दे॒वा अ॑म्नु॒ष्याः॑ पि॒तर॒स् ते॑ऽन्यत॑ आस॒न्न् असु॑रा॒ रक्षाँ॑सि पिशा॒चास् ते॑ऽन्यत॒स्

तेषां॑ दे॒वाना॑म् उ॒त यद् अल्पं॒ लोहि॑त॒म् अकु॑र्व॒न् तद् रक्षाँ॑सि॒ रात्री॑भिर् असुभ्नन्

तान्त् सु॒ब्धान् मृ॒तान् अ॒भि व्य् औ॑छ॒त्

ते दे॒वा अ॑विदुस् \

यो वै नो॒ऽयम् म्रि॒यते॒ रक्षाँ॑सि॒ वा इ॒मं घ्न॒न्तीति॒

ते रक्षाँ॒स्य् उपा॑मन्त्रयन्त॒ तान्य् अ॑ब्रुव॒न्

वरं॑ वृणामहै॒ यत् ॥

असु॑रा॒ञ् जया॑म॒ तन् नः॑ स॒हास॒द् इति॒

ततो॒ वै दे॒वा असु॑रान् अजय॒न्

तेऽसु॑राञ् जि॒त्वा रक्षाँ॒स्य् अपा॑नुदन्त

तानि॒ रक्षाँ॑सि॒ \

अनृ॑तम् अक॒र्तेति॑ सम॒न्तं दे॒वान् पर्य् अ॑विश॒न्

ते दे॒वा अ॒ग्नाव् अ॑नाथन्त॒

ते॑ऽग्नये॒ प्रव॑ते पुरो॒डाश॑म् अ॒ष्टाक॑पालं निर् अवपन्न् अ॒ग्नये॑ विबा॒धव॑ते॒ऽग्नये॒ प्रती॑कवते॒

यद् अ॒ग्नये॒ प्रव॑ते नि॒रव॑प॒न् यान्य् ए॒व पु॒रस्ता॒द् रक्षाँ॑सि ॥

आस॒न् तानि॒ तेन॒ प्राणु॑दन्त॒

यद् अ॒ग्नये॑ विबा॒धव॑ते॒ यान्य् ए॒वाभितो॒ रक्षाँ॒स्य् आस॒न् तानि॒ तेन॒ व्य् अ॑बाधन्त॒

यद् अ॒ग्नये॒ प्रती॑कवते॒ यान्य् ए॒व प॒श्चाद् रक्षाँ॒स्य् आस॒न् तानि॒ तेनापा॑नुदन्त॒

ततो॑ दे॒वा अभ॑व॒न् परासु॑रास् \

यो भ्रातृ॑व्यवा॒न्त् स्यात् स स्पर्ध॑मान ए॒तयेष्ट्या॑ यजेत \

अ॒ग्नये॒ प्रव॑ते पुरो॒डाश॑म् अ॒ष्टाक॑पालं॒ निर् व॑पेद् अ॒ग्नये॑ विबा॒धव॑ते ॥

अ॒ग्नये॒ प्रती॑कवते॒

यद् अ॒ग्नये॒ प्रव॑ते नि॒र्वप॑ति॒ य ए॒वास्मा॒च् छ्रेया॒न् भ्रातृ॑व्य॒स् तं तेन॒ प्र णु॑दते॒

यद् अ॒ग्नये॑ विबा॒धव॑ते॒ य ए॒वैने॑न स॒दृङ् तं तेन॒ वि बा॑धते॒

यद् अ॒ग्नये॒ प्रती॑कवते॒ य ए॒वास्मा॒त् पापी॑या॒न् तं तेनाप॑ नुदते॒

प्र श्रेयाँ॑स॒म् भ्रातृ॑व्यं नुद॒तेति॑ स॒दृशं॑ क्रामति॒ नैन॒म् पापी॑यान् आप्नोति॒ य ए॒वं वि॒द्वान् ए॒तयेष्ट्या॒ यज॑ते ॥

दे॒वा॒सु॒राः संय॑त्ता आस॒न्

ते दे॒वा अ॑ब्रुव॒न्

यो नो॑ वी॒र्या॑वत्तम॒स् तम् अनु॑ स॒मार॑भामहा॒ इति॒

त इन्द्र॑म् अब्रुवन्

त्वं {F वै} {W वै॑} {ग्लोस् वै} नो॑ वी॒र्या॑वत्तमोऽसि॒ त्वाम् अनु॑ स॒मार॑भामहा॒ इति॒

सो॑ऽब्रवीत्

ति॒स्रो म॑ इ॒मास् त॒नुवो॑ वी॒र्या॑वती॒स् ताः प्री॑णी॒ताथासु॑रान् अ॒भि भ॑विष्य॒थेति॑

ता वै ब्रू॒हीत्य् अ॑ब्रुवन्

इ॒यम् अँ॑हो॒ मुग् इ॒यं वि॑मृ॒धेयम् इ॑न्द्रि॒याव॑ती ॥

इत्य् अ॑ब्रवी॒त्

त इन्द्रा॑याँहो॒मुचे॑ पुरो॒डाश॒म् एका॑दशकपालं॒ निर् अ॑वप॒न्न् इन्द्रा॑य वैमृ॒धायेन्द्रा॑येन्द्रि॒याव॑ते॒

यद् इन्द्रा॑याँहो॒मुचे॑ नि॒रव॑प॒न्न् अँह॑स ए॒व तेना॑मुच्यन्त॒

यद् इन्द्रा॑य वैमृ॒धाय॒ मृध॑ ए॒व तेना॑पाघ्नत॒

यद् इन्द्रा॑येन्द्रि॒याव॑त इन्द्रि॒यम् ए॒व तेना॒त्मन्न् अ॑दधत॒

त्रय॑स्त्रिँशत्कपालम् पुरो॒डाशं॒ निर् अ॑वपन्

त्रय॑स्त्रिँश॒द् वै दे॒वता॒स् ता इन्द्र॑ आ॒त्मन्न् अनु॑ स॒मार॑म्भयत॒ भूत्यै॑ ॥

तां वाव दे॒वा विजि॑तिम् उत्त॒माम् असु॑रै॒र् व्य् अ॑जयन्त॒

यो भ्रातृ॑व्यवा॒न्त् स्यात् स स्पर्ध॑मान ए॒तयेष्ट्या॑ यजे॒तेन्द्रा॑याँहो॒मुचे॑ पुरो॒डाश॒म् एका॑दशकपालं॒ निर् व॑पे॒द् इन्द्रा॑य वैमृ॒धायेन्द्रा॑येन्द्रि॒याव॑ते॒ \

अँह॑सा॒ वा ए॒ष गृ॑ही॒तो यस्मा॒च् छ्रेया॒न् भ्रातृ॑व्यस् \

यद् इन्द्रा॑याँहो॒मुचे॑ नि॒र्वप॒त्य् अँह॑स ए॒व तेन॑ मुच्यते

मृ॒धा वा ए॒षो॑ऽभिष॑ण्णो॒ यस्मा॑त् समा॒नेष्व् अ॒न्यः श्रेया॑न् उ॒त ॥

अभ्रा॑तृव्यस् \

यद् इन्द्रा॑य वैमृ॒धाय॒ मृध॑ ए॒व तेनाप॑ हते॒

यद् इन्द्रा॑येन्द्रि॒याव॑त इन्द्रि॒यम् ए॒व तेना॒त्मन् ध॑त्ते॒

त्रय॑स्त्रिँशत्कपालम् पुरो॒डाशं॒ निर् व॑पति॒

रय॑स्त्रिँश॒द् वै दे॒वता॑स्

ता ए॒व यज॑मान आ॒त्मन्न् अनु॑ स॒मार॑म्भयते॒ भूत्यै॑

सा वा ए॒षा विजि॑ति॒र् नामेष्टि॑स् \

य ए॒वं वि॒द्वान् ए॒तयेष्ट्या॒ यज॑त उत्त॒माम् ए॒व विजि॑ति॒म् भ्रातृ॑व्येण॒ वि ज॑यते ॥

दे॒वा॒सु॒राः संय॑त्ता आस॒न्

तेषां॑ गाय॒त्र्य् ओजो॒ बल॑म् इन्द्रि॒यं वी॒र्य॑म् प्र॒जाम् प॒शून्त् सं॒गृह्या॒दाया॑प॒क्रम्या॑तिष्ठ॒त्

ते॑ऽमन्यन्त

यत॒रान् वा इ॒यं उ॑पाव॒र्त्स्यति॒ त इ॒दम् भ॑विष्य॒न्तीति॑

तां व्य् अ॑ह्वयन्त॒ विश्व॑कर्म॒न्न् इति॑ दे॒वा दा॒भीत्य् असु॑राः

सा नान्य॑त॒राँश् च॒नोपाव॑र्तत॒

ते दे॒वा ए॒तद् यजु॑र् अपश्यन् \

ओजो॑ऽसि शहोऽसि॒ बल॑म् असि ॥

भ्राजो॑ऽसि दे॒वानां॒ धाम॒ नामा॑सि॒ विश्व॑म् असि वि॒श्वायुः॒ सर्व॑म् असि स॒र्वायु॑र् अभि॒भूस् \

इति॒ वाव दे॒वा असु॑राणा॒म् ओजो॒ बल॑म् इन्द्रि॒यं वी॒र्य॑म् प्र॒जाम् प॒शून् अ॑वृञ्जत॒

यद् गा॑य॒त्र्य् अ॑प॒क्रम्याति॑ष्ठ॒त् तस्मा॑द् ए॒तां गा॑य॒त्रीतीष्टि॑म् आहुः

सम्वत्स॒रो वै गा॑य॒त्री

सं॑वत्स॒रो वै तद् अ॑प॒क्रम्या॑तिष्ठत् \

यद् ए॒तया॑ दे॒वा असु॑राणा॒म् ओजो॒ बल॑म् इन्द्रि॒यं वी॒र्य॑म् ॥

प्र॒जाम् प॒शून् अवृ॑ञ्जत॒ तस्मा॑द् ए॒ताँ सं॑व॒र्ग इतीष्टि॑म् आहुस् \

यो भ्रातृ॑व्यवा॒न्त् स्यात् स स्पर्ध॑मान ए॒तयेष्ट्या॑ यजेत \

अ॒ग्नये॑ संव॒र्गाय॑ पुरो॒डाश॑म् अ॒ष्टाक॑पालं॒ निर् व॑पे॒त्

तँ शृ॒तम् आस॑न्नम् ए॒तेन॒ यजु॑षा॒भि मृ॑शेत् \

ओज॑ ए॒व बल॑म् इन्द्रि॒यं वी॒र्य॑म् प्र॒जाम् प॒शून् भ्रातृ॑व्यस्य वृङ्क्ते॒

भव॑त्य् आ॒त्मना॒ परा॑स्य॒ भ्रातृ॑व्यो भवति ॥

प्रजा॑पतिः प्र॒जा अ॑सृजत

ता अ॑स्मात् सृ॒ष्टाः परा॑चीर् आयन्

ता यत्राव॑स॒न् ततो॑ ग्र॒मुद् उद् अ॑तिष्ठत्

ता बृह॒स्पति॑श् चा॒न्ववै॑ताम् \

सो॑ऽब्रवी॒द् बृह॒स्पति॑स् \

अ॒नया॑ त्वा॒ प्र ति॑ष्ठा॒न्य् अथ॑ त्वा प्र॒जा उ॒पाव॑र्त्स्य॒न्तीति॒

तम् प्राति॑ष्ठ॒त्

ततो॒ वै प्र॒जाप॑तिम् प्र॒जा उ॒पाव॑र्तन्त॒

यः प्र॒जाका॑मः॒ स्यात् तस्मा॑ ए॒तम् प्रा॑जाप॒त्यं गा॑र्मु॒तं च॒रुं निर् व॑पेत्

प्र॒जाप॑तिम् ॥

ए॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒

स ए॒वास्मै॑ प्र॒जाम् प्र ज॑नयति

प्र॒जाप॑तिः प॒शून् अ॑सृजत॒ ते॑ऽस्मात् सृ॒ष्टाः परा॑ञ्च आय॒न्

ते यत्राव॑स॒न् ततो॑ ग॒र्मुद् उद् अ॑तिष्ठत्

तान् पू॒षा चा॒न्ववै॑ताम् \

सो॑ऽब्रवीत् पू॒षा \

अ॒नया॑ मा॒ प्र ति॒ष्ठाथ॑ त्वा प॒शव॑ उ॒पाव॑र्त्स्य॒न्तीति॑

माम् प्र ति॒ष्ठेति॒ सोमो॑ऽब्रवी॒न् मम॒ वै ॥

अ॒कृ॒ष्ट॒प॒च्यम् इति॑ \

उ॒भौ वा॒म् प्र ति॑ष्ठा॒नीत्य् अ॑ब्रवी॒त्

तौ प्राति॑ष्ठ॒त्

ततो॒ वै प्र॒जाप॑तिम् प॒शव॑ उ॒पाव॑र्तन्त॒

यः प॒शुका॑मः॒ स्यात् तस्मा॑ ए॒तँ सो॑मापौ॒ष्णं गा॑र्मु॒तं च॒रुं निर् व॑पेत्

सोमापू॒षणा॑व् ए॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति

ताव् ए॒वास्मै॑ प॒शून् प्र ज॑नयतः॒

सोमो॒ वै रे॑तो॒धाः

पू॒षा प॑शू॒नाम् प्र॑जनयि॒ता

सोम॑ ए॒वास्मै॒ रेतो॒ दधा॑ति पू॒षा प॒शून् प्र ज॑नयति ॥

अग्ने॒ गोभि॑र् न॒ आ ग॒हीन्दो॑ पु॒ष्ट्या जु॑षस्व नः । इन्द्रो॑ ध॒र्ता गृ॒हेषु॑ नः ॥

स॒वि॒ता यः स॑ह॒स्रियः॒ स नो॑ गृ॒हेषु॑ रारणत् । आ पु॒षा ए॒त्व् आ वसु॑ ॥

धा॒ता द॑दातु नो र॒यिम् ईशा॑नो॒ जग॑त॒स् पतिः॑ । स नः॑ पू॒र्णेन॑ वावनत् ॥

त्वष्टा॒ यो वृ॑ष॒भो वृषा॒ स नो॑ गृ॒हेषु॑ रारणत् । स॒हस्रे॑णा॒युते॑न च ॥

येन॑ दे॒वा अ॒मृत॑म् ॥

दी॒र्घँ श्रवो॑ दि॒व्य् ऐर॑यन्त । राय॑स् पोष॒ त्वम् अ॒स्मभ्यं॒ गवां॑ कु॒ल्मिं जी॒वस॒ आ यु॑वस्व ॥

अ॒ग्निर् गृ॒हप॑तिः॒ सोमो॑ विश्व॒वनिः॑ सवि॒ता सु॑मे॒धाः स्वाहा॑ ।

अग्ने॑ गृहपते॒ यस् ते॒ घृत्यो॑ भा॒गस् तेन॒ सह॒ ओज॑ आ॒क्रम॑माणाय धेहि॒ श्रैष्ठ्या॑त् प॒थो मा यो॑षं मू॒र्धा भू॑यासँ॒ स्वाहा॑ ॥

चि॒त्रया॑ यजेत प॒शुका॑मस् \

इ॒यं वै चि॒त्रा

यद् वा अ॒स्यां विश्व॑म् भू॒तम् अधि॑ प्र॒जाय॑ते॒ तेने॒यं चि॒त्रा

य ए॒वं वि॒द्वाँश् चि॒त्रया॑ प॒शुका॑मो॒ यज॑ते॒ प्र प्र॒जया॑ प॒शुभि॑र् मिथु॒नैर् जा॑यते॒

प्रैवाग्ने॒येन॑ वापयति॒

रेतः॑ समु॒येन॑ दधाति॒

रेत॑ ए॒व हि॒तं त्वष्टा॑ रू॒पाणि॒ वि क॑रोति

सारस्व॒तौ भ॑वत ए॒तद् वै दैव्य॑म् मिथु॒नं दैव्य॑म् ए॒वास्मै॑ ॥

मि॒थु॒नम् म॑ध्य॒तो द॑धाति॒ पुष्ट्यै॑ प्र॒जन॑नाय

सिनीवा॒ल्यै च॒रुर् भ॑वति॒ वाग् वै सि॑नीवा॒ली पुष्टिः॒ खलु॒ वै वाक् पुष्टि॑म् ए॒व वाच॒म् उपै॑ति \

ऐ॒न्द्र उ॑त्त॒मो भ॑वति॒ तेनै॒व तन् मि॑थु॒नम् \

स॒प्तैतानि॑ ह॒वीँषि॑ भवन्ति

स॒प्त ग्रा॒म्याः प॒शवः॑ स॒प्तार॒ण्याः स॒प्त छन्दाँ॑सि \

उ॒भय॒स्याव॑रुद्ध्यै॒ \

अथै॒ता आहु॑तीर् जुहोति \

ए॒ते वै दे॒वाः पुष्टि॑पतय॒स्

त ए॒वास्मि॒न् पुष्टिं॑ दधति॒

पुष्य॑ति प्र॒जया॑ प॒शुभि॑स् \

त ए॒वास्मि॒न् पुष्टिं॑ दधति॒

पुष्य॑ति प्र॒जया॑ प॒शुभि॑स् \

अथो॒ यद् ए॒ता आहु॑तीर् जु॒होति॒ प्रति॑ष्ठित्यै ॥

मा॒रु॒तम् अ॑सि म॒रुता॒म् ओजो॒ऽपां धारा॑म् भिन्द्धि

र॒मय॑त मरुतः श्ये॒नम् आ॒यिन॒म् मनो॑जवसं॒ वृष॑णँ सुवृ॒क्तिम् । येन॒ शर्ध॑ उ॒ग्रम् अव॑सृष्ट॒म् एति॒ तद् अ॑श्विना॒ परि॑ धत्तँ स्व॒स्ति ॥

पु॒रो॒वा॒तो वर्ष॑ञ् जि॒न्वर् आ॒वृत् स्वाहा॑ वा॒ताव॒द् वर्ष॑न्न् उ॒ग्रर् आ॒वृत् स्वाहा॑ स्त॒नय॒न् वर्ष॑न् भी॒मर् आ॒वृत् स्वाहा॑नश॒न्य् अ॑व॒स्फूर्ज॑न् दि॒द्युद् वर्ष॑न् त्वे॒षर् आ॒वृत् स्वाहा॑तिरा॒त्रं वर्ष॑न् पू॒र्तिर् आ॒वृत् ॥

स्वाहा॑ ब॒हु हा॒यम् अ॑वृषा॒द् इति॑ श्रु॒तर् आ॒वृत् स्वाहा॒तप॑ति॒ वर्ष॑न् वि॒राड् आ॒वृत् स्वाहा॑व॒स्फूर्ज॑न् दि॒द्युद् वर्ष॑न् भू॒तर् आ॒वृत् स्वाहा॑

मान्दा॒ वाशाः॒ शुन्ध्यू॒र् अजि॑राः । ज्योति॑ष्मती॒स् तम॑स्वरी॒र् उन्द॑तीः॒ सुफे॑नाः । मित्र॑भृतः॒ क्षत्र॑भृतः॒ सुरा॑ष्ट्रा इ॒ह मा॑वत

वृष्णो॒ अश्व॑स्य सं॒दान॑म् असि॒ वृष्ट्यै॒ त्वोप॑ नह्यामि ॥

देवा॑ वसव्या॒ अग्ने॑ सोम सूर्य । देवाः॑ शर्मण्या॒ मित्रा॑वरुणार्यमन् । देवाः॑ सपीत॒योऽपां॑ नपाद् आशुहेमन् । उ॒द्नो द॑त्तोऽद॒धिम् भि॑न्त्त दि॒वः प॒र्जन्या॑द् अ॒न्तरि॑क्षात् पृथि॒व्यास् ततो॑ नो॒ वृष्ट्या॑वत॒

दिवा॑ चि॒त् तमः॑ कृण्वन्ति प॒र्जन्ये॑नोदवा॒हेन॑ । पृ॒थि॒वीं यद् व्यु॒न्दन्ति॑ ॥

आ यं नरः॑ सु॒दान॑वो ददा॒शुषे॑ दि॒वः कोश॒म् अचु॑च्यवुः । वि प॒र्जन्याः॑ सृजन्ति॒ रोद॑सी॒ अनु॒ धन्व॑ना यन्ति ॥

वृ॒ष्टयः॑ ॥

उद् ई॑रयथा मरुतः समुद्र॒तो यू॒यं वृ॒ष्टिं व॑र्षयथा पुरीषिणः । न वो॑ दस्रा॒ उप॑ दस्यन्ति धे॒नवः॑ शु॒भं या॒ताम् अनु॒ रथा॑ अवृत्सत ॥

सृ॒जा वृ॒ष्टिं दि॒व आद्भिः स॑मु॒द्रम् पृ॑ण । अ॒ब्जा अ॑सि प्रथम॒जा बल॑म् असि समु॒द्रिय॑म् ॥

उन् न॑म्भय पृथि॒वीम् भि॒न्द्धीदं दि॒व्यं नभः॑ । उ॒द्नो दि॒व्यस्य॑ नो दे॒हीशा॑नो॒ वि सृ॑जा॒ दृति॑म् ॥

ये दे॒वा दि॒विभा॑गा॒ ये॑ऽन्तरि॑क्षभागा॒ ये पृ॑थि॒विभा॑गाः । त इ॒मं य॒ज्ञम् अ॑वन्तु॒ त इ॒दं क्षेत्र॒म् आ वि॑शन्तु॒ त इ॒दं क्षेत्र॒म् अनु॒ वि वि॑शन्तु ॥

मा॒रु॒तम् अ॑सि म॒रुता॒म् ओज॒ इति॑ कृ॒ष्णं वासः॑ कृ॒ष्णतू॑ष॒म् परि॑ धत्ते \

ए॒तद् वै वृष्ट्यै॑ रू॒पम् \

सरू॑प ए॒व भू॒त्वा प॒र्जन्यं॑ वर्षयति

र॒मय॑त मरुतः श्ये॒नम् आ॒यिन॒म् इति॑ पश्चाद्वा॒तम् प्रति॑ मीवति पुरोवा॒तम् ए॒व ज॑नयति व॒र्षस्याव॑रुद्ध्यै

वातना॒मानि॑ जुहोति

वा॒युर् वै वृष्ट्या॑ ईशे

वा॒युम् ए॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒

स ए॒वास्मै॑ प॒र्जन्यं॑ वर्षयति \

अ॒ष्टौ ॥

जु॒हो॒ति॒

चत॑स्रो॒ वै दिश॒श् चत॑स्रोऽवान्तरदि॒शास् \

दि॒ग्भ्य ए॒व वृष्टिँ॒ सम् प्र च्या॑वयति

कृष्णाजि॒ने सं यौ॑ति

ह॒विर् ए॒वाक॑र्

अन्तर्वे॒दि सं यौ॑ति॒ \

अव॑रुद्ध्यै॒

यती॑नाम् अ॒द्यमा॑नानाँ शी॒र्षाणि॒ परा॑पत॒न्

ते ख॒र्जूरा॑ अभव॒न्

तेषाँ॒ रस॑ ऊ॒र्ध्वो॑ऽपतत्

तानि॑ क॒रीरा॑ण्य् अभवन् \

सौ॒म्यानि॒ वै क॒रीरा॑णि

सौ॒म्या खलु॑ वा॒ आहु॑तिर् दि॒वो वृष्टिं॑ च्यावयति॒

यत् क॒रीरा॑णि॒ भव॑न्ति ॥

सौ॒म्ययै॒वाहु॑त्या दि॒वो वृष्टि॒म् अव॑ रुन्द्धे॒

मधु॑षा॒ सं यौ॑ति \

अ॒पां वा ए॒ष ओष॑धीनाँ॒ रसो॒ यन् मधु॑ \

अ॒द्भ्य ए॒वौष॑धीभ्यो वर्षति॒ \

अथो॑ अ॒द्भ्य ए॒वौष॑धीभ्यो॒ वृष्टिं॒ नि न॑यति

मान्दा॒ वाशा॒ इति॒ सं यौ॑ति

नाम॒धेयै॑र् ए॒वैना॒ अछै॑ति॒ \

अथो॒ यथा॑ ब्रू॒यात् \

असा॒व् एहीत्य् ए॒वम् ए॒वैना॑ नाम॒धेयै॒र् आ ॥

च्या॒व॒य॒ति॒

वृष्णो॒ अश्व॑स्य सं॒दान॑म् असि॒ वृष्ट्यै॒ त्वोप॑ नह्या॒मीत्य् आ॑ह

वृषा॒ वा अश्व॑स् \

वृषा॑ प॒र्जन्यः॑

कृ॒ष्ण इ॑व॒ खलु॒ वै भू॒त्वा व॑र्षति

रू॒पेणै॒वैनँ॒ सम् अ॑र्धयति॒

वर्ष॒स्याव॑रुद्ध्यै ॥

देवा॑ वसव्यास् \

देवा॑ शर्मण्यास् \

देवाः॑ सपीतय॒ इत्य् आ ब॑ध्नाति दे॒वता॑भिर् ए॒वान्व॒हं वृष्टि॑म् इछति॒

यदि॒ वर्षे॒त् ताव॑त्य् ए॒व हो॑त॒व्य॑म् \

यदि॒ न वर्षे॒च् छ्वो भू॒ते ह॒विर् निर् व॑पेत् \

अ॒हो॒रा॒त्रे वै मि॒त्रावरु॑णौ \

अहोरा॒त्राभ्यां॒ खलु॒ वै प॒र्जन्यो॑ वर्षति॒

नक्तं॑ वा॒ हि दिवा॑ वा॒ वर्ष॑ति

मि॒त्रावरु॑णाव् ए॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति

ताव् ए॒वास्मै॑ ॥

अ॒हो॒रा॒त्राभ्या॑म् प॒र्जन्यं॑ वर्षयतस् \

अ॒ग्नये॑ भा॒छदे॑ पुरो॒डाश॑म् अ॒ष्टाक॑पालं॒ निर् व॑पेन् मारु॒तँ स॒प्तक॑पालँ सौ॒र्यम् एक॑कपालम्

अ॒ग्निर् वा इ॒तो वृष्टि॒म् उद् ई॑रयति

म॒रुतः॑ सृ॒ष्टां न॑यन्ति

य॒दा खलु॒ वा अ॒साव् आ॑दि॒त्यो न्य॑ङ् र॒श्मिभिः॑ पर्या॒वर्त॒तेऽथ॑ वर्षति धाम॒छद् इ॑व॒ खलु॒ वै भू॒त्वा व॑र्षति \

ए॒ता वै दे॒वता॒ वृष्ट्या॑ ईशते॒ ता ए॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति

ताः ॥

ए॒वास्मै॑ प॒र्जन्यं॑ वर्षयन्ति \

उ॒ताव॑र्षिष्य॒न् वर्ष॑त्य् ए॒व

सृ॒जा वृ॒ष्टिं दि॒व आद्भिः स॑मु॒द्रम् पृ॒णेत्य् आ॑ह \

इ॒माश् चै॒वामूश् चा॒पः सम् अ॑र्धयति॒ \

अथो॑ आ॒भिर् ए॒वामूर् अछै॑ति \

अ॒ब्जा अ॑सि प्रथम॒जा बल॑म् असि समु॒द्रिय॒म् इत्य् आ॑ह

यथाय॒जुर् ए॒वैतत् \

उन् न॑म्भय पृथि॒वीम् इति॑ वर्षा॒ह्वां जु॑होति \

ए॒षा वा ओष॑धीनां वृष्टि॒वनि॒स्

तयै॒व वृष्टि॒म् आ च्या॑वयति॒

ये दे॒वा दि॒विभा॑गा॒ इति॑ कृष्णाजि॒नम् अव॑ धूनोति \

इ॒म ए॒वास्मै॑ लो॒काः प्री॒ता अ॒भीष्टा॑ भवन्ति ॥

सर्वा॑णि॒ छन्दाँ॑स्य् ए॒तस्या॒म् इष्ट्या॑म् अ॒नूच्या॒नीत्य् आ॑हुस्

त्रि॒ष्टुभो॒ वा ए॒तद् वी॒र्यं॑ यत् क॒कुद् उ॒ष्णिहा॒ जग॑त्यै॒

यद् उ॑ष्णिहक॒कुभा॑व् अ॒न्वाह॒ तेनै॒व सर्वा॑णि॒ छन्दाँ॒स्य् अव॑ रुन्द्धे

गाय॒त्री वा ए॒षा यद् उ॒ष्णिहा॑

यानि॑ च॒त्वार्य् अध्य् अ॒क्षरा॑णि॒ चतु॑ष्पाद ए॒व ते प॒शव॑स् \

यथा॑ पुरो॒डाशे॑ पुरो॒डाशो॑ऽध्य् ए॒वम् ए॒व तद् यद् ऋ॒च्य् अध्य् अ॒क्षरा॑णि॒

यज् जग॑त्या ॥

प॒रि॒द॒ध्याद् अन्तं॑ य॒ज्ञं ग॑मयेत्

त्रि॒ष्टुभा॒ परि॑ दधाति \

इन्द्रि॒यं वै वी॒र्यं॑ { त्रि॒ष्टुग् ^ त्रि॒ष्टुभ् }

इ॒न्द्रि॒य ए॒व वी॒र्ये॑ य॒ज्ञम् प्रति॑ ष्ठापयति॒ नान्तं॑ गमयति॒ \

अग्ने॒ त्री ते॒ वाजि॑ना॒ त्री ष॒धस्थेति॒ त्रिव॑त्या॒ परि॑ दधाति

सरूप॒त्वाय॒

सर्वो॒ वा ए॒ष य॒ज्ञो यत् त्रै॑धात॒वीय॑म् \

कामा॑यकामाय॒ प्र यु॑ज्यते॒

सर्वे॑भ्यो॒ हि कामे॑भ्यो य॒ज्ञः प्र॑यु॒ज्यते॑

त्रैधात॒वीये॑न यजेताभि॒चर॑न् \

सर्वो॒ वै ॥

ए॒ष य॒ज्ञो यत् त्रै॑धात॒वीय॑म् \

सर्वे॑णै॒वैनं॑ य॒ज्ञेना॒भि च॑रति

स्तृणु॒त ए॒वैन॑म्

ए॒तयै॒व य॑जेताभिच॒र्यमा॑णः॒

सर्वो॒ वा ए॒ष य॒ज्ञो यत् त्रै॑धात॒वीय॑म् \

सर्वे॑णै॒व य॒ज्ञेन॑ यजते॒

नैन॑म् अभि॒चर॑न्त् स्तृणुते \

ए॒तयै॒व य॑जेत स॒हस्रे॑ण य॒क्ष्यमा॑नः

प्रजा॑तम् ए॒वैन॑द् ददाति \

ए॒तयै॒व य॑जेत स॒हस्रे॑णेजा॒नस् \

अन्तं॒ वा ए॒ष प॑शू॒नां ग॑छति ॥

यः स॒हस्रे॑ण॒ यज॑ते

प्र॒जाप॑तिः॒ खलु॒ वै प॒शून् अ॑सृजत

ताँस् त्रै॑धात॒वीये॑नै॒वासृ॑जत॒

य ए॒वं वि॒द्वाँस् त्रै॑धात॒वीये॑न प॒शुका॑मो॒ यज॑ते॒ यस्मा॑द् ए॒व योनेः॑ प्र॒जाप॑तिः प॒शून् असृ॑जत॒ तस्मा॑द् ए॒वैना॑न्त् सृजत॒ उपै॑न॒म् उत्त॑रँ स॒हस्रं॑ नमति

दे॒वता॑भ्यो॒ वा ए॒ष आ वृ॑श्च्यते॒ यो य॒क्ष्य इत्य् उ॒क्त्वा न यज॑ते

त्रैधात॒वीये॑न यजेत॒

सर्वो॒ वा ए॒ष य॒ज्ञः ॥

यत् त्रै॑धात॒वीय॑म् \

सर्वे॑णै॒व य॒ज्ञेन॑ यजते॒

न दे॒वता॑भ्य॒ आ वृ॑श्च्यते

द्वाद॑शकपालः पुरो॒डाशो॑ भवति॒

ते त्रय॒श् चतु॑ष्कपालास्

त्रि॒ष्ष॒मृ॒द्ध॒त्वाय॒

त्रयः॑ पुरो॒डाशा॑ भवन्ति॒

त्रय॑ इ॒मे लो॒कास् \

ए॒षां लो॒काना॒म् आप्त्यै॒ \

उत्त॑रौत्तरो॒ ज्याया॑न् भवति \

ए॒वम् इ॑व॒ हीमे लो॒कास् \

य॒व॒मयो॒ मध्य॑स् \

ए॒तद् वा अ॒न्तरि॑क्षस्य रू॒पम् \

समृ॑द्ध्यै॒

सर्वे॑षाम् अभिग॒मय॒न्न् अव॑ द्यति॒ \

अछ॑म्बट्कारम् \

हिर॑ण्यं ददाति॒

तेज॑ ए॒व ॥

अव॑ रुन्द्धे

ता॒र्प्यं द॑दाति

प॒शून् ए॒वाव॑ रुन्द्धे

धे॒नुं द॑दाति \

आ॒शिष॑ ए॒वाव॑ रुन्द्धे

साम्नो॒ वा ए॒ष वर्णो॒ यद् धिर॑ण्यम् \

यजु॑षां ता॒र्प्यम्

उ॑क्थाम॒दानां॑ धे॒नुस् \

ए॒तान् ए॒व सर्वा॒न् वर्णा॒न् अव॑ रुन्द्धे ॥

त्वष्टा॑ ह॒तपु॑त्रो॒ वीन्द्रँ॒ सोम॒म् आह॑र॒त्

तस्मि॒न्न् इन्द्र॑ उपह॒वम् ऐ॑छत॒

तं नोपा॑ह्वयत

पु॒त्रम् मे॑ऽवधी॒र् इति॒

स य॑ज्ञवेश॒सं कृ॒त्वा प्रा॒सहा॒ सोम॑म् अपिब॒त्

तस्य॒ यद् अ॒त्यशि॑ष्यत॒ तत् त्वष्टा॑हव॒नीय॒म् उप॒ प्राव॑र्तयत्

स्वाहेन्द्र॑शत्रुर् वर्ध॒स्वेति॒

स याव॑द् ऊ॒र्ध्वः प॑रा॒विध्य॑ति॒ ताव॑ति स्व॒यम् ए॒व व्य् अ॑रमत॒

यदि॑ वा॒ ताव॑त् प्रव॒णम् ॥

आसी॒त् यदि॑ वा॒ ताव॒द् अध्य् अ॒ग्नेर् आसी॒त्

स स॒म्भव॑न्न् अ॒ग्नीषोमा॑व् अ॒भि सम् अ॑भव॒त्

स इ॑षुमा॒त्रं विष्व॑ङ्ङ् अवर्धत॒

स इ॒माँ लो॒कान् अ॑वृणोत् \

यद् इ॒माँ लो॒कान् अवृ॑णो॒त् तद् वृ॒त्रस्य॑ वृत्र॒त्वम् \

तस्मा॒द् इन्द्रो॑ऽबिभेत् \

अपि॒ त्वष्टा॒

तस्मै॒ त्वष्टा॒ वज्र॑म् असिञ्च॒त्

तपो॒ वै स वज्र॑ आसी॒त्

तम् उद्य॑न्तुं॒ नाश॑क्नोत् \

अथ॒ वै तर्हि॒ विष्णुः॑ ॥

अ॒न्या दे॒वता॑सी॒त्

सो॑ऽब्रवीत् \

विष्ण॒व् एहीदम् आ ह॑रिष्यावो॒ येना॒यम् इ॒दम् इति॒

स विष्णु॑स् त्रे॒धात्मानं॒ वि न्य् अ॑धत्त पृथि॒व्यां तृती॑यम् अ॒न्तरि॑क्षे॒ तृती॑यं दि॒वि तृती॑यम्

अभिपर्याव॒र्ताद् ध्य् अबि॑भेत् \

यत् पृ॑थि॒व्यां तृती॑य॒म् आसी॒त् तेनेन्द्रो॒ वज्र॒म् उद् अ॑यछ॒द् विष्ण्व॑नुस्थितः॒

सो॑ऽब्रवीत् \

मा मे॒ प्र हा॒र् अस्ति॒ वा इ॒दम् ॥

मयि॑ वी॒र्यं॑ तत् ते॒ प्र दा॑स्या॒मीति॒

तद् अ॑स्मै॒ प्राय॑छ॒त्

तत् प्रत्य् अ॑गृह्णात् \

अधा॒ मेति॒ तद् विष्ण॒वेति॒ प्राय॑छ॒त्

तद् विष्णुः॒ प्रत्य् अ॑गृह्णात् \

अ॒स्मास्व् इन्द्र॑ इन्द्रि॒यं द॑धा॒त्व् इति॒

यद् अ॒न्तरि॑क्षे॒ तृती॑य॒म् आसी॒त् तेनेन्द्रो॒ वज्र॒म् उद् अ॑यछ॒द् विष्ण्व॑नुस्थितः॒

सो॑ऽब्रवीत् \

मा मे॒ प्र हा॒र् अस्ति॒ वा इ॒दम् ॥

मयि॑ वी॒र्यं॑ तत् ते॒ प्र दा॑स्या॒मीति॒

तद् अ॑स्मै॒ प्राय॑छ॒त्

तत् प्रत्य् अ॑गृह्णात् \

द्विर् मा॑धा॒ इति॒ तद् विष्ण॒वेति॒ प्राय॑छ॒त्

तद् विष्णुः॒ प्रत्य् अ॑गृःणात् \

अ॒स्मास्व् इन्द्र॑ इन्द्रि॒यं द॑धा॒त्व् इति॒

यद् दि॒वि तृती॑य॒म् आसी॒त् तेनेन्द्रो॒ वज्र॒म् उद् अ॑यछ॒द् विष्ण्व॑नुस्थितः॒

सो॑ऽब्रवीत् \

मा मे॒ प्र हा॒र् {F येना॒हम्} {W येनाहम्} {ग्लोस् येना॒हम्} ॥

इ॒दम् अस्मि॒ तत् ते॒ प्र दा॑स्या॒मीति॑

त्वी3 इत्य् अ॑ब्रवीत्

सं॒धां तु सं द॑धावहै॒ त्वाम् ए॒व प्र वि॑शा॒नीति॒

यन् माम् प्र॑वि॒शेः किम् मा॑ भुञ्ज्या॒ इत्य् अ॑ब्रवीत्

त्वाम् ए॒वेन्धी॑य॒ तव॒ भोगा॑य॒ त्वाम् प्र वि॑शेय॒म् इत्य् अ॑ब्रवी॒त्

तम् वृ॒त्रः प्रावि॑शत् \

उ॒दरं॒ वै वृ॒त्रः

क्षुत् खलु॒ वै म॑नु॒ष्य॑स्य॒ भ्रातृ॑व्यस् \

यः ॥

ए॒वं वेद॒ हन्ति॒ क्षुध॒म् भ्रातृ॑व्यम् \

तद् अ॑स्मै॒ प्राय॑छ॒त्

तत् प्रत्य् अ॑गृह्णात्

त्रिर् मा॑धा॒ इति॒ तद् विष्ण॒वेति॒ प्रा य॑छ॒त्

तद् विष्णुः॒ प्रत्य् अ॑गृह्णाद् अ॒स्मास्व् इन्द्र॑ इन्द्रि॒यं द॑धा॒त्व् इति॒

यत् त्रिः प्राय॑छ॒त् त्रिः प्र॒त्यगृ॑ह्णा॒त् तत् त्रि॒धातो॑स् त्रिधातु॒त्वम् \

यद् विष्णु॑र् अ॒न्वति॑ष्ठत॒ विष्ण॒वेति॒ प्राय॑छ॒त् तस्मा॑द् ऐन्द्रावैष्ण॒वँ ह॒विर् भ॑वति॒

यद् वा इ॒दं किं च॒ तद् अ॑स्मै॒ तत् प्राय॑छ॒द् ऋचः॒ सामा॑नि॒ यजूँ॑षि

स॒हस्रं॒ वा अ॑स्मै॒ तत् प्राय॑छ॒त्

तस्मा॑त् स॒हस्र॑दक्षिणम् ॥

दे॒वा वै रा॑ज॒न्या॑ज् जाय॑मानाद् अबिभयु॒स्

तम् अ॒न्तर् ए॒व सन्तं॒ दाम्नापौ॑म्भन् \

स वा ए॒षोऽपो॑ब्धो जायते॒ यद् रा॑ज॒न्य॑स् \

यद् वा ए॒षोऽन॑पोब्धो॒ जाये॑त वृ॒त्रान् घ्नँश् च॑रेत् \

यं का॒मये॑त राज॒न्य॑म्

अन॑पोब्धो जायेत वृ॒त्रान् घ्नँश् च॑रे॒द् इति॒ तस्मा॑ ए॒तम् ऐ॑न्द्राबार्हस्प॒त्यं च॒रुं निर् व॑पेत् \

ऐ॒न्द्रो वै रा॑ज॒न्यो॑ ब्रह्म॒ बृह॒स्पति॑स् \

ब्रह्म॑णै॒वैनं॒ दाम्नो॒ऽपोम्भ॑नान् मुञ्चति

हिर॒ण्मयं॒ दाम॒ दक्षि॑णा

सा॒क्षाद् ए॒वैनं॒ दाम्नो॒ऽपोम्भ॑नान् मुञ्चति ॥

नवो॑नवो भवति॒ जाय॑मा॒नोऽह्नां॑ के॒तुर् उ॒षसा॑म् ए॒त्य् अग्रे॑ । भा॒गं दे॒वेभ्यो॒ वि द॑धात्य् आ॒यन् प्र च॒न्द्रमा॑स् तिरति दी॒र्घम् आयुः॑ ॥

यम् आ॑दि॒त्या अँ॒शुम् आ॑प्या॒यय॑न्ति॒ यम् अक्षि॑त॒म् अक्षि॑तयः॒ पिब॑न्ति । तेन॑ नो॒ राजा॒ वरु॑णो॒ बृह॒स्पति॒र् आ प्या॑ययन्तु॒ भुव॑नस्य गो॒पाः ॥

प्राच्यां॑ दि॒शि त्वम् इ॑न्द्रासि॒ राजो॒तोदी॑च्यां वृत्रहन् वृत्र॒हासि॑ । यत्र॒ यन्ति॑ स्रो॒त्यास् तत् ॥

जि॒तं ते॑ दक्षिण॒तो वृ॑ष॒भ ए॑धि॒ हव्यः॑ ।

इन्द्रो॑ जयाति॒ न परा॑ जयाता अधिरा॒जो राज॑सु राजयाति । विश्वा॒ हि भू॒याः पृ॑तना अभि॒ष्टीर् उ॑प॒सद्यो॑ नम॒स्यो॑ यथास॑त् ॥

अ॒स्येद् ए॒व प्र रि॑रिचे महि॒त्वं दि॒वः पृ॑थि॒व्याः पर्य् अ॒न्तरि॑क्षात् । स्व॒राड् इन्द्रो॒ दम॑ आ वि॒श्वगू॑र्तः स्व॒रिर् अम॑त्रो ववक्षे॒ रणा॑य ।

अ॒भि त्वा॑ शूर नोनु॒मोऽदु॑ग्धा इव धे॒नवः॑ । ईशा॑नम् ॥

अ॒स्य जग॑तः सुव॒र्दृश॒म् ईशा॑नम् इन्द्र त॒स्थुषः॑ ॥

त्वाम् इद् धि हवा॑महे सा॒ता वाज॑स्य का॒रवः॑ । त्वां वृ॒त्रेष्व् इ॑न्द्र॒ सत्प॑तिं॒ नर॒स् त्वां काष्ठा॒स्व् अर्व॑तः ॥

यद् द्याव॑ इन्द्र ते श॒तँ श॒तम् भूमी॑र् उ॒त स्युः । न त्वा॑ वज्रिन्त् स॒हस्रँ॒ सूर्या॒ अनु॒ न जा॒तम् अ॑ष्ट॒ रोद॑सी ॥

पिबा॒ सोम॑म् इन्द्र॒ मन्द॑तु त्वा॒ यं ते॑ सु॒षाव॑ हर्य॒श्वाद्रिः॑ ॥

सो॒तुर् बा॒हुभ्याँ॒ सुय॑तो॒ नार्वा॑ ॥

रेव॑तीर् नः सध॒माद॒ इन्द्रे॑ सन्तु तु॒विवा॑जाः । क्षु॒मन्तो॒ याभि॒र् मदे॑म ॥

उद् अ॑ग्ने॒ शुच॑य॒स् तव॒

वि ज्योति॑षा॒ \

उद् उ॒ त्यं जा॒तवे॑दसम् \

स॒प्त त्वा॑ ह॒रितो॒ रथे॒ वह॑न्ति देव सूर्य । शो॒चिष्के॑शं विचक्षण ॥

चि॒त्रं दे॒वाना॒म् उद् अ॑गा॒द् अनी॑कं॒ चक्षु॑र् मि॒त्रस्य॒ वरु॑णस्या॒ग्नेः । आप्रा॒ द्यावा॑पृथि॒वी अ॒न्तरि॑क्षँ॒ सूर्य॑ आ॒त्मा जग॑त॒स् तस्थु॑षः ॥

च॒ ॥

विश्वे॑ दे॒वा ऋ॑ता॒वृध॑ ऋ॒तुभि॑र् हवन॒श्रुतः॑ । जुष॑न्तां॒ युज्य॒म् पयः॑ ॥

विश्वे॑ देवाः शृणु॒तेमँ हव॑म् मे॒ ये अ॒न्तरि॑क्षे॒ य उप॒ द्यवि॒ ष्ठ । ये अ॑ग्निजि॒ह्वा उ॒त वा॒ यज॑त्रा आ॒सद्या॒स्मिन् ब॒र्हिषि॑ मादयध्वम् ॥