वा॒य॒व्यँ॑ श्वे॒तम् आ ल॑भेत॒ भूति॑कामस् \
वा॒युर् वै क्षेपि॑ष्ठा दे॒वता॑
वा॒युम् ए॒व स्वेन॑ भाग॒धेये॒नोप॑धावति॒
स ए॒वैन॒म् भूतिं॑ गमयति॒
भव॑त्य् ए॒व \
अति॑क्षिप्रा दे॒वतेत्य् आ॑हुः॒ सैन॑म् ईश्व॒रा प्र॒दह॒ इति॑ \
ए॒तम् ए॒व सन्तं॑ वा॒यवे॑ नि॒युत्व॑त॒ आ ल॑भेत
नि॒युद् वा अ॑स्य॒ धृति॑स् \
धृ॒त ए॒व भूति॒म् उपै॒त्य् अप्र॑दाहाय॒
भव॑त्य् ए॒व ॥
वा॒यवे॑ नि॒युत्व॑त॒ आ ल॑भेत॒ ग्राम॑कामस् \
वा॒युर् वा इ॒माः प्र॒जा न॑स्यो॒ता ने॑नीयते
वा॒युम् ए॒व नि॒युत्व॑न्तँ॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒
स ए॒वास्मै॑ प्र॒जा न॑स्यो॒ता नि य॑छति
ग्रा॒म्य् ए॑व भ॑वति
नि॒युत्व॑ते भवति
ध्रु॒वा ए॒वास्मा॒ अन॑पगाः करोति
वा॒यवे॑ नि॒युत्व॑त॒ आ ल॑भेत प्र॒जाका॑मस् \
प्रा॒णो वै वा॒युर् अ॑पा॒नो नि॒युत्
प्रा॒णा॒पा॒नौ खलु॒ वा ए॒तस्य॑ प्र॒जायाः॑ ॥
अप॑ क्रामतो॒ योऽल॑म् प्र॒जायै॒ सन् प्र॒जां न वि॒न्दते॑
वा॒युम् ए॒व नि॒युत्व॑न्तँ॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒
स ए॒वास्मै॑ प्राणापा॒नाभ्या॑म् प्र॒जाम् प्र ज॑नयति
वि॒न्दते॑ प्र॒जाम् \
वा॒यवे॑ नि॒युत्व॑त॒ आ ल॑भेत॒ ज्योगा॑मयावी
प्रा॒णो वै वा॒युर् अ॑पा॒नो नि॒युत्
प्रा॒णा॒पा॒नौ खलु॒ वा ए॒तस्मा॒द् अप॑ क्रामतो॒ यस्य॒ ज्योग् आ॒मय॑ति
वा॒युम् ए॒व नि॒युत्व॑न्तँ॒ स्वेन॑ भाग॒धेये॒नोप॑ ॥
धा॒व॒ति॒
स ए॒वास्मि॑न् प्राणापा॒नौ द॑धाति \
उ॒त यदी॒तासु॒र् भव॑ति॒ जीव॑त्य् ए॒व
प्र॒जाप॑ति॒र् वा इ॒दम् एक॑ आसी॒त्
सो॑ऽकामयत
प्र॒जाः प॒शून्त् सृ॑जे॒येति॒
स आ॒त्मनो॑ व॒पाम् उद् अ॑क्खिदत्
ताम् अ॒ग्नौ प्रागृ॑ह्णा॒त्
ततो॒ऽजस् तू॑प॒रः सम् अ॑भव॒त्
तँ स्वायै॑ दे॒वता॑या॒ आल॑भत॒
ततो॒ वै स प्र॒जाः प॒शून् अ॑सृजत॒
यः प्र॒जाका॑मः ॥
प॒शुका॑मः॒ स्यात् स ए॒तम् प्र॑जाप॒त्यम् अ॒जं तू॑प॒रम् आ ल॑भेत
प्र॒जाप॑तिम् ए॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒
स ए॒वास्मै॑ प्र॒जाम् प॒शून् प्र ज॑नयति॒
यच् छ्म॑श्रु॒णस् तत् पुरु॑षाणाँ रू॒पम् \
यत् तू॑प॒रस् तद् अश्वा॑ना॒म्
यद् अ॒न्यतो॑द॒न् तद् गवा॒म्
यद् अव्या॑ इव श॒फास् तद् अवी॑नाम् \
यद् अ॒जस् तद् अ॒जाना॑म्
ए॒ताव॑न्तो॒ वै ग्रा॒म्याः प॒शव॑स्
तान् ॥
रू॒पेणै॒वाव॑ रुन्द्धे
सोमापौ॒ष्णं त्रै॒तम् आ ल॑भेत प॒शुका॑मस् \
द्वौ वा अ॒जायै॒ स्तनौ॑
नानै॒व द्वाव् अ॒भि जाये॑ते॒ ऊर्ज॒म् पुष्टिं॑ तृ॒तीयः॑
सोमापू॒षणा॑व् ए॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति
ताव् ए॒वास्मै॑ प॒शून् प्र ज॑नयतः॒
सोमो॒ वै रे॑तो॒धाः पू॒षा प॑शू॒नाम् प्र॑जनयि॒ता
सोम॑ ए॒वास्मै॒ रेतो॒ दधा॑ति पू॒षा प॒शून् प्र ज॑नयति॒ \
औदु॑म्बरो॒ यूपो॑ भवति \
ऊर्ग् वा उ॑दु॒म्बर॒ ऊर्क् प॒शव॑ ऊर्जै॒वास्मा॒ ऊर्ज॑म् प॒शून् अव॑ रुन्द्धे ॥
प्र॒जाप॑तिः प्र॒जा अ॑सृजत
ता अ॑स्मात् सृ॒ष्टाः परा॑चीर् आयन्
ता वरु॑णम् अगछन्
ता अन्व् ऐ॑त्
ताः पुन॑र् अयाचत
ता अ॑स्मै॒ न पुन॑र् अददा॒त्
सो॑ऽब्रवीत् \
वरं॑ वृणी॒ष्वाथ॑ मे॒ पुन॑र् दे॒हीति॑
तासां॒ वर॒म् आल॑भत॒
स कृ॒ष्ण एक॑शितिपाद् अभवत् \
यो वरु॑णगृहीतः॒ स्यात् स ए॒तं वा॑रु॒णं कृ॒ष्णम् एक॑शितिपाद॒म् आ ल॑भेत॒
वरु॑णम् ॥
ए॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒
स ए॒वैनं॑ वरुणपा॒शान् मु॑ञ्चति
कृ॒ष्ण एक॑शितिपाद् भवति
वारु॒णो ह्य् ए॑ष दे॒वत॑या॒
समृ॑द्ध्यै॒
सुव॑र्भानुर् आसु॒रः सूर्यं॒ तम॑साविध्य॒त्
तस्मै॑ दे॒वाः प्राय॑श्चित्तिम् ऐछ॒न्
तस्य॒ यत् प्र॑थ॒मं तमो॒ऽपाघ्न॒न्त् सा कृ॒ष्णावि॑र् अभवत् \
यद् द्वि॒तीयँ॒ सा फल्गु॑नी॒
यत् तृ॒तीयँ॒ सा भ॑ल॒क्षी
यद् अ॑ध्य॒स्थाद् अ॒पाकृ॑न्त॒न्त् सावि॑र् व॒शा ॥
सम् अ॑भव॒त्
ते दे॒वा अ॑ब्रुवन्
देवप॒शुर् वा अ॒यँ सम् अ॑भू॒त् कस्मा॑ इ॒मम् आ ल॑प्स्यामह॒ इति॒ \
अथ॒ वै तर्ह्य् अल्पा॑ पृथि॒व्य् आसी॒द् अजा॑ता॒ ओष॑धयस्
ताम् अविं॑ व॒शाम् आ॑दि॒त्येभ्यः॒ कामा॒याल॑भन्त॒
ततो॒ वा अप्र॑थत पृथि॒व्य् अजा॑य॒न्तौष॑धयस् \
यः का॒मये॑त॒
प्रथे॑य प॒शुभिः॒ प्र प्र॒जया॑ जाये॒येति॒ स ए॒ताम् अविं॑ व॒शाम् आ॑दि॒त्येभ्यः॒ कामा॑य ॥
आ ल॑भेत \
आदि॒त्यान् ए॒व कामँ॒ स्वेन॑ {F भाग॒धेये॒नोप॑} {W भग॒धेये॒नोप॑} {ग्लोस् भा॒ग॒धेये॒नोप॑} धावति॒
त ए॒वैन॑म् प्र॒थय॑न्ति प॒शुभिः॒ प्र प्र॒जया॑ जनयन्ति \
अ॒साव् आ॑दि॒त्यो न व्य् अ॑रोचत॒
तस्मै॑ दे॒वाः प्राय॑श्चित्तिम् ऐछ॒न्
तस्मा॑ ए॒ता म॒ल्हा आल॑भन्ताग्ने॒यीं कृ॑ष्णग्री॒वीँ सँ॑हि॒ताम् ऐ॒न्द्रीँ श्वे॒ताम् बा॑र्हस्प॒त्याम् \
ताभि॑र् ए॒वास्मि॒न् रुच॑म् अदधुस् \
यो ब्र॑ह्मवर्च॒सका॑मः॒ स्यात् तस्मा॑ ए॒ता म॒ल्हा आ ल॑भेत ॥
आ॒ग्ने॒यीं कृ॑ष्णग्री॒वीँ सँ॑हि॒ताम् ऐ॒न्द्रीँ श्वे॒ताम् बा॑र्हस्प॒त्याम्
ए॒ता ए॒व दे॒वताः॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति
ता ए॒वास्मि॑न् ब्रह्मवर्च॒सं द॑धति
ब्रह्मवर्च॒स्य् ए॑व भ॑वति
व॒सन्ता॑ प्रा॒तर् आ॑ग्ने॒यीं कृ॑ष्णग्री॒वीम् आ ल॑भेत ग्री॒ष्मे म॒ध्यंदि॑ने सँहि॒ताम् ऐ॒न्द्रीँ श॒रद्य् अ॑परा॒ह्णे श्वे॒ताम् बा॑र्हस्प॒त्याम् \
त्रीणि॒ वा आ॑दि॒त्यस्य॒ तेजाँ॑सि व॒सन्ता॑ प्रा॒तर् ग्री॒ष्मे म॒ध्यंदि॑ने श॒रद्य् अ॑परा॒ह्णे
याव॑न्त्य् ए॒व तेजाँ॑सि॒ तान्य् ए॒व ॥
अव॑ रुन्द्धे
संवत्स॒रम् प॒र्याल॑भ्यन्ते
संवत्स॒रो वै ब्र॑ह्मवर्च॒सस्य॑ प्रदा॒ता
सं॑वत्स॒र ए॒वास्मै॑ ब्रह्मवर्च॒सम् प्र य॑छति
ब्रह्मवर्च॒स्य् ए॑व भ॑वति
ग॒र्भिण॑यो भवन्ति \
इन्द्रि॒यं वै गर्भ॑स् \
इ॒न्द्रि॒यम् ए॒वास्मि॑न् दधति
सारस्व॒तीम् मे॒षीम् आ ल॑भेत॒ य ई॑श्व॒रो वा॒चो वदि॑तोः॒ सन् वाचं॒ न वदे॑त् \
वाग् वै सर॑स्वती॒
सर॑स्वतीम् ए॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ सैवास्मि॑न् ॥
वाचं॑ दधाति प्रवदि॒ता वा॒चो भ॑वति॒ \
अप॑न्नदती भवति॒
तस्मा॑न् मनु॒ष्याः॑ सर्वां॒ वाच॑म् वदन्ति \
आग्ने॒यं कृ॒ष्णग्री॑व॒म् आ ल॑भेत सौ॒म्यम् ब॒भ्रुं ज्योगा॑मयावी \
अ॒ग्निं वा ए॒तस्य॒ शरी॑रं गछति॒ सोमँ॒ रसो॒ यस्य॒ ज्योग् आ॒मय॑ति \
अ॒ग्नेर् ए॒वास्य॒ शरी॑रं निष्क्री॒णाति॒ सोमा॒द् रस॑म्
उ॒त यदी॒तासु॒र् भव॑ति॒ जीव॑त्य् ए॒व
सौ॒म्यम् ब॒भ्रुम् आ ल॑भेताग्ने॒यं कृ॒ष्णग्री॑वम् प्र॒जाका॑मः॒
सोमः॑ ॥
वै रे॑तो॒धा अ॒ग्निः प्र॒जाना॑म् प्रजनयि॒ता
सोम॑ ए॒वास्मै॒ रेतो॒ दधा॑त्य् अ॒ग्निः प्र॒जाम् प्र ज॑नयति
वि॒न्दते॑ प्र॒जाम्
आ॑ग्ने॒यं कृ॒ष्णग्री॑व॒म् आ ल॑भेत सौ॒म्यम् ब॒भ्रुं यो ब्रा॑ह्म॒णो वि॒द्याम् अ॒नूच्य॒ न वि॒रोचे॑त॒
यद् आ॑ग्ने॒यो भव॑ति॒ तेज॑ ए॒वास्मि॒न् तेन॑ दधाति॒
यत् सौ॒म्यो ब्र॑ह्मवर्च॒सं तेन॑
कृ॒ष्णग्री॑व आग्ने॒यो भ॑वति॒ तम॑ ए॒वास्मा॒द् अप॑ हन्ति
श्वे॒तो भ॑वति ॥
रुच॑म् ए॒वास्मि॑न् दधाति
ब॒भ्रुः सौ॒म्यो भ॑वति ब्रह्मवर्च॒सम् ए॒वास्मि॒न् त्विषिं॑ दधाति \
आग्ने॒यं कृ॒ष्णग्री॑व॒म् आ ल॑भेत सौ॒म्यम् ब॒भ्रुम् आ॑ग्ने॒यं कृ॒ष्णग्री॑वम् पुरो॒धायाँ॒ स्पर्ध॑मानस् \
आ॒ग्ने॒यो वै ब्रा॑ह्म॒णः सौ॒म्यो रा॑ज॒न्य॑स् \
अ॒भितः॑ सौ॒म्यम् आ॑ग्ने॒यौ भ॑वत॒स्
तेज॑सै॒व ब्रह्म॑णोभ॒यतो॑ रा॒ष्ट्रम् परि॑ गृह्णाति \
एक॒धा स॒मावृ॑ङ्क्ते पु॒र ए॑नं दधते ॥
दे॒वा॒सु॒रा ए॒षु लो॒केष्व् अ॑स्पर्धन्त॒
स ए॒तं विष्णु॑र् वाम॒नम् अ॑पश्य॒त्
तँ स्वायै॑ दे॒वता॑या॒ आल॑भत॒
ततो॒ वै स इ॒माँ लो॒कान् अ॒भ्य् अ॑जयत् \
वै॒ष्ण॒वं वा॑म॒नम् आ ल॑भेत॒ स्पर्ध॑मानस् \
विष्णु॑र् ए॒व भू॒त्वेमाँ लो॒कान् अ॒भि ज॑यति॒
विष॑म॒ आ ल॑भेत॒
विष॑मा इव॒ हीमे लो॒काः
समृ॑द्ध्यै॒ \
इन्द्रा॑य मन्यु॒मते॒ मन॑स्वते ल॒लाम॑म् प्राशृ॒ङ्गम् आ ल॑भेत संग्रा॒मे ॥
संय॑त्ते \
इन्द्रि॒येण॒ वै म॒न्युना॒ मन॑सा संग्रा॒मं ज॑यति॒ \
इन्द्र॑म् ए॒व म॑न्यु॒मन्त॒म् मन॑स्वन्तँ॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒
स ए॒वास्मि॑न्न् इन्द्रि॒यम् म॒न्युम् मनो॑ दधाति॒
जय॑ति॒ तँ सं॑ग्रा॒मम्
इन्द्रा॑य म॒रुत्व॑ते पृश्निस॒क्थम् आ ल॑भेत॒ ग्राम॑कामस् \
इन्द्र॑म् ए॒व म॒रुत्व॑न्तँ॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒
स ए॒वास्मै॑ सजा॒तान् प्र य॑छ्ति
ग्रा॒म्य् ए॑व भ॑वति॒
यद् ऋ॑ष॒भस् तेन॑ ॥
ऐ॒न्द्रस् \
यत् पृश्नि॒स् तेन॑ मारु॒तः
समृ॑द्ध्यै
प॒श्चात् पृ॑श्निस॒क्थो भ॑वति
पश्चादन्ववसा॒यिनी॑म् ए॒वास्मै॒ विशं॑ करोति
सौ॒म्यम् ब॒भ्रुम् आ ल॑भे॒तान्न॑कामः
सौ॒म्यं वा अन्न॑म् \
सोम॑म् ए॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒
स ए॒वास्मा॒ अन्न॒म् प्र य॑छति \
अन्ना॒द ए॒व भ॑वति
ब॒भ्रुर् भ॑वति \
ए॒तद् वा अन्न॑स्य रू॒पम् \
समृ॑द्ध्यै
सौ॒म्यम् ब॒भ्रुम् आ ल॑भेत॒ यम् अल॑म् ॥
रा॒ज्याय॒ सन्तँ॑ रा॒ज्यं नोप॒नमे॑त्
सौ॒म्यं वै रा॒ज्यम् \
सोम॑म् ए॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒
स ए॒वास्मै॑ रा॒ज्यम् प्र य॑छति॒ \
उपै॑नँ रा॒ज्यं न॑मति
ब॒भ्रुर् भ॑वति \
ए॒तद् वै सोम॑स्य रू॒पम् \
समृ॑द्ध्यै॒ \
इन्द्रा॑य वृत्र॒तुरे॑ ल॒लाम॑म् प्राशृ॒ङ्गम् आ ल॑भेत ग॒तश्रीः॑ प्रति॒ष्ठाकामः॑
पा॒प्मान॑म् ए॒व वृ॒त्रं ती॒र्त्वा प्र॑ति॒ष्ठां ग॑छति॒ \
इन्द्रा॑याभिमाति॒घ्ने ल॒लाम॑म् प्राशृ॒ङ्गम् आ ॥
ल॒भे॒त॒ यः पा॒प्मना॑ गृही॒तः स्यात्
पा॒प्मा वा अ॒भिमा॑तिस् \
इन्द्र॑म् ए॒वाभि॑माति॒हनँ॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒
स ए॒वास्मा॑त् पा॒प्मान॑म् अ॒भिमा॑ति॒म् प्र णु॑दते॒ \
इन्द्रा॑य व॒ज्रिणे॑ ल॒लाम॑म् प्राशृ॒ङ्गम् आ॑ लभेत॒ यम् अलँ॑ रा॒ज्याय॒ सन्तँ॑ रा॒ज्यं नोप॒नमे॑त् \
इन्द्र॑म् ए॒व व॒रिणँ॒ स्वेन॑ भाग॒धेये॒नोप॑धावति॒
स ए॑वास्मै॒ वज्र॒म् प्र य॑छति॒
स ए॑नं॒ वज्रो॒ भूत्या॑ इन्द्धे॒ \
उपै॑नँ रा॒ज्यं न॑मति
ल॒लामः॑ प्राशृ॒ङ्गो भ॑वति \
ए॒तद् वै वज्र॑स्य रू॒पम् \
समृ॑द्ध्यै ॥
अ॒साव् आ॑दि॒त्यो न व्य् अ॑रोचत॒
तस्मै॑ दे॒वाः प्राय॑श्चित्तिम् ऐछ॒न्
तस्मा॑ ए॒तां दश॑र्षभा॒म् आल॑भन्त॒ तयै॒वास्मि॒न् रुच॑म् अदधुस् \
यो ब्र॑ह्मवर्च॒सका॑मः॒ स्यात् तस्मा॑ ए॒तां दश॑र्षभा॒म् आ ल॑भेत \
अ॒मुम् ए॒वादि॒त्यँ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒
स ए॒वास्मि॑न् ब्रह्मवर्च॒सं द॑धाति
ब्रह्मवर्च॒स्य् ए॑व भ॑वति
व॒सन्ता॑ प्रा॒तस् त्रीँ ल॒लामा॒न् आ ल॑भेत ग्री॒ष्मे म॒ध्यंदि॑ने ॥
छि॒ति॒पृ॒ष्ठाँ छ॒रद्य् अ॑प॒राह्णे त्रीञ् छि॑ति॒वारा॑न्
त्रीणि॒ वा आ॑दि॒त्यस्य॒ तेजाँ॑सि व॒सन्ता॑ प्रा॒तर् गृ॒ष्मे म॒ध्यंदि॑ने श॒रद्य् अ॑परा॒ह्णे
याव॑न्त्य् ए॒व तेजाँ॑सि॒ तान्य् ए॒वाव॑ रुन्द्धे॒
त्रय॑स्त्रय॒ आ ल॑भ्यन्ते \
अभिपू॒र्वम् ए॒वास्मि॒न् तेजो॑ दधाति
संवत्स॒रम् प॒र्याल॑भ्यन्ते
संवत्स॒रो वै ब्र॑ह्मवर्च॒सस्य॑ प्रदा॒ता
सं॑वत्स॒र ए॒वास्मै॑ ब्रह्मवर्च॒सम् प्र य॑छति
ब्रह्मवर्च॒स्य् ए॑व भ॑वति
संवत्स॒रस्य॑ प॒रस्ता॑त् प्राजाप॒त्यं कद्रु॑म् ॥
आ ल॑भेत
प्र॒जाप॑तिः॒ सर्वा॑ दे॒वता॑स् \
दे॒वता॑सु ए॒व प्रति॑ तिष्ठति॒
यदि॑ बिभी॒यात् \
दु॒श्चर्मा॑ भविष्या॒मीति॑ सोमापौ॒ष्णँ श्या॒मम् आ ल॑भेत
सौ॒म्यो वै दे॒वत॑या॒ पुरु॑षः पौ॒ष्णाः प॒शवः॑
स्वयै॒वास्मै॑ दे॒वत॑या प॒शुभि॒स् त्वचं॑ करोति॒
न दु॒श्चर्मा॑ भवति
दे॒वाश् च॒ वै य॒मश् चा॑स्मिँ लो॒के॑ऽस्पर्धन्त॒
स य॒मो दे॒वाना॑म् इन्द्रि॒यं वी॒र्य॑म् अयुवत॒
तद् य॒मस्य॑ ॥
य॒म॒त्वम् \
ते दे॒वा अ॑मन्यन्त
य॒मो वा इ॒दम् अ॑भू॒द् यद् व॒यँ स्म इति॒
ते प्र॒जाप॑ति॒म् उपा॑धावन् \
स ए॒तौ प्र॒जाप॑तिर् आ॒त्मन॑ उक्षव॒शौ निर् अ॑मिमीत॒
ते दे॒वा वै॑ष्णावरु॒णीं व॒शाम् आल॑भन्तै॒न्द्रम् उ॒क्षाण॒म्
तं वरु॑णेनै॒व ग्रा॑हयि॒त्वा विष्णु॑ना य॒ज्ञेन॒ प्राणु॑दन्तै॒न्द्रेणै॒वास्येन्द्रि॒यम् अ॑वृञ्जत॒
यो भ्रातृ॑व्यवा॒न्त् स्यात् स स्पर्ध॑मानो वैष्णावरु॒णीम् ॥
व॒शाम् आ ल॑भेतै॒न्द्रम् उ॒क्षाण॑म् \
वरु॑णेनै॒व भ्रातृ॑व्यं ग्राहयि॒त्वा विष्णु॑ना यज्ञेन॒ प्र णु॑दत ऐ॒न्द्रेणै॒वास्ये॑न्द्रि॒यं वृ॑ङ्क्ते॒
भव॑त्य् आ॒त्मना॒ परा॑स्य॒ भ्रातृ॑व्यो भवति॒ \
इन्द्रो॑ वृ॒त्रम् अ॑ह॒न्
तं वृ॒त्रो ह॒तः षो॑ड॒शभि॑र् भो॒गैर् अ॑सिना॒त्
तस्य॑ वृ॒त्रस्य॑ शीर्ष॒तो गाव॒ उद् आ॑यन्
ता वै॑दे॒ह्यो॑ऽभवन्
तासा॑म् ऋष॒भो ज॒घनेऽनूद् ऐ॒त्
तम् इन्द्रः॑ ॥
अ॒चा॒य॒त्
सो॑ऽमन्यत॒
यो वा इ॒मम् आ॒लभे॑त॒ मुच्ये॑ता॒स्मात् पा॒प्मन॒ इति॒
स आ॑ग्ने॒यं कृ॒ष्णग्री॑व॒म् आल॑भतै॒न्द्रम् ऋ॑ष॒भम् \
तस्या॒ग्निर् ए॒व स्वेन॑ भाग॒धेये॒नोप॑सृतः षोडश॒धा वृ॒त्रस्य॑ भो॒गान् अप्य् अ॑दहद् ऐ॒न्द्रेणे॑न्द्रि॒यम् आ॒त्मन्न् अ॑धत्त॒
यः पा॒प्मना॑ गृही॒तः स्यात् स आ॑ग्ने॒यं कृ॒ष्णग्री॑व॒म् आ ल॑भेतै॒न्द्रम् ऋ॑ष॒भम्
अ॒ग्निर् ए॒वास्य॒ स्वेन॑ भाग॒धेये॒नोप॑सृतः ॥
पा॒प्मान॒म् अपि॑ दहत्य् ऐ॒न्द्रेणे॑न्द्रि॒यम् आ॒त्मन् ध॑त्ते॒
मुच्य॑ते पा॒प्मन॑स् \
भव॑त्य् ए॒व
द्या॑वापृथि॒व्यां॑ धे॒नुम् आ ल॑भेत॒ ज्योग॑परुद्धस् \
अ॒नयो॒र् हि वा ए॒षोऽप्र॑तिष्ठितस् \
अथै॒ष ज्योग् अप॑रुद्धो॒ द्यावा॑पृथि॒वी ए॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒
ते ए॒वैन॑म् प्रति॒ष्ठां ग॑मयतः
प्रत्य् ए॒व ति॑ष्ठति
पर्या॒रिणी॑ भवति
पर्या॒रीव॒ ह्य् ए॑तस्य॑ रा॒ष्ट्रं यो ज्योग॑परुद्धः॒
समृ॑द्धयै
वाय॒व्य॑म् ॥
व॒त्सम् आ ल॑भेत
वा॒युर् वा अ॒नयो॑र् व॒त्सस् \
इ॒मे वा ए॒तस्मै॑ लो॒का अप॑शुष्का॒ विड् अप॑शुष्का॒ \
अथै॒ष ज्योग् अप॑रुद्धो वा॒युम् ए॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒
स ए॒वास्मा॑ इ॒माँ लो॒कान् विश॒म् प्र दा॑पयति
प्रास्मा॑ इ॒मे लो॒काः स्नु॑वन्ति
भुञ्ज॒त्य् ए॑नं॒ विड् उप॑ तिष्ठते ॥
इन्द्रो॑ व॒लस्य॒ बिल॒म् अपौ॑र्णो॒त्
स य उ॑त्त॒मः प॒शुर् आसी॒त् तम् पृ॒ष्ठम् प्रति॑ सं॒गृह्योद् अ॑क्खिद॒त्
तँ स॒हस्र॑म् प॒शवोऽनूद् आ॑यन् \
स उ॑न्न॒तो॑ऽभवत् \
यः प॒शुका॑मः॒ स्यात् स ए॒तम् ऐ॒न्द्रम् उ॒न्नतम् आ ल॑भेत॒ \
इन्द्र॑म् ए॒व स्वेन॑ भाग॒धेयो॒नोप॑ धावति॒
स ए॒वास्मै॑ प॒शून् प्र य॑छति
पशु॒मान् ए॒व भ॑वति \
उन्न॒तः ॥
भ॒व॒ति॒
सा॒ह॒स्री वा ए॒षा ल॒क्ष्मी यद् उ॑न्न॒तस् \
ल॒क्ष्मियै॒व प॒शून् अव॑ रुन्द्धे
य॒दा स॒हस्र॑म् प॒शून् प्रा॑प्नु॒यात् अथ॑ वैष्ण॒वं वा॑म॒नम् आ ल॑भेत \
ए॒तस्मि॒न् वै तत् स॒हस्र॒म् अध्य् अ॑तिष्ठ॒त्
तस्मा॑द् ए॒ष वा॑म॒नः समी॑षितः प॒शुभ्य॑ ए॒व प्रजा॑तेभ्यः प्रति॒ष्ठां द॑धाति॒
को॑ऽर्हति स॒हर॑म् प॒शून् प्राप्तु॒म् इत्य् आ॑हुस् \
अ॒हो॒रा॒त्राण्य् ए॒व स॒हस्रँ॑ स॒म्पाद्या ल॑भेत
प॒शवः॑ ॥
वा अ॑होरा॒त्राणि॑
प॒शून् ए॒व प्रजा॑तान् प्रति॒ष्ठां ग॑मयति॒ \
ओष॑धीभ्यो वे॒हत॒म् आ ल॑भेत प्र॒जाका॑मस् \
ओष॑धयो॒ वा ए॒तम् प्र॒जायै॒ परि॑ बाधन्ते॒ योऽल॑म् प्र॒जायै॒ सन् प्र॒जां न वि॒न्दते॒ \
ओष॑धयः॒ खलु॒ वा ए॒तस्यै॒ सूतु॒म् अपि॑ घ्नन्ति॒ या वे॒हद् भव॑ति॒ \
ओष॑धीर् ए॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति
ता ए॒वास्मै॒ स्वाद् योनेः॑ प्र॒जाम् प्र ज॑नयन्ति
वि॒न्दते॑ ॥
प्र॒जाम्
आपो॒ वा ओष॑ध॒योऽस॒त् पुरु॑षस् \
आप॑ ए॒वास्मा॒ अस॑तः॒ सद् द॑दति॒
तस्मा॑द् आहु॒र् यश् चै॒वं वेद॒ यश् च॒ न \
आप॒स् त्वावास॑तः॒ सद् द॑द॒तीति॑ \
ऐ॒न्द्रीँ सू॒तव॑शा॒म् आ ल॑भेत॒ भूति॑का॒मस् \
अजा॑तो॒ वा ए॒ष योऽल॒म् भूत्यै॒ सन् भूतिं॒ न प्रा॒प्नोति॒ \
इन्द्र॒म् खलु॒ वा ए॒षा सू॒त्वा व॒शाभ॑वत् ॥
इन्द्र॑म् ए॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒
स ए॒वैन॒म् भूतिं॑ गमयति॒
भव॑त्य् ए॒व
यँ सू॒त्वा व॒शा स्यात् तम् ऐ॒न्द्रम् ए॒वा ल॑भेत \
ए॒तद् वाव तद् इ॑न्रि॒यम् \
सा॒क्षाद् ए॒वेन्द्रि॒यम् अव॑ रुन्द्धे \
ऐन्द्रा॒ग्नम् पु॑नरुत्सृ॒ष्टम् आ ल॑भेत॒ य आ तृ॒तीया॒त् पुरु॑षा॒त् सोमं॒ न पिबे॑त् \
विछि॑न्नो॒ वा ए॒तस्य॑ सोमपी॒थो यो ब्रा॑ह्म॒णः सन्न् आ ॥
तृ॒तीया॒त् पुरु॑षा॒त् सोमं॒ न पिब॑ति \
इन्द्रा॒ग्नी ए॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति
ताव् ए॒वास्मै॑ सोम पी॒थम् प्र य॑छतस् \
उपै॑नँ सोमपी॒थो न॑मति॒
यद् ऐ॒न्द्रो भव॑तीन्द्रि॒यं वै सो॑मपी॒थ इन्द्रि॒यम् ए॒व सो॑मपी॒थम् अव॑ रुन्द्धे॒
यद् आ॑ग्ने॒यो भव॑त्य् आग्ने॒यो वै ब्रा॑ह्म॒णः स्वाम् ए॒व दे॒वता॒म् अनु॒ सं त॑नोति
पुनरुत्सृ॒ष्टो भ॑वति
पुनरुतृ॒ष्ट इ॑व॒ ह्य् ए॑तस्य॑ ॥
सो॒म॒पी॒थः
समृ॑द्ध्यै
ब्राह्मणस्प॒त्यं तू॑प॒रम् आ ल॑भेताभि॒चर॑न्
ब्रह्म॑ण॒स् पति॑म् ए॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒
तस्मा॑ ए॒वैन॒म् आ वृ॑श्चति
ता॒जग् आर्ति॒म् आर्छ॑ति
तूप॒रो भ॑वति
क्षु॒रप॑वि॒र् वा ए॒षा ल॒क्ष्मी यत् तू॑प॒रः
समृ॑द्ध्यै
स्फ्यो यूपो॑ भवति॒ वज्रो॒ वै स्फ्यो वज्र॑म् ए॒वास्मै॒ प्र ह॑रति
शर॒मय॑म् ब॒र्हिह् शृ॒णात्य् ए॒वैन॑म् \
वैभी॑दक इ॒ध्मो भि॒नत्त्य् ए॒वैन॑म् ॥
बा॒र्ह॒स्प॒त्यँ शि॑तिपृ॒ष्ठम् आ ल॑भेत॒ ग्राम॑कामो॒ {F यः} {W यः॑} {ग्लोस् } का॒मये॑त
पृ॒ष्ठँ स॑मा॒नानाँ॑ स्या॒म् इति॑
बृह॒स्पति॑म् ए॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒
स ए॒वैन॑म् पृ॒ष्ठँ स॑मा॒नानां॑ करोति
ग्रा॒म्य् ए॑व भ॑वति
शितिपृ॒ष्ठो भ॑वति
बार्हस्प॒त्यो ह्य् ए॑ष दे॒वत॑या॒
समृ॑द्धयै
पौ॒ष्णँ श्या॒मम् आ ल॑भे॒तान्न॑का॒मस् \
अन्नं॒ वै पू॒षा
पू॒षण॑म् ए॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒
स ए॒वास्मै॑ ॥
अन॒म् प्र य॑छति \
अन्ना॒द ए॒व भ॑वति
श्या॒मो भ॑वति \
ए॒तद् वा अन्न॑स्य रू॒पम् \
समृ॑द्ध्यै
मारु॒तम् पृश्नि॒म् आ ल॑भे॒तान्न॑का॒मस् \
अन्नं॒ वै म॒रुत॑स् \
म॒रुत॑ ए॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒
त ए॒वास्मा॒ अन्न॒म् प्र य॑छन्ति \
अन्ना॒द ए॒व भ॑वति
पृश्नि॑र् भवति \
ए॒तद् वा अन्न॑स्य रू॒पम् \
समृ॑द्ध्यै \
ऐ॒न्द्रम् अ॑रु॒णम् आ ल॑भेतेन्द्रि॒यका॑मस् \
इन्द्र॑म् ए॒व ॥
स्वेन॑ भाग॒धेये॒नोप॑ धावति॒
स ए॒वास्मि॑न्न् इन्द्रि॒यं ब॑धाति \
इन्द्रिया॒व्य् ए॑व भ॑वति \
अरु॒णो भ्रूमा॑न् भवति \
ए॒तद् वा इन्द्र॑स्य रू॒पम् \
समृ॑द्ध्यै
सावि॒त्रम् उ॑पध्व॒स्तम् आ ल॑भेत स॒निका॑मः
सवि॒ता वै प्र॑स॒वाना॑म् ईशे
सवि॒तार॑म् ए॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒
स ए॒वास्मै॑ स॒निम् प्र सु॑वति
दान॑कामा अस्मै प्र॒जा भ॑वन्ति \
उपध्व॒स्तो भ॑वति
सावि॒त्रो ह्य् ए॑षः ॥
दे॒वत॑या॒
समृ॑द्ध्यै
वैश्वदे॒वम् ब॑हुरू॒पम् आ ल॑भे॒तान्न॑कामस् \
वै॒श्व॒दे॒वं वा अन्न॑म् \
विश्वा॑न् ए॒व दे॒वान्त् स्वेन॑ भाग॒धेये॒नोप॑ धावति॒
त ए॒वास्मा॒ अन्न॒म् प्र य॑छन्ति \
अन्ना॒द ए॒व भ॑वति
बहुरू॒पो भ॑वति
बहुरू॒पँ ह्य् अन्न॑म् \
समृ॑द्ध्यै
वैश्वदे॒वम् ब॑हुरू॒पम् आ ल॑भेत॒ ग्राम॑कामस् \
वै॒श्व॒दे॒वा वै स॑जा॒तास् \
विश्वा॑न् ए॒व दे॒वान्त् स्वेन॑ भाग॒धेये॒नोप॑ धावति॒
त ए॒वास्मै॑ ॥
स॒जा॒तान् प्र य॑छन्ति
ग्रा॒म्य् ए॑व भ॑वति
बहुरू॒पो भ॑वति
बहुदेव॒त्यो॑ ह्य् { ए॑ष ^ ए॑षस् } \
समृ॑द्ध्यै
प्रजाप॒त्यं तू॑प॒रम् आ ल॑भेत॒ यस्याना॑ज्ञातम् एव॒ ज्योग् आ॒मये॑त्
प्रा॒जा॒प॒त्यो वै पुरु॑षः
प्र॒जाप॑तिः॒ खलु॒ वै तस्य॑ वेद॒ यस्या॑नाज्ञातम् इव॒ ज्योग् आ॒मय॑ति
प्र॒जाप॑तिम् ए॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒
स ए॒वैनं॒ तस्मा॒त् स्रामा॑न् मुञ्चति
तूप॒रो भ॑वति
प्राजाप॒त्यो ह्य् ए॑ष दे॒वत॑या॒
समृ॑द्ध्यै ॥
व॒ष॒ट्का॒रो वै गा॑यत्रि॒यै शिरो॑ऽछिन॒त्
तस्यै॒ रसः॒ परा॑पत॒त् तम् बृह॒स्पति॒र् उपा॑गृह्णा॒त् सा शि॑तिपृ॒ष्ठा व॒शाभ॑वत् \
यो द्वि॒तीयः॑ प॒राप॑त॒त् तम् मि॒त्रावरु॑णा॒व् उपा॑गृह्णीताँ॒ सा द्वि॑रू॒पा व॒शाभ॑वत् \
यस् तृ॒तीयः॑ प॒राप॑त॒त् तं विश्वे॑ दे॒वा उपा॑गृह्ण॒न्त् सा ब॑हुरू॒पा व॒शाभ॑वत् \
यश् च॑तु॒र्थः प॒राप॑त॒त् स पृ॑थि॒वीम् प्रावि॑श॒त् तम् बृह॒स्पति॑र् अ॒भि ॥
अ॒गृ॒ह्णा॒त् \
अस्त्व् ए॒वायम् भोगा॒येति॒ स उ॑क्षव॒शः सम् अ॑भवत् \
यल् लोहि॑तम् प॒राप॑त॒त् तद् रु॒द्र उपा॑गृह्णा॒त् सा रौ॒द्री रोहि॑णी व॒शाभ॑वत् \
बा॒र्ह॒स्प॒त्याँ शि॑तिपृ॒ष्ठाम् आ ल॑भेत ब्रह्मवर्च॒सका॑मस् \
बृह॒स्पति॑म् ए॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒
स ए॒वास्मि॑न् ब्रह्मवर्च॒सं द॑धाति
ब्रह्मवर्च॒स्य् ए॑व भ॑वति॒
छन्द॑सां॒ वा ए॒ष रसो॒ यद् व॒शा
रस॑ इव॒ खलु॑ ॥
वै ब्र॑ह्मवर्च॒सम् \
छन्द॑साम् ए॒व रसे॑न॒ रस॑म् ब्रह्मवर्च॒सम् अव॑ रुन्द्धे
मैत्रावरु॒णीं द्वि॑रू॒पाम् आ ल॑भेत॒ वृष्टि॑कामस् \
मै॒त्रं वा अह॑र् वारु॒णी रात्रि॑स् \
अ॒हो॒रा॒त्राभ्यां॒ खलु॒ वै प॒र्जन्यो॑ वर्षति
मि॒त्रावरु॑णाव् ए॒व स्वेन॑ भागधेये॒नोप॑ धावति
ताव् ए॒वास्मा॑ अहोरा॒त्राभ्या॑म् प॒र्जन्यं॑ वर्षयतस् \
छन्द॑सां॒ वा ए॒ष रसो॒ यद् व॒शा
रस॑ इव॒ खलु॒ वै वृष्टि॑स् \
छन्द॑साम् ए॒व रसे॑न ॥
रसं॒ वृष्टि॒म् अव॑ रुन्द्धे
मैत्रावरु॒णीं द्वि॑रू॒पाम् आ ल॑भेत प्र॒जाका॑मस् \
मै॒त्रं वा अह॑र् वारु॒णी रात्रि॑स् \
अ॒हो॒रा॒त्राभ्यां॒ खलु॒ वै प्र॒जाः प्र जा॑यन्ते
मि॒त्रावरु॑णाव् ए॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति
ताव् ए॒वास्मा॑ अहोरा॒त्राभ्या॑म् प्र॒जाम् प्र ज॑नयतस् \
छन्द॑सां॒ वा ए॒ष रसो॒ यद् व॒शा
रस॑ इव॒ खलु॒ वै प्र॒जा
छन्द॑साम् ए॒व रसे॑न॒ रस॑म् प्र॒जाम् अव॑ ॥
रु॒न्द्धे॒
वै॒श्व॒दे॒वीम् ब॑हुरू॒पाम् आ ल॑भे॒तान्न॑कामस् \
वै॒श्व॒दे॒वं वा अन्न॑म् \
विश्वा॑न् ए॒व दे॒वान्त् स्वेन॑ भाग॒धेये॒नोप॑ धावति॒
त ए॒वास्मा॒ अन्न॒म् प्र य॑छन्ति \
अन्ना॒द ए॒व भ॑वति॒
छन्द॑सां॒ वा ए॒ष रसो॒ यद् व॒शा
रस॑ इव॒ खलु॒ वा अन्न॑म् \
छन्द॑साम् ए॒व रसे॑न॒ रस॒म् अन्न॒म् अव॑ रुन्द्धे
वैश्वदे॒वीम् ब॑हुरू॒पाम् आ ल॑भेत ग्रा॒मका॑मस् \
वै॒श्व॒दे॒वा वै ॥
स॒जा॒तास् \
विश्वा॑न् ए॒व दे॒वान्त् स्वेन॑ भाग॒धेये॒नोप॑ धावति॒
त ए॒वास्मै॑ सजा॒तान् प्र य॑छन्ति
ग्रा॒म्य् ए॑व भ॑वति॒
छन्द॑सां॒ वा ए॒ष रसो॒ यद् व॒शा
रस॑ इव॒ खलु॒ वै स॑जा॒तास् \
छन्द॑साम् ए॒व रसे॑न॒ रसँ॑ सजा॒तान् अव॑ रुन्द्धे
बार्हस्प॒त्यम् उ॑क्षव॒शम् आ ल॑भेत ब्रह्मवर्च॒सका॑मस् \
बृह॒स्पति॑म् ए॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒
स ए॒वास्मि॑न् ब्रह्मवर्च॒सम् ॥
द॒धा॒ति॒
ब्र॒ह्म॒व॒र्च॒स्य् ए॑व भ॑वति॒
वशं॒ वा ए॒ष च॑रति॒ यद् उ॒क्षा
वश॑ इव॒ खलु॒ वै ब्र॑ह्मवर्च॒सम् \
वशे॑नै॒व वश॑म् ब्रह्मवर्च॒सम् अव॑ रुन्द्धे
रौ॒द्रीँ रोहि॑णी॒म् आ ल॑भेताभि॒चर॑न्
रु॒द्रम् ए॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒
तस्मा॑ ए॒वैन॒म् आ वृ॑श्चति
ता॒जग् आर्ति॒म् आर्छ॑ति॒
रोहि॑णी भवति रौ॒द्री ह्य् ए॑षा दे॒वत॑या॒ समृ॑द्ध्यै
स्फ्यो यूपो॑ भवति॒ वज्रो॒ वै स्फ्यो वज्र॑म् ए॒वास्मै॒ प्र ह॑रति
शर॒मय॑म् ब॒र्हिः शृ॒णात्य् ए॒वैन॑म् \
वैभी॑दक इ॒ध्मो भि॒नत्त्य् ए॒वैन॑म् ॥
अ॒साव् आ॑दि॒त्यो न व्य् अ॑रोचत॒
तस्मै॑ दे॒वाः प्राय॑श्चित्तिम् ऐछ॒न्
तयै॒वास्मि॒न् रुच॑म् अदधुस् \
{F यो} {W यो॑} {ग्लोस् यो} ब्र॑ह्मवर्च॒सका॑मः॒ स्यात् तस्मा॑ ए॒ताँ सौ॒रीँ श्वे॒तां व॒शाम् आ ल॑बेत \
अ॒मुम् ए॒वादि॒त्यँ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒
स ए॒वास्मि॑न् ब्रह्मवर्च॒सं द॑धाति
ब्रह्मवर्च॒स्य् ए॑व भ॑वति
बै॒ल्वो यूपो॑ भवति \
अ॒सौ ॥
वा आ॑दि॒त्यो यतोऽजा॑यत॒ ततो॑ बि॒ल्व॑ उद् अ॑तिष्ठ॒त्
सयो॑न्य् ए॒व ब्र॑ह्मवर्च॒सम् अव॑ रुन्द्धे
ब्राह्मणस्प॒त्याम् ब॑भ्रुक॒र्णीम् आ ल॑भेताभि॒चर॑न्
वारु॒णं दश॑कपालम् पु॒रस्ता॒न् निर् व॑पेत् \
वरु॑णेनै॒व भ्रातृ॑व्यं ग्राहयि॒त्वा ब्रह्म॑णा स्तृणुते
बभ्रुक॒र्णी भ॑वति \
ए॒तद् वै ब्रह्म॑णो रू॒पम् \
समृ॑द्ध्यै
स्फ्यो यूपो॑ भवति॒ वज्रो॒ वै स्फ्यो वज्र॑म् ए॒वास्मै॒ प्र ह॑रति
शर॒मय॑म् ब॒र्हिः शृ॒णाति॑ ॥
ए॒वैन॑म् \
वैभी॑दक इ॒ध्मो भि॒नत्त्य् ए॒वैन॑म् । वै॒ष्ण॒वं वा॑म॒नम् आ ल॑भेत॒ यं य॒ज्ञो नोप॒नमे॑त् \
विष्णु॒र् वै य॒ज्ञस् \
विष्णु॑म् ए॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒
स ए॒वास्मै॑ य॒ज्ञम् प्र य॑छति॒ \
उपै॑नं य॒ज्ञो न॑मति
वाम॒नो भ॑वति
वैष्ण॒वो ह्य् ए॑ष दे॒वत॑या॒
समृ॑द्ध्यै
त्वा॒ष्ट्रं व॑ड॒बम् आ ल॑भेत पशुकामस्
त्वष्टा॒ वै प॑शू॒नाम् मि॑थु॒नाना॑म् ॥
प्र॒ज॒न॒यि॒ता
त्वष्टा॑रम् ए॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒
स ए॒वास्मै॑ प॒शून् मि॑थु॒नान् प्र ज॑नयति
प्र॒जा हि वा ए॒तस्मि॑न् प॒शवः॒ प्रवि॑ष्टास् \
अथै॒ष पु॒मान्त् सन् व॑ड॒बः सा॒क्षाद् ए॒व प्र॒जाम् प॒शून् अव॑ रुन्द्धे
मै॒त्रँ श्वे॒तम् आ ल॑भेत संग्रा॒मे संय॑त्ते सम॒यका॑मस् \
मि॒त्रम् ए॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒
स ए॒वैन॑म् मि॒त्रेण॒ सं न॑यति ॥
वि॒शा॒लो भ॑वति॒
व्यव॑साययत्य् ए॒वैन॑म्
प्रा॒जा॒प॒त्यं कृ॒ष्णम् आ ल॑भेत॒ वृष्टि॑कामः
प्र॒जाप॑ति॒र् वै वृष्ट्या॑ ईषे
प्र॒जाप॑तिम् ए॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒
स ए॒वास्मै॑ प्र॒जन्यं॑ वर्षयति
कृ॒ष्णो भ॑वति \
ए॒तद् वै वृष्ट्यै॑ रू॒पम् \
रू॒पेणै॒व वृष्टि॒म् अव॑ रुन्द्धे
श॒बलो॑ भवति
वि॒द्युत॑म् ए॒वास्मै॑ जनयि॒त्वा व॑र्षयति \
अवाशृ॒ङ्गो भ॑वति
वृष्टि॑म् ए॒वास्मै॒ नि य॑छति ॥
वरु॑णँ सुषुवा॒णम् अ॒न्नाद्यं॒ नोपा॑नम॒त्
स ए॒तां वा॑रु॒णीं कृ॒ष्णां व॒शाम् अ॑पश्यत्
ताँ स्वायै॑ दे॒वता॑या॒ आल॑भत॒ ततो॒ वै तम् अ॒न्नाद्य॒म् उपा॑नमत् \
यम् अल॑म् अ॒न्नाद्या॑य॒ सन्त॑म् अ॒न्नाद्यं॒ नोप॒नमे॒त् स ए॒तां वा॑रु॒णीं कृ॒ष्णां व॒शाम् आ ल॑भेत॒
वरु॑णम् ए॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मा॒ अन्न॒म् प्र य॑छत्य् अन्ना॒दः ॥
ए॒व भ॑वति
कृ॒ष्णा भ॑वति
वारु॒णी ह्य् ए॑षा दे॒वत॑या॒
समृ॑द्ध्यै
मै॒त्रँ श्वे॒तम् आ ल॑भेत वारु॒णं कृ॒ष्णम् अ॒पां चौष॑धीनां च सं॒धाव् अन्न॑कामस् \
मै॒त्रीर् वा ओष॑धयो वारु॒णीर् आप॑स् \
अ॒पां च॒ खलु॒ वा ओष॑धीनां च॒ रस॒म् उप॑ जीवामस् \
मि॒त्रावरु॑णाव् ए॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति
ताव् ए॒वास्मा॒ अन्न॒म् प्र य॑छतोऽन्ना॒द ए॒व भ॑वति ॥
अ॒पां चौष॑धीनां च सं॒धाव् आ ल॑भत उ॒भय॒स्याव॑रुद्ध्यै
मै॒त्रँ श्वे॒तम् आ ल॑भेत वारु॒णं कृ॒ष्णं ज्योगा॑मयावी॒
यन् मै॒त्रो भव॑ति मि॒त्रेणै॒वास्मै॒ वरु॑णँ शमयति॒
यद् वा॑रु॒णः सा॒क्षाद् ए॒वैनं॑ वरुणपा॒शान् मु॑ञ्चति \
उ॒त यदी॒तासु॒र् भव॑ति॒ जीव॑त्य् ए॒व
दे॒वा वै पुष्टिं॒ नावि॑न्दन् ॥
ताम् मि॑थु॒ने॑ऽपश्य॒न्
तस्या॒म् न सम् अ॑राधयन्
ताव् अ॒श्विना॑व् अब्रूताम्
आ॒वयो॒र् वा ए॒षा मैतस्यां॑ वदध्व॒म् इति॑
साश्विनो॑र् ए॒वाभ॑वत् \
यः पुष्टि॑कामः॒ स्यात् स ए॒ताम् आ॑श्वि॒नीं य॒मीं व॒शाम् आ ल॑भेत \
अ॒श्विना॑व् ए॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति
ताव् ए॒वास्मि॒न् पुष्टिं॑ धत्तः॒
पुष्य॑ति प्र॒जया॑ प॒शुभिः॑ ॥
आ॒श्वि॒नं धू॒म्रल॑लाम॒म् आ ल॑भेत॒ यो दुर्ब्रा॑ह्मणः॒ सोम॒म् पिपा॑सेत् \
अ॒श्विनौ॒ वै दे॒वाना॒म् असो॑मपाव् आस्ताम् \
तौ प॒श्चा सो॑मपी॒थम् प्राप्नु॑ताम्
अ॒श्विना॑व् ए॒तस्य॑ दे॒वता॒ यो दुर्ब्रा॑ह्मणः॒ सोम॒म् पिपा॑सति \
अ॒श्विना॑व् ए॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒
तव् ए॒वास्मै॑ सोमपी॒थम् प्र य॑छत॒ उपै॑नँ सोमपी॒थो न॑मति॒
यद् धू॒म्रो भव॑ति धूम्रि॒माण॑म् ए॒वास्मा॒द् अप॑ हन्ति
ल॒लामः॑ ॥
भ॒व॒ति॒ मु॒ख॒त ए॒वास्मि॒न् तेजो॑ दधाति
वाय॒व्यं॑ गोमृ॒गम् आ ल॑भेत॒ यम् अज॑घ्निवाँसम् अभि॒शँसे॑युस् \
अपू॑ता॒ वा ए॒तं वाग् ऋ॑छति॒ यम् अज॑घ्निवाँसम् अभि॒शँस॑न्ति॒
नैष ग्रा॒म्यः प॒शुर् नार॒ण्यो यद् गो॑मृ॒गस् \
नेवै॒ष ग्रामे॒ नार॑ण्ये॒ यम् अज॑घ्निवाँसम् अभि॒शँस॑न्ति
वा॒युर् वै दे॒वाना॑म् प॒वित्र॑म् \
वा॒युम् ए॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒
स ए॒व ॥
ए॒न॒म् प॒व॒य॒ति॒
परा॑ची॒ वा ए॒तस्मै॑ व्यु॒छन्ती॒ व्य् उ॑छति॒ तमः॑ पा॒प्मान॒म् प्र वि॑शति॒ यस्या॑श्वि॒ने श॒स्यमा॑ने॒ सूर्यो॒ नाविर् भव॑ति
सौ॒र्यम् ब॑हुरू॒पम् आ ल॑भेत \
अ॒मुम् ए॒वादि॒त्यँ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒
स ए॒वास्मा॒त् तमः॑ पा॒प्मान॒म् अप॑ हन्ति
प्र॒तीच्य् अ॑स्मै व्यु॒छन्ती॒ व्य् उ॑छ॒त्य् अप॒ तमः॑ पा॒प्मानँ॑ हते ॥
इन्द्रं॑ वो वि॒श्वत॒स् परि॒ \
इन्द्रं॒ नर॑स् \
मरु॑तो॒ यद् ध॑ वो दि॒वस् \
या वः॒ शर्म॒
भरे॒ष्व् इन्द्रँ॑ सु॒हवँ॑ हवामहेँहो॒मुचँ॑ सु॒कृतं॒ दैव्यं॒ जन॑म् । अ॒ग्निम् मि॒त्रं वरु॑णँ सा॒तये॒ भगं॒ द्यावा॑पृथि॒वी म॒रुतः॑ स्व॒स्तये॑ ॥
म॒मत्तु॑ नः॒ परि॑ज्मा वस॒र्हा म॒मत्तु॒ वातो॑ अ॒पां वृष॑ण्वान् । शि॒शी॒तम् इ॑न्द्रापर्वता यु॒वं न॒स् तन् नो॒ विश्वे॑ वरिवस्यन्तु दे॒वाः
प्रि॒या वो॒ नाम॑ ॥
हु॒वे॒ तु॒राणा॑म् । आ यत् तृ॒पन् म॑रुतो वावशा॒नाः ॥
श्रि॒यसे॒ कम् भा॒नुभिः॒ सम् मि॑मिक्षिरे॒ ते र॒श्मिभि॒स् त ऋक्व॑भिः सुखा॒दयः॑ । ते वाशी॑मन्त इ॒ष्मिणो॒ अभी॑रवो वि॒द्रे प्रि॒यस्य॒ मारु॑तस्य॒ धाम्नः॑ ॥
अ॒ग्निः प्र॑थ॒मो वसु॑भिर् नो अव्या॒त् सोमो॑ रु॒द्रेभि॑र् अ॒भि र॑क्षतु॒ त्मना॑ । इन्द्रो॑ म॒रुद्भि॑र् ऋतु॒धा कृ॑णोत्व् आदि॒त्यैर् नो॒ वरु॑णः॒ सँ शि॑शातु ॥
सं नो॑ दे॒वो वसु॑भिर् अ॒ग्निः सम् ॥
सोम॑स् त॒नूभी॑ रु॒द्रिया॑भिः । सम् इन्द्रो॑ म॒रुद्भि॑र् य॒ज्ञियैः॒ सम् आ॑दि॒त्यैर् नो॒ वरु॑णो अजिज्ञिपत् ॥
यथा॑दि॒त्या वसु॑भिः सम्बभू॒वुर् म॒रुद्भी॑ रु॒द्राः स॒मजा॑नता॒भि । ए॒वा त्रि॑णाम॒न्न् अहृ॑णीयमाना॒ विश्वे॑ दे॒वाः सम॑नसो भवन्तु॒
कुत्रा॑ चि॒द् यस्य॒ समृ॑तौ र॒ण्वा नरो॑ नृ॒षद॑ने । अर्ह॑न्तश् चि॒द् यम् इ॑न्ध॒ते सं॑ज॒नय॑न्ति ज॒न्तवः॑ ॥
सं यद् इ॒षो वना॑महे॒ सँ ह॒व्या मानु॑षाणाम् । उ॒त द्यु॒म्नस्य॒ शव॑सः ॥
ऋ॒तस्य॑ र॒श्मिम् आ द॑दे ॥
य॒ज्ञो दे॒वाना॒म् प्रत्य् ए॑ति सु॒म्नम् आदि॑त्यासो॒ भव॑ता मृड॒यन्तः॑ । आ वो॒ऽर्वाची॑ सुम॒तिर् व॑वृत्याद् अँ॒होश् चि॒द् या व॑रिवो॒वित्त॒रास॑त् ॥
शुचि॑र् अ॒पः सू॒यव॑सा॒ अद॑ब्ध॒ उप॑ क्षेति वृ॒द्धव॑याः सु॒वीरः॑ । नकि॒ष् टं घ्न॒न्त्य् अन्ति॑तो॒ न दू॒राद् य आ॑दि॒त्याना॒म् भव॑ति॒ प्रणी॑तौ ॥
धा॒रय॑न्त आदि॒त्यासो॒ जग॒त् स्था दे॒वा विश्व॑स्य॒ भुव॑नस्य गो॒पाः । दी॒र्घाधि॑यो॒ रक्ष॑माणाः ॥
अ॒सु॒र्य॑म् ऋ॒तावा॑न॒श् चय॑माना ऋ॒णानि॑ ॥
ति॒स्रो भूमी॑र् धारय॒न् त्रीँर् उ॒त द्यून् त्रीणि॑ व्र॒ता वि॒दथे॑ अ॒न्तर् ए॑षाम् । ऋ॒तेना॑दित्या॒ महि॑ वो महि॒त्वं तद् अ॑र्यमन् वरुण मित्र॒ चारु॑ ॥
त्यान् नु क्ष॒त्रियाँ॒ अव॑ आदि॒त्यान् या॑चिषामहे सुमृडी॒काँ अ॒भिष्ट॑ये ॥
न द॑क्षि॒णा वि चि॑किते॒ न स॒व्या न प्रा॒चीन॑म् आदित्या॒ नोत प॒श्चा । पा॒क्या॑ चिद् वसवो धी॒र्या॑ चित् ॥
यु॒ष्मानी॑तो॒ अभ॑यं॒ ज्योति॑र् अश्याम् ॥
आ॒दि॒त्याना॒म् अव॑सा॒ नूत॑नेन सक्षी॒महि॒ शर्म॑णा॒ शंत॑मेन । अ॒ना॒गा॒स्त्वे अ॑दिति॒त्वे तु॒रास॑ इ॒मं य॒ज्ञं द॑धतु॒ श्रोष॑माणाः ॥
इ॒मम् मे॑ वरुण श्रुधी॒ हव॑म् अ॒द्या च॑ मृडय । त्वाम् अ॑व॒स्युर् आ च॑के ॥
तत् त्वा॑ यामि॒ ब्रह्म॑णा॒ वन्द॑मान॒स् तद् आ शा॑स्ते॒ यज॑मानो ह॒विर्भिः॑ । अहे॑डमानो वरुणे॒ह बो॒ध्य् उरु॑शँस॒ मा न॒ आयुः॒ प्र मो॑षीः ॥