आ॒दि॒त्येभ्यो॒ भुव॑द्वद्भ्यश् च॒रुं निर् व॑पे॒द् भूति॑कामस् \
आ॒दि॒त्या वा ए॒तम् भूत्यै॒ प्रति॑ नुदन्ते॒ योऽल॒म् भूत्यै॒ सन् भूतिं॒ न प्रा॒प्नोति॑ \
आदि॒त्यान् ए॒व भुव॑द्वतः॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒
त ए॒वैन॒म् भूतिं॑ गमयन्ति॒
भव॑त्य् ए॒व \
आ॑दि॒त्येभ्यो॑ धा॒रय॑द्वद्भ्यश् च॒रुं निर् व॑पे॒द् अप॑रुद्धो वापरु॒ध्यमा॑नो वा \
आदि॒त्या वा अ॑परो॒द्धार॑ आदि॒त्या अ॑वगमयि॒तार॑स् \
आ॒दि॒त्यान् ए॒व धा॒रय॑द्वतः ॥
स्वेन॑ भाग॒धेये॒नोप॑ धावति॒
त ए॒वैनं॑ वि॒शि दा॑ध्रति \
अनपरु॒ध्यो भ॑वति॒ \
अदि॒तेऽनु॑ मन्य॒स्वेत्य् अ॑परु॒ध्यमा॑नोऽस्य प॒दम् आ द॑दीत \
इ॒यं वा अदि॑तिस् \
इ॒यम् ए॒वास्मै॑ रा॒ज्यम् अनु॑ मन्यते
स॒त्याशीर् इत्य् आ॑ह
स॒त्याम् ए॒वाशिषं॑ कुरुते \
इ॒ह मन॒ इत्य् आ॑ह
प्र॒जा ए॒वास्मै॒ सम॑नसः करोति॒ \
उप॒ प्रेत॑ मरुतः ॥
सु॒दा॒न॒व॒ ए॒ना वि॒श्पति॑ना॒भ्य् अ॑मुँ राजा॑न॒म् इत्य् आ॑ह
मारु॒ती वै { विड् ^ विश् }
ज्ये॒ष्ठो वि॒श्पति॑स् \
वि॒शैवैनँ॑ रा॒ष्ट्रेन॒ सम् अ॑र्धयति॒
यः प॒रस्ता॑द् ग्राम्यवा॒दी स्यात् तस्य॑ गृ॒हाद् व्री॒हीन् आ ह॑रेत् \
शु॒क्लाँश् च॑ कृ॒ष्णाँश् च॒ वि चि॑नुयात् \
ये शु॒ल्काः स्युस् तम् आ॑दि॒त्यं च॒रुं निर् व॑पेत् \
आ॒दि॒त्या वै दे॑व॒तया॒ { विड् ^ विश् }
विश॑म् ए॒वाव॑ गछति ॥
अव॑गतास्य॒ विड् अन॑वगतँ रा॒ष्ट्रम् इत्य् आ॑हुस् \
ये कृ॒ष्णाः स्युस् तम् वा॑रु॒णं च॒रुं निर् व॑पेत् \
वा॒रु॒णं वै रा॒ष्ट्रम्
उ॒भे ए॒व विशं॑ च रा॒ष्ट्रं चाव॑ गछति॒
यदि॒ नाव॒गछे॑द् इ॒मम् अ॒हम् आ॑दि॒त्येभ्यो॑ भा॒गं निर् व॑पा॒म्य् आमुष्मा॑द् अ॒मुष्यै॑ वि॒शोऽव॑गन्तो॒र् इति॒ निर् व॑पेत् \
आ॒दि॒त्या ए॒वैन॑म् भाग॒धेय॑म् प्रे॒प्सन्तो॒ विश॒म् अव॑ ॥
ग॒म॒य॒न्ति॒
यदि॒ नाव॒गछे॒द् आश्व॑त्थान् म॒यूखा॑न्त् स॒प्त म॑ध्यमे॒षाया॒म् उप॑ हन्यात् \
इ॒दम् अ॒हम् आ॑दि॒त्यान् ब॑ध्ना॒म्य् आमुष्मा॑द् अ॒मुष्यै॑ वि॒शोऽव॑गन्तो॒र् इति॑ \
आदि॒त्या ए॒वैन॑म् ब॒द्धवी॑रा॒ विश॒म् अव॑ गमयन्ति॒
यदि॒ नाव॒गछे॑द् ए॒तम् ए॒वादि॒त्यं च॒रुं निर् व॑पेत् \
इ॒ध्मेऽपि॑ म॒यूखा॒न्त् सं न॑ह्येत् \
अ॒न॒प॒रु॒ध्यम् ए॒वाव॑ गछति \
आश्व॑त्था भवन्ति
म॒रुतां॒ वा ए॒तद् ओजो॒ यद् अ॑श्व॒त्थस् \
ओज॑सै॒व विश॒म् अव॑ गछति
स॒प्त भ॑वन्ति
स॒प्तग॑णा॒ वै म॒रुत॑स् \
ग॒ण॒श ए॒व विश॒म् अव॑ गछति ॥
दे॒वा वै मृ॒त्योर् अ॑बिभयु॒स्
ते प्र॒जाप॑ति॒म् उपा॑धाव॒न्
तेभ्य॑ ए॒ताम् प्रा॑जाप॒त्याँ श॒तकृ॑ष्णलां॒ निर् अ॑वप॒त्
तयै॒वैष्व् अ॒मृत॑म् अदधात् \
यो मृ॒त्योर् बि॑भी॒यात् तस्मा॑ ए॒ताम् प्रा॑जाप॒त्याँ श॒तकृ॑ष्णलां॒ निर् व॑पेत्
प्र॒जाप॑तिम् ए॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒
स ए॒वास्मि॒न्न् आयु॑र् दधाति॒
सर्व॒म् आयु॑र् एति
श॒तकृ॑ष्णला भवति
श॒तायुः॒ पुरु॑षः श॒तेन्द्रि॑यस् \
आयु॑ष्य् ए॒वेन्द्रि॒ये ॥
प्रति॑ तिष्ठति
घृ॒ते भ॑वति \
आयु॒र् वै घृ॒तम्
अ॒मृतँ॒ हिर॑ण्यम्
आयु॑श् चै॒वास्मा॑ अ॒मृतं॑ च स॒मीची॑ दधाति
च॒त्वारि॑चत्वारि कृ॒ष्णला॒न्य् अव॑ द्यति चतुरव॒त्तस्याप्त्यै॑ \
एक॒धा ब्र॒ह्मण॒ उप॑ हरति \
एक॒धैव यज॑मान॒ आयु॑र् दधाति \
अ॒साव् आ॑दि॒त्यो न व्य् अ॑रोचत॒
तस्मै॑ दे॒वाः प्राय॑श्चित्तिम् ऐछ॒न्
तस्मा॑ ए॒तँ सौ॒र्यं च॒रुं निर् अ॑वप॒न्
तेनै॒वास्मै॑न् ॥
रुच॑म् अदधुस् \
यो ब्र॑ह्मवर्च॒सका॑मः॒ स्यात् तस्मा॑ ए॒तँ सौ॒र्यं च॒रुं निर् व॑पेत् \
अ॒मुम् ए॒वादि॒यँ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒
स ए॒वास्मि॑न् ब्रह्मवर्च॒सं द॑धाति
ब्रह्मवर्च॒स्य् ए॑व भ॑वति \
उभ॒यतो॑ रु॒क्मौ भ॑वतस् \
उ॒भ॒यत॑ ए॒वास्मि॒न् रुचं॑ दधाति
प्रया॒जेप्र॑याजे कृ॒ष्णलं॑ जुहोति
दि॒ग्भ्य ए॒वास्मै॑ ब्रह्मवर्च॒सम् अव॑ रुन्द्धे ।
आ॒ग्ने॒यम् अ॒ष्टाक॑पालं॒ निर् व॑पेत् सावि॒त्रं द्वाद॑शकपाल॒म् भूम्यै॑ ॥
च॒रुं यः का॒मये॑त॒
हिर॑ण्यं विन्देय॒ हिर्ण्य॒म् मोप॑ नमे॒द् इति॒
यद् आ॑ग्ने॒यो भव॑त्य् आग्ने॒यं वै हिर॑ण्यं॒ यस्यै॒व हिर॑ण्यं॒ तेनै॒वैन॑द् विन्दते
सावि॒त्रो भ॑वति सवि॒तृप्र॑सूत ए॒वैन॑द् विन्दते
भूम्यै॑ च॒रुर् भ॑वत्य् अ॒स्याम् ए॒वैन॑द् विन्दते॒ \
उपै॑नँ॒ हिर॑ण्यं नमति॒
वि वा ए॒ष इ॑न्द्रि॒येण॑ वी॒र्ये॑णर्ध्यते॒ यो हिर॑ण्यं वि॒न्दते॑ \
ए॒ताम् ॥
ए॒व निर् व॑पे॒द् धिर॑ण्यं वि॒त्त्वा
नेन्द्रि॒येण॑ वी॒र्ये॑ण॒ व्य् ऋध्य॒ते॒ \
ए॒ताम् ए॒व निर् व॑पे॒द् यस्य॒ हिर्ण॑यं॒ नश्ये॑त् \
यद् आ॑ग्ने॒यो भव॑त्य् आग्ने॒यं वै हिर॑ण्यं॒ यस्यै॒व हिर॑ण्यं॒ तेनै॒वैन॑द् विन्दति
सावि॒त्रो भ॑वति सवि॒तृप्र॑सूत ए॒वैन॑द् विन्दति
भूम्यै॑ च॒रुर् भ॑वत्य् अ॒स्यां वा ए॒तन् न॑श्यति॒ यन् नश्य॑त्य् अ॒स्याम् ए॒वैन॑द् विन्दति॒ \
इन्द्रः॑ ॥
त्वष्टुः॒ सोम॑म् अभी॒षहा॑पिब॒त्
स विष्व॑ङ् व्य् आ॑र्छ॒त्
स इ॑न्द्रि॒येण॑ सोमपी॒थेन॑ व्य् आ॑र्ध्यत॒
स यद् ऊ॒र्ध्वम् उ॒दव॑मी॒त् ते श्या॒माका॑ अभवन् \
स प्र॒जाप॑ति॒म् उपा॑धाव॒त्
तस्मा॑ ए॒तँ सो॑मे॒न्द्रँ श्या॑मा॒कं च॒रुम् निर् अ॑वप॒त् तेनै॒वास्मि॑न्न् इन्द्रि॒यँ सो॑मपी॒थम् अ॑दधात् \
वि वा ए॒ष इ॑न्द्रि॒येण॑ सोमपी॒थेन॑र्ध्यते॒ यः सोमं॒ वमि॑ति॒
यः सो॑मवा॒मी स्यात् तस्मै॑ ॥
ए॒तँ सो॑मे॒न्द्रँ श्या॑मा॒कं च॒रुं निर् व॑पे॒त्
सोमं॑ चै॒वेन्द्रं॑ च॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति
ताव् ए॒वास्मि॑न्न् इन्द्रि॒यँ सो॑मपी॒थं ध॑त्तस् \
नेन्द्रि॒येण॑ सोमपी॒थेन॑ व्य् ॑र्?ध्यते॒
यत् सौ॒म्यो भव॑ति सोमपी॒थम् ए॒वाव॑ रुन्द्धे॒
यद् ऐ॒न्द्रो भव॑तीन्द्रि॒यं वै सो॑मपी॒थ इ॑न्द्रि॒यम् ए॒व सो॑मपी॒थम् अव॑ रुन्द्धे
श्यामा॒को भ॑वति \
ए॒ष वाव स सोमः॑ ॥
सा॒क्षाद् ए॒व सो॑मपी॒थम् अव॑ रुन्द्धे \
अ॒ग्नये॑ दा॒त्रे पु॑रो॒डाश॑म् अ॒ष्टाक॑पालं॒ निर् व॑पे॒द् इन्द्रा॑य प्रदा॒त्रे पु॑रो॒डाश॒म् एका॑दशकपालम् प॒शुका॑मस् \
अ॒ग्निर् ए॒वास्मै॑ प॒शून् प्र॑ज॒नय॑ति वृ॒द्धान् इन्द्रः॒ प्र य॑छति॒
दधि॒ मधु॑ घृ॒तम् आपो॑ धा॒ना भ॑वन्ति \
ए॒तद् वै प॑शू॒नाँ रू॒पम् \
रू॒पेणै॒व प॒शून् अव॑ रुन्द्धे
पञ्चगृही॒तम् भ॑वति
पा॒ङ्क्ता हि प॒शव॑स् \
ब॒हु॒रू॒पम् भ॑वति
बहुरू॒पा हि प॒शवः॑ ॥
समृ॑द्ध्यै
प्राजाप॒त्यम् भ॑वति
प्राजाप॒त्या वै प॒शवः॑
प्र॒जाप॑तिर् ए॒वास्मै॑ प॒शून् प्र ज॑नयति \
आ॒त्मा वै पुरु॑षस्य॒ मधु॒
यन् मध्व् अ॒ग्नौ जु॒होत्य् आ॒त्मान॑म् ए॒व तद् यज॑मानो॒ऽग्नौ प्र द॑धाति
प॒ङ्क्त्यौ॑ याज्यानुवा॒क्ये॑ भवतः
पाङ्क्तः॒ पुरु॑षः॒ पाङ्क्ताः॑ प॒शव॑स् \
आ॒त्मान॑म् ए॒व मृ॒त्योर् नि॒ष्क्रीय॑ प॒शून् अव॑ रुन्द्धे ॥
दे॒वा वै स॒त्त्रम् आ॑स॒तर्द्धि॑परिमितं॒ यश॑स्काम॒स्
तेषाँ॒ सोमँ॒ राजा॑नं॒ यश॑ आर्छ॒त्
स गि॒रिम् उद् ऐ॒त्
तम् अ॒ग्निर् अनूद् ऐ॑त्
ताव् अ॒ग्नीशोमौ॒ सम् अ॑भवताम् \
ताव् इन्द्रो॑ य॒ज्ञवि॑भ्र॒ष्ठोऽनु॒ परै॑त्
ताव् अ॑ब्रवीत् \
या॒जय॑त॒म् मेति॒
तस्मा॑ ए॒ताम् इष्टिं॒ निर् अ॑वपताम्
आग्ने॒यम् अ॒ष्टाक॑पालम् ऐ॒न्द्रम् एका॑दशकपालँ सौ॒म्यं च॒रुम् \
तयै॒वास्मि॒न् तेजः॑ ॥
इ॒न्द्रि॒यम् ब्र॑ह्मवर्च॒सम् अ॑धत्त्ताम् \
यो य॒ज्ञवि॑भ्रष्टः॒ स्यात् तस्मा॑ ए॒ताम् इष्टिं॒ निर् व॑पेत् \
आ॒ग्ने॒यम् अ॒ष्टाक॑पालम् ऐ॒न्द्रम् एका॑दशकपालँ सौ॒म्यं च॒रुम् \
यद् आ॑ग्ने॒यो भव॑ति॒ तेज॑ ए॒वास्मि॒न् तेन॑ दधाति॒
यद् ऐ॒न्द्रो भव॑तीन्द्रि॒यम् ए॒वास्मि॒न् तेन॑ दधाति॒
यत् सौ॒म्यो ब्र॑ह्मवर्च॒सं तेन॑ \
आग्ने॒यस्य॑ च सौ॒म्यस्य॑ चै॒न्द्रे स॑माश्लेषये॒त्
तेज॑श् चै॒वास्मि॑न् ब्रह्मवर्च॒सं च॑ स॒मीची॑ ॥
द॒धा॒ति॒ \
अ॒ग्नी॒षो॒मीय॒म् एका॑दशकपालं॒ निर् व॑पे॒द् यं कामो॒ नोप॒नमे॑त् \
आ॒ग्ने॒यो वै ब्रा॑ह्म॒णः
स सोम॑म् पिबति
स्वाम् ए॒व दे॒वताँ॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒
सैवैनं॒ कामे॑न॒ सम् अ॑र्धयति॒ \
उपै॑नं॒ कामो॑ नमति \
अ॒ग्नीषो॒मीय॑म् अ॒ष्टाक॑पालं॒ निर् व॑पेद् ब्रह्मवर्च॒सका॑मस् \
अ॒ग्नीषोमा॑व् ए॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति
ताव् ए॒वास्मि॑न् ब्रह्मवर्च॒सं ध॑त्तस् \
ब्र॒ह्म॒व॒र्च॒स्य् ए॑व ॥
भ॒व॒ति॒
यद् अ॒ष्टाक॑पाल॒स् तेना॑ग्नेयश् \
यच् छ्या॑मा॒कस् तेन॑ सौ॒म्यः
समृ॑द्ध्यै॒
सोमा॑य वा॒जिने॑ श्यामा॒कं च॒रुं निर् व॑पे॒द् यः क्लैव्या॑द् बिभी॒यात् \
रेतो॒ हि वा ए॒तस्मा॒द् वाजि॑नम् अप॒क्राम॒त्य् अथै॒ष क्लैब्या॑द् बिभाय॒
सोम॑म् ए॒व वा॒जिनँ॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒
स ए॒वास्मि॒न् रेतो॒ वाजि॑नं दधाति॒
न क्ली॒बो भ॑वति
ब्राह्मणस्प॒त्यम् एका॑दशकपालं॒ निर् व॑पे॒द् ग्राम॑कामः ॥
ब्रह्म॑ण॒स् पति॑म् ए॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒
स ए॒वास्मै॑ सजा॒तान् प्र य॑छति
ग्रा॒म्य् ए॑व भ॑वति
ग॒णव॑ती याजयानुवा॒क्ये॑ भवतः
सजा॒तैर् ए॒वैनं॑ ग॒णव॑न्तं करोति \
ए॒ताम् ए॒व निर् व॑पे॒द् यः का॒मये॑त॒
ब्रह्म॒न् विशं॒ वि ना॑शयेय॒म् इति॑
मारु॒ती या॑ज्यानुवा॒क्ये॑ कुर्यात् \
ब्रह्म॑न्न् ए॒व विशं॒ वि ना॑शयति ॥
अ॒र्य॒म्णे च॒रुं निर् व॑पेत् सुव॒र्गका॑मस् \
अ॒सौ वा आ॑दि॒त्यो॑ऽर्य॒मा \
अ॑र्य॒मण॑म् ए॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒
स ए॒वैनँ॑ सुव॒र्गं लो॒कं ग॑मयति \
अर्य॒म्णे च॒रुं निर् व॑पे॒द् यः का॒मये॑त
दान॑कमा मे प्र॒जाः स्यु॒र् इति॑ \
अ॒सौ वा आ॑दि॒त्यो॑ऽर्य॒मा
यः खलु॒ वै ददा॑ति॒ सो॑ऽर्य॒मा \
अ॑र्य॒मण॑म् ए॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒
स ए॒व ॥
अ॒स्मै॒ दान॑कामाः प्र॒जाः क॑रोति
दान॑कामा अस्मै प्र॒जा भ॑वन्ति \
अर्य॒म्णे च॒रुं निर् व॑पे॒द् यः का॒मये॑त
स्व॒स्ति ज॒नता॑म् इया॒म् इति॑ \
अ॒सौ वा आ॑दि॒त्यो॑ऽर्य॒मा \
अ॑र्य॒मण॑म् ए॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒
स ए॒वैनं॒ तद् ग॑मयति॒ यत्र॒ जिग॑मिषति॒ \
इन्द्रो॒ वै दे॒वाना॑म् आनुजाव॒र आ॑सी॒त्
स प्र॒जाप॑ति॒म् उपा॑धाव॒त्
तस्मा॑ ए॒तम् ऐ॒न्द्रम् आ॑नुषू॒कम् एका॑दशकपालं॒ निः ॥
अ॒व॒प॒त् तेनै॒वैन॒म् अग्रं॑ दे॒वता॑ना॒म् पर्य् अ॑णयत् \
बु॒ध्नव॑ती॒ अग्र॑वती याज्यानुवा॒क्ये॑ अकरोद् बु॒ध्नाद् ए॒वैन॒म् अग्र॒म् पर्य् अ॑णयत् \
यो रा॑ज॒न्य॑ आनुजाव॒रः स्यात् तस्मा॑ ए॒तम् ऐ॒न्द्रम् आ॑नुषू॒कम् एका॑दशकपालं॒ निर् व॑पेत् \
इन्द्र॑म् ए॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वैन॒म् अग्रँ॑ समा॒नाना॒म् परि॑ णयति
बु॒ध्नव॑ती॒ अग्र॑वती याज्यानुवा॒क्ये॑ भवतो बु॒ध्नाद् ए॒वैन॒म् अग्र॑म् ॥
परि॑ णयति \
आनुषू॒को भ॑वत्य् ए॒षा ह्य् ए॑तस्य॑ दे॒वता॒ य आ॑नुजाव॒रः
समृ॑द्ध्यै॒
यो ब्रा॑ह्म॒ण आ॑नुजाव॒रः स्यात् तस्मा॑ ए॒तम् बा॑र्हस्प॒त्यम् आ॑नुषू॒कं च॒रुं निर् व॑पेत् \
बृह॒स्पति॑म् ए॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वैन॒म् अग्रँ॑ समा॒नाना॒म् परि॑ णयति
बु॒ध्नव॑ती॒ अग्र॑वती याज्यानुवा॒क्ये॑ भवतो बु॒ध्नाद् ए॒वैन॒म् अग्र॒म् परि॑ णयति \
आनुषू॒को भ॑वत्य् ए॒षा ह्य् ए॑तस्य॑ दे॒वता॒ य आ॑नुजाव॒रः
समृ॑द्ध्यै ॥
प्र॒जाप॑ते॒स् त्रय॑स्त्रिँशद् दुहि॒तर॑ आसन्
ताः सोमा॑य॒ राज्ञे॑ऽददात्
तासाँ॑ रोहि॒णीम् उपै॑त्
ता ईर्ष्य॑न्तीः॒ पुन॑र् अगछन्
ता अन्व् ऐ॑त्
ताः पुन॑र् अयाचत
ता अ॑स्मै॒ न पुन॑र् अददा॒त्
सो॑ऽब्रवीत् \
ऋ॒तम् अ॑मीष्व॒ यथा॑ समाव॒च्छ उ॑पै॒ष्याम्य् अथ॑ ते॒ पुन॑र् दास्या॒मीति॒
स ऋ॒तम् आ॑मीत्
ता अ॑स्मै॒ पुन॑र् अददात्
तासाँ॑ रोहि॒णीम् ए॒वोप॑ ॥
ऐ॒त्
तं यक्ष्म॑ आर्छत् \
राजा॑नं॒ यक्ष्म॑ आर॒द् इति॒ तद् रा॑जय॒क्ष्मस्य॒ जन्म॒ यत् पापी॑यान् अभव॒त् तत् पा॑पय॒क्ष्मस्य॒ यज् जा॒याभ्योऽवि॑न्द॒त् तज् जा॒येन्य॑स्य॒
य ए॒वम् ए॒तेषां॒ यक्ष्मा॑णां॒ जन्म॒ वेद॒ नैन॑म् ए॒ते यक्ष्मा॑ विन्दन्ति॒
स ए॒ता ए॒व न॑म॒स्यन्न् उपा॑धावत्
ता अ॑ब्रुव॒न्
वरं॑ वृणामहै समाव॒च्छ ए॒व न॒ उपा॑य॒ इति॒
तस्मा॑ ए॒तम् ॥
आ॒दि॒त्यं च॒रुं निर् अ॑वप॒न्
तेनै॒वैन॑म् पा॒पात् स्रामा॑द् अमुञ्च॒न्
यः पा॑पय॒क्ष्मगृ॑हीतः॒ स्यात् तस्मा॑ ए॒तम् आ॑दि॒त्यं च॒रुं निर् व॑पेत् \
अ॒मुम् ए॒वैन॑म् आ॒प्याय॑मान॒म् अन्व् आ प्या॑ययति॒
नवो॑नवो भवति॒ जाय॑मान॒ इति॑ पुरोऽनुवा॒क्या॑ भव॒त्य् आयु॑र् ए॒वास्मि॒न् तया॑ दधाति॒
यम् आ॑दि॒त्या अँ॒शुम् आ॑प्या॒यय॒न्तीति॑ या॒ज्यैवैन॑म् ए॒तया॑ प्याययति ॥
प्र॒जाप॑तिर् दे॒वेभ्यो॒ऽन्नाद्यं॒ व्यादि॑श॒त्
सो॑ऽब्रवीत् \
यद् इ॒माँ लो॒कान् अ॒भ्य् अ॑ति॒रिच्या॑त \
ए॒तन् ममा॑स॒द् इति॒
तद् इ॒माँ लो॒कान् अ॒भ्य् अत्य् अ॑रिच्य॒तेन्द्रँ॒ राजा॑न॒म् इन्द्र॑म् अभिरा॒जम् इन्द्रँ॑ स्व॒राजा॑नम् \
ततो॒ वै स इ॒माँ लो॒काँस् त्रे॒धादु॑ह॒त्
तत् त्रि॒धातो॑स् त्रिधातु॒त्वम् \
यं का॒मये॑त \
अन्ना॒दः स्या॒द् इति॒ तस्मा॑ ए॒तं त्रि॒धातुं॒ निर् व॑पे॒द् इन्द्रा॑य॒ राज्ञे॑ पुरो॒डाश॑म् ॥
एका॑दशकपाल॒म् इन्द्रा॑याधिरा॒जायेन्द्रा॑य स्व॒राज्ञे॑ \
अ॒यं वा इन्द्रो॒ राजा॒यम् इन्द्रो॑ऽधिरा॒जो॑ऽसाव् इन्द्रः॑ { स्वराड् ^ स्व॒राज् }
इ॒मान् ए॒व लो॒कान्त् स्वेन॑ भाग॒धेये॒नोप॑ धावति॒
त ए॒वास्मा॒ अन्न॒म् प्र य॑छन्ति \
अन्ना॒द ए॒व भ॑वति॒
यथा॑ व॒त्सेन॒ प्रत्तां॒ गां दु॒ह ए॒वं ए॒वेमाँ लो॒कान् प्रत्ता॒न् काम॑म् अन्ना॒द्यं दु॑हे \
उत्ता॒नेषु॑ क॒पाले॒ष्व् अधि॑ श्रयति॒ \
अया॑तयामत्वाय॒
त्रयः॑ पुरो॒डाशा॑ भवन्ति॒
त्रय॑ इ॒मे लो॒कास् \
ए॒षां लो॒काना॒म् आप्त्यै॒ \
उत्त॑रौत्तरो॒ ज्याया॑न् भवति \
ए॒वम् इ॑व॒ हीमे लो॒काः
समृ॑द्ध्यै॒
सर्वे॑षाम् अभिग॒मय॒न्न् अव॑ द्यति॒ \
अछ॑म्बट्कारम् \
व्य॒त्यासं॒ अन्व् आ॑ह॒ \
अनि॑र्दाहाय ॥
दे॒वा॒सु॒राः संय॑त्ता आसन्
तान् दे॒वान् असु॑रा अजय॒न्
ते दे॒वाः प॑राजिग्या॒ना असु॑राणां॒ वैश्य॒म् उपा॑य॒न्
तेभ्य॑ इन्द्रि॒यं वी॒र्य॑म् अपा॑क्राम॒त्
तद् इन्द्रो॑ऽचाय॒त्
तद् अन्व् अपा॑क्राम॒त्
तद् अ॑व॒रुधं॒ नाश॑क्नो॒त्
तद् अ॑स्माद् अभ्य॒र्धो॑ऽचर॒त्
स प्र॒जाप॑ति॒म् उपा॑धाव॒त्
तम् ए॒तया॒ सर्व॑पृष्ठयायाजय॒त्
तयै॒वास्मि॑न्न् इन्द्रि॒यं वी॒र्य॑म् अदधात् \
य इ॑न्द्रि॒यका॑मः ॥
वी॒र्य॑कामः॒ स्यात् तम् ए॒तया॒ सर्व॑पृष्ठया याजयेत् \
ए॒ता ए॒व दे॒वताः॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति
ता ए॒वास्मि॑न्न् इन्द्रि॒यं वी॒र्यं॑ दधति॒
यद् इन्द्रा॑य॒ राथं॑तराय नि॒र्वप॑ति॒ यद् ए॒वाग्नेस् तेज॒स् तद् ए॒वाव॑ रुन्द्धे॒
यद् इन्द्रा॑य॒ बार्ह॑ताय॒ यद् ए॒वेन्द्र॑स्य॒ तेज॒स् तद् ए॒वाव॑ रुन्द्धे॒
यद् इन्द्रा॑य वैरू॒पाय॒ यद् ए॒व स॑वि॒तुस् तेज॒स् तत् ॥
ए॒वाव॑ रुन्द्धे॒
यद् इन्द्रा॑य वैरा॒जाय॒ यद् ए॒व धा॒तुस् तेज॒स् तद् ए॒वाव॑ रुन्द्धे॒
यद् इन्द्रा॑य शाक्व॒राय॒ यद् ए॒व म॒रुतां॒ तेज॒स् तद् ए॒वाव॑ रुन्द्धे॒
यद् इन्द्रा॑य रैव॒ताय॒ यद् ए॒व बृह॒स्पते॒स् तेज॒स् तद् ए॒वाव॑ रुन्द्धे \
उत्ता॒नेषु॑ क॒पाले॒ष्व् अधि॑ श्रयति \
अयातयाम॒त्वाय॑
द्वाद॑शकपालः पुरो॒डाशः॑ ॥
भ॒व॒ति॒
वै॒श्व॒दे॒व॒त्वाय॑
सम॒न्तम् प॒र्यव॑द्यति
सम॒न्तम् ए॒वेन्द्रि॒यं वी॒र्यं॑ यज॑माने दधाति
व्य॒त्यास॒म् अन्व् आ॑ह॒ \
अनि॑र्दहाय \
ए॒तयै॒व य॑जेताभिश॒स्यमा॑नस् \
ए॒ताश् चेद् वा अ॑स्य दे॒वता॒ अन॑म् अ॒दन्त्य् अ॒दन्त्य् उ॑व् ए॒वास्य॑ मनु॒ष्याः॑ ॥
रज॑नो॒ वै कौ॑णे॒यः क्र॑तु॒जितं॒ जान॑किं चक्षु॒र्वन्य॑म् अया॒त्
तस्मा॑ ए॒ताम् इष्टिं॒ निर् अ॑वपत् \
अ॒ग्नये॒ भ्राज॑स्वते पुरो॒डाश॑म् अ॒ष्टाक॑पालँ सौ॒र्यं च॒रुम् अ॒ग्नये॒ भ्राज॑स्वते पुरो॒डाश॑म् अ॒ष्टाक॑पालम् \
तयै॒वास्मि॒ञ् चक्षु॑र् अदधात् \
यश् चक्ष्का॑मः {F स्यात्} {W स्या॒त्} {ग्लोस् स्यात्} तस्मा॑ ए॒ताम् इष्टिं॒ निर् व॑पेत् \
अ॒ग्नये॒ भ्राज॑स्वते पुरो॒डाश॑म् अ॒ष्टाक॑पालँ सौ॒र्यं च॒रुम् अ॒ग्नये॒ भ्राज॑स्वते पुरो॒डाश॑म् अ॒ष्टाक॑पालम्
अ॒ग्नेर् वै चक्षु॑षा मनु॒ष्या॑ वि ॥
प॒श्य॒न्ति॒ सूर्य॑स्य दे॒वास् \
अ॒ग्निं चै॒व सूर्यं॑ च॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति
ताव् ए॒वास्मि॒ञ् चक्षु॑र् धत्त॒श् चक्षु॑ष्मान् ए॒व भ॑वति॒
यद् आ॑ग्ने॒यौ भव॑त॒श् चक्षु॑षी ए॒वास्मि॒न् तत् प्रति॑ दधाति॒
यत् सौ॒र्यो नासि॑कां॒ तेन॑ \
अ॒भितः॑ सौ॒र्यम् आ॑ग्ने॒यौ भ॑वत॒स्
तस्मा॑द् अ॒भितो॒ नासि॑कां॒ चक्षु॑षी॒
तस्मा॒न् नासि॑कया॒ चक्षु॑षी॒ विधृ॑ते
समा॒नी या॑ज्यानुवा॒क्ये॑ भवतः
समा॒नँ हि चक्षुः॒ समृ॑द्ध्यै॒ \
उद् उ॒ त्यं जा॒तवे॑दसम् \
स॒प्त त्वा॑ ह॒रितो॒ रथे॑
चि॒त्रं दे॒वाना॒म् उद् अ॑गा॒द् अनी॑क॒म् इति॒ पिण्डा॒न् प्र य॑छति॒
चक्षु॑र् ए॒वास्मै॒ प्र य॑छति॒
यद् ए॒व तस्य॒ तत् ॥
ध्रु॒वो॑ऽसि ध्रु॒वो॑ऽहँ स॑जा॒तेषु॑ भूयासं॒ धीर॒श् चेत्ता॑ वसु॒विद्
ध्रु॒वो॑ऽसि ध्रु॒वो॑ऽहँ स॑जा॒तेषु॑ भूयासम् उ॒ग्रश् चेत्ता॑ वसु॒विद्
ध्रु॒वो॑ऽसि ध्रु॒वो॑ऽहँ स॑जा॒तेषु॑ भूयासम् अभि॒भूश् चेत्ता॑ वसु॒विद्
आम॑नम् अ॒स्य् आम॑नस्य देवा॒ ये स॑जा॒ताः कु॑मा॒राः सम॑नस॒स् तान् अ॒हं का॑मये हृ॒दा ते मां का॑मयन्ताँ हृ॒दा तान् म॒ आम॑नसः कृधि॒ स्वाहा॑ \
आम॑नम् असि ॥
आम॑नस्य देवा॒ या स्त्रियः॒ सम॑नस॒स् ता अ॒हं का॑मये हृ॒दा ता मां का॑मयन्ताँ हृ॒दा ता म॒ आम॑नसः कृधि॒ स्वाहा॑
वैश्वदे॒वीँ सां॑ग्रह॒णीं निर् व॑पे॒द् ग्राम॑कामस् \
वै॒श्व॒दे॒वा वै स॑जा॒तास् \
विश्वा॑न् ए॒व दे॒वान्त् स्वेन॑ भाग॒धेये॒नोप॑ धावति॒
त ए॒वास्मै॑ सजा॒तान् प्र य॑छन्ति
ग्रा॒म्य् ए॑व भ॑वति
सांग्रह॒णी भ॑वति
मनो॒ग्रह॑णं॒ वै सं॒ग्रह॑ण॒म्
मन॑ ए॒व स॑जा॒ताना॑म् ॥
गृ॒ह्णा॒ति॒
ध्रु॒वो॑ऽसि ध्रु॒वो॑ऽहँ स॑जा॒तेषु॑ भूयास॒म् इति॑ परि॒धीन् परि॑ दधाति \
आ॒शिष॑म् ए॒वैताम् आ शा॑स्ते॒ \
अथो॑ ए॒तद् ए॒व सर्वँ॑ सजा॒तेष्व् अधि॑ भवति॒ यस्यै॒वं वि॒दुष॑ ए॒ते प॑रि॒धयः॑ परिधी॒यन्ते॑ \
आम॑नम् अ॒स्य् आम॑नस्य देवा॒ इति॑ ति॒स्र आहु॑तीर् जुहोति \
ए॒ताव॑न्तो॒ वै स॑जा॒ता ये म॒हान्तो॒ ये क्षु॑ल्ल॒का या स्त्रियः॑
तान् ए॒वाव॑ रुन्द्धे॒
त ए॑न॒म् अव॑रुद्धा॒ उप॑ तिष्ठन्ते ॥
यन् नव॒म् ऐत् तन् नव॑नीतम् अभव॒द् यद् अस॑र्प॒त् तत् स॒र्पिर् अ॑भव॒द् यद् अध्रि॑यत॒ तद् घृ॒तम् अ॑भवत् \
अ॒श्विनोः॑ प्रा॒णो॑ऽसि॒ तस्य॑ ते दत्तां॒ ययोः॑ प्रा॒णोऽसि॒ स्वाहेन्द्र॑स्य प्रा॒णो॑ऽसि॒ तस्य॑ ते ददातु॒ यस्य॑ प्रा॒णोऽसि॒ स्वाहा॑ मि॒त्रावरु॑णयोः प्रा॒णो॑ऽसि॒ तस्य॑ ते दत्तां॒ यस्य॑ प्रा॒णोऽसि॒ स्वाहा॒ विश्वे॑षां दे॒वाना॑म् प्रा॒णो॑ऽसि ॥
तस्य॑ ते ददतु॒ येषा॑म् प्रा॒णोऽसि॒ स्वाहा॑
घृ॒तस्य॒ धारा॑म् अ॒मृत॑स्य॒ पन्था॒म् इन्द्रे॑ण द॒त्ताम् प्रय॑ताम् म॒रुद्भिः॑ । तत् त्वा॒ विष्णुः॒ पर्य् अ॑पश्य॒त् तत् त्वेडा॒ गव्य् ऐर॑यत्
पावमा॒नेन॑ त्वा॒ स्तोमे॑न गाय॒त्रस्य॑ वर्त॒न्योपाँ॒शोर् वी॒र्ये॑ण दे॒वस् त्वा॑ सवि॒तोत् सृ॑जतु जी॒वात॑वे जीवन॒स्यायै॑ बृहद्रथन्त॒रयो॑स् त्वा॒ स्तोमे॑न तृ॒ष्टुभो॑ वर्त॒न्या शु॒क्रस्य॑ वी॒र्ये॑ण दे॒वस् त्वा॑ सवि॒तोत् ॥
सृ॒ज॒तु॒ जी॒वात॑वे जीवन॒स्याया॑ अ॒ग्नेस् त्वा॒ मात्र॑या॒ जग॑त्यै वर्त॒न्याग्र॑य॒णस्य॑ वी॒र्ये॑ण दे॒वस् त्वा॑ सवि॒तोत् सृ॑जतु जी॒वात॑वे जीवन॒स्यायै॑ \
इ॒मम् अ॑ग्न॒ आयु॑षे॒ वर्च॑से कृधि प्रि॒यँ रेतो॑ वरुण सोम राजन् । मा॒तेवा॑स्मा अदिते॒ शर्म॑ यछ॒ विश्वे॑ देवा॒ जर॑दष्टि॒र् यथास॑त् ॥
अ॒ग्निर् आयु॑ष्मा॒न्त् स वन॒स्पति॑भि॒र् आयु॑ष्मा॒न् तेन॒ त्वायु॒षायु॑ष्मन्तं करोमि॒ सोम॒ आयु॑ष्मा॒न्त् स ओष॑धीभिर् य॒ज्ञ आयु॑ष्मा॒न्त् स दक्षि॑णाभि॒र् ब्रह्मायु॑ष्म॒त् तद् ब्रा॑ह्म॒णैर् आयु॑ष्मद् दे॒वा आयु॑ष्मन्त॒स् ते॑ऽमृते॑न पि॒तर॒ आयु॑ष्मन्त॒स् ते स्व॒धयायु॑ष्मन्त॒स् तेन॒ त्वायु॒षायु॑ष्मन्तं करोमि ॥
अ॒ग्निं वा ए॒तस्य॒ शरी॑रं गछति॒ सोमँ॒ रसो॒ वरु॑ण एनं वरुणपा॒शेन॑ गृह्णाति॒ सर॑स्वतीं॒ वाग् अ॒ग्नाविष्णू॑ आ॒त्मा यस्य॒ ज्योग् आ॒मय॑ति । यो ज्योगा॑मयावी॒ स्याद् यो वा॑ का॒मये॑त॒
सर्व॒म् आयु॑र् इया॒म् इति॒ तस्मा॑ ए॒ताम् इष्टिं॒ निर् व॑पेद्
आग्ने॒यम् अ॒ष्टाक॑पालँ सौ॒म्यं च॒रुं वा॑रु॒णं दश॑कपालँ सारस्व॒तं च॒रुम् आ॑ग्नावैष्ण॒वम् एका॑दशकपालम्
अ॒ग्नेर् ए॒वास्य॒ शरी॑रं निष्क्री॒णाति॒ सोमा॒द् रस॑म् ॥
व॒रु॒णेनै॒वैनं॑ वरुणपा॒शान् मु॑ञ्चति सारस्व॒तेन॒ वाचं॑ दधाति \
अ॒ग्निः सर्वा॑ दे॒वता॒ विष्णु॑र् य॒ज्ञो दे॒वता॑भिश् चै॒वैनं॑ य॒ज्ञेन॑ च भिषज्यत्य् उ॒त यदी॒तासु॒र् भव॑ति॒ जीव॑त्य् ए॒व । यन् नव॒म् ऐत् तन् नव॑नीतम् अभव॒द् इत्य् आज्य॒म् अवे॑क्षते
रू॒पम् ए॒वास्यै॒तन् म॑हि॒मानं॒ व्याच॑ष्टे \
अ॒श्विनोः॑ प्रा॒णो॑ऽस्यीत्य् आ॑हा॒श्विनौ॒ वै दे॒वाना॑म् ॥
भि॒षजौ॒ ताभ्या॑म् ए॒वास॑मि भेष॒जं क॑रोति॒ \
इन्द्र॑स्य प्रा॒णो॑ऽसीत्य् आ॑ह \
इन्द्रि॒यम् ए॒वास॑मिन्न् ए॒तेन॑ दधाति
मि॒त्रावरु॑णयोः प्रा॒णो॑ऽसीत्य् आ॑ह
प्राणापा॒नाव् ए॒वास्मि॑न्न् ए॒तेन॑ दधाति॒
विश्वे॑षां दे॒वाना॑म् प्रा॒णो॑ऽसीत्य् आ॑ह वी॒र्य॑म् ए॒वास्मि॑न्न् ए॒तेन॑ दधाति
घृ॒तस्य॒ धारा॑म् अ॒मृत॑स्य॒ पन्था॒म् इत्य् आ॑ह
यथाय॒जुर् ए॒वैतत्
पा॑वमा॒नेन॑ त्वा॒ स्तोमे॒नेति॑ ॥
आ॒ह॒
प्रा॒णम् ए॒वास्मि॑न्न् ए॒तेन॑ दधाति
बृहद्रथन्त॒रयो॑स् त्वा॒ स्तोमे॒नेत्य् आ॑ह॒ \
ओज॑ ए॒वास्मि॑न्न् ए॒तेन॑ दधात्य् अ॒ग्नेस् त्वा॒ मात्र॒येत्य् आ॑हा॒त्मान॑म् ए॒वास्मि॑न्न् ए॒तेन॑ दधाति \
ऋ॒त्विजः॒ पर्य् आ॑हु॒र् याव॑न्त ए॒वर्त्विज॒स् त ए॑नम् भिषज्यन्ति
ब्र॒ह्मणो॒ हस्त॑म् अन्वा॒रभ्य॒ पर्य् आ॑हुर् एक॒धैव यज॑मान॒ आयु॑र् दधति॒
यद् ए॒व तस्य॒ तत् \
हिर॑ण्यात् ॥
घृ॒तं निष् पि॑ब॒त्य् आयु॒र् वै घृ॒तम् अ॒मृतँ॒ हिर॑ण्यम् अ॒मृता॑द् ए॒वायु॒र् निष् पि॑बति
श॒तमा॑नम् भवति श॒तायुः॒ पुरु॑षः श॒तेन्द्रि॑य॒ आयु॑ष्य् ए॒वेन्द्रि॒ये प्रति॑ तिष्ठति॒ \
अथो॒ खलु॒ याव॑तीः॒ समा॑ ए॒ष्यन् मन्ये॑त॒ ताव॑न्मानँ स्या॒त् समृ॑द्ध्यै \
इ॒मम् अ॑ग्न॒ आयु॑षे॒ वर्च॑से कृ॒धीत्य् आ॒हायु॑र् ए॒वास्मि॒न् वर्चो॑ दधाति । विश्वे॑ देवा॒ जर॑दष्टि॒र् यथास॒द् इत्य् आ॑ह॒
जर॑दष्टिम् ए॒वैनं॑ करोति \
अ॒ग्निर् आयु॑ष्मा॒न् इति॒ हस्तं॑ गृह्णाति \
ए॒ते वै दे॒वा आयु॑ष्मन्त॒स् त ए॒वास्मि॒न्न् आयु॑र् दधति॒ सर्व॒म् आयु॑र् एति ॥
प्र॒जाप॑ति॒र् वरु॑णा॒याश्व॑म् अनय॒त्
स स्वां दे॒व्वता॑म् आर्छ॒त्
स पर्य् अ॑दीर्यत॒
स ए॒तं वा॑रु॒णं चतु॑ष्कपालम् अपश्य॒त्
तं निर् अ॑वप॒त्
ततो॒ वै स व॑रुणपा॒शाद् अ॑मुच्यत॒
वरु॑णो॒ वा ए॒तं गृ॑ह्णाति॒ योऽश्व॑म् प्रतिगृ॒ह्णाति॑
याव॑तोऽश्वान् प्रतिगृह्णी॒यात् ताव॑तो वारु॒णाञ् चतु॑ष्कपाला॒न् निर् व॑पेत् \
वरु॑णम् ए॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒
स ए॒वैनं॑ वरुणपा॒शान् मु॑ञ्चति ॥
चतु॑ष्कपाला भवन्ति॒
चतु॑ष्पा॒द् ध्य् अश्वः॒
समृ॑द्ध्यै॒ \
एक॒म् अति॑रिक्तं॒ निर् व॑पे॒द् यम् ए॒व प्र॑तिगृ॒ही भव॑ति॒ यं वा॒ नाध्येति॒
तस्मा॑द् ए॒व व॑रुणपा॒शान् मु॑च्यते॒
यद्य् अप॑रम् प्रतिग्रा॒ही स्यात् सौ॒र्यम् एक॑कपाल॒म् अनु॒ निर् व॑पेत् \
अ॒मुम् ए॒वादि॒त्यम् उ॒च्चारं कु॑रुते \
अ॒पो॑ऽवभृ॒थम् अवै॑ति \
अ॒प्सु वै वरु॑णः
सा॒क्षाद् ए॒व वरु॑ण॒म् अव॑ यजते \
अपोन॒प्त्रीयं॑ च॒रुम् पुन॒र् एत्य॒ निर् व॑पेत् \
अ॒प्सुयो॑नि॒र् वा अश्वः॑
स्वाम् ए॒वैनं॒ योनिं॑ गमयति॒
स ए॑नँ शा॒न्त उप॑ तिष्ठते ॥
या वा॑म् इन्द्रावरुणा यत॒व्या॑ त॒नूस् तये॒मम् अँह॑सो मुञ्चतम् \
या वा॑म् इन्द्रावरुणा सह॒स्या॑ रक्ष॒स्या॑ तेज॒स्या॑ त॒नूस् तये॒मम् अँह॑सो मुञ्चतम् \
यो वा॑म् इन्द्रावरुणाव् अ॒ग्नौ स्राम॒स् तं वा॑म् ए॒तेनाव॑ यजे॒
यो वा॑म् इन्द्रावरुणा द्वि॒पात्सु॑ प॒शुषु॒ चतु॑ष्पात्सु गो॒ष्ठे गृ॒हेष्व् अ॒प्स्व् ओष॑धीषु॒ वन॒स्पति॑षु॒ स्राम॒स् तं वा॑म् ए॒तेनाव॑ यजे॒ \
इन्द्रो॒ वा ए॒तस्य॑ ॥
इ॒न्द्रि॒येणप॑ क्रामति॒ वरु॑ण एनं वरुणपा॒शेन॑ गृह्णाति॒ यः पा॒प्मना॑ गृही॒तो भव॑ति॒
यः पा॒प्मना॑ गृही॒तः स्यात् तस्मा॑ ए॒ताम् ऐ॑न्द्रावरु॒णीम् प॑य॒स्यां॑ निर् व॑पे॒द् इन्द्र॑ ए॒वास्मि॑न्न् इन्द्रि॒यं द॑धाति॒ वरु॑ण एनं वरुणपा॒शान् मु॑ञ्चति
पय॒स्या॑ भवति॒ पयो॒ हि वा ए॒तस्मा॑द् अप॒क्राम॒त्य् अथै॒ष पा॒प्मना॑ गृही॒तो यत् प॑य॒स्या॑ भव॑ति॒ पय॑ ए॒वास्मि॒न् तया॑ दधाति
पय॒स्या॑याम् ॥
पु॒रो॒डाश॒म् अव॑ दधात्य् आत्म॒न्वन्त॑म् ए॒वैनं॑ करो॒त्य् अथो॑ आ॒यत॑नवन्तम् ए॒व
च॑तु॒र्धा व्य् ऊ॑हति दि॒क्ष्व् ए॑व प्रति॑ तिष्ठति॒
पुनः॒ सम् ऊ॑हति दि॒ग्भ्य ए॒वास्मै॑ भेष॒जं क॑रोति
स॒मूह्याव॑ द्यति॒ यथावि॑द्धं निष्कृ॒न्तति॑ ता॒दृग् ए॒व तत् \
यो वा॑म् इन्द्रावरुणाव् अ॒ग्नौ स्राम॒स् तं वा॑म् ए॒तेना॑व यज इत्याह॒ दुरि॑ष्ट्या ए॒वैन॑म् पाति॒
यो वा॑म् इन्द्रावरुणा द्वि॒पात्सु॑ प॒शुषु॒ स्राम॒स् तं वा॑म् ए॒तेनाव॑ यज॒ इत्य् आ॑है॒ताव॑ती॒र् वा आप॒ ओष॑धयो॒ वन॒स्पत॑यः प्र॒जाः प॒शव॑ उपजीव॒नीया॒स् ता ए॒वास्मै॑ वरुणपा॒शान् मु॑ञ्चति ॥
स प्र॑त्न॒वत् \
नि काव्या॒ \
इन्द्रं॑ वो वि॒श्वत॒स् परि॒ \
इन्द्रं॒ नरः॑ ।
त्वं नः॑ सोम वि॒श्वतो॒ रक्षा॑ राजन्न् अघाय॒तः । न रि॑ष्ये॒त् त्वाव॑तः॒ सकः॑ ॥
या ते॒ धामा॑नि दि॒वि या पृ॑थि॒व्यां या पर्व॑ते॒ष्व् ओष॑धीष्व् अ॒प्सु । तेभि॑र् नो॒ विश्वैः॑ सु॒मना॒ अहे॑ड॒न् राज॑न्त् सोम॒ प्रति॑ ह॒व्या गृ॑भाय ॥
अग्नी॑षोमा॒ सवे॑दसा॒ सहू॑ती वनतं॒ गिरः॑ । सं दे॑व॒त्रा ब॑भूवथुः ॥
यु॒वम् ॥
ए॒तानि॑ दि॒वि रो॑च॒नान्य् अ॒ग्निश् च॑ सोम॒ सक्र॑तू अधत्तम् । यु॒वँ सिन्धूँ॑र् अ॒भिश॑स्तेर् अव॒द्याद् अग्नी॑ षोमाव् अमुञ्चतं गृभी॒तान् ॥
अग्नी॑षोमाव् इ॒मँ सु मे॑ शृणु॒तं वृ॑षणा॒ हव॑म् । प्रति॑ सू॒क्तानि॑ हर्यत॒म् भव॑तं दा॒शुषे॒ मयः॑ ॥
आन्यं दि॒वो मा॑त॒रिश्वा॑ जभा॒राम॑थ्नाद् अ॒न्यम् परि॑ श्ये॒नो अद्रेः॑ । अग्नी॑षोमा॒ ब्रह्म॑णा वावृधा॒नोरुं य॒ज्ञाय॑ चक्रथुर् उ लो॒कम् ॥
अग्नी॑षोमा ह॒विषः॒ प्रस्थि॑तस्य वी॒तम् ॥
हर्य॑तं वृषणा जु॒षेथा॑म् । सु॒शर्मा॑णा॒ स्वव॑सा॒ हि भू॒तम् अथा॑ धत्तं॒ यज॑मानाय॒ शं योः ॥
आ प्या॑यस्व॒
सं ते॑ ॥
ग॒णानां॑ त्वा ग॒णप॑तिँ हवामहे क॒विं क॑वी॒नाम् उ॑प॒मश्र॑वस्तमम् । ज्ये॒ष्ठ॒राज॒म् ब्रह्म॑णाम् ब्रह्मणस् पत॒ आ नः॑ शृ॒ण्वन्न् ऊ॒तिभिः॑ सीद॒ साद॑नम् ॥
स इज् जने॑न॒ स वि॒शा स स जन्म॑ना॒ स पु॒त्रैर् वाज॑म् भरते॒ धना॒ नृभिः॑ । दे॒वानां॒ यः पि॒तर॑म् आ॒विवा॑सति ॥
श्र॒द्धाम॑ना ह॒विषा॒ ब्रह्म॑ण॒स् पति॑म् ॥
स सु॒ष्टुभा॒ स ऋक्व॑ता ग॒णेन॑ व॒लँ रु॑रोज फलि॒गँ रवे॑ण । बृह॒स्पति॑र् उ॒सृया॑ हव्य॒सूदः॒ कनि॑क्रद॒द् वाव॑शती॒र् उद् आ॑जत् ॥
मरु॑तो॒ यद् ध॑ वो दि॒वस् \
या वः॒ शर्म॑ ॥
अ॒र्य॒मा या॑ति वृष॒भस् तुवि॑ष्मान् दा॒ता वसू॑नाम् पुरुहू॒तो अर्ह॑न् । स॒ह॒स्रा॒क्षो गो॑त्र॒भिद् वज्र॑बाहुर् अ॒स्मासु॑ दे॒वो द्रवि॑णं दधातु ॥
ये ते॑ऽर्यमन् ब॒हवो॑ देव॒यानाः॒ पन्था॑नः ॥
रा॒ज॒न् दि॒व आ॒चर॑न्ति । तेभि॑र् नो देव॒ महि॒ शर्म॑ यछ॒ शं न॑ एधि द्वि॒पदे॒ शं चतु॑ष्पदे ॥
बु॒ध्नाद् अग्र॒म् अङ्गि॑रोभिर् गृणा॒नो वि पर्व॑तस्य दृँहि॒तान्य् ऐ॑रत् । रु॒जद् रोधाँ॑सि कृ॒त्रिमा॑ण्य् एषाँ॒ सोम॑स्य॒ ता मद॒ इन्द्र॑श् चकार ॥
बु॒ध्नाद् अग्रे॑ण॒ वि मि॑माय॒ मानै॒र् वज्रे॑ण॒ खान्य् अ॑तृणन् न॒दीना॑म् । वृथा॑सृजत् प॒थिभि॑र् दीर्घया॒थैः सोम॑स्य॒ ता मद॒ इन्द्र॑श् चकार ॥
प्र यो ज॒ज्ञे वि॒द्वाँ अ॒स्य बन्धुं॒ विश्वा॑नि दे॒वो जनि॑मा विवक्ति । ब्रह्म॒ ब्रह्म॑ण॒ उज् ज॑भार॒ मध्य॑न् नी॒चाद् उ॑च्चा स्व॒धया॒भि प्र त॑स्थौ ॥
म॒हान् म॒ही अ॑स्तभाय॒द् वि जा॒तो द्याँ सद्म॒ पार्थि॑वं च॒ रजः॑ । स बु॒ध्नाद् आ॑ष्ट ज॒नुषा॒भ्य् अग्र॒म् बृह॒स्पति॑र् दे॒वता॒ यस्य॑ स॒म्राट् ॥
बु॒ध्नाद् यो अग्र॑म् अ॒भ्यर्त्य् ओज॑सा॒ बृह॒स्पति॒म् आ वि॑वासन्ति दे॒वाः । भि॒नद् व॒लं वि पुरो॑ दर्दरीति॒ कनि॑क्रद॒त् सुव॑र् अ॒पो ज॑गाय ॥