पा॒क॒य॒ज्ञं वा अन्व् आहि॑ताग्नेः प॒शव॒ उप॑ तिष्ठन्त॒ इडा॒ खलु॒ वै पा॑कय॒ज्ञः

सैषान्त॒रा प्र॑याजानूया॒जान् यज॑मानस्य लो॒केऽव॑हिता । ताम् आ॑ह्रि॒यमा॑णाम् अ॒भि म॑न्त्रयेत॒

सुरू॑पवर्षवर्ण॒ एहीति॑ प॒शवो॒ वा इडा॑ प॒शून् ए॒वोप॑ ह्वयते । य॒ज्ञं वै दे॒वा अ॑दुह्रन् य॒ज्ञोऽसु॑राँ अदुह॒त्

तेऽसु॑रा य॒ज्ञदु॑ग्धाः॒ परा॑भव॒न् यो वै य॒ज्ञस्य॒ दोहं॑ वि॒द्वान् ॥

यज॒तेऽप्य् अ॒न्यं यज॑मानं दुहे । सा मे॑ स॒त्याशीर् अ॒स्य य॒ज्ञस्य॑ भूया॒द् इत्य् आ॑है॒ष वै य॒ज्ञस्य॒ दोह॒स्

तेनै॒वैनं॑ दुहे । प्रत्ता॒ वै गौर् दु॑हे॒ प्रत्तेडा॒ यज॑मानाय दुह ए॒ते वा इडा॑यै॒ स्तना॒ इडोप॑हू॒तेति॑ वा॒युर् व॒त्सो । यर्हि॒ होतेडा॑म् उप॒ह्व्यये॑त॒ तर्हि॒ यज॑मानो॒ होता॑र॒म् ईक्ष॑माणो वा॒युम् मन॑सा ध्यायेत् ॥

मा॒त्रे व॒त्सम् उ॒पाव॑सृजति । सर्वे॑ण॒ वै य॒ज्ञेन॑ दे॒वाः सु॑व॒र्गं लो॒कम्

पा॑कय॒ज्ञेन॒ मनु॑र् अश्राम्य॒त् सेडा॒ मनु॑म् उ॒पाव॑र्तत॒ तां दे॑वासु॒रा व्य् अ॑ह्वयन्त प्र॒तीचीं॑ दे॒वाः परा॑चीं॒ असु॑राः॒ सा दे॒वान् उ॑पावर्तत प॒शवो॒ वै तद् दे॒वान् अ॑वृणत प॒शवोऽसु॑रान् अजहुर् । यं का॒मये॑ताप॒शुः स्या॒द् इति॒ परा॑चीं॒ तस्येडा॒म् उप॑ ह्वयेताप॒शुर् ए॒व भ॑वन्ति॒

यम् ॥

का॒मये॑त पशु॒मान्त् स्या॒द् इति॑ प्र॒तीची॒म् तस्येडा॒म् उप॑ ह्वयेत पशु॒मान् ए॒व भ॑वति । ब्र॒ह्म॒वा॒दिनो॑ वदन्ति॒

स त्वा इडां॒ उप॑ ह्वयेत॒ य इडां॑ उप॒हूया॒त्मान॒म् इडा॑याम् उप॒ह्वये॒तेति॑ । सा नः॑ प्रि॒या सु॒प्रतू॑र्तिर् म॒घोनीत्य् आ॒हेडा॑म् ए॒वोप॒हूया॒त्मान॑म् इडाया॒म् उप॑ ह्वयते । व्य॑स्तम् इव॒ वा ए॒तद् य॒ज्ञस्य॒ यद् इडा॑ सा॒मि प्रा॒श्नन्ति॑ ॥

सा॒मि मा॑र्जयन्त ए॒तत् प्रति॒ वा असु॑राणां य॒ज्ञो व्य् अ॑छिद्यत॒

ब्रह्म॑णा दे॒वाः सम् अ॑दधुर् । बृह॒स्पति॑स् तनुताम् इ॒मं न॒ इत्य् आ॑ह॒ ब्रह्म॒ वै दे॒वाना॒म् बृह॒स्पति॒र् ब्रह्म॑णै॒व य॒ज्ञँ सं द॑धाति । विछि॑न्नं य॒ज्ञँ सम् इ॒मं द॑धा॒त्व् इत्य् आ॑ह॒

संत॑त्यै । विश्वे॑ दे॒वा इ॒ह मा॑दयन्ता॒म् इत्य् आ॑ह सं॒तत्यै॒व य॒ज्ञं दे॒वेभ्योऽनु॑ दिशति । यां वै ॥

य॒ज्ञे दक्षि॑णां॒ ददा॑ति॒ ताम् अ॑स्य प॒शवोऽनु॒ सं क्रा॑मन्ति॒

स ए॒ष ई॑जा॒नो॑ऽप॒शुर् भावु॑को॒ यज॑मानेन॒ खलु॒ वै तत् का॒र्य॑म् इत्य् आ॑हु॒र् यथा॑ देव॒त्रा द॒त्तं कु॑र्वी॒तात्मन् प॒शून् र॒मये॒तेति॑ । ब्रध्न॒ पिन्व॒स्वेत्य् आ॑ह

य॒ज्ञो वै ब्र॒ध्नो य॒ज्ञम् ए॒व तन् म॑हय॒त्य् अथो॑ देव॒त्रैव द॒त्तं कु॑रुत आ॒त्मन् प॒शून् र॑मयते । दद॑तो मे॒ मा क्षा॒यीत्य् आ॒हाक्षि॑तिम् ए॒वोपै॑ति । कु॒र्व॒तो मे॒ मोप॑ दस॒द् इत्य् आ॑ह

भू॒मान॑म् ए॒वोपै॑ति ॥

सँश्र॑वा ह सौवर्चन॒सस् तुमिं॑ज॒म् औपो॑दितिम् उवाच॒

यत् स॒त्त्रिणाँ॒ होता॑भूः॒ काम् इडा॒म् उपा॑ह्वथा॒ इति॑

ताम् उपा॑ह्व॒ इति॑ होवाच॒ या प्रा॒णेन॑ दे॒वान् द॒धार॑ व्या॒नेन॑ मनु॒ष्या॑न् अपा॒नेन॑ पि॒तॄन् इति॑

छि॒नत्ति॒ सा न छि॑न॒त्ती3 इति॑

छि॒नत्तीति॑ होवाच॒

शरी॑रं॒ वा अ॑स्यै॒ तद् उ॑पाह्वथा॒ इति॑ होवाच॒

गौर् वै ॥

अ॒स्यै॒ शरी॑रम् \

गां वाव तौ तत् पर्य् अ॑वदताम् \

या य॒ज्ञे दी॒यते॒ सा प्रा॒णेन॑ दे॒वान् दा॑धार॒ यया॑ मनु॒ष्या॑ जीव॑न्ति॒ सा व्या॒नेन॑ मनु॒ष्या॑न् याम् पि॒तृभ्यो॒ घ्नन्ति॒ सापा॒नेन॑ पि॒तॄन्

य ए॒वं वेद॑ पशु॒मान् भ॑वति॒ \

अथ॒ वै ताम् उपा॑ह्व॒ इति॑ होवाच॒ या प्र॒जाः प्र॒भव॑न्तीः॒ प्रत्य् आ॒भव॒तीति॒ \

अन्नं॒ वा अ॑स्यै॒ तत् ॥

उपा॑ह्वथा॒ इति॑ होवाच॒ \

ओष॑धयो॒ वा अ॑स्या॒ अन्न॒म्

ओष॑धयो॒ वै प्र॒जाः प्र॒भव॑न्तीः॒ प्रत्य् आ भ॑वन्ति॒

य ए॒वं वेदा॑न्ना॒दो भ॑वति॒ \

अथ॒ वै ताम् उपा॑ह्व॒ इति॑ होवाच॒ या प्र॒जाः प॑रा॒भव॑न्तीर् अनुगृ॒ह्णाति॒ प्रत्य् आ॒भव॑न्तीर् गृ॒ह्णातीति॑

प्रति॒ष्ठां वा अ॑स्यै॒ तद् उपा॑ह्वथा॒ इति॑ होवाच \

इ॒यं वा अ॑स्यै प्रति॒ष्ठा ॥

इ॒यं वै प्र॒जाः प॑रा॒भव॑न्ती॒र् अनु॑ गृह्णाति॒ प्रत्य् आ॒भव॑न्तीर् गृह्णाति॒

य ए॒वं वेद॒ प्रत्य् ए॒व ति॑ष्ठति॒ \

अथ॒ वै ताम् उपा॑ह्व॒ इति॑ होवाच॒ यस्यै॑ नि॒क्रम॑णे घृ॒तम् प्र॒जाः सं॒जीव॑न्तीः॒ पिब॒न्तीति॑

छि॒नत्ति॒ सा न छि॑न॒त्ती3 इति॒

न छि॑न॒त्तीति॑ होवाच॒ प्र तु ज॑नय॒तीति॑ \

ए॒ष वा इडा॒म् उपा॑ह्वथा॒ इति॑ होवाच

वृष्टि॒र् वा इडा॑

वृष्ट्यै॒ वै नि॒क्रम॑णे घृ॒तम् प्र॒जाः सं॒जीव॑न्तीः पिबन्ति॒

य ए॒वं वेद॒ प्रैव जा॑यतेऽन्ना॒दो भ॑वति ॥

प॒रोऽक्षं॒ वा अ॒न्ये दे॒वा इ॒ज्यन्ते॑ प्र॒त्यक्ष॑म् अ॒न्ये

यद् यज॑ते॒ य ए॒व दे॒वाः प॒रोऽक्ष॑म् इ॒ज्यन्ते॒ तान् ए॒व तद् य॑जति॒

यद् अ॑न्वाहा॒र्य॑म् आ॒हर॑त्य् ए॒ते वै दे॒वाः प्र॒त्यक्षं॒ यद् ब्रा॑ह्म॒णास् तान् ए॒व तेन॑ प्रीणाति॒ \

अथो॒ दक्षि॑णै॒वास्यै॒षा \

अथो॑ य॒ज्ञस्यै॒व छि॒द्रम् अपि॑ दधाति॒

यद् वै य॒ज्ञस्य॑ क्रू॒रं यद् विलि॑ष्टं॒ तद् अ॑न्वाहा॒र्ये॑ण ॥

अ॒न्वाह॑रति॒

तद् अ॑न्वाहा॒र्य॑स्यान्वाहार्य॒त्वम् \

दे॒व॒दू॒ता वा ए॒ते यद् ऋ॒त्विज॑स् \

यद् अ॑न्वाहा॒र्य॑म् आ॒हर॑ति देवदू॒तान् ए॒व प्री॑णाति

प्र॒जाप॑तिर् दे॒वेभ्यो॑ य॒ज्ञान् व्यादि॑श॒त्

स रि॑रिचा॒नो॑ऽमन्यत॒

स ए॒तम् अ॑न्वाहा॒र्य॑म् अभ॑क्तम् अपश्य॒त्

तम् आ॒त्मन्न् अ॑धत्त॒

स वा ए॒ष प्रा॑जाप॒त्यो यद् अ॑न्वाहा॒र्य॑स् \

यस्यै॑वंवि॒दुषो॑ऽन्वाहा॒र्य॑ आह्रि॒यते॑ सा॒क्षाद् ए॒व प्र॒जाप॑तिम् ऋध्नोति॒ \

अप॑रिमितो नि॒रुप्य॑स् \

अप॑रिमितः प्र॒जाप॑तिस् \

प्र॒जाप॑तेः ॥

आप्त्यै॑

दे॒वा वै यद् य॒ज्ञेऽकु॑र्वत॒ तद् असु॑रा अक्रुवत॒

ते दे॒वा ए॒तम् प्रा॑जाप॒त्यम् अ॑न्वाहा॒र्य॑म् अपश्य॒न्

तम् अ॒न्वाह॑रन्त॒

ततो॑ दे॒वा अभ॑व॒न् परा॑सु॒रास् \

यस्यै॒वं वि॑दुषोऽन्वाहा॒र्य॑ आह्रि॒यते॒ भव॑त्य् आ॒त्मना॒ परा॑स्य॒ भ्रातृ॑व्यो भवति

य॒ज्ञेन॒ वा इ॒ष्टी प॒क्वेन॑ पू॒र्ती

यस्यै॒वं वि॒दुषो॑ऽन्वाहा॒र्य॑ आह्रि॒यते॒ स त्व् ए॑वेष्टा॑पू॒र्ती

प्र॒जाप॑तेर् भा॒गो॑ऽसि ॥

इत्य् आ॑ह

प्र॒जाप॑तिम् ए॒व भा॑ग॒धेये॑न॒ सम् अ॑र्धयति \

ऊर्ज॑स्वा॒न् पय॑स्वा॒न् इत्य् आ॑ह \

ऊर्ज॑म् ए॒वास्मि॒न् पयो॑ दधाति

प्राणापा॒नौ मे॑ पाहि समानव्या॒नौ मे॑ पा॒हीत्य् आ॑ह \

आ॒शिष॑म् ए॒वैताम् आ शा॑स्ते॒ \

अक्षि॑तो॒ऽस्य् अक्षि॑त्यै त्वा॒ मा मे॑ क्षेष्ठा अ॒मुत्रा॒मुष्मिँ॑ लो॒क इत्य् आ॑ह

क्षीय॑ते॒ वा अ॒मुष्मिँ॑ लो॒केऽन्न॑म्

इ॒तःप्र॑दानँ॒ ह्य् अ॑मुष्मिँ लो॒के प्र॑जा उप॒जीव॑न्ति॒

यद् ए॒वम् अ॑भिमृ॒शत्य् अक्षि॑तिम् ए॒वैन॑द् गमयति॒ नास्या॒मुष्मिँ॑ लो॒केऽन्नं॑ क्षीयते ॥

ब॒र्हिषो॒ऽहं दे॑वय॒ज्यया॑ प्र॒जावा॑न् भूयास॒म् इत्य् आ॑ह

ब॒र्हिषा॒ वै प्र॒जाप॑तिः प्र॒जा अ॑सृजत॒

तेनै॒व प्र॒जाः सृ॑जते॒

नरा॒शँस॑स्या॒हं दे॑वय॒ज्यया॑ पशु॒मान् भू॑यास॒म् इत्य् आ॑ह॒

नरा॒शँसे॑न॒ वै प्र॒जाप॑तिः प॒शून् अ॑सृजत॒

तेनै॒व प॒शून्त् सृ॑जते \

अ॒ग्नेः स्वि॑ष्ट॒कृतो॒ऽहं दे॑वय॒ज्ययायु॑ष्मान् य॒ज्ञेन॑ प्रति॒ष्ठां ग॑मेय॒म् इत्य् आ॑ह \

आयु॑र् ए॒वात्मन् ध॑त्ते॒ प्रति॑ य॒ज्ञेन॑ तिष्ठति

दर्शपूर्णमा॒सयोः॑ ॥

वै दे॒वा उज्जि॑ति॒म् अनूद् अ॑जयन् दर्शपूर्णमा॒साभ्या॒म् असु॑रा॒न् अपा॑नुदन्त \

अ॒नेर् अ॒हम् उज्जि॑ति॒म् अनूज् जे॑ष॒म् इत्य् आ॑ह

दर्शपूर्णमा॒सयो॑र् ए॒व दे॒वता॑नां॒ यज॑मान॒ उज्जि॑ति॒म् अनूज् ज॑यति दर्शपूर्णमा॒साभ्या॒म् भ्रातृ॑व्या॒न् अप॑ नुदते

वाज॑वतीभ्यां॒ व्य् ऊ॑हति॒ \

अन्नं॒ वै वाज॑स् \

अन्न॑म् ए॒वाव॑ रुन्द्धे

द्वाभ्या॒म् प्रति॑ष्ठित्यै॒

यो वै य॒ज्ञस्य॒ द्वौ दोहौ॑ वि॒द्वान् यज॑त उभ॒यतः॑ ॥

ए॒व य॒ज्ञं दु॑हे पु॒रस्ता॑ च्चो॒परि॑ष्टा॒च् चैष वा अ॒न्यो य॒ज्ञस्य॒ दोह॒ इडा॑याम् अ॒न्यस् \

यर्हि॒ होता॒ यज॑मानस्य॒ नाम॑ गृह्णी॒यात् तर्हि॑ ब्रूयात् \

एमा अ॑ग्मन्न् आ॒शिषो॒ दोह॑कामा॒ इति॒

सँस्तु॑ता ए॒व दे॒वता॑ दुहे॒ \

अथो॑ उभ॒यत॑ ए॒व य॒ज्ञं दु॑हे पु॒रस्ता॑च् चो॒परि॑ष्ठाच् च॒

रोहि॑तेन त्वा॒ग्निर् दे॒वतां॑ गमय॒त्व् इत्य् आ॑ह \

ए॒ते वै दे॑वा॒श्वाः ॥

यज॑मानःप्रस्त॒रस् \

यद् ए॒तैः प्र॑स्त॒रम् प्र॒हर॑ति देवा॒श्वैर् ए॒व यज॑मानँ सुव॒र्गं लो॒कं ग॑मयति॒

वि ते॑ मुञ्चामि रश॒ना वि र॒श्मीन् इत्य् आ॑ह \

ए॒ष वा अ॒ग्नेर् वि॑मो॒कस्

तेनै॒वैनं॒ वि मु॑ञ्चति॒

विष्णोः॑ श॒म्योर् अ॒हं दे॑वय॒ज्यया॑ य॒ज्ञेन॑ प्रति॒ष्ठां ग॑मेय॒म् इत्य् आ॑ह

य॒ज्ञो वै विष्णु॑र् य॒ज्ञ ए॒वान्त॒रः प्रति॑ तिष्ठति॒

सोम॑स्या॒हं दे॑वय॒ज्यया॑ सु॒रेताः॑ ॥

रेतो॑ धिषी॒येत्य् आ॑ह॒

सोमो॒ वै रे॑तो॒धास् तेनै॒व रेत॑ आ॒त्मन् ध॑त्ते॒

त्वष्टु॑र् अ॒हं दे॑वय॒ज्यया॑ पशू॒नाँ रू॒पम् पु॑षेय॒म् इत्य् आ॑ह॒

त्वष्टा॒ वै प॑शू॒नाम् मि॑थु॒नानाँ॑ रूप॒कृत्

तेनै॒व प॑शू॒नाँ रू॒पम् आ॒त्मन् ध॑त्ते

दे॒वाना॒म् पत्नी॑र् अ॒ग्निर् गृ॒हप॑तिर् य॒ज्ञस्य॑ मिथु॒नं तयो॑र् अ॒हं दे॑वय॒ज्यया॑ मिथु॒नेन॒ प्र भू॑यास॒म् इत्य् आ॑ह \

ए॒तस्मा॒द् वै मि॑थु॒नात् प्र॒जाप॑तिर् मिथु॒नेन॑ ॥

प्राजा॑यत॒

तसं॑द् ए॒व यज॑मानो मिथु॒नेन॒ प्र जा॑यते

वे॒दो॑ऽसि॒ वित्ति॑र् असि वि॒देयेत्य् आ॑ह

वे॒देन॒ वै दे॒वा असु॑राणां वि॒त्तं वेद्य॑म् अविन्दन्त॒

तद् वे॒दस्य॑ वेद॒त्वम् \

यद्य॒द् भ्रातृ॑व्यस्याभि॒ध्याये॒त् तस्य॒ नाम॑ गृह्णीया॒त्

तद् ए॒वास्य॒ सर्वं॑ वृङ्क्ते

घृ॒तव॑न्तं कुला॒यिनँ॑ रा॒यस् पोषँ॑ सह॒स्रिणं॑ वे॒दो द॑दातु वा॒जिन॒म् इत्य् आ॑ह॒

प्र स॒हस्र॑म् प॒शून् आ॑प्नोति \

आस्य॑ प्र॒जायां॑ वा॒जी जा॑यते॒ य ए॒वं वेद॑ ॥

ध्रु॒वां वै रिच्य॑मानां य॒ज्ञोऽनु॑ रिच्यते य॒ज्ञं यज॑मानो॒ यज॑मानम् प्र॒जास् \

ध्रु॒वाम् आ॒प्याय॑मानां य॒ज्ञोऽन्व् आ प्या॑यते य॒ज्ञं यज॑मानो॒ यज॑मानम् प्र॒जास् \

आ प्या॑यतां ध्रु॒वा घृ॒तेनेत्य् आ॑ह

ध्रु॒वाम् ए॒वा प्या॑ययति

ताम् आ॒प्याय॑मानां य॒ज्ञोऽन्व् आ प्या॑यते य॒ज्ञं यज॑मानो॒ यज॑मानम् प्र॒जाः

प्र॒जाप॑तेर् वि॒भान् नाम॑ लो॒कस् तस्मिँ॑स् त्वा दधामि स॒ह यज॑माने॒नेति॑ ॥

आ॒ह॒ \

अ॒यं वै प्र॒जाप॑तेर् वि॒भान् नाम॑ लो॒कस्

तस्मि॑न्न् ए॒वैनं॑ दधाति स॒ह यज॑मानेन॒

रिच्य॑त इव॒ वा ए॒तद् यद् यज॑ते॒

यद् य॑जमानभा॒गम् प्रा॒श्नात्य् आ॒त्मान॑म् ए॒व प्री॑णाति \

ए॒तावा॒न् वै य॒ज्ञो यावा॑न् यजमानभा॒गस् \

य॒ज्ञो यज॑मानस् \

यद् य॑जमान भा॒गम् प्रा॒श्नाति॑ य॒ज्ञ ए॒व य॒ज्ञम् प्रति॑ ष्ठापयति \

ए॒तद् वै सू॒यव॑सँ॒ सोद॑कं॒ यद् ब॒र्हिश् चाप॑श् च \

ए॒तत् ॥

यज॑मानस्या॒यत॑नं॒ यद् वेदि॑स् \

यद् पू॑र्णपा॒त्रम् अ॑न्तर्वे॒दि नि॒नय॑ति॒ स्व ए॒वायत॑ने सू॒यव॑सँ॒ सोद॑कं कुरुते॒

सद् अ॑सि॒ सन् मे॑ भूया॒ इत्य् आ॑ह \

आपो॒ वै य॒ज्ञस् \

आपो॒ऽमृत॑म् \

य॒ज्ञम् ए॒वामृत॑म् आ॒त्मन् ध॑त्ते॒

सर्वा॑णि॒ वै भू॒तानि॑ व्र॒तम् उ॑प॒यन्त॒म् अनूप॑ यन्ति

प्राच्यां॑ दि॒शि दे॒वा ऋ॒त्विजो॑ मार्जयन्ता॒म् इत्य् आ॑ह \

ए॒ष वै द॑र्शपूर्णमा॒सयो॑र् अवभृ॒थः ॥

यान्य् ए॒वैन॑म् भू॒तानि॑ व्र॒तम् उ॑प॒यन्त॑म् अनूप॒यन्ति॒ तैर् ए॒व स॒हाव॑भृ॒थम् अवै॑ति॒

विष्णु॑मुखा॒ वै दे॒वाश् छन्दो॑भिर् इ॒माँ लो॒कान् अ॑नपज॒य्यम् अ॒भ्य् अ॑जय॒न्

यद् वि॑ष्णुक्र॒मान् क्रम॑ते॒ विष्णु॑र् ए॒व भू॒त्वा यज॑मानस् \

छन्दो॑भिर् इ॒माँ लो॒कान् अ॑नपज॒य्यम् अ॒भि ज॑यति॒

विष्णोः॒ क्रमो॑ऽस्य् अभिमाति॒हेत्य् आ॑ह

गाय॒त्री वै पृ॑थि॒वी त्रैष्टु॑भम् अ॒न्तरि॑क्षं॒ जाग॑ती द्यौ॒र् आनु॑ष्टुभी॒र् दिश॑स् \

छन्दो॑भिर् ए॒वेमाँ लो॒कान् य॑थापू॒र्वम् अ॒भि ज॑यति ॥

अग॑न्म॒ सुवः॒ सुव॑र् अग॒न्मेत्य् आ॑ह॒ सुव॒र्गम् ए॒व लो॒कम् ए॑ति

सं॒दृश॑स् ते॒ मा छि॑त्सि॒ यत् ते॒ तप॒स् तस्मै॑ ते॒ मा वृक्षीत्य् आ॑ह

यथाय॒जुर् ए॒वैतत्

सु॒भूर् अ॑सि॒ श्रेष्ठो॑ रश्मी॒नाम् आ॑यु॒र्धा अ॒स्य् आयु॑र् मे धे॒हीत्य् आ॑ह \

आ॒शिष॑म् ए॒वैताम् आ शा॑स्ते॒ प्र वा ए॒षो॑ऽस्माल् लो॒काच् च्य॑वते॒ यः ॥

वि॒ष्णु॒क्र॒मान् क्रम॑ते सुव॒र्गाय॒ हि लो॒काय॑ विष्णुक्र॒माः क्र॒म्यन्ते॑

ब्रह्मवा॒दिनो॑ वदन्ति॒

स त्वै वि॑ष्णुक्र॒मान् क्र॑मेत॒ य इ॒माँ लो॒कान् भ्रातृ॑व्यस्य सं॒विद्य॒ पुन॑र् इ॒मं लो॑कम् प्रत्यव॒रोहे॒द् इति॑ \

ए॒ष वा अ॒स्य लो॒कस्य॑ प्रत्यवरो॒हो यद् आ॑ह \

इ॒दम् अ॒हम् अ॒मुम् भ्रातृ॑व्यम् आ॒भ्यो दि॒ग्भ्यो॑ऽस्यै दि॒व इति॑ \

इ॒मान् ए॒व लो॒कान् भ्रातृ॑व्यस्य सं॒विद्य॒ पुन॑र् इ॒मं लो॒कम् प्र॒त्यव॑रोहति॒

सम् ॥

ज्योति॑षाभूव॒म् इत्य् आ॑ह \

अ॒स्मिन्न् ए॒व लो॒के प्रति॑ तिष्ठति \

ऐ॒न्द्रीम् आ॒वृत॑म् अ॒न्वाव॑र्त॒ इत्य् आ॑ह \

अ॒सौ वा आ॑दि॒त्य इन्द्र॒स् तस्यै॒वावृत॒म् अनु॑ प॒र्याव॑र्तते

दक्षि॒णा प॒र्याव॑र्तते॒ स्वम् ए॒व वी॒र्य॑म् अनु॑ प॒र्याव॑र्तते॒ तस्मा॒द् दक्षि॒नोऽर्ध॑ आ॒त्मनो॑ वी॒र्या॑वत्त॒रोऽथो॑ आदि॒त्यस्यै॒वावृत॒म् अनु॑ प॒र्याव॑र्तते॒

सम् अ॒हम् प्र॒जया॒ सम् मया॑ प्र॒जेत्य् आ॑ह \

आ॒शिष॑म् ॥

ए॒वैताम् आ शा॑स्ते॒

समि॑द्धो अग्ने मे दीदिहि समे॒द्धा ते॑ अग्ने दीद्यास॒म् इत्य् आ॑ह

यथाय॒जुर् ए॒वैतत् \

वसु॑मान् य॒ज्ञो वसी॑यान् भूयास॒म् इत्य् आ॑ह \

आ॒शिष॑म् ए॒वैताम् आ शा॑स्ते

ब॒हु वै गार्ह॑पत्य॒स्यान्ते॑ मि॒श्रम् इ॑व चर्यत आग्निपावमा॒नीभ्या॒म् गार्ह॑पत्य॒म् उप॑ तिष्ठते पु॒नात्य् ए॒वाग्निम् पु॑नी॒त आ॒त्मानं॒ द्वाभ्या॒म् प्रति॑ष्ठित्यै॒ \

अग्ने॑ गृहपत॒ इत्य् आ॑ह ॥

य॒था॒य॒जुर् ए॒वैतच् छ॒तँ हिमा॒ इत्य् आ॑ह श॒तं त्वा॑ हेम॒न्तान् इ॑न्धिषी॒येति॒ वावैतद् आ॑ह

पु॒त्रस्य॒ नाम॑ गृह्णात्य् अन्ना॒दम् ए॒वैनं॑ करोति

ताम् आ॒शिष॒म् आ शा॑से॒ तन्त॑वे॒ ज्योति॑ष्मती॒म् इति॑ ब्रूया॒द् यस्य॑ पु॒त्रोऽजा॑तः॒ स्यात् ते॑ज॒स्व्य् ए॑वास्य॑ ब्रह्मवर्च॒सी पु॒त्रो जा॑यते

ताम् आ॒शिष॒म् आ शा॑से॒ऽमुष्मै॒ ज्योति॑ष्मती॒म् इति॑ ब्रूया॒द् यस्य॑ पु॒त्रः ॥

जा॒तः स्यात् तेज॑ ए॒वास्मि॑न् ब्रह्मवर्च॒सं द॑धाति॒

यो वै य॒ज्ञम् प्र॒युज्य॒ न वि॑मु॒ञ्चत्य् अ॑प्रतिष्ठा॒नो वै स भ॑वति॒

कस् त्वा॑ युनक्ति॒ स त्वा॒ वि मु॑ञ्च॒त्व् इत्य् आ॑ह प्र॒जाप॑ति॒र् वै कः प्र॒जाप॑तिनै॒वैनं॑ यु॒नक्ति॑ प्र॒जाप॑तिना॒ वि मु॑ञ्चति॒ प्रति॑ष्ठित्यै \

ईश्व॒रं वै व्र॒तम् अवि॑सृष्टम् प्र॒दहोऽग्ने॑ व्रतपते व्र॒तम् अ॑चारिष॒म् इत्य् आ॑ह व्र॒तम् ए॒व ॥

वि सृ॑जते॒ शान्त्या॒ अप्र॑दाहाय॒

परा॒ङ् वाव य॒ज्ञ ए॑ति॒ न नि व॑र्तते॒ पुन॒र् यो वै य॒ज्ञस्य॑ पुनराल॒म्भं वि॒द्वान् यज॑ते॒ तम् अ॒भि नि व॑र्तते

य॒ज्ञो ब॑भूव॒ स आ ब॑भू॒वेत्य् आ॑है॒ष वै य॒ज्ञस्य॑ पुनराल॒म्भस् तेनै॒वैन॒म् पुन॒र् आ ल॑भते॒ \

अन॑वरुद्धा॒ वा ए॒तस्य॑ वि॒राड् य आहि॑ताग्निः॒ सन्न् अ॑स॒भः प॒शवः॒ खलु॒ वै ब्रा॑ह्म॒णस्य॑ स॒भा \

इ॒ष्ट्वा प्राङ् उ॒त्क्रम्य॑ ब्रूया॒द् गोमाँ॑ अ॒ग्नेऽवि॒माँ अ॒श्वी य॒ज्ञ इत्य् अव॑ स॒भाँ रु॑न्द्धे॒ प्र स॒हस्र॑म् प॒शून् आ॑प्नो॒त्य् आस्य॑ प्र॒जायां॑ वा॒जी जा॑यते ॥

देव॑ सवितः॒ प्र सु॑व य॒ज्ञम् प्र सु॑व य॒ज्ञप॑ति॒म् भगा॑य दि॒व्यो ग॑न्ध॒र्वः के॑त॒पूः के॒तं नः॑ पुनातु॒ वाच॒स् पति॒र् वाच॑म् अ॒द्य स्व॑दाति नः ।

इन्द्र॑स्य॒ वज्रो॑ऽसि॒ वार्त्र॑घ्न॒स् त्वया॒यं वृ॒त्रं व॑ध्यात् ।

वा॒जस्य॒ नु प्र॑स॒वे मा॒तर॑म् म॒हीम् अदि॑तिं॒ नाम॒ वच॑सा करामहे । यस्या॑म् इ॒दं विश्व॒म् भुव॑नम् आवि॒वेश॒ तस्यां॑ नो दे॒वः स॑वि॒ता धर्म॑ साविषत् ।

अ॒प्सु ॥

अ॒न्तर् अ॒मृत॑म् अ॒प्सु भे॑ष॒जम् अ॒पाम् उ॒त प्रश॑स्ति॒ष्व् अश्वा॑ भवथ वाजिनः ॥

वा॒युर् वा॑ त्वा॒ मनु॑र् वा त्वा गन्ध॒र्वाः स॒प्तविँ॑शतिः । ते अग्रे॒ अश्व॑म् आयुञ्ज॒न् ते अ॑स्मिञ् ज॒वम् आद॑धुः ॥

अपां॑ नपाद् आशुहेम॒न् य ऊ॒र्मिः क॒कुद्मा॒न् प्रतू॑र्तिर् वाज॒सात॑म॒स् तेना॑यं॒ वाजँ॑ सेत् \

विष्णोः॒ क्रमो॑ऽसि॒ विष्णोः॑ क्रा॒न्तम् अ॑सि॒ विष्णो॒र् विक्रा॑न्तम् असि \

अ॒ङ्कौ न्य॒ङ्काव् अ॒भितो॒ रथं॒ यौ ध्वा॒न्तं वा॑ता॒ग्रम् अनु॑ सं॒चर॑न्तौ । दू॒रेहे॑तिर् इन्द्रि॒यावा॑न् पत॒त्री ते नो॒ऽग्नयः॒ पप्र॑यः पारयन्तु ॥

दे॒वस्या॒हँ स॑वि॒तुः प्र॑स॒वे बृह॒स्पति॑ना वाज॒जिता॒ वाजं॑ जेषम् \

दे॒वस्या॒हँ स॑वि॒तुः प्र॑स॒वे बृह॒स्पति॑ना वाज॒जिता॒ वर्षि॑ष्ठं॒ नाकँ॑ रुहेय॒म्

इन्द्रा॑य॒ वाचं॑ वद॒तेन्द्रं॒ वाजं॑ जापय॒तेन्द्रो॒ वाज॑म् अजयित् ।

अश्वा॑जनि वाजिनि॒ वाजे॑षु वाजिनीव॒त्य् अश्वा॑न्त् स॒मत्सु॑ वाजय ।

अर्वा॑सि॒ सप्ति॑र् असि वा॒ज्य् अ॑सि

वाजि॑नो॒ वाजं॑ धावत म॒रुता॑म् प्रस॒वे ज॑यत॒ वि योज॑ना मिमीध्व॒म् अध्व॑न स्कभ्नीत ॥

काष्ठां॑ गछत

वाजे॑वाजेऽवत वाजिनो नो॒ धने॑षु विप्रा अमृता ऋतज्ञाः । अ॒स्य मध्वः॑ पिबत मा॒दय॑ध्वं तृ॒प्ता या॑त प॒थिभि॑र् देव॒यानैः॑ ॥

ते नो॒ अर्व॑न्तो हवन॒श्रुतो॒ हवं॒ विश्वे॑ शृण्वन्तु वा॒जिनः॑ ।

मि॒तद्र॑वः

सहस्र॒सा मे॒धसा॑ता सनि॒ष्यवः॑ । म॒हो ये रन्तँ॑ समि॒थेषु॑ जभ्रि॒रे शं नो॑ भवन्तु वा॒जिनो॑ ह॒वेषु॑

दे॒वता॑ता मि॒तद्र॑वः स्व॒र्काः । ज॒म्भय॒न्तोऽहिं॒ वृकँ॒ रक्षाँ॑सि॒ सने॑म्य् अ॒स्मद् यु॑यवन् ॥

अमी॑वाः ॥

ए॒ष स्य वा॒जी क्षि॑प॒णिं तु॑रण्यति ग्री॒वाया॑म् ब॒द्धो अ॑पिक॒क्ष आ॒सनि॑ । क्रतुं॑ दधि॒क्रा अनु॑ सं॒तवी॑त्वत् प॒थाम् अङ्काँ॒स्य् अन्व् आ॒पनी॑फणत् ॥

उ॒त स्मा॑स्य॒ द्रव॑तस् तुरण्य॒तः प॒र्णं न वेर् अनु॑ वाति प्रग॒र्धिनः॑ । श्ये॒नस्ये॑व॒ ध्रज॑तो अङ्क॒सम् परि॑ दधि॒क्राव्णः॑ स॒होर्जा तरि॑त्रतः ॥

आ मा॒ वाज॑स्य प्रस॒वो ज॑गम्या॒द् आ द्यावा॑पृथि॒वी वि॒श्वश॑म्भू । आ मा॑ गन्ताम् पि॒तरा॑ ॥

मा॒तरा॒ चा मा॒ सोमो॑ अमृत॒त्वाय॑ गम्यात् ॥

वाजि॑नो वाजजितो॒ वाजँ॑ सरि॒ष्यन्तो॒ वाजं॑ जे॒ष्यन्तो॒ बृह॒स्पते॑र् भा॒गम् अव॑ जिघ्रत ॥

वाजि॑नो वाजजितो॒ वाजँ॑ ससृ॒वाँसो॒ वाजं॑ जिगि॒वाँसो॒ बृह॒स्पते॑र् भा॒गे नि मृ॑ड्ढ्वम्

इ॒यं वः॒ सा स॒त्या सं॒धाभू॒द् याम् इन्द्रे॑ण स॒मध॑द्ध्व॒म्

अजी॑जिपत वनस्पतय॒ इन्द्रं॒ वाजं॒ वि मु॑च्यध्वम् ॥

क्षत्र॒स्योल्ब॑म् असि क्ष॒त्रस्य॒ योनि॑र् असि

जाय॒ एहि॒ सुवो॒ रोहा॑व॒ रोहा॑व॒ हि सुव॑र् अ॒हं ना॑व् उ॒भयोः॒ सुवो॑ रोक्ष्यामि

वाज॑श् च प्रस॒वश् चा॑पि॒जश् च॒ क्रतु॑श् च॒ सुव॑श् च मू॒र्धा च॒ व्यश्नि॑यश् चान्त्याय॒नश् चान्त्य॑श् च भौव॒नश् च॒ भुव॑न॒श् चाधि॑पतिश् च ।

आयु॑र् य॒ज्ञेन॑ कल्पताम् प्रा॒णो य॒ज्ञेन॑ कल्पताम् अपा॒नः ॥

य॒ज्ञेन॑ कल्पतां व्या॒नो य॒ज्ञेन॑ कल्पतां॒ चक्षु॑र् य॒ज्ञेन॑ कल्पताँ॒ श्रोत्रं॑ य॒ज्ञेन॑ कल्पता॒म् मनो॑ य॒ज्ञेन॑ कल्पतां॒ वाग् य॒ज्ञेन॑ कल्पताम् आ॒त्मा य॒ज्ञेन॑ कल्पतां य॒ज्ञो य॒ज्ञेन॑ कल्पताम् \

सुव॑र् दे॒वाँ अ॑गन्मा॒मृता॑ अभूम प्र॒जाप॑तेः प्र॒जा अ॑भूम॒

सम् अ॒हम् प्र॒जया॒ सम् मया॑ प्र॒जा सम् अ॒हँ रा॒यस् पोषे॑ण॒ सम् मया॑ रा॒यस् पोष॑स् \

अन्ना॑य त्वा॒न्नाद्या॑य त्वा॒ वाजा॑य त्वा वाजजि॒त्यायै॑ त्वा \

अ॒मृत॑म् असि॒ पुष्टि॑र् असि प्र॒जन॑नम् असि ॥

वाज॑स्ये॒मम् प्र॑स॒वः सु॑षुवे॒ अग्रे॒ सोमँ॒ राजा॑न॒म् ओष॑धीष्व् अ॒प्सु । ता अ॒स्मभ्य॒म् मधु॑मतीर् भवन्तु व॒यँ रा॒ष्ट्रे जा॑ग्रियाम पु॒रोहि॑ताः ॥

वाज॑स्ये॒दम् प्र॑स॒व आ ब॑भूवे॒मा च॒ विश्वा॒ भुव॑नानि स॒र्वतः॑ । स वि॒राज॒म् पर्य् ए॑ति प्रजा॒नन् प्र॒जम् पुष्टिं॑ व॒र्धय॑मानो अ॒स्मे ॥

वाज॑स्ये॒माम् प्र॑स॒वः शि॑श्रिये॒ दिव॑म् इ॒मा च॒ विश्वा॒ भुव॑नानि स॒म्राट् । अदि॑त्सन्तं दापयतु प्रजा॒नन् र॒यिम् ॥

च॒ नः॒ सर्व॑वीरां॒ नि य॑छतु ॥

अग्ने॒ अछा॑ वदे॒ह नः॒ प्रति॑ नः सु॒मना॑ भव । प्र णो॑ यछ भुवस् पते धन॒दा अ॑सि न॒स् त्वम् ॥

प्र णो॑ यछत्व् अर्य॒मा प्र भगः॒ प्र बृह॒स्पतिः॑ । प्र दे॒वाः प्रोत सू॒नृता॒ प्र वाग् दे॒वी द॑दातु नः ॥

अ॒र्य॒मन॒म् बृह॒स्पति॒म् इन्द्रं॒ दाना॑य चोदय । वाचं॒ विष्णुँ॒ सर॑स्वतीँ सवि॒तार॑म् ॥

च॒ वा॒जिन॑म् ॥

सोमँ॒ राजा॑नं॒ वरु॑णम् अ॒ग्निम् अ॒न्वार॑भामहे । आ॒दि॒त्यान् विष्णुँ॒ सूर्य॑म् ब्र॒ह्माणं॑ च॒ बृह॒स्पति॑म् ।

दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वेऽश्विणो॑र् बा॒हुभ्या॑म् पू॒ष्णो हस्ता॑भ्याँ॒ सर॑स्वत्यै वा॒चो य॒न्तुर् य॒न्त्रेणा॒ग्नेस् त्वा॒ साम्रा॑ज्येना॒भि षि॑ञ्चा॒मीन्द्र॑स्य॒ बृह॒स्पते॑स् त्वा॒ साम्रा॑ज्येणा॒भि षि॑ञ्चामि ॥

अ॒ग्निर् एका॑क्षरेण॒ वाच॒म् उद् अ॑जयत् \

अ॒श्विनौ॒ द्व्य॑क्षरेण प्राणापा॒नव् उद् अ॑जयताम् \

विष्णु॒स् त्र्य॑क्षरेण॒ त्रीन् लो॒कान् उद् अ॑जय॒त्

सोम॒श् चतु॑रक्षरेण॒ चतु॑ष्पदः प॒शून् उद् अ॑जयत्

पू॒षा पञ्चक्ष॑रेण प॒ङ्क्तिम् उद् अ॑जयत् \

धा॒ता षड॑क्षरेण॒ षड् ऋ॒तून् उद् अ॑जयत् \

म॒रुतः॑ स॒प्ताक्ष॑रेण स॒प्तप॑दाँ॒ शक्व॑री॒म् उद् अ॑जयन्

बृह॒स्पति॑र् अ॒ष्टाक्ष॑रेण गाय॒तृम् उद् अ॑जयत् \

मि॒त्रो नवा॑क्षरेण त्रि॒वृतँ॑ स्तोम॒म् उद् अ॑जयत् ॥

वरु॑णो॒ दशा॑क्षरेण वि॒राज॒म् उद् अ॑जयत् \

इन्द्र॒ एका॑दशाक्षरेण त्रि॒ष्टुभ॒म् उद् अ॑जयत् \

विश्वे॑ दे॒वा द्वाद॑शाक्षरेण॒ जग॑ती॒म् उद् अ॑जय॒न्

वस॑व॒स् त्रयो॑दशाक्षरेण त्रयोद॒शँ स्तोम॒म् उद् अ॑जयन् \

रु॒द्राश् चतु॑र्दशाक्षरेण चतुर्द॒शँ स्तोम॒म् उद् अ॑जयन् \

आ॒दि॒त्याः पञ्च॑दशाक्षरेण पञ्चद॒शँ स्तोम॒म् उद् अ॑जयत्

प्र॒जाप॑तिः स॒प्तद॑शाक्षरेण सप्तद॒शँ स्तोम॒म् उद् अ॑जयत् ॥

उ॒प॒या॒मगृ॑हीतोऽसि नृ॒षदं॑ त्वा द्रु॒षद॑म् भुवन॒सद॒म् इन्द्रा॑य॒ जुष्टं॑ गृह्णाम्य् ए॒ष ते॒ योनि॒र् इन्द्रा॑य त्वा \

उपया॒मगृ॑हीतोऽसि अप्सु॒षदं॑ त्वा घृत॒सद॑म् व्योम॒सद॒म् इन्द्रा॑य॒ जुष्टं॑ गृह्णाम्य् ए॒ष ते॒ योनि॒र् इन्द्रा॑य त्वा \

उपया॒मगृ॑हीतोऽसि पृथिवि॒षदं॑ त्वान्तरिक्ष॒सद॑म् नाक॒सद॒म् इन्द्रा॑य॒ जुष्टं॑ गृह्णाम्य् ए॒ष ते॒ योनि॒र् इन्द्रा॑य त्वा॒

ये ग्रहाः॑ पञ्चज॒नीना॒ येषां॑ ति॒स्रः प॑रम॒जाः । दैव्यः॑ कोशः ॥

समु॑ब्जितः । तेषां॒ विशि॑प्रियाणा॒म् इष॒म् ऊर्जँ॒ सम् अ॑ग्रभीम् ए॒ष ते॒ योनि॒र् इन्द्रा॑य त्वा ।

अ॒पाँ रस॒म् उद्व॑यसँ॒ सूर्य॑रश्मिँ स॒माभृ॑तम् । अ॒पाँ रस॑स्य॒ यो रस॒स् तं वो॑ गृह्णाम्य् उत्त॒मम् ए॒ष ते॒ योनि॒र् इन्द्रा॑य त्वा \

अ॒या वि॒ष्ठा ज॒नय॒न् कर्व॑राणि॒ स हि घृणि॑र् उ॒रुर् वरा॑य गा॒तुः । स प्रत्य् उद् ऐ॑द् ध॒रुणो॒ मध्वो॒ अग्रँ॒ स्वायां॒ यत् त॒नुवां॑ त॒नूम् ऐर॑यत ।

उ॒प॒या॒मगृ॑हीतोऽसि प्र॒जाप॑तये त्वा॒ जुष्टं॑ गृह्णाम्य् ए॒ष ते॒ योनिः॑ प्र॒जाप॑तये त्वा ॥

अन्व् अह॒ मासा॒ अन्व् इद् वना॒न्य् अन्व् ओष॑धी॒र् अनु॒ पर्व॑तासः । अन्व् इन्द्रँ॒ रोद॑सी वावशा॒ने अन्व् आपो॑ आजिहत॒ जाय॑मानम् ॥

अनु॑ ते दायि म॒ह इ॑न्द्रि॒याय॑ स॒त्रा ते॒ विश्व॒म् अनु॑ वृत्र॒हत्ये॑ । अनु॑ क्ष॒त्रम् अनु॒ सहो॑ यज॒त्रेन्द्र॑ दे॒वेभि॒र् अनु॑ ते नृ॒षह्ये॑ ।

इ॒न्द्रा॒णीम् आ॒सु नारि॑षु सु॒पत्नी॑म् अ॒हम् अ॑श्रवम् । न ह्य् अ॑स्या अप॒रं च॒न ज॒रसा॑ ॥

मर॑ते॒ पतिः॑ ॥

नाहम् इ॑न्द्राणि रारण॒ सख्यु॑र् वृ॒षाक॑पेर् ऋ॒ते । यस्ये॒दम् अप्यँ॑ ह॒विः प्रि॒यं दे॒वेषु॒ गछ॑ति ॥

यो जा॒त ए॒व प्र॑थ॒मो मन॑स्वान् दे॒वो दे॒वान् क्रतु॑ना प॒र्यभू॑षत् । यस्य॒ शुष्मा॒द् रोद॑सी॒ अभ्य॑सेताम् नृ॒म्णस्य॑ म॒ह्ना स ज॑नास॒ इन्द्रः॑ ॥

आ ते॑ म॒ह इ॑न्द्रो॒त्य् उ॑ग्र॒ सम॑न्यवो॒ यत् स॒मर॑न्त॒ सेनाः॑ । पता॑ति दि॒व्युन् नर्य॑स्य बाहु॒वोर् मा ते॑ ॥

मनो॑ विष्व॒द्रिय॒ग् वि चा॑रीत् ॥

मा नो॑ मर्धी॒र् आ भ॑रा द॒द्धि तन् नः॒ प्र दा॒शुषे॒ दात॑वे॒ भूरि॒ यत् ते॑ । नव्ये॑ दे॒ष्णे श॒स्ते अ॒स्मिन् त॑ उ॒क्थे प्र ब्र॑वाम व॒यम् इ॑न्द्र स्तु॒वन्तः॑ ॥

आ तू भ॑र॒ माकि॑र् ए॒तत् परि॑ ष्ठाद् वि॒द्मा हि त्वा॒ वसु॑पतिं॒ वसू॑नाम् । इन्द्र॒ यत् ते॒ माहि॑नं॒ दत्त्र॒म् अस्त्य् अ॒स्मभ्यं॒ तद् ध॑र्यश्व ॥

प्र य॑न्धि ॥

प्र॒दा॒तारँ॑ हवामह॒ इन्द्र॒म् आ ह॒विषा॑ व॒यम् । उ॒भा हि हस्ता॒ वसु॑ना पृ॒णस्वा प्र य॑छ॒ दक्षि॑णा॒द् ओत स॒व्यात् ॥

प्र॒दा॒ता व॒ज्री वृ॑ष॒भस् तु॑रा॒षाट् छु॒ष्मी राजा॑ वृत्र॒हा सो॑म॒पावा॑ । अ॒स्मिन् य॒ज्ञे ब॒र्हिष्य् आ नि॒षद्याथा॑ भव॒ यज॑मानाय॒ शं योः ॥

इन्द्रः॑ सु॒त्रामा॒ स्ववाँ॒ अवो॑भिःह् सुमृडी॒को भ॑वतु वि॒श्ववे॑दाः । बाध॑तां॒ द्वेषो॒ अभ॑यं कृणोतु सु॒वीर्य॑स्य ॥

पत॑यः स्याम ॥

तस्य॑ व॒यँ सु॑म॒तौ य॒ज्ञिय॒स्यापि॑ भ॒द्रे सौ॑मन॒से स्या॑म । स सु॒त्रामा॒ स्ववाँ॒ इन्द्रो॑ अ॒स्मे आ॒राच् चि॒द् द्वेषः॑ सनु॒तर् यु॑योतु ॥

रे॒वती॑र् नः सध॒माद॒ इन्द्रे॑ सन्तु तु॒विवा॑जाः । क्षु॒मन्तो॒ याभि॒र् मदे॑म ॥

प्रो ष्व् अ॑स्मै पुरोर॒थम् इन्द्रा॑य शू॒षम् अ॑र्चत । अ॒भीके॑ चिद् उ लोक॒कृत् सं॒गे स॒मत्सु॑ वृत्र॒हा । अ॒स्माक॑म् बोधि चोदि॒ता नभ॑न्ताम् अन्य॒केषा॑म् । ज्या॒का अधि॒ धन्व॑सु ॥