सं त्वा॑ सिञ्चामि॒ यजु॑षा प्र॒जाम् आयु॒र् धनं॑ च । बृह॒स्पति॑प्रसूतो॒ यज॑मान इ॒ह मा रि॑षत् ॥

आज्य॑म् असि स॒त्यम् अ॑सि स॒त्यस्याध्य॑क्षम् असि ह॒विर् अ॑सि वैश्वान॒रं वै॑श्वदे॒वम् उत्पू॑तशुष्मँ स॒त्यौजाः॒ सहो॑ऽसि॒ सह॑मानम् असि॒ सह॒स्वारा॑तीः॒ सह॑स्वारातीय॒तः सह॑स्व॒ पृत॑नाः॒ सह॑स्व पृतन्य॒तः स॒हस्र॑वीर्यम् असि॒ तन् मा॑ जि॒न्वाज्य॒स्याज्य॑म् असि स॒त्यस्य॑ स॒त्यम् अ॑सि स॒त्यायुः॑ ॥

अ॒सि॒ स॒त्यशु॑ष्मम् असि स॒त्येन॑ त्वा॒भि घा॑रयामि॒ तस्य॑ ते भक्षीय

पञ्चा॒नां त्वा॒ वाता॑नां य॒न्त्राय॑ ध॒र्त्राय॑ गृह्णामि

पञ्चा॒नां त्व॑र्तू॒नां य॒न्त्राय॑ ध॒र्त्राय॑ गृह्णामि

पञ्चा॒नां त्वा॑ दि॒शाँ य॒न्त्राय॑ ध॒र्त्राय॑ गृह्णामि

पञ्चा॒नां त्वा॑ पञ्चज॒नानां॑ य॒न्त्राय॑ ध॒र्त्राय॑ गृह्णामि

च॒रोस् त्वा॒ पञ्च॑बिलस्य य॒न्त्राय॑ ध॒र्त्राय॑ गृह्णामि॒

ब्रह्म॑णस् त्वा॒ तेज॑से य॒न्त्राय॑ ध॒र्त्राय॑ गृह्णामि

क्ष॒त्रस्य॒ त्वौज॑से य॒न्त्राय॑ ॥

ध॒र्त्राय॑ गृह्णामि

विशे त्वा य॒न्त्राय॑ ध॒र्त्राय॑ गृह्णामि

सु॒वीर्या॑य त्वा गृह्णामि

सुप्रजा॒स्त्वाय॑ त्वा गृह्णामि

रा॒यस् पोषा॑य त्वा गृह्णामि

ब्रह्मवर्च॒साय॑ त्वा गृह्णामि

भूर् अ॒स्माकँ॑ ह॒विर् दे॒वाना॑म् आ॒शिषो॒ यज॑मानस्य दे॒वानां॑ त्वा दे॒वता॑भ्यो गृह्णामि

कामा॑य त्वा गृह्णामि ॥

ध्रु॒वो॑ऽसि ध्रु॒वो॑ऽहँ स॑जा॒तेषु॑ भूयासं॒ धीर॒श् चेत्ता॑ वसु॒विद् \

उ॒ग्रो॑ऽस्य् उ॒ग्रो॑ऽहँ स॑जा॒तेषु॑ भूयासम् उ॒ग्रश् चेत्ता॑ वसु॒विद् \

अ॒भि॒भूर् अ॑स्य् अभि॒भूर् अ॒हँ स॑जा॒तेषु॑ भूयासम् अभि॒भूश् चेत्ता॑ वसु॒विद् \

यु॒नज्मि॑ त्वा॒ ब्रह्म॑णा॒ दैव्ये॑न ह॒व्याया॒स्मै वोढ॒वे जा॑तवेदः । इन्धा॑नास् त्वा सुप्र॒जसः॑ सु॒वीरा॒ ज्योग् जी॑वेम बलि॒हृतो॑ व॒यं ते॑ ॥

यन् मे॑ अग्ने अ॒स्य य॒ज्ञस्य॒ रिष्या॑त् ॥

यद् वा॒ स्कन्दा॒द् आज्य॑स्यो॒त वि॑ष्णो । तेन॑ हन्मि स॒पत्न॑म् दुर्म॒रायुम् ऐनं॑ दधामि॒ निरृ॑त्या उ॒पस्थे॑ ॥

भूर् भुवः॒ सुव॒र्

उच्छु॑ष्मो अग्ने॒ यज॑मानायैधि॒ निशु॑ष्मो अभि॒दास॑ते॒

अग्ने॑ देवेद्ध मन्विद्ध॒ मन्द्र॑जि॒ह्वाम॑र्त्यस्य ते होतर् मू॒र्धन्न् आ जि॑घर्मि रा॒यस् पोषा॑य सुप्रजा॒स्त्वाय॑ सु॒वीर्या॑य॒

मनो॑ऽसि प्राजाप॒त्यम् मन॑सा मा भू॒तेनावि॑श

वाग् अ॑स्य् ऐ॒न्द्री स॑पत्न॒क्षय॑णी ॥

वा॒चा मे॒न्द्रिये॒णावि॑श

वस॒न्तम् ऋ॑तू॒नाम् प्री॑णामि॒ स मा॑ प्री॒तः प्री॑णातु

ग्री॒ष्मम् ऋ॑तू॒नाम् प्री॑णामि॒ स मा॑ प्री॒तः प्री॑णातु

व॒र्षा ऋ॑तू॒नाम् प्री॑णामि॒ ता मा॑ प्री॒ताः प्री॑णन्तु

श॒रद॑म् ऋतू॒नाम् प्री॑णामि॒ सा मा॑ प्री॒ता प्री॑णातु

हेमन्तशिशि॒राव् ऋ॑तू॒नाम् प्री॑णामि॒ तौ मा॑ प्री॒तौ प्री॑णीताम्

अ॒ग्नीषोम॑योर् अ॒हं दे॑वय॒ज्यया॒ चक्षु॑ष्मान् भूयासम्

अ॒ग्नेर् अ॒हं दे॑वय॒ज्यया॑न्ना॒दो भू॑यासम् ॥

दब्धि॑र् अ॒स्य् अद॑ब्धो भूयासम् अ॒मुं द॑भेयम्

अ॒ग्नीषोम॑योर् अ॒हं दे॑वय॒ज्यया॑ वृत्र॒हा भू॑यासम्

इन्द्राग्नि॒योर् अ॒हं दे॑वय॒ज्यये॑न्द्रिया॒व्य् अ॑न्ना॒दो भू॑यास॒म्

इन्द्र॑स्या॒हं दे॑वय॒ज्यये॑न्द्रिया॒वी भू॑यासम्

महे॒न्द्रस्या॒हं दे॑वय॒ज्यया॑ जे॒मान॑म् महि॒मानं॑ गमेयम्

अ॒ग्नेः स्वि॑ष्ट॒कृतो॒ऽहं दे॑वय॒ज्ययायु॑ष्मान् य॒ज्ञेन॑ प्रति॒ष्ठां ग॑मेयम् ॥

अ॒ग्निर् मा॒ दुरि॑ष्टात् पातु सवि॒ताघशँ॑सात् \

यो मेऽन्ति॑ दू॒रेऽरा॑ती॒यति॒ तम् ए॒तेन॑ जेषम् \

सुरू॑पवर्षवर्ण॒ एही॒मान् भ॒द्रान् दुर्याँ॑ अ॒भ्य् एहि॒ माम् अनु॑व्रता

न्य् उ॑ शी॒र्षाणि॑ मृढ्व॒म्

इड॒ एह्य् अदि॑त॒ एह्य् सर॑स्व॒त्य् एहि॒

रन्ति॑र् असि॒ रम॑तिर् असि सू॒नर्य् अ॑सि॒

जुष्टे॒ जुष्टिं॑ तेऽशी॒योप॑हूत उपह॒वं ॥

ते॒ऽशी॒य॒

सा मे॑ स॒त्याशीर् अ॒स्य य॒ज्ञस्य॑ भूयात् \

अरे॑डता॒ मन॑सा॒ तच् छ॑केयम् \

य॒ज्ञो दिवँ॑ रोहतु य॒ज्ञो दिवं॑ गछतु॒

यो दे॑व॒यानः॒ पन्था॒स् तेन॑ य॒ज्ञो दे॒वाँ अप्य् ए॑तु \

अ॒स्मास्व् इन्द्र॑ इन्द्रि॒यं द॑धात्व् अ॒स्मान् राय॑ उ॒त य॒ज्ञाः स॑चन्ताम् अ॒स्मासु॑ सन्त्व् आ॒शिषः॒ सा नः॑ प्रि॒या सु॒प्रतू॑र्तिर् म॒घोनी॒

जुष्टि॑र् असि जु॒षस्व॑ नो॒ जुष्टा॑ नः ॥

अ॒सि॒ जुष्टिं॑ ते गमेय॒म्

मनो॒ ज्योति॑र् जुषता॒म् आज्यं॒ विछि॑न्नं य॒ज्ञँ सम् इ॒मं द॑धातु । बृह॒स्पति॑स् तनुताम् इ॒मं नो॒ विश्वे॑ दे॒वा इ॒ह मा॑दयन्ताम् ॥

ब्रध्न॒ पिन्व॑स्व॒

दद॑तो मे॒ मा क्षा॑यि कुर्व॒तो मे॒ मोप॑ दसत्

प्र॒जाप॑तेर् भा॒गो॑ऽस्य् ऊर्ज॑स्वा॒न् पय॑स्वान्

प्रा॒णा॒पा॒नौ मे॑ पाहि समानव्या॒नौ मे॑ पाह्य् उदानव्या॒नौ मे॑ पाहि॒ \

अक्षि॑तो॒ऽस्य् अक्षि॑त्यै त्वा॒ मा मे॑ क्षेष्ठा अ॒मुत्रा॒ऽमुष्मिँ॑ लो॒के ॥

ब॒र्हिषो॒ऽहं दे॑वय॒ज्यया॑ प्र॒जावा॑न् भूयासम् \

नरा॒शँस॑स्या॒हं दे॑वय॒ज्यया॑ पशु॒मान् भू॑यासम्

अ॒ग्नेः स्वि॑ष्ट॒कृतो॒ऽहं दे॑वय॒ज्यया॑युष्मान् य॒ज्ञेन॑ प्रति॒ष्ठां ग॑मेयम्

अ॒ग्नेर् अ॒हम् उज्जि॑ति॒म् अनूज् जे॑षम् \

सोम॑स्या॒हम् उज्जि॑ति॒म् अनूज् जे॑षम्

अ॒ग्नेर् अ॒हम् उज्जि॑ति॒म् अनूज् जे॑षम्

अ॒ग्नीषोम॑योर् अ॒हम् उज्जि॑ति॒म् अनूज् जे॑षम्

इन्द्राग्नि॒योर् अ॒हम् उज्जि॑ति॒म् अनूज् जे॑ष॒म्

इन्द्र॑स्या॒हम् ॥

उज्जि॑ति॒म् अनूज् जे॑षम्

महे॒न्द्रस्या॒हम् उज्जि॑ति॒म् अनूज् जे॑षम्

अ॒ग्नेः स्वि॑ष्ट॒कृतो॒ऽहम् उज्जि॑ति॒म् अनूज् जे॑षम्

वा॒जस्य॑ मा प्रस॒वेनो॑द्ग्रा॒भेणोद् अ॑ग्रभीत् । अथा॑ स॒पत्नाँ॒ इन्द्रो॑ मे निग्रा॒भेणाध॑राँ अकः ॥

उ॒द्ग्रा॒भं च॑ निग्रा॒भं च॒ ब्रह्म॑ दे॒वा अ॑वीवृधन् । अथा॑ स॒पत्ना॑न् इन्द्रा॒ग्नी मे॑ विषू॒चीना॒न् व्य् अ॑स्यताम् ॥

एमा अ॑ग्मन्न् आ॒शिषो॒ दोह॑कामा॒ इन्द्र॑वन्तः ॥

व॒ना॒म॒हे॒ धु॒क्षी॒महि॑ प्र॒जाम् इष॑म् ॥

रोहि॑तेन त्वा॒ग्निर् दे॒वतां॑ गमयतु॒ हरि॑भ्यां॒ त्वेन्द्रो॑ दे॒वतां॑ गमय॒त्व् एत॑शेन त्वा सूर्यो दे॒वतां॑ गमयतु॒

वि ते॑ मुञ्चामि रश॒ना वि र॒श्मीन् वि योक्त्रा॒ यानि॑ परि॒चर्त॑नानि ध॒त्ताद् अ॒स्मासु॒ द्रवि॑णं॒ यच् च॒ भद्र॒म् प्र णो॑ ब्रूताद् भाग॒धान् दे॑वतासु॒

विष्णोः॑ श॒म्योर् अ॒हं दे॑वय॒ज्यया॑ य॒ज्ञेन॑ प्रति॒ष्ठां ग॑मेयम् \

सोम॑स्या॒हं दे॑वय॒ज्यया॑ ॥

सु॒रेता॒ रेतो॑ धिषीय॒

त्वष्टु॑र् अ॒हं दे॑वय॒ज्यया॑ पशू॒नाँ रू॒पम् पु॑षेयम् \

दे॒वाना॒म् पत्नी॑र् अ॒ग्निर् गृ॒हप॑तिर् य॒ज्ञस्य॑ मिथु॒नं तयो॑र् अ॒हं दे॑वय॒ज्यया॑ मिथु॒नेन॒ प्र भू॑यासम् \

वे॒दो॑ऽसि॒ वित्ति॑र् असि वि॒देय॒

कर्मा॑सि क॒रुण॑म् असि क्रि॒यास॑म् \

स॒निर् अ॑सि सनि॒तासि॑ स॒नेय॑म् \

घृ॒तव॑न्तं कुला॒यिनँ॑ रा॒यस् पोषँ॑ सह॒स्रिणं॑ वे॒दो द॑दातु वा॒जिन॑म् ॥

आ प्या॑यतां ध्रु॒वा घृ॒तेन॑ य॒ज्ञंय॑ज्ञ॒म् प्रति॑ देव॒यद्भ्यः॑ । सू॒र्याया॒ ऊधोऽदि॑त्या उ॒पस्थ॑ उ॒रुधा॑रा पृथि॒वी य॒ज्ञे अ॒स्मिन् ॥

प्र॒जाप॑तेर् वि॒भान् नाम॑ लो॒कस् तस्मिँ॑स् त्वा दधामि स॒ह यज॑मानेन॒

सद् अ॑सि॒ सन् मे॑ भूयाः॒ सर्व॑म् असि॒ सर्व॑म् मे भूयाः पू॒र्णम् अ॑सि पू॒र्णम् मे॑ भूया॒ अक्षि॑तम् असि॒ मा मे॑ क्षेष्ठाः ।

प्राच्यां॑ दि॒शि दे॒वा ऋ॒त्विजो॑ मार्जयन्तां॒ दक्षि॑णायाम् ॥

दि॒शि मासाः॑ पि॒तरो॑ मार्जयन्ताम् प्र॒तीच्यां॑ दि॒शि गृ॒हाः प॒शवो॑ मार्जयन्ता॒म् उदी॑च्यां॒ दिश्य् आप॒ ओष॑धयो॒ वन॒स्पत॑यो मार्जयन्ताम् ऊ॒र्ध्वायां॑ दि॒शि य॒ज्ञः सं॑वत्स॒रो य॒ज्ञप॑तिर् मार्जयन्ताम् ।

विष्णिः॒ क्रमो॑ऽस्य् अभिमाति॒हा गा॑य॒त्रेण॒ छन्द॑सा पृथि॒वीम् अनु॒ वि क्र॑मे॒ निर्भ॑क्तः॒ स यं द्वि॒ष्मस् \

विष्णोः॒ क्रमो॑ऽस्य् अभिशस्ति॒हा त्रैष्टु॑भेन॒ छन्द॑सा॒न्तरि॑क्ष॒म् अनु॒ वि क्र॑मे॒ निर्भ॑क्तः॒ स यं द्वि॒ष्मस् \

विष्णोः॒ क्रमो॑ऽस्य् अरातीय॒तो ह॒न्ता जाग॑तेन॒ छन्द॑सा॒ दिव॒म् अनु॒ वि क्र॑मे॒ निर्भ॑क्तः॒ स यं द्वि॒ष्मस् \

विष्णोः॒ क्रमो॑ऽसि शत्रूय॒तो ह॒न्तानु॑ष्टुभेन॒ छन्द॑सा॒ दिशोऽनु॒ वि क्र॑मे॒ निर्भ॑क्तः॒ स यं द्वि॒ष्मः ॥

अग॑न्म॒ सुवः॒ सुव॑र् अगन्म

सं॒दृश॑स् ते॒ मा छि॑त्सि॒ यत् ते॒ तप॒स् तस्मै॑ ते॒ मा वृ॑क्षि

सु॒भूर् अ॑सि॒ श्रेष्ठो॑ रश्मी॒नाम् आ॑यु॒र्धा अ॒स्य् आयु॑र् मे धेहि वर्चो॒धा अ॑सि॒ वर्चो॒ मयि॑ धेहि \

इ॒दम् अ॒हम् अ॒मुम् भ्रातृ॑व्यम् आ॒भ्यो दि॒ग्भ्यो॑ऽस्यै दि॒वो॑ऽस्माद् अ॒न्तरि॑क्षाद् अ॒स्यै पृ॑थि॒व्या अ॒स्माद् अ॒न्नाद्या॒न् निर् भ॑जामि॒ निर्भ॑क्तः॒ स यं द्वि॒ष्मः ॥

सम् ज्योति॑षाभूवम्

ऐ॒न्द्रीम् आ॒वृत॑म् अ॒न्वाव॑र्ते॒

सम् अ॒हम् प्र॒जया॒ सम् मया॑ प्र॒जा

सम् अ॒हँ रा॒यस् पोषे॑ण॒ सम् मया॑ रा॒यस् पोषः॑ ।

समि॑द्धो अग्ने मे दीदिहि समे॒द्धा ते॑ अग्ने दीद्यासम् \

वसु॑मान् य॒ज्ञो वसी॑यान् भूयास॒म्

अग्न॒ आयूँ॑षि पवस॒ आ सु॒वोर्ज॒म् इषं॑ च नः । आ॒रे बा॑धस्व दु॒छुना॑म् ॥

अग्ने॒ पव॑स्व सु॒वपा॑ अ॒स्मे वर्चः॑ सु॒वीर्य॑म् ॥

दध॒त् पोषँ॑ र॒यिम् मयि॑ ॥

अग्ने॑ गृहपते सुगृहप॒तिर् अ॒हं त्वया॑ गृ॒हप॑तिना भूयासँ सुगृहप॒तिर् मया॒ त्वं गृ॒हप॑तिना भूयाः श॒तँ हिमा॒स् ताम् आ॒शिष॒म् आ शा॑से॒ तन्त॑वे॒ ज्योति॑ष्मतीं॒ ताम् आ॒शिष॒म् आ शा॑से॒ऽमुष्मै॒ ज्योति॑ष्मतीम् \

कस् त्वा॑ युनक्ति॒ स त्वा॒ वि मु॑ञ्चत्व् ॥

अग्ने॑ व्रतपते व्र॒तम् अ॑चारिषं॒ तद् अ॑शकं॒ तन् मे॑ऽराधि

य॒ज्ञो ब॑भूव॒ स आ ॥

ब॒भू॒व॒ स प्र ज॑ज्ञे॒ स वा॑वृधे । स दे॒वाना॒म् अधि॑पतिर् बभूव॒ सो अ॒स्माँ अधि॑पतीन् करोतु व॒यँ स्या॑म॒ पत॑यो रयी॒णाम्

गोमाँ॑ अ॒ग्नेऽवि॑माँ अ॒श्वी य॒ज्ञो नृ॒वत्स॑खा॒ सद॒म् इद् अ॑प्रमृ॒ष्यः । इडा॑वाँ ए॒षो अ॑सुर प्र॒जावा॑न् दी॒र्घो र॒यिः पृ॑थुबु॒ध्नः स॒भावा॑न् ॥

यथा॒ वै स॑मृतसो॒मा ए॒वं वा ए॒ते स॒मृत॑य॒ज्ञा यद् द॑र्शपूर्णमा॒सौ

कस्य॒ वाह॑ दे॒वा य॒ज्ञम् आ॒गछ॑न्ति॒ कस्य॑ वा॒ न

ब॑हू॒नां यज॑मानानां॒ यो वै दे॒वताः॒ पूर्वः॑ परिगृ॒ह्णाति॒ स ए॑नाः॒ श्वो भू॒ते य॑जते \

ए॒तद् वै दे॒वाना॑म् आ॒यत॑नं॒ यद् आ॑हव॒नीय॑स् \

अ॒न्त॒राग्नी प॑शू॒नाम् \

गार्ह॑पत्यो मनु॒ष्या॑णाम्

अन्वाहार्य॒पच॑नः पि॒तृणाम्

अ॒ग्निं गृ॑ह्णाति॒

स्व ए॒वायत॑ने दे॒वताः॒ परि॑ ॥

गृ॒ह्णा॒ति॒

ताः श्वो भू॒ते य॑जते

व्र॒तेन॒ वै मेध्यो॒ऽग्निर् व्र॒तप॑तिस् \

ब्रा॒ह्म॒णो व्र॑त॒भृत् \

व्र॒तम् उ॑पै॒ष्यन् ब्रू॑यात् \

अग्ने॑ व्रतपते व्र॒तं च॑रिष्या॒मीति॑ \

अ॒ग्निर् वै दे॒वानां॑ व्र॒तप॑ति॒स्

तस्मा॑ ए॒व प्र॑ति॒प्रोच्य॑ व्र॒तम् आ ल॑भते

ब॒र्हिषा॑ पू॒र्णमा॑से व्र॒तम् उपै॑ति व॒त्सैर् अ॑मावा॒स्या॑याम्

ए॒तद् ध्य् ए॑तयो॑र् आ॒यत॑नम्

उप॒स्तीर्यः॒ पूर्व॑श् चा॒ग्निर् अप॑र॒श् चेत्य् आ॑हुस् \

म॒नु॒ष्याः॑ ॥

इन् न्वा उप॑स्तीर्णम् इ॒छन्ति॒ किम् उ॑ दे॒वा येषां॒ नवा॑वसान॒म्

उपा॑स्मि॒ञ् छ्वो य॒क्ष्यमा॑णे दे॒वता॑ वसन्ति॒ य ए॒वं वि॒द्वान् अ॒ग्निम् उ॑पस्तृ॒णाति॒

यज॑मानेन ग्रा॒म्याश् च॑ प॒शवो॑ऽव॒रुध्या॑ आर॒ण्याश् चेत्य् आ॑हुस् \

यद् गृ॒म्यान् उ॑प॒वस॑ति॒ तेन॑ ग्रा॒म्यान् अव॑ रुन्द्धे॒

यद् आ॑र॒ण्यस्या॒श्नाति॒ तेना॑र॒ण्यान्

यद् अना॑श्वान् उप॒वसे॑त् पितृदेव॒त्यः॑ स्यात् \

आ॒र॒ण्यस्या॑श्नाति \

इन्द्रि॒यम् ॥

वा आ॑र॒ण्यम्

इ॑न्द्रि॒यम् ए॒वात्मन् ध॑त्ते॒

यद् अना॑श्वान् उप॒वसे॒त् क्षोधु॑कः॒ स्यात् \

यद् अ॑श्नी॒याद् रु॒द्रो॑ऽस्य प॒शून् अ॒भि म॑न्येत \

अ॒पो॑ऽश्नाति॒

तन् नेवा॑शि॒तं नेवान॑शितम् \

न क्षोधु॑को भवति

नास्य॑ रु॒द्रः प॒शून् अ॒भि म॑न्यते॒

वज्रो॒ वै य॒ज्ञः

क्षुत् खलु॒ वै म॑नु॒ष्य॑स्य॒ भ्रातृ॑व्यस् \

यद् अना॑श्वान् उप॒वस॑ति॒

वज्रे॑णै॒व सा॒क्षात् क्षुध॒म् भ्रातृ॑व्यँ हन्ति ॥

यो वै श्र॒द्धाम् अना॑रभ्य य॒ज्ञेन॒ यज॑ते॒ नास्ये॒ष्टाय॒ श्रद् द॑धते \

अ॒पः प्र ण॑यति श्र॒द्धा वा आपः॑ श्र॒द्धाम् ए॒वारभ्य॑ य॒ज्ञेन॑ यजत उ॒भये॑ऽस्य देवमनु॒ष्या इ॒ष्टाय॒ श्रद् द॑धते॒ तद् आ॑हु॒र् अति॒ वा ए॒ता वर्त्रं॑ नेद॒न्त्य् अति॒ वाचं॒ मनो॒ वावैता नाति॑ नेद॒न्तीति॒

मन॑सा॒ प्र ण॑यती॒यं वै मनः॑ ॥

अ॒नयै॒वैनाः॒ प्र ण॑य॒त्य् अस्क॑न्नहविर् भवति॒ य ए॒वं वेद॑

यज्ञायु॒धानि॒ सम् भ॑वति य॒ज्ञो वै य॑ज्ञायु॒धानि॑ य॒ज्ञम् ए॒व तत् सम् {F भ॑रति} {W भर॒ति} {गोल्स् भ॒र॒ति॒}

यद् एक॑मेकँ स॒म्भरे॑त् पितृदेव॒त्या॑नि स्यु॒र् यत् स॒ह सर्वा॑णि मानु॒षाणि॒

द्वेद्वे॒ सम् भ॑रति याज्यानुवा॒क्य॑योर् ए॒व रू॒पं क॑रो॒त्य् अथो॑ मिथु॒नम् ए॒व

यो वै दश॑ य॒ज्ञायु॒धानि॒ वेद॑ मुख॒तो॑ऽस्य य॒ज्ञः क॑ल्पते

स्फ्यः ॥

च॒ क॒पाला॑नि चाग्निहोत्र॒हव॑णी॒ शूर्पं॑ च कृष्णाजि॒नं च॒ शम्या॑ चो॒लूख॑लं च॒ मुस॑लं च दृ॒षच् चोप॑ला चै॒तानि॒ वै दश॑ यज्ञायु॒धानि॒ य ए॒वं वेद॑ मुख॒तो॑ऽस्य य॒ज्ञः क॑ल्पते॒

यो वै दे॒वेभ्यः॑ प्रति॒प्रोच्य॑ य॒ज्ञेन॒ यज॑ते जु॒षन्ते॑ऽस्य दे॒वा ह॒व्यम्

ह॒विर् नि॑रु॒प्यमा॑णम् अ॒भि म॑न्त्रयेता॒ग्निँ होता॑रम् इ॒ह तँ हु॑व॒ इति॑ ॥

दे॒वेभ्य॑ ए॒व प्र॑ति॒प्रोच्य॑ य॒ज्ञेन॑ यजते जु॒षन्ते॑ऽस्य दे॒वा ह॒व्यम्

ए॒ष वै य॒ज्ञस्य॒ ग्रहो॑ गृही॒त्वैव य॒ज्ञेन॑ यजते॒

तद् उ॑दि॒त्वा वाचं॑ यछति य॒ज्ञस्य॒ धृत्यै॒ \

अथो॒ मन॑सा॒ वै प्र॒जाप॑तिर् य॒ज्ञम् अ॑तनुत॒ मन॑सै॒व तद् य॒ज्ञं त॑नुते॒ रक्ष॑सा॒म् अन॑न्ववचाराय॒

यो वै य॒ज्ञं योग॒ आग॑ते यु॒नक्ति॑ यु॒ङ्क्ते यु॑ञ्जा॒नेषु॒

कस् त्वा॑ युनक्ति॒ स त्वा॑ युन॒क्त्व् इत्य् आ॑ह प्र॒जाप॑ति॒र् वै कः प्र॒जाप॑तिनै॒वैनं॑ युनक्ति यु॒ङ्क्ते यु॑ञ्जा॒नेषु॑ ॥

प्र॒जाप॑तिर् य॒ज्ञान् अ॑सृजताग्निहो॒त्रं चा॑ग्निष्टो॒मं च॑ पौर्णमा॒सीं चो॒क्थ्यं॑ चामावा॒स्यां॑ चातिरा॒त्रं च॑

तान् उद् अ॑मिमीत

याव॑द् अग्निहो॒त्रम् आसी॒त् तावा॑न् अग्निष्टो॒मो याव॑ती पौर्णमा॒सी तावा॑न् उ॒क्थ्यो॑ याव॑त्य् अमावा॒स्या॑ तावा॑न् अतिरा॒त्रस् \

य ए॒वं वि॒द्वान् अ॑ग्निहो॒त्रं जु॒होति॒ याव॑द् अग्निष्टो॒मेनो॑पा॒प्नोति॒ ताव॒द् उपा॑प्नोति॒

य ए॒वं वि॒द्वान् पौ॑र्णमा॒सीं यज॑ते॒ याव॑द् उ॒क्थ्ये॑नोपा॒प्नोति॑ ॥

ताव॒द् उपा॑प्नोति॒

य ए॒वं वि॒द्वान् अ॑मावा॒स्यां॑ यज॑ते॒ याव॑द् अतिरा॒त्रेणो॑पा॒प्नोति॒ ताव॒द् उपा॑प्नोति

परमे॒ष्ठिनो॒ वा ए॒ष य॒ज्ञोऽग्र॑ आसी॒त्

तेन॒ स प॑र॒मां काष्ठा॑म् अगछ॒त्

तेन॑ प्र॒जाप॑तिं नि॒रवा॑सायय॒त्

तेन॑ प्र॒जाप॑तिः पर॒मां काष्ठा॑म् अगछ॒त्

तेनेन्द्रं॑ नि॒रवा॑सायय॒त्

तेनेन्द्रः॑ पर॒मां काष्ठा॑म् अगछ॒त्

तेना॒ग्नीषोमौ॑ नि॒रवा॑सायय॒त्

तेना॒ग्नीषोमौ॑ पर॒मां काष्ठा॑म् अगछताम् \

यः ॥

ए॒वं वि॒द्वान् द॑र्शपूर्णमा॒सौ यज॑ते पर॒माम् ए॒व काष्ठां॑ गछति॒

यो वै प्रजा॑तेन य॒ज्ञेन॒ यज॑ते॒ प्र प्र॒जया॑ प॒शुभि॑र् मिथु॒नैर् जा॑यते

द्वाद॑श॒ मासाः॑ संवत्स॒रो द्वाद॑श द्वं॒द्वानि॑ दर्शपूर्णमा॒सयो॒स् तानि॑ स॒म्पाद्या॒नीत्य् आ॑हुस् \

व॒त्सं चो॑पावसृ॒जत्य् उ॒खां चाधि॑ श्रयति॒ \

अव॑ च॒ हन्ति॑ दृ॒षदौ॑ च स॒माह॑न्ति॒ \

अधि॑ च॒ वप॑ते क॒पाला॑नि॒ चोप॑ दधाति

पुरो॒डाशं॑ च ॥

अ॒धि॒श्रय॒त्य् आज्यं॑ च

स्तम्बय॒जुश् च॒ हर॑त्य् अ॒भि च॑ गृह्णाति॒

वेदिं॑ च॒ परि॑ गृ॒ह्णाति॑ प॒त्नीं च॒ सं न॑ह्यति॒

प्रोक्ष॒णीश् चा॑सा॒दय॒त्य् आज्यं॑ च \

ए॒तानि॒ वै द्वाद॑श द्वं॒द्वानि॑ दर्शपूर्णमा॒सयो॑स्

तानि॒ य ए॒वँ स॒म्पाद्य॒ यज॑ते॒ प्रजा॑तेनै॒व य॒ज्ञेन॑ यजते॒ प्र प्र॒जया॑ प॒शुभि॑र् मिथु॒नैर् जा॑यते ॥

ध्रु॒वो॑ऽसि ध्रु॒वो॑ऽहँ स॑जा॒तेषु॑ भूयास॒म् इत्य् आ॑ह ध्रु॒वान् ए॒वैना॑न् कुरुते \

उ॒ग्रो॑ऽस्य् उ॒ग्रो॑ऽहँ स॑जा॒तेषु॑ भूयास॒म् इत्य् आ॒हाप्र॑तिवादिन ए॒वैना॑न् कुरुते \

अभि॒भूर् अ॑स्य् अभि॒भूर् अ॒हँ स॑जा॒तेषु॑ भूयास॒म् इत्य् आ॑ह॒ य ए॒वैन॑म् प्रत्यु॒त्पिपी॑ते॒ तम् उपा॑स्यते

यु॒नज्मि॑ त्वा॒ ब्रह्म॑णा॒ दैव्ये॒नेत्य् आ॑है॒ष वा अ॒ग्नेर् योग॒स् तेन॑ ॥

ए॒वैनं॑ युनक्ति

य॒ज्ञस्य॒ वै समृ॑द्धेन दे॒वाः सु॑व॒र्गं लो॒कम् आ॑यन् य॒ज्ञस्य॑ व्य्॑र्?द्धे॒नासु॑रा॒न् परा॑ भावय॒न् यन् मे॑ अग्ने अ॒स्य य॒ज्ञस्य॒ रिष्या॒द् इत्य् आ॑ह य॒ज्ञस्यै॒व तत् समृ॑द्धेन॒ यज॑मानः सुव॒र्गं लो॒कम् ए॑ति य॒ज्ञस्य॑ व्य्॑र्?द्धेन॒ भ्रातृ॑व्या॒न् परा॑ भावयति \

अग्निहो॒त्रम् ए॒ताभि॒र् व्याहृ॑तीभि॒र् उप॑ सादयेद् यज्ञमु॒खं वा अ॑ग्निहो॒त्रम् ब्रह्मै॒ता व्याहृ॑तयो यज्ञमु॒ख ए॒व ब्रह्म॑ ॥

कु॒रु॒ते॒ सं॒व॒त्स॒रे प॒र्याग॑त ए॒ताभि॑र् ए॒वोप॑ सादये॒द् ब्रह्म॑णै॒वोभ॒यतः॑ संवत्स॒रम् परि॑ गृह्णाति

दर्शपूर्णमा॒सौ चा॑तुर्मा॒स्यान्य् आ॒लभ॑मान ए॒ताभि॒र् व्याहृ॑तीभिर् हवीँ॒ष्य् आ सा॑दयेद् यज्ञमु॒खं वै द॑र्शपूर्णमा॒सौ चा॑तुर्मा॒स्यानि॒ ब्रह्मै॒ता व्याहृ॑तयो यज्ञमु॒ख ए॒व ब्रह्म॑ कुरुते संवत्स॒रे प॒र्याग॑त ए॒ताभि॑र् ए॒वा सा॑दये॒द् ब्रह्म॑णै॒वोभ॒यतः॑ संवत्स॒रम् परि॑ गृह्णाति॒

यद् वै य॒ज्ञस्य॒ साम्ना॑ क्रि॒यते॑ रा॒ष्ट्रम् ॥

य॒ज्ञस्या॒शीर् ग॑छति॒ यद् ऋ॒चा विशं॑ य॒ज्ञस्याशीर् ग॑छ॒त्य् अथ॑ ब्राह्म॒णो॑ऽना॒शीर्के॑ण य॒ज्ञेन॑ यजते सामिधे॒नीर् अ॑नुव॒क्ष्यन्न् ए॒ता व्याहृ॑तीः पु॒रस्ता॑द् दध्या॒द् ब्रह्मै॒व प्र॑ति॒पदं॑ कुरुते॒ तथा॑ ब्राह्म॒णः साशी॑र्केण य॒ज्ञेन॑ यजते॒

यं का॒मये॑त॒ यज॑मान॒म् भ्रातृ॑व्यम् अस्य य॒ञस्या॒शीर् ग॑छे॒द् इति॒ तस्यै॒ता व्याहृ॑तीः पुरोऽनुवा॒क्या॑यां दध्याद् भ्रातृव्यदेव॒त्या॑ वै पु॑रोऽनुवा॒क्या॑ भ्रातृ॑व्यम् ए॒वास्य॑ य॒ज्ञस्य॑ ॥

आ॒शीर् ग॑छति

यान् का॒मये॑त॒ यज॑मानान्त् स॒माव॑त्य् एनान् य॒ज्ञस्या॒शीर् घ॑छे॒द् इति॒ तेषा॑म् ए॒ता व्याहृ॑तीः पुरोऽनुवा॒क्या॑या अर्ध॒र्च एकां॑ दध्याद् या॒ज्या॑यै पु॒रस्ता॒द् एकां॑ या॒ज्या॑या अर्ध॒र्च एकां॒ तथै॑नान्त् स॒माव॑ती य॒ज्ञस्या॒शीर् ग॑छति॒

यथा॒ वै प॒र्जन्यः॒ सुवृ॑ष्टं॒ वर्ष॑त्य् ए॒वं य॒ज्ञो यज॑मानस्य वर्षति॒ स्थल॑योद॒कम् प॑रिगृ॒ह्णन्त्य् आ॒शिषा॑ य॒ज्ञं यज॑मानः॒ परि॑ गृह्णाति॒

मनो॑ऽसि प्राजाप॒त्यम् ॥

मन॑सा मा भू॒तेना वि॒शेत्य् आ॑ह॒ मनो॒ वै प्रा॑जाप॒त्यम् प्र॑जाप॒त्यो य॒ज्ञो मन॑ ए॒व य॒ज्ञम् आ॒त्मन् ध॑त्ते

वाग् अ॑स्य् ऐ॒न्द्री स॑पत्न॒क्षय॑णी वा॒चा मे॑न्द्रि॒येणा वि॒शेत्य् आ॑है॒न्द्री वै वाग् वाच॑म् ए॒वान्द्रीम् आ॒त्मन् ध॑त्ते ॥

यो वै स॑प्तद॒शम् प्र॒जाप॑तिं य॒ज्ञम् अ॒न्वाय॑त्तं॒ वेद॒ प्रति॑ य॒ज्ञेन॑ तिष्ठति॒ न य॒ज्ञाद् भ्रँ॑शते \

आ श्रा॑व॒येति॒ चतु॑रक्षर॒म् अस्तु॒ श्रौष॒ड् इति॒ चतु॑रक्षरं॒ यजेति॒ द्व्य॑क्षरं॒ ये यजा॑मह॒ इति॒ पञ्चा॑क्षरं द्व्यक्ष॒रो व॑षट्का॒रस् \

ए॒ष वै स॑प्तद॒शः प्र॒जाप॑तिर् य॒ज्ञम् अ॒न्वाय॑त्तस् \

य ए॒वं वेद॒ प्रति॑ य॒ज्ञेन॑ तिष्ठ॒त् न य॒ज्ञाद् भ्रँ॑शते॒

यो वै य॒ज्ञस्य॒ प्राय॑णम् प्रति॒ष्ठाम् ॥

उ॒दय॑नं॒ वेद॒ प्रति॑ष्ठिते॒नारि॑ष्टेन य॒ज्ञेन॑ सँ॒स्थां ग॑छति \

आ श्रा॑व॒यास्तु॒ श्रौष॒ड् यज॒ ये यजा॑महे वषट्का॒र ए॒तद् वै य॒ज्ञस्य॒ प्राय॑णम् ए॒षा प्र॑ति॒ष्ठैतद् उ॒दय॑नम् \

य ए॒वं वेद॒ प्रति॑ष्ठिते॒नारि॑ष्टेन य॒ज्ञेन॑ सँ॒स्थां ग॑छति॒

यो वै सू॒नृता॑यै॒ दोहं॒ वेद॑ दु॒ह ए॒वैना॑म् \

य॒ज्ञो वै सू॑नृ॒ता \

आ श्रा॑व॒येत्य् ऐवैना॑म् अह्वत् \

अस्तु॑ ॥

श्रौष॒ड् इत्य् { उ॒पावा॑स्राग् ^ उ॒पावा॑स्राज् }

यजे॒त्य् उद् अ॑नैषीत् \

ये यजा॑मह॒ इत्य् उपा॑सदत् \

व॒ष॒ट्का॒रेण॑ दद्घि \

ए॒ष वै सू॒नृता॑यै॒ दोह॑स् \

य ए॒वं वेद॑ दु॒ह ए॒वैना॑म् \

दे॒वा वै स॒त्त्रम् आ॑सत॒

तेषां॒ दिशो॑ऽदस्य॒न्

त ए॒ताम् आ॒र्द्राम् प॒ङ्क्तिम् अ॑पश्य॒न्न् आ श्रा॑व॒येति॑ पुरोवा॒तम् अ॑जनय॒न्न् अस्तु॒ श्रौषा॒द् इत्य् अ॒भ्रँ सम् अ॑प्लावय॒न् यजेति॑ वि॒द्युत॑म् ॥

अ॒ज॒न॒य॒न् ये यजा॑मह॒ इति॒ प्राव॑र्षयन् अ॒भ्य् अ॑स्तनयन् वषट्का॒रेण॒

ततो॒ वै तेभ्यो॒ दिशः॒ प्राप्या॑यन्त॒

य ए॒वं वेद॒ प्रास्मै दिशः॑ प्यायन्ते

प्र॒जाप॑तिं त्वो॒ वेद॑ प्र॒जाप॑तिस् त्वं वेद॒

यम् प्र॒जाप॑ति॒र् वेद॒ स पुण्यो॑ भवति \

ए॒ष वै छ॑न्द॒स्यः॑ प्र॒जाप॑ति॒र् आ श्रा॑व॒यास्तु॒ श्रौष॒ड् यज॒ ये यजा॑महे वषट्का॒रस् \

य ए॒वं वेद॒ पुण्यो॑ भवति

वस॒न्तम् ॥

ऋ॒तू॒नाम् प्री॑णा॒मीत्य् आ॑ह \

ऋ॒तवो॒ वै प्र॑या॒जास् \

ऋ॒तून् ए॒व प्री॑णाति॒

ते॑ऽस्मै प्री॒ता य॑थापू॒र्वं क॑ल्पन्ते॒

कल्प॑न्तेऽस्मा ऋ॒तवो॒ य ए॒वं वेद॑ \

अ॒ग्नीषोम॑योर् अ॒हं दे॑वय॒ज्यया॒ चक्षु॑ष्मान् भूयास॒म् इत्य् आ॑ह \

अ॒ग्नीषोमा॑भ्यां॒ वै य॒ज्ञश् चक्षु॑ष्मान्

ताभ्या॑म् ए॒व चक्षु॑र् आ॒त्मन् ध॑त्ते \

अ॒ग्नेर् अ॒हं दे॑वय॒ज्यया॑न्ना॒दो भू॑यास॒म् इत्य् आ॑ह \

अ॒ग्निर् वै दे॒वाना॑म् अन्ना॒दस्

तेनै॒व ॥

अ॒न्नाद्य॑म् आ॒त्मन् ध॑त्ते॒

दब्धि॑र् अ॒स्य् अद॑ब्धो भूयासम् अ॒मुं द॑भेय॒म् इत्य् आ॑ह \

ए॒तया॒ वै दभ्या॑ दे॒वा असु॑रान् अदभ्नुव॒न्

तयै॒व भ्रातृ॑व्यं दभ्नोति \

अ॒ग्नीषोम॑योर् अ॒हं दे॑वय॒ज्यया॑ वृत्र॒हा भू॑यास॒म् इत्य् आ॑ह \

अ॒ग्नीषोमा॑भ्यां॒ वा इन्द्रो॑ वृ॒त्रम् अ॑हन्

ताभ्या॑म् ए॒व भ्रातृ॑व्यँ स्तृणुते \

इन्द्राग्नि॒योर् अ॒हं दे॑वय॒ज्यये॑न्द्रिया॒व्य् अ॑न्ना॒दो भू॑यास॒म् इत्य् आ॑ह \

इन्द्रिया॒व्य् ए॑वान्ना॒दो भ॑वति॒ \

इन्द्र॑स्य ॥

अ॒हं दे॑वय॒ज्यये॑न्द्रिया॒वी भू॑यास॒म् इत्य् आ॑ह \

इन्द्रिया॒व्य् ए॑व भ॑वति

महे॒न्द्रस्या॒हं दे॑वय॒ज्यया॑ जे॒मान॑म् महि॒मानं॑ गमेय॒म् इत्य् आ॑ह

जे॒मान॑म् ए॒व म॑हि॒मानं॑ गछति \

अ॒ग्नेः स्वि॑ष्ट॒कृतो॒ऽहं दे॑वय॒ज्ययायु॑ष्मान् य॒ज्ञेन॑ प्रति॒ष्ठां ग॑मेय॒म् इत्य् आ॑ह \

आयु॑र् ए॒वात्मन् ध॑त्ते॒ प्रति॑ य॒ज्ञेन॑ तिष्ठति ॥

इन्द्रं॑ वो वि॒श्वत॒स् परि॒ हवा॑महे॒ जने॑भ्यः । अ॒स्माक॑म् अस्तु॒ केव॑लः ॥

इन्द्रं॒ नरो॑ ने॒मधि॑ता हवन्ते॒ यत् पार्या॑ यु॒नज॑ते॒ धिय॒स् ताः । शूरो॒ नृषा॑ता॒ शव॑सश् चका॒न आ गोम॑ति व्र॒जे भ॑जा॒ त्वं नः॑ ॥

इ॒न्द्रि॒याणि॑ शतक्रतो॒ या ते॒ जने॑षु प॒ञ्चसु॑ । इन्द्र॒ तानि॑ त॒ आ वृ॑णे ॥

अनु॑ ते दायि म॒ह इ॑न्द्रि॒याय॑ स॒त्रा ते॒ विश्व॒म् अनु॑ वृत्र॒हत्ये॑ । अनु॑ ॥

क्ष॒त्रम् अनु॒ सहो॑ यज॒त्रेन्द्र॑ दे॒वेभि॒र् अनु॑ ते नृ॒षह्ये॑ ॥

आ यस्मि॑न्त् स॒प्त वा॑स॒वास् तिष्ठ॑न्ति स्वा॒रुहो॑ यथा । ऋषि॑र् ह दीर्घ॒श्रुत्त॑म॒ इन्द्र॑स्य घ॒र्मो अति॑थिः ॥

आ॒मासु॑ प॒क्वम् ऐर॑य॒ आ सूर्यँ॑ रोहयो दि॒वि । घ॒र्मं न साम॑न् तपता सुवृ॒क्तिभि॒र् जुष्टं॑ गिर्वणसे॒ गिरः॑ ॥

इन्द्र॒म् इद् गा॒थिनो॑ बृ॒हद् इन्द्र॑म् अ॒र्केभि॑र् अ॒र्किणः॑ । इन्द्रं॒ वाणी॑र् अनूषत ॥

गाय॑न्ति त्वा गाय॒त्रिणः॑ ॥

अर्च॑न्त्य् अ॒र्कम् अ॒र्किणः॑ । ब्र॒ह्माण॑स् त्वा शतक्रत॒व् उद् वँ॒शम् इ॑व येमिरे ॥

अँ॒हो॒मुचे॒ प्र भ॑रेमा मनी॒षाम् ओ॑षिष्ठ॒दाव्ने॑ सुम॒तिं गृ॑णा॒नाः । इ॒दम् इ॑न्द्र॒ प्रति॑ ह॒व्यं गृ॑भाय स॒त्याः स॑न्तु॒ यज॑मानस्य॒ कामाः॑ ॥

वि॒वेष॒ यन् मा॑ धि॒षणा॑ ज॒जान॒ स्तवै॑ पु॒रा पार्या॒द् इन्द्र॒म् अह्नः॑ । अँह॑सो॒ यत्र॑ पी॒पर॒द् यथा॑ नो॒ नावे॑व॒ यान्त॑म् उ॒भये॑ हवन्ते ॥

प्र स॒म्राज॑म् प्रथ॒मम् अ॑ध्व॒राणा॑म् ॥

अँ॒हो॒मुचं॑ वृष॒भं य॒ज्ञिया॑नाम् । अ॒पां नपा॑तम् अश्विना॒ हय॑न्तम् अ॒स्मिन् न॑र इन्द्रि॒यं ध॑त्त॒म् ओजः॑ ॥

वि न॑ इन्द्र॒ मृधो॑ जहि नी॒चा य॑छ पृतन्य॒तः । अ॒ध॒स्प॒दं तम् ईं॑ कृधि॒ यो अ॒स्माँ अ॑भि॒दास॑ति ॥

इन्द्र॑ क्ष॒त्रम् अ॒भि वा॒मम् ओजोऽजा॑यथा वृषभ चर्षणी॒नाम् । अपा॑नुदो॒ जन॑म् अमित्र॒यन्त॑म् उ॒रुं दे॒वेभ्यो॑ अकृनोर् उ लो॒कम् ॥

मृ॒गो न भी॒मः कु॑च॒रो गि॑रि॒ष्ठाः प॑रा॒वतः॑ ॥

आ ज॑गामा॒ पर॑स्याः । सृ॒कँ सँ॒शाय॑ प॒विम् इ॑न्द्र ति॒ग्मं वि शत्रू॑न् ताढि॒ वि मृधो॑ नुदस्व ॥

वि शत्रू॒न् वि मृधो॑ नुद॒ वि वृ॒त्रस्य॒ हनू॑ रुज । वि म॒न्युम् इ॑न्द्र भामि॒तो॑ऽमित्र॑स्याभि॒दास॑तः ॥

त्रा॒तार॒म् इन्द्र॒म् अवि॑तार॒म् इन्द्रँ॒ हवे॑हवे सु॒हवँ॒ शूर॒म् इन्द्र॑म् । हु॒वे नु श॒क्रम् पु॑रुहू॒तम् इन्द्रँ॑ स्व॒स्ति नो॑ म॒घवा॑ धा॒त्व् इन्द्रः॑ ॥

मा ते॑ अ॒स्याम् ॥

स॒ह॒सा॒व॒न् परि॑ष्टाव् अ॒घाय॑ भूम हरिवः परा॒दै । त्राय॑स्व नोऽवृ॒केभि॒र् वरू॑थै॒स् तव॑ प्रि॒यासः॑ सू॒रिषु॑ स्याम ॥

अन॑वस् ते॒ रथ॒म् अश्वा॑य तक्ष॒न् त्वष्टा॒ वज्र॑म् पुरुहूत द्यु॒मन्त॑म् । ब्र॒ह्माण॒ इन्द्र॑म् म॒हय॑न्तो अ॒र्कैर् अव॑र्धय॒न्न् अह॑ये॒ हन्त॒वा उ॑ ॥

वृष्णे॒ यत् ते॒ वृष॑णो अ॒र्कम् अर्चा॒न् इन्द्र॒ ग्रावा॑णो॒ अदि॑तिः स॒जोषाः॑ । अ॒न॒श्वासो॒ ये प॒वयो॑ऽर॒था इन्द्रे॑षिता अ॒भ्यव॑र्तन्त॒ दस्यू॑न् ॥