दे॒वा॒सु॒राः संय॑त्ता आस॒न् ते दे॒वा वि॑ज॒यम् उ॑प॒यन्तो॒ऽग्नौ वा॒मं वसु॒ सं न्य् अ॑दधत \
इ॒दम् उ॑ नो भवैष्यति॒ यदि॑ नो जे॒ष्यन्ती॑ति॒
तद् अ॒ग्निर् न्य् अ॑कामयत॒ तेनापा॑क्राम॒त्
तद् दे॒वा वि॒जित्या॑व॒रुरु॑त्समाना॒ अन्व् आ॑य॒न् तद् अ॑स्य॒ सह॒सादि॑त्सन्त॒
सो॑ऽरोदी॒द् यद् अरो॑दी॒त् तद् रु॒द्रस्य॑ रुद्र॒त्वम् \
यद् अश्र्व् अशी॑यत॒ तत् ॥
र॒ज॒तँ हिर॑ण्यम् अभव॒त् तस्मा॑द् रज॒तँ हिर॑ण्यम् अदक्षि॒ण्यम् अ॑श्रु॒जँ हि
यो ब॒र्हिषि॒ ददा॑ति पु॒रास्य॑ संवत्स॒राद् गृ॒हे रु॑दन्ति॒ तस्मा॑द् ब॒र्हिषि॒ न देय॑म् \
सो॑ऽग्निर् अ॑ब्रवीद् भा॒ग्य् अ॑सा॒न्य् अथ॑ व इ॒दम् इति॑ पुनरा॒धेयं॑ ते॒ केव॑ल॒म् इत्य् अ॑ब्रुवन्न् ऋ॒ध्नव॒त् खलु॒ स इत्य् अ॑ब्रवी॒द् यो म॑द्देव॒त्य॑म् अ॒ग्निम् आ॒दधा॑ता॒ इति॒
तम् पू॒षाध॑त्त॒ तेन॑ ॥
पू॒षार्ध्नो॒त् तस्मा॑त् पौ॒ष्णाः प॒शव॑ उच्यन्ते॒ तम् त्वष्टाध॑त्त॒ तेन॒ त्वष्टा॑र्ध्नो॒त् तस्मा॑त् त्वा॒ष्ट्राः प॒शव॑ उच्यन्ते॒
तम् मनु॒र् आध॑त्त॒ तेन॒ मनु॑र् आर्ध्नो॒त् तस्मा॑न् मान॒व्यः॑ प्र॒जा उ॑च्यन्ते॒
तम् धा॒ताध॑त्त॒ तेन॑ धा॒तार्ध्नो॑त् संवत्स॒रो वै धा॒ता तस्मा॑त् संवत्स॒रम् प्र॒जाः प॒शवोनु॒ प्र जा॑यन्ते । य ए॒वम् पु॑नरा॒धेय॒स्यर्द्धिं॒ वेद॑ ॥
ऋ॒ध्नोत्य् ए॒व यो॑ऽस्यै॒वं ब॒न्धुतां॒ वेद॒ बन्धु॑मान् भवति ।
भा॒ग॒धेयं॒ वा अ॒ग्निर् आहि॑त इ॒छमा॑नः प्र॒जाम् प॒शून् यज॑मान॒स्योप॑ दोद्राव \
उ॒द्वास्य॒ पुन॒र् आ द॑धीत भाग॒धेये॑नै॒वैनँ॒ सम् अ॑र्धय॒त्य् अथो॒ शान्ति॑र् ए॒वास्यै॒षा
पुन॑र्वस्वो॒र् आ द॑धीतै॒तद् वै पु॑नरा॒धेय॑स्य॒ नक्ष॑त्रं॒ यत् पुन॑र्वसू॒ स्वाया॑म् ए॒वैनं॑ दे॒वता॑याम् आ॒धाय॑ ब्रह्मवर्च॒सी भ॑वति
द॒र्भैर् आ द॑धा॒त्य् अया॑तयामवाय
द॒र्भैर् आ द॑धात्य् अ॒द्भ्य ए॒वैन॒म् ओष॑धीभ्योऽव॒रुध्याध॑त्ते॒
पञ्च॑कपालः पुरो॒डाशो॑ भवति पञ्च॒ वा ऋ॒तव॑ ऋ॒तुभ्य॑ ए॒वैन॑म् अव॒रुध्याध॑त्ते ॥
परा॒ वा ए॒ष य॒ज्ञम् प॒शून् व॑पति॒ यो॑ऽग्निम् उ॑द्वा॒सय॑ते ।
पञ्च॑कपालः पुरोडाशो भवति
पाङ्क्तो॑ य॒ज्ञः पाङ्क्ताः॑ प॒शवो॑ य॒ज्ञम् ए॒व प॒शून् अव॑रुन्द्धे ।
वी॒र॒हा वा ए॒ष दे॒वानां॒ यो॑ऽग्निम् उ॑द्वा॒सय॑ते॒
न वा ए॒तस्य॑ ब्राह्म॒णा ऋ॑ता॒यवः॑ पु॒रान्न॑म् अक्षन् ।
प॒ङ्क्त्यो॑ याज्यानुवा॒क्या॑ भवन्ति
पाङ्क्तो॑ य॒ज्ञः पाङ्क्तः॒ पुरु॑षो दे॒वान् ए॒व वी॒रं नि॑रव॒दाया॒ग्निम् पुन॑र् आ ॥
ध॒त्ते॒
श॒ताक्ष॑रा भवन्ति श॒तायुः॒ पुरु॑षः श॒तेन्द्रि॑य॒ आयु॑ष्य् ए॒वेन्द्रि॒ये प्रति॑ तिष्ठति॒
यद् वा अ॒ग्निर् आहि॑तो॒ नर्ध्यते॒ ज्यायो॑ भाग॒धेयं॑ निका॒मय॑मानो॒ यद् आ॑ग्ने॒यँ सर्व॒म् भव॑ति॒ सैवास्यर्द्धिः॒
सं वा ए॒तस्य॑ गृ॒हे वाक् सृ॑ज्यते॒ यो॑ऽग्निम् उ॑द्वा॒सय॑ते॒ स वाचँ॒ सँसृ॑ष्टां॒ यज॑मान ईश्व॒रोऽनु॒ परा॑भवितो॒र् विभ॑क्तयो भवन्ति वा॒चो वि॑धृत्यै॒ यज॑मान॒स्याप॑राभावाय ॥
विभ॑क्तिं करोति॒ ब्रह्मै॒व तद् अ॑कर् \
उ॒पाँ॒शु य॑जति॒ यथा॑ वा॒मं वसु॑ विविदा॒नो गूह॑ति ता॒दृग् ए॒वतद् अ॒ग्निम् प्रति॑ स्विष्ट॒कृतं॒ निर् आ॑ह॒ यथा॑ वा॒मं वसु॑ विविदा॒नः प्र॑का॒शं जिग॑मिषति ता॒दृग् ए॒व तत् \
विभ॑क्तिम् उ॒क्त्वा प्र॑या॒जेन॒ वष॑ट् करोत्य् आ॒यत॑नाद् ए॒वनै॑ति॒
यज॑मानो॒ वै पु॑रो॒डाशः॑ प॒शव॑ ए॒ते आहु॑ती॒ यद् अ॒भितः॑ पुरो॒डाश॑म् ए॒ते आहु॑ती ॥
जु॒होति॒ यज॑मानम् ए॒वोभ॒यतः॑ प॒शुभिः॒ परि॑ गृह्णाति
कृ॒तय॑जुः॒ सम्भृ॑तसम्भार॒ इत्य् आ॑हु॒र् न स॒म्भृत्याः॑ सम्भा॒रा न यजुः॑ कर्त॒व्य॑म् इति॒ \
अथो॒ खलु॑ स॒म्भृत्या॑ ए॒व स॑म्भा॒राः क॑र्त॒व्यं॑ यजु॑र् य॒ज्ञस्य॒ समृ॑द्ध्यै
पुनर्निष्कृ॒तो रथो॒ दक्षि॑णा पुनरुत्स्यू॒तं वासः॑ पुनरुत्सृ॒ष्टो॑ऽन॒ड्वान् पु॑नर्दा॒धेय॑स्य॒ समृ॑द्ध्यै
स॒प्त ते॑ अग्ने स॒मिधः॑ स॒प्त जि॒ह्वा इत्य् अ॑ग्निहो॒त्रं जु॑होति॒
यत्र॑यत्रै॒वास्य॒ न्य॑क्तं॒ ततः॑ ॥
ए॒वैन॒म् अव॑ रुन्द्धे
वीर॒हा वा ए॒ष दे॒वाना॒म् यो॑ऽग्निम् उ॑द्वा॒सय॑ते॒ तस्य॒ वरु॑ण ए॒वर्ण॒याद् आ॑ग्निवारु॒णम् एका॑दशकपाल॒म् अनु॒ निर् व॑पे॒द् यं चै॒व हन्ति॒ यश् चा॑स्यर्ण॒यात् तौ भा॑ग॒धेये॑न प्रीणाति॒ नार्ति॒म् आर्छ॑ति॒ यज॑मानः ॥
भूमि॑र् भू॒म्ना द्यौर् व॑रि॒णान्तरि॑क्षम् महि॒त्वा । उ॒पस्थे॑ ते देव्य् अदिते॒ऽग्निम् अ॑न्ना॒दम् अ॒न्नाद्या॒या द॑धे ॥
आयं गौः पृश्नि॑र् अक्रमी॒द् अस॑नन् मा॒तर॒म् पुनः॑ । पि॒तरं॑ च प्र॒यन्त् सुवः॑ ॥
त्रिँ॒शद् धाम॒ वि रा॑जति॒ वाक् प॑तं॒गाय॑ शिश्रिये । प्रत्य् अ॑स्य वह॒ द्युभिः॑ ॥
अ॒स्य प्रा॒णाद् अ॑पान॒त्य् अ॑न्तश् च॑रति रोच॒ना । व्य् अ॑ख्यन् महि॒षः सुवः॑ ॥
यत् त्वा॑ ॥
क्रु॒द्धः प॑रो॒वप॑ म॒न्युना॒ यद् अव॑र्त्या । सु॒कल्प॑म् अग्ने॒ तत् तव॒ पुन॒स् त्वोद् दी॑पयामसि ॥
यत् ते॑ म॒न्युप॑रोप्तस्य पृथि॒वीम् अनु॑ दध्व॒से । आ॒दि॒त्या विश्वे॒ तद् दे॒वा वस॑वश् श स॒माभ॑रन् ॥
मनो॒ ज्योति॑र् जुषता॒म् आज्यं॒ विछि॑न्नं य॒ज्ञँ सम् इ॒मं द॑धातु । बृह॒स्पति॑स् तनुताम् इ॒मं नो॒ विश्वे॑ दे॒वा इ॒ह मा॑दयन्ताम् ॥
स॒प्त ते॑ अग्ने स॒मिधः॑ स॒प्त जि॒ह्वाः स॒प्त ॥
ऋष॑यः स॒प्त धाम॑ प्रि॒याणि॑ । स॒प्त होत्राः॑ सप्त॒धा त्वा॑ यजन्ति स॒प्त योनी॒र् आ पृ॑णस्वा घृ॒तेन॑ ॥
पुन॑र् ऊ॒र्जा नि व॑र्तस्व॒ पुन॑र् अग्न इ॒षायु॑षा । पुन॑र् नः पाहि वि॒श्वतः॑ ॥
स॒ह र॒य्या नि व॑र्त॒स्वाग्ने॒ पिन्व॑स्व॒ धार॑या । वि॒श्वप्स्नि॑या वि॒श्वत॒स् परि॑ ॥
लेकः॒ सले॑कः सु॒लेक॒स् ते न॑ आदि॒त्या आज्यं॑ जुषा॒णा वि॑यन्तु॒ केतः॒ सके॑तः सु॒केत॒स् ते न॑ आदि॒त्या आज्यं॑ जुषा॒णा वि॑यन्तु॒ विव॑स्वाँ॒ अदि॑ति॒र् देव॑जूति॒स् ते न॑ आदि॒त्या आज्यं॑ जुषा॒णा वि॑यन्तु ॥
भूमि॑र् भू॒म्ना द्यौर् व॑रि॒णेत्य् आ॑हा॒शिषै॒वैन॒म् आ ध॑त्ते
स॒र्पा वै जीर्य॑न्तोऽमन्यन्त॒ स ए॒तं क॑स॒र्णीरः॑ काद्रवे॒यो मन्त्र॑म् अपश्य॒त् ततो॒ वै ते जी॒र्णास् त॒नूर् अपा॑घ्नत
सर्परा॒ज्ञिया॑ ऋ॒ग्भिर् गार्ह॑पत्य॒म् आ द॑धाति पुनर्न॒वम् ए॒वैन॑म् अ॒जरं॑ कृ॒त्वा ध॑त्ते॒ \
अथो॑ पू॒तम् ए॒व पृ॑थि॒वीम् अ॒न्नाद्यं॒ नोपा॑नम॒त् सैतम् ॥
मन्त्र॑म् अपश्य॒त् ततो॒ वै ताम् अ॒न्नाद्य॒म् उपा॑नमत् \
यत् स॑र्परा॒ज्ञिया॑ ऋ॒ग्भिर् गार्ह॑पत्यम् आ॒दधा॑त्य् अ॒न्नाद्य॒स्याव॑रुद्ध्यै॒ \
अथो॑ अ॒स्याम् ए॒वैन॒म् प्रति॑ष्ठित॒म् आ ध॑त्ते॒
यत् त्वा॑ क्रु॒द्धः प॑रो॒वपेत्य् आ॒हाप॑ ह्नुत ए॒वास्मै॒ तत्
पुन॒स् त्वोद् दी॑पयाम॒सीत्य् आ॑ह॒ सम् इ॑न्द्ध ए॒वैन॑म् \
यत् ते॑ म॒न्युप॑रोप्त॒स्येत्य् आ॑ह दे॒वता॑भिर् ए॒व ॥
ए॒नँ॒ सम् भ॑रति॒
वि वा ए॒तस्य॑ य॒ज्ञश् छि॑द्यते॒ यो॑ऽग्निम् उ॑द्वा॒सय॑ते॒ बृह॒स्पति॑वत्य॒र्चोप॑ तिष्ठते॒ ब्रह्म॒ वै दे॒वाना॒म् बृह॒स्पति॒र् ब्रह्म॑णै॒व य॒ज्ञँ सं द॑धाति॒
वि छि॑न्नं य॒ज्ञँ स॑म् इ॒मं द॑धा॒त्व् इत्य् आ॑ह सं॒तत्यै॒
विश्वे॑ दे॒वा इ॒ह मा॑दयन्ता॒म् इत्य् आ॑ह सं॒तत्यै॒व य॒ज्ञं दे॒वेभ्योऽनु॑ दिशति
स॒प्त ते॑ अग्ने स॒मिधः॑ स॒प्त जि॒ह्वाः ॥
इत्य् आ॑ह स॒प्तस॑प्त॒ वै स॑प्त॒धाग्नेः प्रि॒यास् त॒नुव॒स् ता ए॒वाव॑ रुन्द्धे॒
पुन॑र् ऊ॒र्जा स॒ह र॒य्येत्य् अ॒भितः॑ पुरो॒डाश॒म् आहु॑ती जुहोति॒ यज॑मानम् ए॒वोर्जा च॑ र॒य्या चो॑भ॒यतः॒ परि॑ गृह्णाति \
आदि॒त्या वा अ॒स्माल् लो॒काद् अ॒मुं लो॒कम् आ॑य॒न् ते॑ऽमुष्मिँ॑ लो॒के व्य् अ॑तृष्य॒न् त इ॒मं लो॒कम् पुन॑र् अभ्य॒वेत्या॒ग्निम् आ॒धायै॒तान् होमा॑न् अजुहवु॒स् त आ॑र्ध्नुव॒न् ते सु॑व॒र्गं लो॒कम् आ॑य॒न्
यः प॑रा॒चीन॑म् पुनरा॒धेया॑द् अ॒ग्निम् आ॒दधी॑त॒ स ए॒तान् होमा॑ञ् जुहुया॒द् याम् ए॒वादि॒त्या ऋद्धि॒म् आर्ध्नु॑व॒न् ताम् ए॒वर्ध्नो॑ति
{F उ॒प॒प्र॒यन्तो॑} {W उयप्र॒यन्तो॑} अध्व॒रम् मन्त्रं॑ वोचेमा॒ग्नये॑ । आ॒रे अ॒स्मे च॑ शृण्व॒ते ॥
अ॒स्य प्र॒त्नाम् अनु॒ द्युतँ॑ शु॒क्रं दु॑दुह्रे॒ अह्र॑यः । पयः॑ सहस्र॒साम् ऋषि॑म् ॥
अ॒ग्निर् मू॒र्धा दि॒वः क॒कुत् पतिः॑ पृथि॒व्या अ॒यम् । अ॒पाँ रेताँ॑सि जिन्वति ॥
अ॒यम् इ॒ह प्र॑थ॒मो धा॑यि धा॒तृभि॒र् होता॒ यजि॑ष्ठो अध्व॒रेष्व् ईड्यः॑ । यम् अप्न॑वानो॒ भृग॑वो विरुरु॒चुर् वने॑षु चि॒त्रं वि॒भुवं॑ वि॒शेवि॑शे ॥
उ॒भा वा॑म् इन्द्राग्नी आहु॒वध्यै॑ ॥
उ॒भा राध॑सः स॒ह मा॑द॒यध्यै॑ । उ॒भा दा॒तारा॑व् इ॒षाँ र॑यी॒णाम् उ॒भा वाज॑स्य सा॒तये॑ हुवे वाम् ।
अ॒यं ते॒ योनि॑र् ऋ॒त्वियो॒ यतो॑ जा॒तो अरो॑चथाः । तं जा॒नन्न् अ॑ग्न॒ आ रो॒हाथा॑ नो वर्धया र॒यिम् ।
अग्न॒ आयूँ॑षि पवस॒ आ सु॒वोर्ज॒म् इषं॑ च नः । आ॒रे बा॑धस्व दु॒छुना॑म् ॥
अग्ने॒ पव॑स्व॒ स्वपा॑ अ॒स्मे वर्चः॑ सु॒वीर्य॑म् ॥ दध॒त् पोषँ॑ र॒यिम् ॥
मयि॑ ॥
अग्ने॑ पावक रो॒चिषा॑ म॒न्द्रया॑ देव जि॒ह्वया॑ । आ दे॒वान् व॑क्षि॒ यक्षि॑ च ॥
स नः॑ पावक दीदि॒वोऽग्ने॑ दे॒वाँ इ॒हा व॑ह । उप॑ य॒ज्ञँ ह॒विश् च॑ नः ॥
अ॒ग्निः शुचि॑व्रततमः॒ शुचि॒र् विप्रः॒ शुचिः॑ क॒विः । शुची॑ रोचत॒ आहु॑तः ॥
उद् अ॑ग्ने॒ शुच॑य॒स् तव॑ शु॒क्रा भ्राज॑न्त ईरते । तव॒ ज्योतीँ॑ष्य् अ॒र्चयः॑ ॥
आ॒यु॒र्दा अ॑ग्ने॒ऽस्य् आयु॑र् मे ॥
दे॒हि॒ व॒र्चो॒दा अ॑ग्नेऽसि॒ वर्चो॑ मे देहि तनू॒पा अ॑ग्नेऽसि त॒नुव॑म् मे पाहि॒ \
अग्ने॒ यन् मे॑ त॒नुवा॑ ऊ॒नं तन् म॒ आ पृ॑ण ।
चित्रा॑वसो स्व॒स्ति ते॑ पा॒रम् अ॑शीय॒ \
इन्धा॑नास् त्वा श॒तँ हिमा॑ द्यु॒मन्तः॒ सम् इ॑धीमहि॒ वय॑स्वन्तो वय॒स्कृतं॒ यश॑स्वन्तो यश॒स्कृतँ॑ सु॒वीरा॑सो॒ अदा॑भ्यम् । अग्ने॑ सपत्न॒दम्भ॑नं॒ वर्षि॑ष्ठे॒ अधि॒ नाके॑ ।
सं त्वम् अ॑ग्ने॒ सूर्य॑स्य॒ वर्च॑सागथाः॒ सम् ऋषी॑णाँ स्तु॒तेन॒ सम् प्रि॒येण॒ धाम्ना॑ ।
त्वम् अ॑ग्ने॒ सूर्य॑वर्चा असि॒ सम् माम् आयु॑षा॒ वर्च॑सा प्र॒जया॑ सृज ॥
सम् प॑श्यामि प्र॒जा अ॒हम् इड॑प्रजसो मान॒वीः । सर्वा॑ भवन्तु नो गृ॒हे ॥
अम्भ॒ स्थाम्भो॑ वो भक्षीय॒ मह॑ स्थ॒ महो॑ वो भक्षीय॒ सह॑ स्थ॒ सहो॑ वो भक्षी॒योर्ज॒ स्थोर्जं॑ वो भक्षीय॒
रेव॑ती॒ रम॑ध्वम् अ॒स्मिँ लो॒के॑ऽस्मिन् गो॒ष्ठे॑ऽस्मिन् क्षये॒ऽस्मिन् योना॑व् इ॒हैव स्ते॒तो माप॑ गात ब॒ह्वीर् मे॑ भूयास्त ॥
सँ॒हि॒तासि॑ विश्वरू॒पीर् आ मो॒र्जा वि॒शा गौ॑प॒त्येना रा॒यस् पोषे॑ण
सहस्रपो॒षं वः॑ पुष्यास॒म् मयि॑ वो॒ रायः॑ श्रयन्ता॒म्
उप॑ त्वाग्ने दि॒वेदि॑वे॒ दोषा॑वस्तर् धि॒या व॒यम् । नमो॒ भर॑न्त॒ एम॑सि ॥
राज॑न्तम् अध्व॒राणा॑म् गो॒पाम् ऋ॒तस्य॒ दीदि॑विम् । वर्ध॑मानँ॒ स्वे दमे॑ ॥
स नः॑ पि॒तेव॑ सू॒नवेऽग्ने॑ सूपाय॒नो भ॑व । सच॑स्वा नः स्व॒स्तये॑ ॥
अग्ने॑ ॥
त्वं नो॒ अन्त॑मः । उ॒त त्रा॒ता शि॒वो भ॑व वरू॒थ्यः॑ । तं त्वा॑ शोचिष्ठ दीदिवः । सु॒म्नाय॑ नू॒नम् ई॑महे॒ सखि॑भ्यः । वसु॑र् अ॒ग्निर् वसु॑श्रवाः । अछा॑ नक्षि द्यु॒मत्त॑मो र॒यिं दाः॑ ॥
ऊ॒र्जा वः॑ पश्याम्य् ऊ॒र्जा मा॑ पश्यत रा॒यस् पोषे॑ण वः पश्यामि रा॒यस् पोषे॑ण मा पश्यत॒ \
इडा॑ स्थ मधु॒कृतः॑ स्यो॒ना मा वि॑श॒तेरा॒ मदः॑ । स॒ह॒स्र॒पो॒षं वः॑ पुष्यासम् ॥
मयि॑ वो॒ रायः॑ श्रयन्ताम् ॥
तत् स॑वि॒तुर् वरे॑ण्य॒म् भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ यो नः॑ प्रचो॒दया॑त् ॥
सो॒मानँ॒ स्वर॑णं कृणु॒हि ब्र॑ह्मणस् पते । क॒क्षीव॑न्त॒म् य औ॑शि॒जम् ॥
क॒दा च॒न स्त॒रीर् अ॑सि॒ नेन्द्र॑ सश्चसि दा॒शुषे॑ । उपो॒पेन् नु म॑घव॒न् भूय॒ इन् नु ते॒ दानं॑ दे॒वस्य॑ पृच्यते ॥
परि॑ त्वाग्ने॒ पुरं॑ व॒यं विप्रँ॑ सहस्य धीमहि । धृ॒षद्व॑र्णं दि॒वेदि॑वे भे॒त्तार॑म् भङ्गु॒राव॑तः ॥
अग्ने॑ गृहपते सुगृहप॒तिर् अ॒हं त्वया॑ गृ॒हप॑तिना भूयासँ सुगृहप॒तिर् मया॒ त्वं गृ॒हप॑तिना भूयाः श॒तँ हि॒मास् ताम् आ॒शिष॒म् आ शा॑से॒ तन्त॑वे॒ ज्योति॑ष्मतीं॒ ताम् आ॑शिष॒म् आ शा॑से॒ऽमुष्मै॒ ज्योति॑ष्मतीम् ॥
अय॑ज्ञो॒ वा ए॒ष यो॑ऽसा॒मोप॑प्र॒यन्तो॑ अध्व॒रम् इत्य् आ॑ह॒ स्तोम॑म् ए॒वास्मै॑ युन॒क्त्य् उपेत्य् आ॑ह प्र॒जा वै प॒शव॒ उपे॒मं लो॒कम् प्र॒जाम् ए॒व प॒शून् इ॒मं लो॒कम् उपै॑ति \
अ॒स्य प्र॒त्नाम् अनु॒ द्युत॒म् इत्य् आ॑ह सुव॒र्गो वै लो॒कः प्र॒त्नः सु॑व॒र्गम् ए॒व लो॒कँ स॒मारो॑हति \
अ॒ग्निर् मू॒र्धा दि॒वः क॒कुद् इत्य् आ॑ह मू॒र्धान॑म् ॥
ए॒वैनँ॑ समा॒नानां॑ करो॒त्य् अथो॑ देवलो॒काद् ए॒व म॑नुष्यलो॒के प्रति॑ तिष्ठति \
अ॒यम् इ॒ह प्र॑थ॒मो धा॑यि धा॒तृभि॒र् इत्य् आ॑ह॒ मुख्य॑म् ए॒वैनं॑ करोति \
उ॒भा वा॑म् इन्द्राग्नी आहु॒वध्या॒ इत्य् आ॒हौजो॒ बल॑म् ए॒वाव॑ रुन्द्धे \
अ॒यं ते॒ योनि॑र् ऋ॒त्विय॒ इत्य् आ॑ह प॒शवो॒ वै र॒यिः प॒शून् ए॒वाव॑ रुन्द्धे
ष॒ड्भिर् उप॑ तिष्ठते॒ षड् वै ॥
ऋ॒तव॑ ऋ॒तुष्व् ए॒व प्रति॑ तिष्ठति
ष॒ड्भिर् उत्त॑राभि॒र् उप॑ तिष्ठते॒ द्वाद॑श॒ सम् प॑द्यन्ते॒ द्वाद॑श॒ मासाः॑ संवत्स॒रः सं॑वत्स॒र ए॒व प्रति॑ तिष्ठति॒
यथा॒ वै पुरु॒षोऽश्वो॒ गौर् जीर्य॑त्य् ए॒वम् अ॒ग्निर् आहि॑तो जीर्यति संवत्स॒रस्य॑ प॒रस्ता॑द् आग्निपावमा॒नीभि॒र् उप॑ तिष्ठते पुनर्न॒वम् ए॒वैन॑म् अ॒जरं॑ करो॒त्य् अथो॑ पु॒नात्य् ए॑व॒ \
उप॑ तिष्ठते॒ योग॑ ए॒वास्यै॒ष उप॑ तिष्ठते ॥
दम॑ ए॒वास्यै॒ष उप॑ तिष्ठते या॒च्नैवास्यै॒षोप॑ तिष्ठते॒ यथा॒ पापी॑या॒ञ् छ्रेय॑स आ॒हृत्य॑ नम॒स्यति॑ ता॒दृग् ए॒व तत् \
आ॒यु॒र्दा अ॑ग्ने॒ऽस्य् आयु॑र् मे दे॒हीत्य् आ॑हायु॒र्दा ह्य् ए॑ष
व॑र्चो॒दा अ॑ग्नेऽसि॒ वर्चो॑ मे दे॒हीत्य् आ॑ह वर्चो॒दा ह्य् ए॑ष
त॑नू॒पा अ॑ग्नेऽसि त॒नुव॑म् मे पा॒हीत्य् आ॑ह ॥
त॒नू॒पा ह्य् ए॑षस् \
अग्ने॒ यन् मे॑ त॒नुवा॑ ऊ॒नं तन् म॒ आ पृ॒णेत्य् आ॑ह॒ यन् मे॑ प्र॒जायै॑ पशू॒नाम् ऊ॒नं तन् म॒ आ पू॑र॒येति॒ वावैतद् आ॑ह॒
चित्रा॑वसो स्व॒स्ति ते॑ पा॒रम् अ॑शी॒येत्य् आ॑ह॒ रात्रि॒र् वै चि॒त्राव॑सु॒र् अव्यु॑ष्ट्यै॒ वा ए॒तस्यै॑ पु॒रा ब्रा॑ह्म॒णा अ॑भैषु॒र् व्यु॑ष्टिम् ए॒वाव॑ रुन्द्धे॒ \
इन्धा॑नास् त्वा श॒तम् ॥
हिमा॒ इत्य् आ॑ह श॒तायुः॒ पुरु॑षः श॒तेन्द्रि॑य॒ आयु॑ष्य् ए॒वेन्द्रि॒ये प्रति॑ तिष्ठति \
ए॒षा वै सू॒र्मी कर्ण॑कावत्य् ए॒तया॑ ह स्म॒ वै दे॒वा असु॑राणाँ शतत॒र्हाँस् तृँ॑हन्ति॒ यद् ए॒तया॑ स॒मिध॑म् आ॒दधा॑ति॒ वज्र॑म् ए॒वैतच् छ॑त॒घ्नीं यज॑मानो॒ भ्रातृ॑व्याय॒ प्र ह॑रति॒ स्तृत्या॒ अछ॑म्बट्कारम् \
सं त्वम् अ॑ग्ने॒ सूर्य॑स्य॒ वर्च॑सागथा॒ इत्य् आ॑है॒तत् त्वम् अ॑सी॒दम् अ॒हम् भू॑यास॒म् इति॒ वावैतद् आ॑ह॒
त्वम् अ॑ग्ने॒ सूर्य॑वर्चा अ॒सीत्य् आ॑हा॒शिष॑म् ए॒वैताम् आ शा॑स्ते ॥
सम् प॑श्यामि प्र॒जा अ॒हम्
इत्य् आ॑ह॒ याव॑न्त ए॒व ग्रा॒म्याः प॒शव॒स् तान् ए॒वाव॑ रुन्द्धे \
अम्भ॒ स्थाम्भो॑ वो भक्षीय॒ \
इत्य् आ॒हाम्भो॒ ह्य् ए॑तास् \
मह॑ स्थ॒ महो॑ वो भक्षीय॒ \
इत्य् आ॑ह॒ महो॒ ह्य् ए॑ताः
स्सह॑ स्थ॒ सहो॑ वो भक्षीय॒ \
इत्य् आ॑ह शहो॒ ह्य् ए॑तास् \
ऊर्ज॒ स्थोर्जं॑ वो भक्षीय॒ \
इति॑ ॥
आ॒होर्जो॒ ह्य् ए॑तास् \
रेव॑ती॒ रम॑ध्व॒म्
इत्य् आ॑ह प॒शवो॒ वै र॒वतीः॑ प॒शून् ए॒वात्मन् र॑मयते \
इ॒हैव स्ते॒तो माप॑ गात॒ \
इत्य् आ॑ह ध्रु॒वा ए॒वैना॒ अन॑पगाः कुरुते \
इष्टक॒चिद् वा अ॒न्यो॑ऽग्निः प॑शु॒चिद् अ॒न्यः सँ॑हि॒तासि॑ विश्वरू॒पीस् \
इति॑ व॒त्सम् अ॒भि मृ॑श॒त्य् उपै॒वैनं॑ धत्ते पशु॒चित॑म् एनं कुरुते॒
प्र ॥
वा ए॒षो॑ऽस्माल् लो॒काच् च्य॑वते॒ य आ॑हव॒नीय॑म् उप॒तिष्ठ॑ते॒ गार्ह॑पत्य॒म् उप॑ तिष्ठते॒ऽस्मिन्न् ए॑व लो॒के प्रति॑ तिष्ठति॒ \
अथो॒ गार्ह॑पत्यायै॒व नि ह्नु॑ते
गाय॒त्रीभि॒र् उप॑ तिष्ठते॒ तेजो॒ वै गा॑य॒त्री तेज॑ ए॒वात्मन् ध॑त्ते॒ \
अथो॒ यद् ए॒तं तृ॒चम् अ॒न्वाह॒ संत॑त्यै
गार्ह॑पत्यं॒ वा अनु॑ द्वि॒पादो॑ वी॒राः प्र जा॑यन्ते॒
य ए॒वं वि॒द्वान् द्वि॒पदा॑भि॒र् गार्ह॑पत्यम् उप॒तिष्ठ॑ते ॥
आस्य॑ वी॒रो जा॑यते \
ऊ॒र्जा वः॑ पश्याम्य् ऊ॒र्जा मा॑ पश्यत॒ \
इत्य् आ॑हा॒शिष॑म् ए॒वैताम् आ शा॑स्ते॒
तत् स॑वि॒तुर् वरे॑ण्य॒म्
इत्य् आ॑ह॒ प्रसू॑त्यै
सो॒मानँ॒ स्वर॑ण॒म्
इत्य् आ॑ह सोमपी॒थम् ए॒वाव॑ रुन्द्धे
कृणु॒हि ब्र॑ह्मणस् पते॒ \
इत्य् आ॑ह॒ प्रसू॑त्यै
सो॒मानँ॒ स्वर॑ण॒म्
इत्य् आ॑ह सोमपी॒थम् ए॒वाव॑ रुन्द्धे
कृणु॒हि ब्र॑ह्मणस् पते॒ \
इत्य् आ॑ह ब्रह्मवर्च॒सम् ए॒वाव॑ रुन्द्धे
क॒दा च॒न स्त॒रीर् अ॑सि॒ \
इत्य् आ॑ह॒ न स्त॒रीँ रात्रिं॑ वसति ॥
य ए॒वं वि॒द्वान् अ॒ग्निम् उ॑प॒तिष्ठ॑ते॒
परि॑ त्वाग्ने॒ पुरं॑ व॒यम्
इत्य् आ॑ह परि॒धिम् ए॒वैतम् परि॑ ददः॒त्य् अस्क॑न्दाय॒ \
अग्ने॑ गृहपते॒ \
इत्य् आ॑ह यथाय॒जुर् ए॒वैतत् \
श॒तँ हिमा॑स् \
इत्य् आ॑ह
श॒तं त्वा॑ हेम॒न्तान् इ॑न्धिषीय॒ \
इत्य् वावैतद् आ॑ह
पु॒त्रस्य॒ नाम॑ गृह्णात्य् अन्ना॒दम् ए॒वैनं॑ करोति
ताम् आ॒शिष॒म् आ शा॑से॒ तन्त॑वे॒ ज्योति॑ष्मती॒म्
इति॑ ब्रूया॒द् यस्य॑ पु॒त्रोऽजा॑तः स्यात् तेज॒स्व्य् ए॑वास्य॑ ब्रह्मवर्च॒सी पु॒त्रो जा॑यते
ताम् आ॒शिष॒म् आ शा॑से॒ऽमुष्मै॒ ज्योति॑ष्मती॒म्
इति॑ ब्रूया॒द् यस्य॑ पु॒त्रो जा॒तः स्यात्
तेज॑ ए॒वास्मि॑न् ब्रह्मवर्च॒सं द॑धाति ॥
अ॒ग्नि॒हो॒त्रं जु॑होति॒
यद् ए॒व किं च॒ यज॑मानस्य॒ स्वं तस्यै॒व तत् \
रेतः॑ सिञ्चति प्र॒जन॑ने प्र॒जन॑नँ॒ हि वा अ॒ग्निस् \
अथौष॑धी॒र् अन्त॑गता दहति॒ तास् ततो॒ भूय॑सीः॒ प्र जा॑यन्ते॒
यत् सा॒यं जु॒होति॒ रेत॑ ए॒व तत् सि॑ञ्चति॒
प्रैव प्रा॑त॒स्तने॑न जनयति॒ तत् \
रेतः॑ सि॒क्तं न त्वष्ट्रावि॑कृत॒म् प्र जा॑यते॒ याव॒च्छो वै रेत॑सः सि॒क्तस्य॑ ॥
त्वष्टा॑ रू॒पाणि॑ विक॒रोति॑ ताव॒च्छो वै तत् प्र जा॑यत ए॒ष वै दैव्य॒स् त्वष्टा॒ यो यज॑ते ब॒ह्वीभि॒र् उप॑ तिष्ठते॒ रेत॑स एव सि॒क्तस्य॑ बहु॒शो रू॒पाणि॒ वि क॑रोति॒
स प॒रैव जा॑यते॒ श्वःश्वो॒ भूया॑न् भवति॒ य ए॒वं वि॒द्वान् अ॒ग्निम् उ॑प॒तिष्ठ॑ते॒ \
अह॑र् दे॒वाना॒म् आसी॒द् रात्रि॒र् असु॑राणां॒ तेऽसु॑रा॒ यद् दे॒वानां॑ वि॒त्तं वेद्य॒म् आसी॒त् तेन॑ स॒ह ॥
रात्रि॒म् प्रावि॑श॒न्
ते दे॒वा ही॒ना अ॑मन्यन्त॒
ते॑ऽपश्यन् \
आ॒ग्ने॒यी रात्रि॑र् आग्ने॒याः प॒शव॑ इ॒मम् ए॒वाग्निँ स्त॑वाम॒ स न॑ स्तु॒तः प॒शून् पुन॑र् दास्य॒तीति॒
ते॑ऽग्निम् अ॑स्तुव॒न्त् स ए॑भ्य स्तु॒तो रात्रि॑या॒ अध्य् अह॑र् अ॒भि प॒शून् निर् आ॑र्ज॒त् ते दे॒वाः प॒शून् वि॒त्त्वा कामाँ॑ अकुर्वत॒
य ए॒वं वि॒द्वान् अ॒ग्निम् उ॑प॒तिष्ठ॑ते पशु॒मान् भ॑वति ॥
आ॒दि॒त्यो वा अ॒स्माल् लो॒काद् अ॒मुं लो॒कम् ऐ॒त्
सो॑ऽमुं लो॒कं ग॒त्वा पुन॑र् इ॒मं लो॒कम् अ॒भ्य् अ॑ध्याय॒त् स इ॒मं लो॒कम् आ॒गत्य॑ मृ॒त्योर् अ॑बिभेन् मृ॒त्युसं॑युत इव॒ ह्य् अ॑यं लो॒कः
सो॑ऽमन्यते \
अ॒मम् ए॒वाग्निँ स्त॑वानि॒ स मा॑ स्तु॒तः सु॑व॒र्गं लो॒कं ग॑मयिष्य॒तीति॒
सो॑ऽग्निम् अ॑स्तौ॒त् स ए॑नँ स्तु॒तः सु॑व॒र्गं लो॒कम् अ॑गमयत् \
यः ॥
ए॒वं वे॒द्वान् अ॒ग्निम् उ॑प॒तिष्ठ॑ते सुव॒र्गम् ए॒व लो॒कम् ए॑ति॒ सर्व॒म् आयु॑र् एति \
अ॒भि वा ए॒षो॑ऽग्नी आ रो॑हति॒ य ए॑नाव् उप॒तिष्ठ॑ते॒ यथा॒ खलु॒ वै श्रेया॑न् अ॒भ्यारू॑ढः का॒मय॑ते॒ तथा॑ करोति॒
नक्त॒म् उप॑ तिष्ठते॒ न प्रा॒तः सँ हि नक्तं॑ व्र॒तानि॑ सृ॒ज्यन्ते॑ स॒ह श्रेयाँ॑श् च॒ पापी॑याँ॒श् चासा॑ते॒ ज्योति॒र् वा अ॒ग्निस् तमो॒ रात्रि॒र् यत् ॥
नक्त॑म् उप॒तिष्ठ॑ते॒ ज्योति॒षैव तम॑स् तरति \
उप॒स्थेयो॒ऽग्नी3र् { नोप॒स्थेया3 ^ नोप॒स्थेया3स् }
इत्य् आ॑हुर् मनु॒ष्या॑येन् न्वै योऽह॑रहर् आ॒हृत्याथै॑नं॒ याच॑ति॒ स इन् न्वै तम् उ॒पार्छ॑ति॒ \
अथ॒ को दे॒वान् अह॑रहर् याचिष्यति॒ \
इति॒ तस्मा॒न् नोप॒स्थेय॑स् \
अथो॒ खल्व् आ॑हुर् आ॒शिषे॒ वै कं यज॑मानो यजते॒ \
इत्य् ए॒षा खलु॒ वै ॥
आहि॑ताग्नेर् आ॒शीर् यद् अ॒ग्निम् उ॑प॒तिष्ठ॑ते॒ तस्मा॑द् उप॒स्थेयः॑
प्र॒जाप॑तिः प॒शून् अ॑सृजत॒ ते सृ॒ष्टा अ॑होरा॒त्रे प्रावि॑शन्
ताञ् छन्दो॑भि॒र् अन्व् अ॑विन्द॒द् यच् छन्दो॑भिर् उप॒तिष्ठ॑ते॒ स्वम् ए॒व तद् अन्व् इ॑छति॒
न तत्र॑ जा॒म्य् अ॑स्ति॒ \
इत्य् आ॑हु॒र् योऽह॑रहर् उप॒तिष्ठ॑त॒ इति॒
यो वा अ॒ग्निम् प्र॒त्यङ्ङ् उ॑प॒तिष्ठ॑ते॒ प्रत्य् ए॑नम् ओषति॒ यः परा॒ङ् विष्व॑ङ् प्र॒जया॑ प॒शुभि॑र् एति॒
कवा॑तिर्यङ्ङ् इ॒वोप॑ तिष्ठेत॒ नैन॑म् प्र॒त्योष॑ति॒ न विष्व॑ङ् प्र॒जया॑ प॒शुभि॑र् एति ॥
मम॒ नाम॑ प्रथ॒मं जा॑तवेदः पि॒ता मा॒ता च॑ दधतु॒र् यद् अग्रे॑ । तत् त्वम् बि॑भृहि॒ पुन॒र् आ मद् ऐतो॒स् तवा॒हं नाम॑ बिभराण्य् अग्ने ॥
मम॒ नाम॒ तव॑ च जातवेदो॒ वास॑सी इव वि॒वसा॑नौ॒ ये चरा॑वः । आयु॑षे॒ त्वं जी॒वसे॑ व॒यं य॑थाय॒थं वि परि॑ दधावहै॒ पुन॒स् ते ॥
नमो॒ऽग्नयेऽप्र॑तिविद्धाय॒ नमोऽना॑धृष्टाय॒ नमः॑ स॒म्राजे॑ । अषा॑ढः ॥
अ॒ग्निर् बृ॒हद्व॑या विश्व॒जित् सह॑न्त्यः॒ श्रेष्ठो॑ गन्ध॒र्वः ॥
त्वत्पि॑तारो अग्ने दे॒वास् त्वामा॑हुतय॒स् त्वद्वि॑वाचनाः । सम् माम् आयु॑षा॒ सं गौ॑प॒त्येन॒ सुहि॑ते मा धाः ॥
अ॒यम् अ॒ग्निः श्रेष्ठ॑तमो॒ऽयम् भग॑वत्तमो॒ऽयँ स॑हस्र॒सात॑मः । अ॒स्मा अ॑स्तु सु॒वीर्य॑म् ॥
मनो॒ ज्योति॑र् जुषता॒म् आज्यं॒ विछि॑न्नं य॒ज्ञँ सम् इ॒मं द॑धातु । या इ॒ष्टा उ॒षसो॑ नि॒म्रुच॑श् च॒ ताः सं द॑धामि ह॒विषा॑ घृ॒तेन॑ ॥
पय॑स्वती॒र् ओष॑धयः ॥
पय॑स्वद् वी॒रुधा॒म् पयः॑ । अ॒पाम् पय॑सो॒ यत् पय॒स् तेन॒ माम् इ॑न्द्र॒ सँ सृ॑ज ॥
अग्ने॑ व्रतपते व्र॒तं च॑रिष्यामि॒ तच् छ॑केयं॒ तन् मे॑ राध्यताम् ।
अ॒ग्निँ होता॑रम् इ॒ह तँ हु॑वे दे॒वान् य॒ज्ञिया॑न् इ॒ह यान् हवा॑महे ॥ आ य॑न्तु दे॒वाः सु॑मन॒स्यमा॑ना वि॒यन्तु॑ दे॒वा ह॒विषो॑ मे अस्य॒
कस् त्वा॑ युनक्ति॒ स त्वा॑ युनक्तु
यानि॑ घ॒र्मे क॒पाला॑न्य् उपचि॒न्वन्ति॑ ॥
वे॒धसः॑ । पू॒ष्णस् तान्य् अपि॑ व्र॒त इ॑न्द्रवा॒यू वि मु॑ञ्चताम् ॥
अभि॑न्नो घ॒र्मो जी॒रदा॑नु॒र् यत॒ आत्त॒स् तद् अ॑ग॒न् पुनः॑ । इ॒ध्मो वेदिः॑ परि॒धय॑श् श॒ सर्वे॑ य॒ज्ञस्यायु॒र् अनु॒ सं च॑रन्ति ॥
त्रय॑स्त्रिँश॒त् तन्त॑वो॒ ये वि॑तत्नि॒रे य इ॒मं य॒ज्ञँ स्व॒धया॒ दद॑न्ते॒ तेषां॑ छि॒न्नम् प्रत्य् ए॒तद् द॑धामि॒ स्वाहा॑ घ॒र्मो दे॒वाँ अप्य् ए॑तु ॥
वै॒श्वा॒न॒रो न॑ ऊ॒त्या प्र या॑तु परा॒ वतः॑ । अ॒ग्निर् उ॒क्थेन॒ वाह॑सा ॥
ऋ॒तावा॑नं वैश्वान॒रम् ऋ॒तस्य॒ ज्योति॑ष॒स् पति॑म् । अज॑स्रं घ॒र्मम् ई॑महे ॥
वै॒श्वा॒न॒रस्य॑ दँ॒सना॑भ्यो बृ॒हद् अरि॑णा॒द् एकः॑ स्वप॒स्य॑या क॒विः । उ॒भा पि॒तरा॑ म॒हय॑न्न् अजायता॒ग्निर् द्यावा॑पृथि॒वी भूरि॑रेतसा ॥
पृ॒ष्टो दि॒वि पृ॒ष्टो अ॒ग्निः पृ॑थि॒व्याम् पृ॒ष्टो विश्वा॒ ओष॑धी॒र् आ वि॑वेश । वै॒श्वा॒न॒रः सह॑सा पृ॒ष्टो अ॒ग्निः स नो॒ दिवा॒ सः ॥
रि॒षः पा॑तु॒ नक्त॑म् ।
जा॒तो यद् अ॑ग्ने॒ भुव॑ना॒ व्यख्यः॑ प॒शुं न गो॒पा इर्यः॒ परि॑ज्मा । वैश्वा॑नर॒ ब्रह्म॑णे विन्द गा॒तुं यू॒यम् पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥
त्वम् अ॑ग्ने शो॒चिषा॒ शोशु॑चान॒ आ रोद॑सी अपृणा॒ जाय॑मानः । त्वम् दे॒वाँ अ॒भिश॑स्तेर् अमुञ्चो॒ वैश्वा॑नर जातवेदो महि॒त्वा ॥
अ॒स्माक॑म् अग्ने म॒घव॑त्सु धार॒याना॑मि क्ष॒त्रम् अ॒जरँ॑ सु॒वीर्य॑म् । व॒यं ज॑येम श॒तिनँ॑ सह॒सृणं॒ वैश्वा॑नर ॥
वाज॑म् अग्ने॒ तवो॒ऽतिभिः॑ ॥
वै॒श्वा॒न॒रस्य॑ सुम॒तौ स्या॑म॒ राजा॒ हिक॒म् भुव॑नानाम् अभि॒श्रीः । इ॒तो जा॒तो वि॑श्वम् इ॒दं वि च॑ष्टे वैश्वान॒रो य॑तते॒ सूर्ये॑ण ॥
अव॑ ते॒ हेडो॑ वरुण॒ नमो॑भि॒र् अव॑ य॒ज्ञेभि॑र् ईमहे ह॒विर्भिः॑ । क्षय॑न्न् अ॒स्मभ्य॑म् असुर प्रचेतो॒ राज॒न्न् एनाँ॑सि सिश्रथः कृ॒तानि॑ ॥
उद् उ॑त्त॒मं व॑रुण॒ पाश॑म् अ॒स्मद् अवा॑ध॒मं वि म॑ध्य॒मँ श्र॑थाय । अथा॑ व॒यम् आ॑दित्य ॥
व्र॒ते तवाना॑गसो॒ अदि॑तये स्याम ॥
द॒धि॒क्राव्णो॑ अकारिषं जि॒ष्णोर् अश्व॑स्य वा॒जिनः॑ । सु॒र॒भि नो॒ मुखा॑ कर॒त् प्र ण॒ आयूँ॑षि तारिषत् ॥
आ द॑धि॒क्राः शवा॑सा॒ पञ्च॑ कृ॒ष्टीः सूर्य॑ इव॒ ज्योति॑षा॒पस् त॑तान । स॒ह॒स्र॒साः श॑त॒सा वा॒ज्य् अर्वा॑ पृ॒णक्तु॒ वध्वा॒ सम् इ॒मा वचाँ॑सि ॥
अ॒ग्निर् मू॒र्धा
भुवः॑ ।
मरु॑तो॒ यद् ध॑ वो दि॒वः सु॑म्ना॒यन्तो॒ हवा॒महे॑ । आ तू नः॑ ॥
उप॑ गन्तन ॥
या वः॑ शर्म शशमा॒नाय॒ सन्ति॑ त्रि॒धातू॑नि दा॒शुषे॑ यछ॒ताधि॑ । अ॒स्मभ्यं॒ तानि॑ मरुतो॒ वि य॑न्त र॒यिं नो॑ धत्त वृषणः सु॒वीर॒म्
अदि॑तिर् न उरुष्य॒त्व् अदि॑तिः॒ शर्म॑ यछतु । अदि॑तिः पा॒त्व् अँह॑सः ॥
म॒हीम् ऊ॒ षु मा॒तरँ॑ सुव्र॒ताना॑म् ऋ॒तस्य॒ पत्नी॒म् अव॑से हुवेम । तु॒वि॒क्ष॒त्राम् अ॒जर॑न्तीम् उरू॒चीँ सु॒शर्मा॑ण॒म् अदि॑तिँ सु॒प्रणी॑तिम् ॥
सु॒त्रामा॑णम् पृथि॒वीं द्याम् अ॑ने॒हसँ॑ सु॒शर्मा॑ण॒म् अदि॑तिँ सु॒प्रणी॑तिम् । दैवीं॒ नावँ॑ स्वरि॒त्राम् अना॑गस॒म् अस्र॑वन्ती॒म् आ रु॑हेमा स्व॒स्तये॑ ॥
इ॒माँ सु नाव॒म् आरु॑हँ श॒तारि॒त्राँ श॒तस्फ्या॑म् । अछि॑द्राम् पारयि॒ष्णुम् ॥