ब्र॑ह्मवर्च॒सम् ए॒व भ॑वति
स॒प्तद॒शानु॑ ब्रूया॒द् वैश्य॑स्य
सप्तद॒शो वै वैश्यः॑
स्व ए॒वैनँ॒ स्तोमे॒ प्रति॑ ष्ठापयति॒
जग॑त्या॒ परि॑ दध्यात् \
जाग॑ता॒ वै प॒शवः॑
प॒शुका॑मः॒ खलु॒ वै वैश्यो॑ यजते॒
जग॑त्यै॒वास्मै॑ प॒शून् परि॑ गृह्णाति॒ \
एक॑विँशति॒म् अनु॑ ब्रूयात् प्रति॒ष्ठाका॑मस्य \
एकविँ॒श स्तोमा॑नाम् प्रति॒ष्ठा
प्रति॑ष्ठित्यै ॥
चतु॑र्विँशति॒म् अनु॑ ब्रूयाद् ब्रह्मवर्च॒सका॑मस्य॒
चतु॑र्विँशत्यक्षरा गाय॒त्री
गा॑य॒त्री ब्र॑ह्मवर्च॒सम् \
गा॒य॒त्रि॒यैवास्मै॑ ब्रह्मवर्च॒सम् अव॑ रुन्द्धे
त्रिँ॒शत॒म् अनु॑ ब्रूया॒द् अन्न॑कामस्य
त्रिँ॒शद॑क्षरा { विराड् ^ वि॒राज् }
अन्नं॑ { विराड् ^ वि॒राज् }
वि॒राजै॒वास्मा॑ अ॒न्नाद्य॒म् अव॑ रुन्द्धे
द्वात्रिँ॑शत॒म् अनु॑ब्रूयात् प्रति॒ष्ठाका॑मस्य
{ द्वात्रिँ॑शदक्षरानुष्टुग् ^ द्वात्रिँ॑शदक्षरानुष्टुभ् }
अ॒नु॒ष्टुप् छन्द॑साम् प्रति॒ष्ठा
प्रति॑ष्ठित्यै॒
षट्त्रिँ॑शत॒म् अनु॑ ब्रूयात् प॒शुका॑मस्य॒
षट्त्रिँ॑शदक्षरा बृह॒ती
बार्ह॑ताः प॒शव॑स् \
बृ॒ह॒त्यैवास्मै॑ प॒शून् ॥
अव॑ रुन्द्धे॒
चतु॑श्चत्वारिँशत॒म् अनु॑ ब्रूयाद् इन्द्रि॒यका॑मस्य॒
चतु॑श्चत्वारिँशदक्षरा { त्रि॒ष्टुग् ^ त्रि॒ष्टुभ् }
इ॒न्द्रि॒यं { त्रि॒ष्टुप् ^ त्रि॒ष्टुभ् }
त्रि॒ष्टुभै॒वास्मा॑ इन्द्रि॒यम् अव॑ रुन्द्धे \
अ॒ष्टाच॑त्वारिँशत॒म् अनु॑ ब्रूयात् प॒शुका॑मस्य \
अ॒ष्टाच॒त्वरिँ॑शदक्षरा॒ जग॑ती
जाग॑ताः प॒शव॑स् \
जग॑त्यै॒वास्मै॑ प॒शून् अव॑ रुन्द्धे॒
सर्वा॑णि॒ छन्दाँ॒स्य् अनु॑ ब्रूयाद् बहुया॒जिनः॒
सर्वा॑णि॒ वा ए॒तस्य॒ छन्दाँ॒स्य् अव॑रुन्द्धानि॒ यो ब॑हुयाजी॒ \
अप॑रिमित॒म् अनु॑ ब्रूयात् \
अप॑रिमित॒स्याव॑रुद्ध्यै ॥
निवी॑तम् मनु॒ष्या॑णाम्
प्रा॒ची॒ना॒वी॒तम् पि॑तृ॒णाम्
उप॑वीतं दे॒वाना॒म्
उप॑ व्ययते
देवल॒क्ष्मम् ए॒व तत् कु॑रुते॒
तिष्ठ॒न्न् अन्व् आ॑ह॒
तिष्ठ॒न् ह्य् आश्रु॑ततरं॒ वद॑ति॒
तिष्ठ॒न्न् अन्व् आ॑ह
सुव॒र्गस्य॑ लो॒कस्या॒भिजि॑त्यै \
आसी॑नो यजति \
अ॒स्मिन्न् ए॒व लो॒के प्रति॑ तिष्ठति॒
यत् क्रौ॒ञ्चम् अ॒न्वाहा॑सु॒रं तत् \
यन् म॒न्द्रम् मा॑नु॒षं तत् \
यद् अ॑न्त॒रा तत् सदे॑वम्
अन्त॒रानूच्य॑म् \
स॒दे॒व॒त्वाय॑
वि॒द्वाँसो॒ वै ॥
पु॒रा होता॑रोऽभूव॒न्
तस्मा॒द् विधृ॑ता॒ अध्वा॑नोऽभूव॒न् न पन्था॑नः॒ सम् अ॑रुक्षन् \
अ॒न्त॒र्वे॒द्य् अ॑न्यः पादो॒ भव॑ति बहिर्वे॒द्य् अ॑न्यस् \
अथान्व् आ॑ह॒ \
अध्व॑नां॒ विधृ॑त्यै प॒थाम् असँ॑रोहाय॒ \
अथो॑ भू॒तं चै॒व भ॑वि॒ष्यच् चाव॑ रुन्द्धे॒ \
अथो॒ परि॑मितं चै॒वाप॑रिमितं॒ चाव॑ रुन्द्धे॒ \
अथो॑ ग्रा॒म्याँश् चै॒व प॒शून् आ॑र॒ण्याँश् चाव॑ रुन्द्धे॒ \
अथो॑ ॥
दे॒व॒लो॒कं चै॒व म॑नुष्यलो॒कं चा॒भि ज॑यति
दे॒वा वै सा॑मिधे॒नीर् अ॒नूच्य॑ य॒ज्ञं नान्व् अ॑पश्यन् \
स प्र॒जाप॑तिस् तू॒ष्णीम् आ॑घा॒रम् आघा॑रय॒त्
ततो॒ वै दे॒वा य॒ज्ञम् अन्व् अ॑पश्य॒न्
यत् तू॒ष्णीम् आ॑घा॒रम् आ॑घा॒रय॑ति य॒ज्ञस्यानु॑ख्यात्यै॒ \
अथो॑ सामिधे॒नीर् ए॒वाभ्य् अ॑नक्ति॒ \
अलू॑क्षो भवति॒ य ए॒वं वेद॒ \
अथो॑ तर्पयत्य् ए॒वैना॑स्
{F तृप्य॑ति} {W तृप्य॒ति} {ग्लोस् तृप्य॑ति} प्र॒जया॑ प॒शुभिः॑ ॥
य ए॒वं वेद॒
यद् एक॑याघा॒रये॒द् एका॑म् प्रीणीयात् \
यद् द्वाभ्यां॒ द्वे प्री॑णीयात् \
यत् ति॒सृभि॒र् अति॒ तद् रे॑चयेत् \
मन॒सा घा॑रयति॒ मन॑सा॒ ह्य् अना॑प्तम् आ॒प्यते॑
ति॒र्यञ्च॒म् आ घा॑रय॒त्य् अछ॑म्बट्कारम् \
वाक् च॒ मन॑श् चार्तीयेताम्
अ॒हं दे॒वेभ्यो॑ ह॒व्यं व॑हा॒मीति॒ वाग् अ॑ब्रवीद् अ॒हं दे॒वेभ्य॒ इति॒ मन॒स्
तौ प्र॒जाप॑तिम् प्र॒श्नम् ऐ॑ताम् \
सो॑ऽब्रवीत् ॥
प्र॒जाप॑तिस् \
दू॒तीर् ए॒व त्वम् मन॑सोऽसि॒ यद् धि मन॑सा॒ ध्याय॑ति॒ तद् वा॒चा वद॒तीति॒
तत् खलु॒ तुभ्यं॒ न वा॒चा जु॑हव॒न्न् इत्य् अ॑ब्रवी॒त्
तस्मा॒न् मन॑सा प्र॒जाप॑तये जुह्वति॒
मन॑ इव॒ हि प्र॒जाप॑तिः
प्र॒जाप॑ते॒र् आप्त्यै॑
परि॒धीन्त् सम् मा॑र्ष्टि
पु॒नात्य् ए॒वैना॑न्
त्रिर् म॑ध्य॒मं त्रयो॒ वै प्रा॒णाः ॥
इ॒मे लो॒का इ॒मान् ए॒व लो॒कान् अ॒भि ज॑यति॒
त्रिर् उ॑त्तरा॒र्ध्यं॑ त्रयो॒ वै दे॑व॒यानाः॒ पन्था॑न॒स् तान् ए॒वाभि ज॑यति॒
त्रिर् उप॑ वाजयति॒ त्रयो॒ वै दे॑वलो॒का दे॑वलो॒कान् ए॒वाभि ज॑यति
द्वाद॑श॒ सम् प॑द्यन्ते॒ द्वाद॑श॒ मासाः॑ संवत्स॒रः
सं॑वत्स॒रम् ए॒व प्री॑णाति॒ \
अथो॑ संवत्स॒रम् ए॒वास्मा॒ उप॑ दधाति
सुव॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै \
आघा॒रम् आ घा॑रयति
ति॒र इ॑व ॥
वै सु॑व॒र्गो लो॒कः
सु॑व॒र्गम् ए॒वास्मै॑ लो॒कम् प्र रो॑चयति \
ऋ॒जुम् आ घा॑रयत्य् ऋ॒जुर् इ॑व॒ हि प्रा॒णः
संत॑त॒म् आ घा॑रयति प्रा॒णाना॑म् अ॒न्नाद्य॑स्य॒ संत॑त्यै॒ \
अथो॒ रक्ष॑सा॒म् अप॑हत्यै॒
यं का॒मये॑त
प्र॒मायु॑कः स्या॒द् इति॑ जि॒ह्मं तस्या घा॑रयेत्
प्रा॒णम् ए॒वास्मा॑ज् जि॒ह्मं न॑यति
ता॒जक् प्र मी॑यते॒
शिरो॒ वा ए॒तद् य॒ज्ञस्य॒ यद् आ॑घा॒र आ॒त्मा ध्रु॒वा ॥
आ॒घा॒रम् आ॒घार्य॑ ध्रु॒वाँ सम् अ॑नक्ति \
आ॒त्मन्न् ए॒व य॒ज्ञस्य॒ शिरः॒ प्रति॑ दधाति \
अ॒ग्निर् दे॒वानां॑ दू॒त आसी॒द् दैव्योऽसु॑राणाम् \
तौ प्र॒जाप॑तिम् प्र॒श्नम् ऐ॑ताम् \
स प्र॒जाप॑तिर् ब्राह्म॒णम् अ॑ब्रवीत् \
ए॒तद् वि ब्रू॒हीति॑ \
आ श्रा॑व॒येती॒दं दे॑वाः शृणु॒तेति॒ वाव तद् अ॑ब्रवीद् अ॒ग्निर् दे॒वो होतेति॒
य ए॒व दे॒वानां॒ तम् अ॑वृणीत॒
ततो॑ {F दे॒वाः} {W दे॑वाः} {ग्लोस् दे॒वाः} ॥
अभ॑व॒न् परा॑सुरास् \
यस्यै॒वं वि॒दुषः॑ प्रव॒रम् प्र॑वृ॒णते॒ भव॑त्य् आ॒त्मना॒ परा॑स्य॒ भ्रातृ॑व्यो भवति॒
यद् ब्रा॑ह्म॒णश् चाब्रा॑ह्मणश् च प्र॒श्नम् ए॒याता॑म् ब्राह्म॒णायाधि॑ ब्रूयात् \
यद् ब्रा॑ह्म॒णाया॒ध्याहा॒त्मनेऽध्य् आ॑ह॒
यद् ब्रा॑ह्म॒णम् प॒राहा॒त्मन॒म् परा॑ह॒
तस्मा॑द् ब्राह्म॒णो न प॒रोच्यः॑ ॥
आयु॑ष् टे \
आयु॒र्दा अ॑ग्ने \
आ प्या॑यस्व॒
सं ते॒ \
अव॑ ते॒ हेड॑स् \
उद् उ॑त्त॒मम्
प्र णो॑ दे॒वी \
आ नो॑ दि॒वस् \
अग्ना॑विष्णू॒
अग्ना॑विष्णू
इ॒मं मे॑ वरुण॒
तत् त्वा॑ यामि॒ \
उद् उ॒ त्यम् \
चि॒त्र॒म्
अ॒पां नपा॒द् आ ह्य् अस्था॑द् उ॒पस्थं॑ जि॒ह्माना॑म् ऊ॒र्ध्वो वि॒द्युतं॒ वसा॑नः । तस्य॒ ज्येष्ठ॑म् महि॒मानं॒ वह॑न्ती॒र् हिर॑ण्यवर्णाः॒ परि॑ यन्ति य॒ह्वीः
सम् ॥
अ॒न्या यन्त्य् उप॑ यन्त्य् अ॒न्याः स॑मा॒नम् ऊ॒र्वं न॒द्यः॑ पृणन्ति । तम् ऊ॒ शुचिँ॒ शुच॑यो दीदि॒वाँस॑म् अ॒पां नपा॑त॒म् परि॑ तस्थु॒र् आपः॑ ॥
तम् अस्मे॑रा युव॒तयो॒ युवा॑नम् मर्मृ॒ज्यमा॑नाः॒ परि॑ य॒न्त्य् आपः॑ । स शु॒क्रेण॒ शिक्व॑ना रे॒वद् अ॒ग्निर् दी॒दाया॑नि॒ध्मो घृ॒तनि॑र्णिग् अ॒प्सु ॥
इन्द्रा॒वरु॑णयोर् अ॒हँ स॒म्राजो॒र् अव॒ आ वृ॑णे । ता नो॑ मृदात ई॒दृशे॑ ॥
इन्द्रा॑वरुना यु॒वम् अ॑ध्व॒राय॑ नः ॥
वि॒शे जना॑य॒ महि॒ शर्म॑ यछतम् । दी॒र्घप्र॑यज्यु॒म् अति॒ यो व॑नु॒ष्यति॑ व॒यं ज॑येम॒ पृत॑नासु दू॒ढ्यः॑ ॥
आ नो॑ मित्रावरुणा॒
प्र बा॒हवा॒
त्वं नो॑ अग्ने॒ वरु॑णस्य वि॒द्वान् दे॒वस्य॒ हेडोऽव॑ यासिसीष्ठाः । यजि॑ष्ठो॒ वह्नि॑तमः॒ शोशु॑चानो॒ विश्वा॒ द्वेषाँ॑सि॒ प्र मु॑मुग्ध्य् अ॒स्मत्
स त्वं नो॑ अग्नेऽव॒मो भ॑वो॒ती नेदि॑ष्ठो अ॒स्या उ॒षसो॒ व्यु॑ष्टौ । अव॑ यक्ष्व नो॒ वरु॑णम् ॥
ररा॑णो वी॒हि मृ॑डी॒कँ सु॒हवो॑ न एधि॒
प्रप्रा॒यम् अ॒ग्निर् भ॑र॒तस्य॑ शृण्वे॒ वि यत् सूर्यो॒ न रोच॑ते बृ॒हद् भाः । अ॒भि यः पू॒रुम् पृत॑नासु त॒स्थौ दी॒दाय॒ दैव्यो॒ अति॑थिः शि॒वो नः॑
प्र ते॑ यक्षि॒ प्र त॑ इयर्मि॒ मन्म॒ भुवो॒ यथा॒ वन्द्यो॑ नो॒ हवे॑षु । धन्व॑न्न् इव प्र॒पा अ॑सि॒ त्वम् अ॑ग्न इय॒क्षवे॑ पू॒रवे॑ प्रत्न राजन् ॥
वि पाज॑सा॒
वि ज्योति॑षा॒
स त्वम् अ॑ग्ने॒ प्रती॑केन॒ प्रत्य् ओ॑ष यातुधा॒न्यः॑ । उ॒रु॒क्षये॑षु॒ दीद्य॒त्
तँ सु॒प्रती॑कँ सु॒दृशँ॒ स्वञ्च॒म् अवि॑द्वाँसो वि॒दुष्ट॑रँ सपेम । स य॑क्ष॒द् विश्वा॑ व॒युना॑नि वि॒द्वान् प्र ह॒व्यम् अ॒ग्निर् अ॒मृते॑षु वोचत् ॥
अँ॒हो॒मुचे॑
वि॒वेष॒ यन् मा॒
वि न॑ इन्द्र॒ \
इन्द्र॑ क्ष॒त्रम्
इ॑न्द्रि॒याणि॑ शतक्रतो॒
अनु॑ ते दायि ॥