अनु॑मत्यै पुरो॒डाश॑म् अ॒ष्टाक॑पालं॒ निर् व॑पति धे॒नुर् दक्षि॑णा॒

ये प्र॒त्यञ्चः॒ शम्या॑या अव॒शीय॑न्ते॒ तं नै॑रृ॒तम् एक॑कपालं कृ॒ष्णं वासः॑ कृ॒ष्णतू॑षं॒ दक्षि॑णा

वीहि॒ स्वाहाहु॑तिं जुषा॒णस् \

ए॒ष ते॑ निरृते भा॒गो भूते॑ ह॒विष्म॑त्य् असि मु॒ञ्चेमम् अँह॑सः

स्वाहा॒ नमो॒ य इ॒दं च॒कार॑ \

आदि॒त्यं च॒रुं निर् व॑पति॒ वरो॒ दक्षि॑णा \

आग्नावैष्ण॒वम् एका॑दशकपालं वाम॒नो व॒ही दक्षि॑णा \

अग्नीषो॒मीय॑म् ॥

एका॑दशकपालँ॒ हिर॑ण्यं॒ दक्षि॑णा \

ऐ॒न्द्रम् एका॑दशकपालम् ऋष॒भो व॒ही दक्षि॑णा \

आग्ने॒यम् अ॒ष्टाक॑पालम् ऐ॒न्द्रं दध्य् ऋ॑ष॒भो व॒ही दक्षि॑णा \

ऐन्द्रा॒ग्नं द्वाद॑शकपालं वैश्वदे॒वं च॒रुम् प्र॑थम॒जो व॒त्सो दक्षि॑णा सौ॒म्यँ श्या॑मा॒कं च॒रुं वासो॒ दक्षि॑णा॒

सर॑स्वते च॒रुम् मि॑थु॒नौ गावौ॒ दक्षि॑णा ॥

आ॒ग्ने॒यम् अ॒ष्टाक॑पालं॒ निर् व॑पति सौ॒म्यं च॒रुँ सा॑वि॒त्रं द्वाद॑शकपालँ सारस्व॒तं च॒रुम् पौ॒ष्णं च॒रुम् मा॑रु॒तँ स॒प्तक॑पालं वैश्वदे॒वीम् आ॒मिक्षां॑ द्यावापृथि॒व्य॑म् एक॑कपालम् ॥

ऐ॒न्द्रा॒ग्नम् एका॑दशकपालम् मारु॒तीम् आ॒मिक्षां॑ वारु॒णीम् आ॒मिक्षां॑ का॒यम् एक॑कपालम्

प्र॒घा॒स्या॑न् हवामहे म॒रुतो॑ य॒ज्ञवा॑हसः कर॒म्भेण॑ स॒जोष॑सः ।

मो षू ण॑ इन्द्र पृ॒त्सु दे॒वास्तु॑ स्म ते शुष्मिन्न् अव॒या । म॒ही ह्य् अ॑स्य मी॒ढुषो॑ यव्या । ह॒विष्म॑तो म॒रुतो॒ वन्द॑ते॒ गीः ।

यद् ग्रामे॒ यद् अर॑ण्ये॒ यत् स॒भायां॒ यद् इ॑न्द्रि॒ये । यच् छू॒द्रे यद् अ॒र्य॑ एन॑श् चकृ॒मा व॒यम् । यद् एक॒स्याधि॒ धर्म॑णि॒ तस्या॑व॒यज॑नम् असि॒ स्वाहा॑ ।

अक्र॒न् कर्म॑ कर्म॒कृतः॑ स॒ह वा॒चा म॑योभु॒वा । दे॒वेभ्यः॒ कर्म॑ कृ॒त्वास्त॒म् प्रेत॑ सुदानवः ॥

अ॒ग्नयेऽनी॑कवते पुरो॒डाश॑म् अ॒ष्टाक॑पाल॒म् निर् व॑पति सा॒कँ सूर्ये॑णोद्य॒ता म॒रुद्भ्यः॑ सांतप॒नेभ्यो॑ म॒ध्यन्दि॑ने च॒रुम् म॒रुद्भ्यो॑ गृहमे॒धिभ्यः॒ सर्वा॑सां दु॒ग्धे सा॒यं च॒रुम्

पू॒र्णा द॑र्वि॒ परा॑ पत॒ सुपू॑र्णा॒ पुन॒र् आ प॑त । व॒स्नेव॒ वि क्री॑णावहा॒ इष॒म् ऊर्जँ॑ शतक्रतो ॥

दे॒हि मे॒ ददा॑मि ते॒ नि मे॑ धेहि॒ नि ते॑ दधे । नि॒हार॒म् इन् नि मे॑ हरा नि॒हार॑म् ॥

नि ह॑रामि ते ॥

म॒रुद्भ्यः॑ क्री॒डिभ्यः॑ पुरो॒डाशँ॑ स॒प्तक॑पालं॒ निर् व॑पति सा॒कँ सूर्ये॑णोद्य॒ताग्ने॒यम् अ॒ष्टाक॑पालं॒ निर् व॑पति सौ॒म्यं च॒रुँ सा॑वि॒त्रं द्वाद॑शकपालँ सारस्व॒तं च॒रुम् पौ॒ष्णं च॒रुम् ऐ॑न्द्रा॒ग्नम् एका॑दशकपालम् ऐ॒न्द्रं च॒रुं वै॑श्वकर्म॒णम् एक॑कपालम् ॥

सोमा॑य पितृ॒मते॑ पुरो॒डाशँ॒ षट्क॑पालं॒ निर्व॑पति पि॒तृभ्यो॑ बर्हि॒षद्भ्यो॑ धा॒नाः पि॒तृभ्यो॑ऽग्निष्वा॒त्तेभ्यो॑ऽभिवा॒न्या॑यै दु॒ग्धे म॒न्थम्

ए॒तत् ते॑ तत॒ ये च॒ त्वाम् अन्व् ए॒तत् ते॑ पितामह प्रपितामह॒ ये च॒ त्वाम् अन्व् अत्र॑ पितरो यथाभा॒गम् म॑न्दध्वम् \

सु॒सं॒दृशं॑ त्वा व॒यम् मघ॑वन् मन्दिषी॒महि॑ । प्र नू॒नम् पू॒र्णव॑न्धुर स्तु॒तो या॑सि॒ वशाँ॒ अनु॑ । योजा॒ न्व् इ॑न्द्र ते॒ हरी॑ ॥

अक्ष॒न्न् अमी॑मदन्त॒ ह्य् अव॑ प्रि॒या अ॑धूषत । अस्तो॑षत॒ स्वभा॑नवो॒ विप्रा॒ नवि॑ष्टया म॒ती योजा॒ न्व् इ॑न्द्र ते॒ हरी॑ ॥

अक्ष॑न् पि॒तरोऽमी॑मदन्त पि॒तरोऽती॑तृपन्त पि॒तरोऽमी॑मृजन्त पि॒तरः॒

परे॑त पितरः सोम्या गम्भी॒रैः प॒थिभिः॑ पू॒र्व्यैः । अथा॑ पि॒तॄन्त् सु॑वि॒दत्राँ॒ अपी॑त य॒मेन॒ ये स॑ध॒माद॒म् मद॑न्ति ॥

मनो॒ न्व् आ हु॑वामहे नाराशँ॒सेन॒ स्तोमे॑न पितृ॒णां च॒ मन्म॑भिः ।

आ ॥

न॒ ए॒तु॒ मनः॒ पुनः॒ क्रत्वे॑ द॒क्षाय॑ जी॒वसे॑ । ज्योक् च॒ सूर्यं॑ दृशे ॥

पुन॑र् नः पि॒तरो॒ मनो॒ ददा॑तु॒ दैव्यो॒ जनः॑ । जी॒वं व्रातँ॑ सचेमहि ॥

यद् अ॒न्तरि॑क्षम् पृथि॒वीम् उ॒त द्यां यन् मा॒तर॑म् पि॒तरं॑ वा जिहिँसि॒म । अ॒ग्निर् मा॒ तस्मा॒द् एन॑सो॒ गार्ह॑पत्यः॒ प्र मु॑ञ्चतु दुरि॒ता यानि॑ चकृ॒म क॒रोतु॒ माम् अ॑ने॒नस॑म् ॥

प्र॒ति॒पू॒रु॒षम् एक॑कपाला॒न् निर् व॑प॒त्य् एक॒म् अति॑रिक्तम् \

याव॑न्तो गृ॒ह्याः॑ स्मस् तेभ्यः॒ कम् अ॑करम्

पशू॒नाँ शर्मा॑सि॒ शर्म॒ यज॑मानस्य॒ शर्म॑ मे यछ॒ \

एक॑ ए॒व रु॒द्रो न द्वि॒तीया॑य तस्थे \

आ॒खुस् ते॑ रुद्र प॒शुस् तं जु॑षस्व \

ए॒ष ते॑ रुद्र भा॒गः स॒ह स्वस्राम्बि॑कया॒ तं जु॑षस्व

भेष॒जं गवेऽश्वा॑य॒ पुरु॑षाय भेष॒जम् अथो॑ अ॒स्मभ्य॑म् भेष॒जँ सुभे॑षजम् ॥

यथा॑सति सु॒गम् मे॒षाय॑ मे॒ष्यै॑

अवा॑म्ब रु॒द्रम् अ॑दिम॒ह्य् अव॑ दे॒वं त्र्य॑म्बकम् । यथा॑ नः॒ श्रेय॑सः॒ कर॒द् यथा॑ नो॒ वस्य॑सः॒ कर॒द् यथा॑ नः पशु॒मतः॒ कर॒द् यथा॑ नो व्यवसा॒यया॑त् ॥

त्र्य॑म्बकं यजामहे सुग॒न्धिम् पु॑ष्टि॒वर्ध॑नम् । उ॒र्वा॒रु॒कम् इ॑व॒ बन्ध॑नान् मृ॒त्योर् मु॑क्षीय॒ मामृता॑त् ।

ए॒ष ते॑ रुद्र भा॒गस् तं जु॑षस्व॒ तेना॑व॒सेन॑ प॒रो मूज॑व॒तोऽती॑हि॒ \

अव॑ततधन्वा॒ पिना॑कहस्तः॒ कृत्ति॑वासाः ॥

ऐ॒न्द्रा॒ग्नं द्वाद॑शकपालं वैश्वदे॒वं च॒रुम् इन्द्रा॑य॒ शुना॒सीरा॑य पुरो॒डाशं॒ द्वाद॑शकपालं वाय॒व्य॑म् पयः॑ सु॒र्यम् एक॑कपालं द्वादशग॒वँ सीरं॒ दक्षि॑णा \

आग्ने॒यम् अ॒ष्टाक॑पालं॒ निर्व॑पति रौ॒द्रं गा॑वीधु॒कं च॒रुम् ऐ॒न्द्रं दधि॑ वारु॒णं य॑व॒मयं॑ च॒रुं व॒हिनी॑ धे॒नुर् दक्षि॑णा॒

ये दे॒वाः पु॑रः॒सदो॒ऽग्निने॑त्रा दक्षिण॒सदो॑ य॒मने॑त्राः पश्चा॒त्सदः॑ सवि॒तृने॑त्रा उत्तर॒सदो॒ वरु॑णनेत्रा उपरि॒षदो॒ बृह॒स्पति॑नेत्रा रक्षो॒हण॒स् ते नः॑ पान्तु॒ ते नो॑ऽवन्तु॒ तेभ्यः॑ ॥

नम॒स् तेभ्यः॒ स्वाहा॒

समू॑ढँ॒ रक्षः॒ संद॑ग्धँ॒ रक्ष॑ इ॒दम् अ॒हँ रक्षो॒ऽभि सं द॑हामि \

अ॒ग्नये॑ रक्षो॒घ्ने स्वाहा॑ य॒माय॑ सवि॒त्रे वरु॑णाय॒ बृह॒स्पत॑ये॒ दुव॑स्वते रक्षो॒ घ्ने स्वाहा॑

प्रष्टिवा॒ही रथो॒ दक्षि॑णा

दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे॑ऽश्विनो॑र् बा॒हुभ्या॑म् पू॒ष्णो हस्ता॑भ्याँ॒ रक्ष॑सो व॒धं जु॑होमि ह॒तँ रक्षोऽव॑धिष्म॒ रक्ष॑स् \

यद् वस्ते॒ तद् दक्षि॑णा ॥

धा॒त्रे पु॑रो॒डाशं॒ द्वाद॑शकपालं॒ निर् व॑पति॒ \

अनु॑मत्यै च॒रुम् \

रा॒कायै॑ च॒रुम् \

सि॒नी॒वा॒ल्यै च॒रुम् \

कु॒ह्वै॑ च॒रुम्

मि॑थु॒नौ गावौ॒ दक्षि॑णा \

आग्नावैष्ण॒वम् एका॑दशकपालं॒ निर् व॑पति \

ऐन्द्रावैष्ण॒वम् एका॑दशकपालम् \

वै॒ष्ण॒वं तृ॑कपा॒लम् \

वा॒म॒नो व॒ही दक्षि॑णा \

अग्नीषो॒मीय॒म् एका॑दशकपालं॒ निर् व॑पति \

इन्द्रासो॒मीय॒म् एका॑दशकपालम् \

सौ॒म्यं च॒रुम्

ब॒भ्रुर् दक्षि॑णा

सोमापौ॒ष्णं च॒रुं निर् व॑पति \

ऐन्द्रापौ॒ष्णं च॒रुम्

पौ॒ष्णं च॒रुम् \

श्या॒मो दक्षि॑णा

वैश्वान॒रं द्वाद॑शकपालं॒ निर् व॑पति॒

हिर॑ण्यं॒ दक्षि॑णा

वारु॒णं य॑व॒मयं॑ च॒रुम्

अश्वो॒ दक्षि॑णा ॥

बा॒र्ह॒स्प॒त्यं च॒रुं निर् व॑पति ब्र॒ह्मणो॑ गृ॒हे शि॑तिपृ॒ष्ठो दक्षि॑णा \

ऐ॒न्द्रम् एका॑दशकपालँ राज॒न्य॑स्य गृ॒ह ऋ॑ष॒भो दक्षि॑णा \

आदि॒त्यं च॒रुम् महि॑ष्यै गृ॒हे धे॒नुर् दक्षि॑णा

नैरृ॒तं च॒रुम् प॑रिवृ॒क्त्यै॑ गृ॒हे कृ॒ष्णानां॑ व्रीही॒णां न॒खनि॑र्भिन्नं कृ॒ष्णा कू॒टा दक्षि॑णा \

आग्ने॒यम् अ॒ष्टाक॑पालँ सेना॒न्यो॑ गृ॒हे हिर॑ण्यं॒ दक्षि॑णा

वारु॒णं दश॑कपालँ सू॒तस्य॑ गृ॒हे म॒हानि॑रष्टो॒ दक्षि॑णा

मारु॒तँ स॒प्तक॑पालं ग्राम॒ण्यो॑ गृ॒हे पृश्नि॒र् दक्षि॑णा

सावि॒त्रं द्वाद॑शकपालम् ॥

क्ष॒त्तुर् गृ॒ह उ॑पध्व॒स्तो दक्षि॑णा \

आश्वि॒नं द्विक॑पालँ सम्ग्रही॒तुर् गृ॒हे स॑वा॒त्यौ॑ दक्षि॑णा

पौ॒ष्णं च॒रुम् भा॑गदु॒घस्य॑ गृ॒हे श्या॒मो दक्षि॑णा

रौ॒द्रं गा॑वीधु॒कं च॒रुम् अ॑क्षावा॒पस्य॑ गृ॒हे श॒बल॒ उद्वा॑रो॒ दक्षि॑णा \

इन्द्राय सु॒त्राम्णे॑ पुरो॒डाश॒म् एका॑दशकपाल॒म् प्रति॒ निर् व॑प॒तीन्द्रा॑याँहो॒मुचे॒ऽयं नो॒ राजा॑ वृत्र॒हा राजा॑ भू॒त्वा वृ॒त्रं व॑ध्यात् \

मै॒त्रा॒बा॒र्ह॒स्प॒त्यम् भ॑वति श्वे॒तायै॑ श्वे॒तव॑त्सायै दु॒ग्धे स्व॑यम्मू॒र्ते स्व॑यम्मथि॒त आज्य॒ आश्व॑त्ते ॥

पात्रे॒ चतुः॑स्रक्तौ स्वयमवप॒न्नायै॑ शाखायै

क॒र्णाँश् चाक॑र्णाँश् च तण्डु॒लान् वि चि॑नुया॒द् ये क॒र्णाः स पय॑सि बार्हस्प॒त्यो येऽक॑र्णाः॒ स आज्ये॑ मै॒त्रः

स्व॒यं॒कृ॒ता वेदि॑र् भवति स्वयंदि॒नम् ब॒र्हिः स्व॑यंकृ॒त इ॒ध्मः

सैव श्वे॒ता श्वे॒तव॑त्सा॒ दक्षि॑णा ॥

अ॒ग्नये॑ गृ॒हप॑तये पुरो॒डाश॑म् अ॒ष्टाक॑पालं॒ निर् व॑पति कृ॒ष्णानां॑ व्रीही॒णाँ सोमा॑य॒ वन॒स्पत॑ये श्यामा॒कं च॒रुँ स॑वि॒त्रे स॒त्यप्र॑सवाय पुरो॒डाशं॒ द्वाद॑शकपालम् आशू॒नां व्री॑ही॒णाँ रु॒द्राय॑ पशु॒पत॑ये गावीधु॒कं च॒रुम् बृह॒स्पत॑ये वा॒चस्पत॑ये नैवा॒रं च॒रुम् इन्द्रा॑य ज्ये॒ष्टाय॑ पुरो॒डाश॒म् एका॑दशकपालम् म॒हाव्री॑हीणाम् मि॒त्राय॑ स॒त्याया॒म्बानां॑ च॒रुं वरु॑णाय॒ धर्म॑पतये यव॒मयं॑ च॒रुम् \

स॒वि॒ता त्वा॑ प्रस॒वानाँ॑ सुवताम् अ॒ग्निर् गृ॒हप॑तीनाँ॒ सोमो॒ वन॒स्पती॑नाँ रु॒द्रः प॑शू॒नाम् ॥

बृह॒स्पति॑र् वा॒चाम् इन्द्रो॑ ज्ये॒ष्ठाना॑म् मि॒त्रः स॒त्यानां॒ वरु॑णो॒ धर्म॑पतीनाम् \

ये दे॒वा दे॑व॒सुव॒ स्थ त इ॒मम् आ॑मुष्याय॒णम् अ॑नमि॒त्राय॑ सुवध्वम् मह॒ते क्ष॒त्राय॑ मह॒त आधि॑पत्याय मह॒ते जान॑राज्याय \

ए॒ष वो॑ भरता॒ राजा॒ सोमो॒ऽस्माक॑म् ब्राह्म॒णाणाँ॒ राजा॒

प्रति॒ त्यन् नाम॑ रा॒ज्यम् अ॑धायि॒ स्वां त॒नुवं॒ वरु॑णो अशिश्रे॒च् छुचे॑र् मि॒त्रस्य॒ व्रत्या॑ अभू॒माम॑न्महि मह॒त ऋ॒तस्य॒ नाम॒

सर्वे॒ व्राता॒ वरु॑णस्याभूव॒न् वि मि॒त्र एवै॒र् अरा॑तिम् अतारी॒द् असू॑षुदन्त य॒ज्ञिया॑ ऋ॒तेन॒ व्य् उ॑ त्रि॒तो ज॑रि॒माणं॑ न आन॒ड्

विष्णोः॒ क्रमो॑ऽसि॒ विष्णोः॑ क्रा॒न्तम् अ॑सि॒ विष्णो॒र् विक्रा॑न्तम् असि

अ॒र्थेत॑ स्था॒पाम् पति॑र् असि॒ वृषा॑स्य् ऊ॒र्मिर् वृ॑षसे॒नो॑ऽसि व्रज॒क्षित॑ स्थ म॒रुता॒म् ओज॑ स्थ॒ सूर्य॑वर्चस स्थ॒ सूर्य॑त्वचस स्थ॒ मान्दा॑ स्थ॒ वाशा॑ स्थ॒ शक्व॑री स्थ विश्व॒भृत॑ स्थ जन॒भृत॑ स्था॒ग्नेस् ते॑ज॒स्या॑ स्था॒पाम् ओष॑धीनाँ॒ रस॑ स्थ \

अ॒पो दे॒वीर् मधु॑मतीर् अगृह्ण॒न्न् ऊर्ज॑स्वती राज॒सूया॑य॒ चिता॑नाः । याभि॑र् मि॒त्रावरु॑णाव् अ॒भ्यषि॑ञ्च॒न् याभि॒र् इन्द्र॒म् अन॑य॒न्न् अत्य् अरा॑तीः ॥

{F रा॒ष्ट्र॒दा} {W रा॑ष्त्र॒दा} स्थ॑ रा॒ष्ट्रं द॑त्त॒ स्वाहा॑ राष्ट्र॒दा स्थ॑ रा॒ष्ट्रम् अ॒मुष्मै॑ दत्त ॥

देवी॑र् आपः॒ सम् मधु॑मती॒र् मधु॑मतीभिः सृज्यध्व॒म् महि॒ वर्चः॑ क्ष॒त्रिया॑य वन्वा॒नास् \

अना॑धृष्टाः सीद॒तोर्ज॑स्वती॒र् महि॒ वर्चः॑ क्ष॒त्रिया॑य द॒धती॑स् \

अनि॑भृष्टम् असि वा॒चो बन्धु॑स् तपो॒जाः सोम॑स्य दा॒त्रम् अ॑सि

शु॒क्रा वः॑ शु॒क्रेनोत् पु॑नामि च॒न्द्राश् च॒न्द्रेणा॒मृता॑ अ॒मृते॑न॒ स्वाहा॑ राज॒सूया॑य॒ चिता॑नाः

सध॒मादो॑ द्यु॒म्निनी॒र् ऊर्ज॑ ए॒ता अनि॑भृष्टा अप॒स्युवो॒ वसा॑नः । प॒स्त्या॑सु चक्रे॒ वरु॑णः स॒धस्थ॑म् अ॒पाँ शिशुः॑ ॥

मा॒तृत॑मास्व् अ॒न्तः ॥

क्ष॒त्रस्योल्ब॑म् असि क्ष॒त्रस्य॒ योनि॑र् असि \

आवि॑न्नो अ॒ग्निर् गृ॒हप॑ति॒र् आवि॑न्न॒ इन्द्रो॑ वृ॒द्धश्र॑वा॒ आवि॑न्नः पू॒षा वि॒श्ववे॑दा॒ आवि॑न्नौ मि॒त्रावरु॑णव् ऋता॒वृधा॒व् आवि॑न्ने॒ द्यावा॑पृथि॒वी धृ॒तव्र॑ते॒ आवि॑न्ना दे॒व्य् अदि॑तिर् विश्वरू॒प्य् आवि॑न्नो॒यम् अ॒साव् आ॑मुष्याय॒णो॑ऽस्यां वि॒श्य् अ॑स्मिन् रा॒ष्ट्रे म॑ह॒ते क्ष॒त्राय॑ मह॒त आधि॑पत्याय मह॒ते जान॑राज्याय \

ए॒ष वो॑ भरता॒ राजा॒ सोमो॒ऽस्माक॑म् ब्राह्म॒णानाँ॒ राजा॒ \

इन्द्र॑स्य ॥

वज्रो॑ऽसि॒ वार्त्र॑घ्नस् त्वया॒यं वृ॒त्रं व॑ध्यात् \

श॒त्रु॒बाध॑ना स्थ

पा॒त मा॑ प्र॒त्यञ्च॑म् पा॒त मा॑ ति॒र्यञ्च॑म् अ॒न्वञ्च॑म् मा पात दि॒ग्भ्यो मा॑ पात॒ विश्वा॑भ्यो मा ना॒ष्ट्राभ्यः॑ पात॒

हिर॑ण्यवर्णाव् उ॒षसां॑ विरो॒केऽय॑स्थूणा॒व् उदि॑तौ॒ सूर्य॒स्या रो॑हतं वरुण मित्र॒ गर्तं॒ तत॑श् चक्षाथा॒म् अदि॑तिं॒ दितिं॑ च ॥

स॒मिध॒म् आ ति॑ष्ठ गाय॒त्री त्वा॒ छन्द॑साम् अवतु त्रि॒वृत् स्तोमो॑ रथंत॒रँ सामा॒ग्निर् दे॒वता॒ ब्रह्म॒ द्रवि॑णम्

उ॒ग्राम् आ ति॑ष्ठ त्रि॒ष्टुप् त्वा॒ छन्द॑साम् अवतु पञ्चद॒श स्तोमो॑ बृ॒हत् सामेन्द्रो॑ दे॒वता॑ क्ष॒त्रं द्रवि॑णम् \

वि॒राज॒म् आ ति॑ष्ठ॒ जग॑ती त्वा॒ छन्द॑साम् अवतु सप्तद॒श स्तोमो॑ वैरू॒पँ साम॑ म॒रुतो॑ दे॒वता॒ विड् द्रवि॑ण॒म्

उदी॑ची॒म् आ ति॑ष्ठानु॒ष्टुप् त्वा॑ ॥

छन्द॑साम् अवत्व् एक विँ॒श स्तोमो॑ वैरा॒जँ साम॑ मि॒त्रावरु॑णौ दे॒वता॒ बलं॒ द्रवि॑णम्

ऊ॒र्ध्वाम् आ ति॑ष्ठ प॒ङ्क्तिस् त्वा॒ छन्द॑साम् अवतु त्रिणवत्रयस्त्रिँ॒शौ स्तोमौ॑ शाक्वररैव॒ते साम॑नी॒ बृह॒स्पति॑र् दे॒वता॒ वर्चो॒ द्रवि॑णम्

ई॒डृङ् चा॑न्या॒दृङ् चै॑ता॒दृङ् च॑ प्रति॒दृङ् च॑ मि॒तश् च॒ सम्मि॑तश् च॒ सभ॒राः

शु॒क्रज्यो॑तिष् च चि॒त्रज्यो॑तिश् च स॒त्यज्यो॑तिश् च॒ ज्योति॑ष्माँश् च स॒त्यश् च॑र्त॒पाश् च॑ ॥

अत्यँ॑हाः ।

अ॒ग्नये॒ स्वाहा॒ सोमा॑य॒ स्वाहा॑ सवि॒त्रे स्वाहा॒ सर॑स्वत्यै॒ स्वाहा॑ पू॒ष्णे स्वाहा॒ बृह॒स्पत॑ये॒ स्वाहेन्द्रा॑य॒ स्वाहा॒ घोषा॑य॒ स्वाहा॒ श्लोका॑य॒ स्वाहाँशा॑य॒ स्वाहा॒ भगा॑य॒ स्वाहा॒ क्षेत्र॑स्य॒ पत॑ये॒ स्वाहा॑

पृथि॒व्यै स्वाहा॒न्तरि॑क्षाय॒ स्वाहा॑ दि॒वे स्वाहा॒ सूर्या॑य॒ स्वाहा॑ च॒न्द्रम॑से॒ स्वाहा॒ नक्ष॑त्रेभ्यः॒ स्वाहा॒द्भ्यः स्वाहौष॑धीभ्यः॒ स्वाहा॒ वन॒स्पति॑भ्यः॒ स्वाहा॑ चराच॒रेभ्यः॒ स्वाहा॑ परिप्ल॒वेभ्यः॒ स्वाहा॑ सरीसृ॒पेभ्यः॑ स्वाहा

सोम॑स्य॒ त्विषि॑र् असि॒ तवे॑व मे॒ त्विषि॑र् भूयात् \

अ॒मृत॑म् असि मृ॒त्योर् मा॑ पाहि

दि॒द्योन् मा॑ पाहि॒ \

अवे॑ष्टा दन्द॒शूका॑स् \

निर॑स्तं॒ नमु॑चेः॒ शिरः॒

सोमो॒ राजा॒ वरु॑णो दे॒वा ध॑र्म॒सुव॑श् च॒ ये । ते ते॒ वाचँ॑ सुवन्तां॒ ते ते॑ प्रा॒णँ सु॑वन्तां॒ ते ते॒ चक्षुः॑ सुवन्तां॒ ते ते॒ श्रोत्रँ॑ सुवन्ताम् \

सोम॑स्य त्वा द्यु॒म्नेना॒भि षि॑ञ्चाम्य् अ॒ग्नेः ॥

तेज॑सा॒ सूर्य॑स्य॒ वर्च॒सेन्द्र॑स्येन्द्रि॒येण॑ मि॒त्रावरु॑णयोर् वी॒र्ये॑ण म॒रुता॒म् ओज॑सा

क्ष॒त्राणां॑ क्ष॒त्रप॑तिर् असि॒ \

अति॑ दि॒वस् पा॑हि

स॒माव॑वृत्रन्न् अध॒राग् उदी॑ची॒र् अहि॑म् बु॒ध्निय॒म् अनु॑ सं॒चर॑न्तीः॒ ताः पर्व॑तस्य वृष॒भस्य॑ पृ॒ष्ठे नाव॑श् चरन्ति स्व॒सिच॑ इया॒नाः ॥

रुद्र॒ यत् ते॒ क्रयी॒ परं॒ नाम॒ तस्मै॑ हु॒तम् अ॑सि य॒मेष्ट॑म् असि ॥

प्रजा॑पते॒ न त्वद् ए॒तान्य् अ॒न्यो विश्वा॑ जा॒तानि॒ परि॒ ता ब॑भूव । यत्का॑मास् ते जुहु॒मस् तन् नो॑ अस्तु व॒यँ स्या॑म॒ पत॑यो रयी॒णाम् ॥

इन्द्र॑स्य॒ वज्रो॑ऽसि॒ वार्त्र॑घ्न॒स् त्वया॒यं वृ॒त्रं व॑ध्यात् \

मि॒त्रावरु॑णयोस् त्वा प्रशा॒स्त्रोः प्र॒शिषा॑ युनज्मि य॒ज्ञस्य॒ योगे॑न॒

विष्णोः॒ क्रमो॑ऽसि॒ विष्णोः॑ क्रा॒न्तम् अ॑सि॒ विष्णो॒र् विक्रा॑न्तम् असि

म॒रुता॑म् प्रस॒वे जे॑षम्

आ॒प्तम् मनः॒

सम् अ॒हम् इ॑न्द्रि॒येण॑ वी॒र्ये॑ण

पशू॒नाम् म॒न्युर् अ॑सि॒ तवे॑व मे म॒न्युर् भू॑यात् \

नमो॑ मा॒त्रे पृ॑थि॒व्यै माहम् मा॒तर॑म् पृथि॒वीँ हिँ॑सिष॒म् मा ॥

मां मा॒ता पृ॑थि॒वी हिँ॑सीत् \

इय॑द् अ॒स्य् आयु॑र् अ॒स्य् आयु॑र् मे धे॒ह्य् ऊर्ग् अ॒स्य् ऊर्ज॑म् मे धेहि॒ युङ्ङ् अ॑सि॒ वर्चो॑ऽसि॒ वर्चो॒ मयि॑ धेहि \

अ॒ग्नये॑ गृ॒ह प॑तये॒ स्वाहा॒ सोमा॑य॒ वन॒स्पत॑ये॒ स्वाहेन्द्र॑स्य॒ बला॑य॒ स्वाहा॑ म॒रुता॒म् ओज॑से॒ स्वाहा॑

हँ॒सः शु॑चि॒षद् वसु॑र् अन्तरिक्ष॒सद् धोता॑ वेदि॒षद् अति॑थिर् दुरोण॒सत् । नृ॒षद् व॑र॒सद् ऋ॑त॒सद् व्यो॑म॒सद् अ॒ब्जा गो॒जा ऋ॑त॒जा अ॑द्रि॒जा ऋ॒तम् बृ॒हत् ॥

मि॒त्रो॑ऽसि॒ वरु॑णोऽसि॒

सम् अ॒हं विश्वै॑र् दे॒वैः

क्ष॒त्रस्य॒ नाभि॑र् असि क्ष॒त्रस्य॒ योनि॑र् असि

स्यो॒नाम् आ सी॑द सु॒षदा॒म् आ सी॑द

मा त्वा॑ हिँसी॒न् मा मा॑ हिँसीत् \

नि ष॑साद धृ॒तव्र॑तो॒ वरु॑णः प॒स्त्या॑स्व् आ साम्रा॑ज्याय सु॒क्रतु॑स् \

ब्रह्मा3न् त्वँ रा॑जन् ब्र॒ह्मासि॑ सवि॒तासि॑ स॒त्यस॑वो॒ ब्रह्मा3न् त्वँ रा॑जन् ब्र॒ह्मासीन्द्रो॑ऽसि स॒त्यौजाः॑ ॥

ब्रह्मा3न् त्वँ रा॑जन् ब्र॒ह्मासि॑ मि॒त्रो॑ऽसि सु॒शेवो॒ ब्रह्मा3न् त्वँ रा॑जन् ब्र॒ह्मासि॒ वरु॑णोऽसि स॒त्यध॑र्मा \

इन्द्रस्य॒ वज्रो॑ऽसि॒ वार्त्र॑घ्न॒स् तेन॑ मे रध्य॒

दिशो॒ऽभ्य् अ॑यँ राजा॑भू॒त्

सुश्लो॒का3ँ सुम॑ङ्ग॒ला3ँ सत्य॑रा॒जा3न्

अ॒पां नप्त्रे॒ स्वाहो॒र्जो नप्त्रे॒ स्वाहा॒ग्नये॑ गृ॒हप॑तये॒ स्वाहा॑ ॥

आ॒ग्ने॒यम् अ॒ष्टाक॑पालं॒ निर् व॑पति॒

हिर॑ण्यं॒ दक्षि॑णा सारस्व॒तं च॒रुं व॑त्सत॒री दक्षि॑णा सावि॒त्रं द्वाद॑शकपालम् उपध्व॒स्तो दक्षि॑णा पौ॒ष्णं च॒रुँ श्या॒मो दक्षि॑णा बार्हस्प॒त्यं च॒रुँ शि॑तिपृ॒ष्ठो दक्षि॑णै॒न्द्रम् एक॑दशकपालम् ऋष॒भो दक्षि॑णा वारु॒णं दश॑कपालम् म॒हानि॑रष्टो॒ दक्षि॑णा सौ॒म्यं च॒रुम् ब॒भ्रुर् दक्षि॑णा त्वा॒ष्ट्रम् अ॒ष्टाक॑पालँ शु॒ण्ठो दक्षि॑णा वैष्ण॒वं त्रि॑कपा॒लं वा॑म॒नो दक्षि॑णा ॥

स॒द्यो दी॑क्षयन्ति

स॒द्यः सोमं॑ क्रीणन्ति

पुण्डरिस्र॒जाम् प्र य॑छति

द॒शभि॑र् वत्सत॒रैः सोमं॑ क्रीणाति

दश॒पेयो॑ भवति

श॒तम् ब्रा॑ह्म॒णाः पि॑बन्ति

सप्तद॒शँ स्तो॒त्रम् भ॑वति

प्राका॒शाव् अ॑ध्व॒र्यवे॑ ददाति॒

स्रज॑म् उद्गा॒त्रे

रु॒क्मँ होत्रे॒ \

अश्व॑म् प्रस्तोतृप्रतिह॒र्तृभ्या॑म् \

द्वा॒द॒श॒ प॒ष्ठौ॒हीर् ब्र॒ह्मणे॑

व॒शाम् मै॑त्रावरु॒णाय॑ \

ऋष॒भम् ब्रा॑ह्मणाछँ॒सिने॑

वास॑सी नेष्टापो॒तृभ्या॑म् \

स्थूरि॑ यवाचि॒तम् अ॑छावा॒काय॑ \

अन॒ड्वाह॑म् अ॒ग्नीधे॑

भार्ग॒वो होता॑ भवति

श्राय॒न्तीय॑म् ब्रह्मसा॒मम् भ॑वति

वारव॒न्तीय॑म् अग्निष्टोमसा॒मम् \

सा॒र॒स्व॒तीर् अ॒पो गृ॑ह्णाति ॥

आ॒ग्ने॒यम् अ॑ष्टाकपालं॒ निर् व॑पति॒ हिर॑ण्यं॒ दक्षि॑णा \

ऐ॒न्द्रम् एका॑दशकपालम् ऋष॒भो दक्षि॑णा

वैश्वदे॒वं च॒रुम् पि॒शंगी॑ पष्ठौ॒ही दक्षि॑णा

मैत्रावरु॒णीम् आ॒मिक्षां॑ व॒शा दक्षि॑णा

बार्हस्प॒त्यं च॒रुँ शि॑तिपृ॒ष्ठो दक्षि॑णा \

आदि॒त्याम् म॒ल्हां ग॒र्भिणी॒म् आ ल॑भते

मारु॒तीम् पृश्नि॑म् पष्ठौ॒हीम्

अ॒श्विभ्या॑म् पू॒ष्णे पु॑रो॒डाशं॒ द्वाद॑शकपालं॒ निर् व॑पति॒ सर॑स्वते सत्य॒वाचे॑ च॒रुँ स॑वि॒त्रे स॒त्यप्र॑सवाय पुरो॒डाशं॒ द्वाद॑शकपालम् \

ति॒र्ष्ध॒न्वँ शु॑ष्कदृ॒तिर् दक्षि॑णा ॥

आ॒ग्ने॒यम् अ॒ष्टाक॑पालं॒ निर् व॑पति

सौ॒म्यं च॒रुम् \

सा॒वि॒त्रं द्वाद॑शकपालम्

बार्हस्प॒त्यं च॒रुम् \

त्वा॒ष्ट्रम् अ॒ष्टाक॑पालम् \

वै॒श्वा॒न॒रं द्वाद॑शकपालम् \

दक्षि॑णो रथवाहनवा॒हो दक्षि॑णा

सारस्व॒तं च॒रुं निर् व॑पति

पौ॒ष्णं च॒रुम्

मै॒त्रं च॒रुम् \

वा॒रु॒णं च॒रुम् \

क्षै॒त्र॒प॒त्यं च॑रुम्

आदि॒त्यं च॒रुम्

उत्त॑रो रथवाहनवा॒हो दक्षि॑णा ॥

स्वा॒द्वीं त्वा॑ स्वा॒दुना॑ ती॒व्रां ती॒व्रेणा॒मृता॑म् अ॒मृते॑न सृ॒जामि॒ सँ सोमे॑न॒ सोमो॑ऽस्य् अ॒श्विभ्या॑म् पच्यस्व॒ सर॑स्वत्यै पच्य॒स्वेन्द्रा॑य सु॒त्राम्णे॑ पच्यस्व

पु॒नातु॑ ते परि॒स्रुतँ॒ सोमँ॒ सूर्य॑स्य दुहि॒ता । वारे॑ण॒ शश्व॑ता॒ तना॑ ॥

वा॒युः पू॒तः प॒वित्रे॑ण प्र॒त्यङ्क् सोमो॒ अति॑द्रुतः । इन्द्र॑स्य यु॒ज्यः सखा॑ ॥

कु॒विद् अ॒ङ्ग यव॑मन्तो॒ यवं॑ चि॒द् यथा॒ दान्त्य् अ॑नुपू॒र्वं वि॒यूय॑ । इ॒हेहै॑षां कृणुत॒ भोज॑नानि॒ ये ब॒र्हिषो॒ नमो॑वृक्तिं॒ न ज॒ग्मुः ॥

आ॒श्वि॒नं धू॒म्रम् आ ल॑भते सारस्व॒तम् मे॒षम् ऐ॒न्द्रम् ऋ॑ष॒भम्

ऐ॒न्द्रम् एका॑दशकपालं॒ निर् व॑पति सावि॒त्रं द्वाद॑शकपालं वारु॒णं दश॑कपालम् \

सोम॑प्रतीकाः पितरस् तृप्णुत॒

वड॑बा॒ दक्षि॑णा ॥

अग्ना॑विष्णू॒ महि॒ तद् वा॑म् महि॒त्वं वी॒तं घृ॒तस्य॒ गुह्या॑नि॒ नाम॑ । दमे॑दमे स॒प्त रत्ना॒ दधा॑ना॒ प्रति॑ वां जि॒ह्वा घृ॒तम् आ च॑रण्येत् ॥

अग्ना॑विष्णू॒ महि॒ धाम॑ प्रि॒यं वां॑ वी॒थो घृ॒तस्य॒ गुह्या॑ जुषा॒णा । दमे॑दमे सुष्टु॒तीर् वा॑वृधा॒ना प्रति॑ वां जि॒ह्वा घृ॒तम् उच् च॑रण्येत् ॥

प्र णो॑ दे॒वी सर॑स्वती॒ वाजे॑भिर् वा॒जिनी॑वती । धी॒नाम् अ॑वि॒त्र्य् अ॑वतु ॥

आ नो॑ दि॒वो बृ॑ह॒तः ॥

पर्व॑ता॒द् आ सर॑स्वती यज॒ता ग॑न्तु य॒ज्ञम् । हवं॑ दे॒वी जु॑जुषा॒णा घृ॒ताची॑ श॒ग्मां नो॒ वाच॑म् उश॒ती शृ॑णोतु ॥

बृह॑स्पते जु॒षस्व॑ नो ह॒व्यानि॑ विश्वदेव्य । रास्व॒ रत्ना॑नि दा॒शुषे॑ ॥

ए॒वा पि॒त्रे वि॒श्वदे॑वाय॒ वृष्णे॑ य॒ज्ञैर् वि॑धेम॒ नम॑सा ह॒विर्भिः॑ । बृह॑स्पते सुप्र॒जा वी॒रव॑न्तो व॒यँ स्या॑म॒ पत॑यो रयी॒णाम् ॥

बृह॑स्पते॒ अति॒ यद् अ॒र्यो अर्हा॑द् द्यु॒मद् वि॒भाति॒ क्रतु॑म॒ज् जने॑षु । यद् दी॒दय॒च् छव॑सा ॥

ऋ॒त॒प्र॒जा॒त॒ तद् अ॒स्मासु॒ द्रवि॑णं धेहि चि॒त्रम् ॥

आ नो॑ मित्रावरुणा घृ॒तैर् गव्यू॑तिम् उक्षतम् । मध्वा॒ रजाँ॑सि सुक्रतू ॥

प्र बा॒हवा॑ सिसृतं जी॒वसे॑ न॒ आ नो॒ गव्यू॑तिम् उक्षतं घृ॒तेन॑ । आ नो॒ जने॑ श्रवयतं युवाना श्रु॒तम् मे॑ मित्रावरुणा॒ हवे॒मा ॥

अ॒ग्निं वः॑ पू॒र्व्यं गि॒रा दे॒वम् ई॑डे॒ वसू॑नाम् । स॒प॒र्यन्तः॑ पुरुप्रि॒यम् मि॒त्रं न क्षे॑त्र॒साध॑सम् ॥

म॒क्षू दे॒वव॑तो॒ रथः॑ ॥

शूरो॑ वा पृ॒त्सु कासु॑ चित् । दे॒वानां॒ य इन् मनो॒ यज॑मान॒ इय॑क्षत्य् अ॒भीद् अय॑ज्वनो भुवत् ॥

न य॑जमान रिष्यसि॒ न सु॑न्वान॒ न दे॑वयो । अस॒द् अत्र॑ सु॒वीर्य॑म् उ॒त त्यद् आ॒श्वश्वि॑यम् । नकि॒ष् टं कर्म॑णा नश॒न् न प्र यो॑ष॒न् न यो॑षति ॥

उप॑ क्षरन्ति॒ सिन्ध॑वो मयो॒भुव॑ ईजा॒नं च॑ य॒क्ष्यमा॑णं च धे॒नवः॑ । पृ॒णन्तं॑ च॒ पपु॑रिं च ॥

श्र॒व॒स्यवो॑ घृ॒तस्य॒ धारा॒ उप॑ यन्ति वि॒श्वतः॑ ॥

सोमा॑रुद्रा॒ वि वृ॑हतं॒ विषू॑ची॒म् अमी॑वा॒ या नो॒ गय॑म् आवि॒वेश॑ । आ॒रे बा॑धेथां॒ निरृ॑तिम् परा॒चैः कृ॒तं चि॒द् एनः॒ प्र मु॑मुक्तम् अ॒स्मत् ॥

सोमा॑रुद्रा॒ युव॑म् ए॒तान्य् अ॒स्मे विश्वा॑ त॒नूषु॑ भेष॒जानि॑ धत्तम् । अव॑ स्यतम् मु॒ञ्चतं॒ यन् नो॒ अस्ति॑ त॒नूषु॑ ब॒द्धं कृ॒तम् एनो॑ अ॒स्मत् ॥

सोमा॑पूषणा॒ जन॑ना रयी॒णां जन॑ना दि॒वो जन॑ना पृथि॒व्याः । जा॒तौ विश्व॑स्य॒ भुव॑नस्य गो॒पौ दे॒वा अ॑कृण्वन्न् अ॒मृत॑स्य॒ नाभि॑म् ॥

इ॒मौ दे॒वौ जाय॑मानौ जुषन्ते॒मौ त॒माँसि॑ गूहता॒म् अजु॑ष्टा । आ॒भ्याम् इन्द्रः॑ प॒क्वम् आ॒मास्व् अ॒न्तः सो॑मापु॒षभ्यां॑ जनद् उ॒स्रिया॑सु ॥