आ द॑दे॒ ग्रावा॑स्य् अध्वर॒कृद् दे॒वेभ्यो॑ गम्भी॒रम् इ॒मम् अ॑ध्व॒रं कृ॑ध्य् उत्त॒मेन॑ प॒विने॑न्द्राय॒ सोमँ॒ सुषु॑त॒म् मधु॑मन्त॒म् पय॑स्वन्तं वृष्टि॒वनि॒म्
इन्द्रा॑य त्वा वृत्र॒घ्न इन्द्रा॑य त्वा वृत्र॒तुर॒ इन्द्रा॑य त्वाभिमाति॒घ्न इन्द्रा॑य त्वादित्य॒वत॒ इन्द्रा॑य त्वा वि॒श्वदे॑व्यावते
श्वा॒त्रा स्थ॑ वृत्र॒तुरो॒ राधो॑गूर्ता अ॒मृत॑स्य॒ पत्नी॒स् ता दे॑वीर् देव॒त्रेमं य॒ज्ञं ध॒त्तोप॑हूताः॒ सोम॑स्य पिब॒तोप॑हूतो यु॒ष्माक॑म् ॥
सोमः॑ पिबतु॒
यत् ते॑ सोम दि॒वि ज्योति॒र् यत् पृ॑थि॒व्यां यद् उ॒राव् अ॒न्तरि॑क्षे॒ तेना॒स्मै यज॑मानायो॒रु रा॒या कृ॒ध्य् अधि॑ दा॒त्रे वो॑चस् \
धिष॑णे वी॒डू स॒ती वी॑डयेथा॒म् ऊर्जं॑ दधाथा॒म् ऊर्ज॑म् मे धत्त॒म्, मा वाँ॑ हिँसिष॒म् मा मा॑ हिँसिष्टम्
प्राग् अपा॒ग् उद॑ग् अध॒राक् तास् त्वा॒ दिश॒ आ धा॑व॒न्त्व् अम्ब॒ नि ष्व॑र॒
यत् ते॑ सो॒मादा॑भ्यं॒ नाम॒ जागृ॑वि॒ तस्मै॑ ते सोम॒ सोमा॑य॒ स्वाहा॑ ॥
वा॒चस् पत॑ये पवस्व वाजि॒न् वृषा॒ वृष्णो॑ अँ॒शुभ्यां॒ गभ॑स्तिपूतो दे॒वो दे॒वाना॑म् प॒वित्र॑म् असि॒ येषां॑ भा॒गोऽसि॒ तेभ्य॑स् त्वा
स्वांकृ॑तोऽसि॒ मधु॑मतीर् न॒ इष॑स् कृधि॒ विश्वे॑भ्यस् त्वेन्द्रि॒येभ्यो॑ दि॒व्येभ्यः॒ पार्थि॑वेभ्यस् \
मन॑स् त्वाष्टु \
उ॒र्व् अ॑न्तरि॑क्ष॒म् अन्व् इ॑हि
स्वाहा॑ त्वा सुभवः॒ सूर्या॑य
दे॒वेभ्य॑स् त्वा मरीचि॒पेभ्य॑स् \
ए॒ष ते॒ योनिः॑ प्रा॒णाय॑ त्वा ॥
उ॒प॒या॒मगृ॑हीतोऽसि \
अ॒न्तर् य॑छ मघवन् पा॒हि सोम॑म् उरु॒ष्य रायः॒ सम् इषो॑ यजस्वा॒न्तस् ते॑ दधामि॒ द्यावा॑पृथि॒वी अ॒न्तर् उ॒र्व् अ॑न्तरि॑क्षँ स॒जोषा॑ दे॒वैर् अव॑रैः॒ परै॑श् चान्तर्या॒मे म॑घवन् मादयस्व
स्वांकृ॑तोऽसि॒ मधु॑मतीर् न॒ इष॑स् कृधि॒ विश्वे॑भ्यस् त्वेन्द्रि॒येभ्यो॑ {F दि॒व्येभ्यः॑} {W दि॒व्येभ्याः॑} {अस्स् दि॒व्येभ्यः॑} {बि दि॒व्येभ्यः॑} {गोल्स् दि॒व्येभ्यः॒} पार्थि॑वेभ्यस् \
मन॑स् त्वाष्टु \
उ॒र्व् अ॑न्तरि॑क्ष॒म् अन्व् इ॑हि
स्वाहा॑ त्वा सुभवः॒ सूर्या॑य
दे॒वेभ्य॑स् त्वा मरीचि॒पेभ्य॑स् \
ए॒ष ते॒ योनि॑र् अपा॒नाय॑ त्वा ॥
आ वा॑यो भूष शुचिपा॒ उप॑ नः स॒हस्रं॑ ते नि॒युतो॑ विश्ववार । उपो॑ ते॒ अन्धो॒ मद्य॑म् अयामि॒ यस्य॑ देव दधि॒षे पू॑र्व॒पेय॑म् ॥
उ॒प॒या॒मगृ॑हीतोऽसि वा॒यवे॑ त्वा॒ \
इन्द्र॑वायू इ॒मे सु॒ताः । उप॒ प्रयो॑भि॒र् आ ग॑त॒म् इन्द॑वो वाम् उ॒शन्ति॒ हि ।
उ॒प॒या॒मगृ॑हीतोऽसीन्द्रवा॒युभ्यां॑ त्वै॒ष ते॒ योनिः॑ स॒जोषा॑भ्यां त्वा ॥
अ॒यं वां॑ मित्रावरुणा सु॒तः सोम॑ ऋतावृधा । ममे॑द् इ॒ह श्रु॑तँ॒ हव॑म् ॥
उ॒प॒या॒मगृ॑हीतोऽसि मि॒त्रावरु॑णाब्यां त्वै॒ष ते॒ योनि॑र् ऋता॒युभ्यां॑ त्वा ॥
या वां॒ कशा॒ मधु॑म॒त्य् अश्वि॑ना सू॒नृता॑वती । तया॑ य॒ज्ञम् मि॑मिक्षतम् ॥
उ॒प॒या॒मगृ॑हीतोऽस्य् अ॒श्विभ्यां॑ त्वै॒ष ते॒ योनि॒र् माध्वी॑भ्यां त्वा ॥
प्रा॒त॒र्युजौ॒ वि मु॑च्येथा॒म् अश्वि॑ना॒व् एह ग॑छतम् । अ॒स्य सोम॑स्य पी॒तये॑ ॥
उ॒प॒या॒मगृ॑हीतोऽस्य् अ॒श्विभ्यां॑ त्वै॒ष ते॒ योनि॑र् अ॒श्विभ्यां॑ त्वा ॥
अ॒यं वे॒नश् चो॑दय॒त् पृश्नि॑गर्भा॒ ज्योति॑र्जरायू॒ रज॑सो वि॒माने॑ । इ॒मम् अ॒पाँ सं॑ग॒मे सूर्य॑स्य॒ शिशुं॒ न विप्रा॑ म॒तिभी॑ रिहन्ति ॥
उ॒प॒या॒मगृ॑हीतोऽसि॒ शण्डा॑य त्वै॒ष ते॒ योनि॑र् वी॒रता॑म् पाहि ॥
तम् प्र॒त्नथा॑ पू॒र्वथा॑ वि॒श्वथे॒मथा॑ ज्ये॒ष्ठता॑तिम् बर्हि॒षदँ॑ सुव॒र्विद॑म् । प्र॒ती॒ची॒नं वृ॒जनं॑ दोहसे गि॒राशुं जय॑न्त॒म् अनु॒ यासु॒ वर्ध॑से ॥
उ॒प॒या॒मगृ॑थीतोऽसि॒ मर्का॑य त्वै॒ष ते॒ योनिः॑ प्र॒जाः पा॑हि ॥
ये दे॑वा दि॒व्य् एका॑दश॒ स्थ पृ॑थि॒व्याम् अध्य् एका॑दश॒ स्थाप्सु॒षदो॑ महि॒नैका॑दश॒ स्थ ते दे॑वा य॒ज्ञम् इ॒मं जु॑षध्वम् ।
उ॒प॒या॒म॒गृ॒ही॒तो॒ऽस्य् आ॒ग्र॒य॒णो॑ऽसि॒ स्वा॑ग्रयणो॒ जिन्व॑ य॒ज्ञं जिन्व॑ य॒ज्ञप॑तिम् अ॒भि सव॑ना पाहि॒ विष्णु॒स् त्वाम् पा॑तु॒ विश॒म् त्वम् पा॑हीन्द्रि॒येणै॒ष ते॒ योनि॒र् विश्वे॑भ्यस् त्वा दे॒वेभ्यः॑ ॥
त्रिँ॒शत् त्रय॑श् च ग॒णिनो॑ रु॒जन्तो॒ दिवँ॑ रु॒द्राः पृ॑थि॒वीं च॑ सचन्ते । ए॒का॒द॒शासो॑ अप्सु॒षदः॑ सु॒तँ सोमं॑ जुषन्ताँ॒ सव॑नाय॒ विश्वे॑ ॥
उ॒प॒या॒मगृ॑हीतोऽस्य् आग्रय॒णो॑ऽसि॒ स्वा॑ग्रयणो॒ जिन्व॑ य॒ज्ञं जिन्व॑ य॒ज्ञप॑तिम् अ॒भि सव॑ना पाहि॒ विष्णु॑स् त्वाम् पातु॒ विशं॒ त्वं पा॑हीन्द्रि॒येणै॒ष ते॒ योनि॒र् विश्वे॑भ्यस् त्वा दे॒वेभ्यः॑ ॥
उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा बृ॒हद्व॑ते॒ वय॑स्वत उक्था॒युवे॒ यत् त॑ इन्द्र बृ॒हद् वय॒स् तस्मै॑ त्वा॒ विष्ण॑वे त्वै॒ष ते॒ योनि॒र् इन्द्रा॑य त्वोक्था॒युवे॑ ॥
मू॒र्धानं॑ दि॒वो अ॑र॒तिम् पृ॑थि॒व्या वै॑श्वान॒रम् ऋ॒ताय॑ जा॒तम् अ॒ग्निम् । क॒विँ स॒म्राज॒म् अति॑थिं॒ जना॑नाम् आ॒सन्न् आ पात्रं॑ जनयन्त दे॒वाः ॥
उ॒प॒या॒मगृ॑हीतोऽस्य् अ॒ग्नये॑ त्वा वैश्वान॒राय॑ ध्रु॒वो॑ऽसि ध्रु॒वक्षि॑तिर् ध्रु॒वाणां॑ ध्रु॒वत॒मोऽच्यु॑तानाम् अच्युत॒क्षित्त॑म ए॒ष ते॒ योनि॑र् अ॒ग्नये॑ त्वा वैश्वान॒राय॑ ॥
मधु॑श् च॒ माध॑वश् च शु॒क्रश् च॒ शुचि॑श् च॒ नभ॑श् च नभ॒स्य॑श् चे॒षश् चो॒र्जश् च॒ सह॑श् च सह॒स्य॑श् च॒ तप॑श् च तप॒स्य॑श् च \
उपया॒मगृ॑हीतोऽसि
सँ॒सर्पो॑ऽसि \
अँहस्प॒त्याय॑ त्वा ॥
इन्द्रा॑ग्नी॒ आ ग॑तँ सु॒तं गी॒र्भिर् नभो॒ वरे॑ण्यम् अ॒स्य पा॑तं धि॒येषि॒ता ॥
उ॒प॒या॒मगृ॑हीतोऽसीन्द्रा॒ग्निभ्यां॑ त्वै॒ष ते॒ योनि॑र् इन्द्रा॒ग्निभ्यां॑ त्वा ॥
ओमा॑सश् चर्षणीधृतो॒ विश्वे॑ देवास॒ आ ग॑त । दा॒श्वाँसो॑ दा॒शुषः॑ सु॒तम् ॥
उ॒प॒या॒मगृ॑हीतोऽसि॒ विश्वे॑भ्यस् त्वा दे॒वेभ्य॑ ए॒ष ते॒ योनि॒र् विश्वे॑भ्यस् त्वा दे॒वेभ्यः॑ ॥
म॒रुत्व॑न्तं वृष॒भं वा॑वृधा॒नम् अक॑वारिं दि॒व्यँ शा॒सम् इन्द्र॑म् । वि॒श्वा॒साह॒म् अव॑से॒ नूत॑नायो॒ऽग्रँ स॑हो॒दाम् इ॒ह तँ हु॑वेम ॥
उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा म॒रुत्व॑त ए॒ष ते॒ योनि॒र् इन्द्रा॑य त्वा म॒रुत्व॑ते ॥
इन्द्र॑ मरुत्व इ॒ह पा॑हि॒ सोमं॒ यथा॑ शार्या॒ते अपि॑बः सु॒तस्य॑ । तव॒ प्रणी॑ती॒ तव॑ शूर॒ शर्म॒न्न् आ वि॑वासन्ति क॒वयः॑ सुय॒ज्ञाः ॥
उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा म॒रुत्व॑त ए॒ष ते॒ योनि॒र् इन्द्रा॑य त्वा॒ म्रुत्व॑ते ॥
म॒रुत्वाँ॑ इन्द्र वृष॒भो रणा॑य॒ पिबा॒ सोम॑म् अनुष्व॒धम् मदा॑य । आ सि॑ञ्चस्व ज॒ठरे॒ मध्व॑ ऊ॒र्मिं त्वँ राजा॑सि प्र॒दिवः॑ सु॒ताना॑म् ॥
उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा म॒रुत्व॑त ए॒ष ते॒ योनि॒र् इन्द्रा॑य त्वा म॒रुत्व॑ते ॥
म॒हाँ इन्द्रो॒ य ओज॑सा प॒र्जन्यो॑ वृष्टि॒माँ इ॑व । स्तोमै॑र् व॒त्सस्य॑ वावृधे ॥
उ॒प॒या॒मगृ॑हीतोऽसि महे॒न्द्राय॑ त्वै॒ष ते॒ योनि॑र् महे॒न्द्राय॑ त्वा ॥
म॒हाँ इन्द्रो॑ नृ॒वद् आ च॑र्षणि॒प्रा उ॒त द्वि॒बर्हा॑ अमि॒नः सहो॑भिः । अ॒स्म॒द्रिय॑ग् वावृधे वी॒र्या॑यो॒ऽरुः पृ॒थुः सुकृ॑तः क॒र्तृभि॑र् भूत् ॥
उ॒प॒या॒म गृ॒हीतो॑ऽसि महे॒न्द्राय॑ त्वै॒ष ते॒ योनि॑र् महे॒न्द्राय॑ त्वा ॥
क॒दा च॒न स्त॒रीर् अ॑सि॒ नेन्द्र॑ सश्चसि दा॒शुषे॑ । उपो॒पेन् नु म॑घव॒न् भूय॒ इन् नु ते॒ दानं॑ दे॒वस्य॑ पृच्यते ॥
उ॒प॒या॒मगृ॑हीतोऽस्य् आदि॒त्येभ्य॑स् त्वा
क॒दा च॒न प्र यु॑छस्य् उ॒भे नि पा॑सि॒ जन्म॑नी । तुरी॑यादित्य॒ सव॑नं त इन्द्रि॒यम् आ त॑स्थाव् अ॒मृतं॑ दि॒वि ॥
य॒ज्ञो दे॒वाना॒म् प्रत्य् ए॑ति सु॒म्नं आदि॑त्यासो॒ भव॑ता मृ॒डय॑न्तः । आ वो॒ऽर्वाची॑ सुम॒तिर् व॑वृत्याद् अँ॒होश् चि॒द् या व॑रिवो॒वित्त॒रास॑त् ॥
विव॑स्व आदित्यै॒ष ते॑ सोमपी॒थस् तेन॑ मन्दस्व॒ तेन॑ तृप्य तृ॒प्यास्म॑ ते व॒यं त॑र्पयि॒तारो॒ या दि॒व्या वृष्टि॒स् तया॑ त्वा श्रीणामि ॥
वा॒मम् अ॒द्य स॑वितर् वा॒मम् उ॒ श्वो दि॒वेदि॑वे वा॒मम् अ॒स्मभ्यँ॑ सावीः । वा॒मस्य॒ हि क्षय॑स्य देव॒ भूरे॑र् अ॒या धि॒या वा॑म॒भाजः॑ स्याम ॥
उ॒प॒या॒मगृ॑हीतोऽसि दे॒वाय॑ त्वा सवि॒त्रे ॥
अद॑ब्धेभिः सवितः पा॒युभि॒ष् ट्वँ शि॒वेभि॑र् अ॒द्य परि॑ पाहि नो॒ गय॑म् । हिर॑ण्य॒जिह्वः॑ सुवि॒ताय॒ नव्य॑से॒ रक्षा॒ माकि॑र् नो अ॒घशँ॑स ईशत ॥
उ॒प॒या॒मगृ॑हीतोऽसि दे॒वाय॑ त्वा सवि॒त्रे ॥
हिर॑ण्यपाणिम् ऊ॒तये॑ सवि॒तार॒म् उप॑ ह्वये । स चेत्ता॑ दे॒वता॑ प॒दम् ॥
उ॒प॒या॒मगृ॑हीतोऽसि दे॒वाय॑ त्वा सवि॒त्रे ॥
सु॒शर्मा॑सि सुप्रतिष्ठा॒नस् \
बृ॒हद् उ॒क्षे नम॑स् \
ए॒ष ते॒ योनि॒र् विश्वे॑भ्यस् त्वा दे॒वेभ्यः॑ ॥
बृह॒स्पति॑सुतस्य त इन्दो इन्द्रि॒याव॑तः॒ पत्नी॑वन्तं॒ ग्रहं॑ गृह्णामि॒ \
अग्ना3इ॒ पत्नी॒वा3ः स॒जूर् दे॒वेन॒ त्वष्ट्रा॒ सोम॑म् पिब॒ स्वाहा॑ ॥
हरि॑र् असि हारियोज॒नो हर्यो॑ स्था॒ता वज्र॑स्य भ॒र्ता पृश्नेः॑ प्रे॒ता तस्य॑ ते देव सोमे॒ष्टय॑जुष स्तु॒तस्तो॑मस्य श॒स्तोक्थ॑स्य॒ हरि॑वन्तं॒ ग्रहं॑ गृह्णामि
ह॒री स्थ॒ हर्यो॑र् धा॒नाः स॒हसो॑मास् \
इन्द्रा॑य॒ स्वाहा॑ ॥
अग्न॒ आयूँ॑षि पवस॒ आ सु॒वोर्ज॒म् इषं॑ च नः । आ॒रे बा॑धस्व दु॒छुना॑म्
उपया॒मगृ॑हीतोऽस्य् अ॒ग्नये॑ त्वा॒ तेज॑स्वत ए॒ष ते॒ योनि॑र् अ॒ग्नये॑ त्वा॒ तेज॑स्वते ॥
उ॒त्तिष्ठ॒न्न् ओज॑सा स॒ह पी॒त्वा शिप्रे॑ अवेपयः । सोम॑म् इन्द्र च॒मू सु॒तम् ॥
उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य॒ त्वौज॑स्वत ए॒ष ते॒ योनि॒र् इन्द्रा॑य॒ त्वौज॑स्वते ॥
त॒रणि॑र् वि॒श्वद॑र्शतो ज्योति॒ष्कृद् अ॑सि सूर्य । विश्व॒म् आ भा॑सि रोच॒नम् ॥
उ॒प॒या॒मगृ॑हीतोऽसि॒ सूर्या॑य त्वा॒ भ्राज॑स्वत ए॒ष ते॒ योनिः॒ सूर्या॑य त्वा॒ भ्राज॑स्वते ॥
आ प्या॑यस्व मदिन्तम॒ सोम॒ विश्वा॑भिर् ऊ॒तिभिः॑ । भवा॑ नः स॒प्रथ॑स्तमः ॥
ई॒युष् टे ये पूर्व॑तरा॒म् अप॑श्यन् व्यु॒छन्ती॑म् उ॒षस॒म् मर्त्या॑सः । अ॒स्माभि॑र् ऊ॒ नु प्र॑ति॒चक्ष्या॑भू॒द् ओ ते य॑न्ति॒ ये अ॑प॒रीषु॒ पश्या॑न् ॥
ज्योति॑ष्मतीं त्वा सादयामि
ज्योति॒ष्कृतं॑ त्वा सादयामि
ज्योति॒र्विदं॑ त्वा सादयामि
भास्व॑तीं त्वा सादयामि॒
ज्वल॑न्तीं त्वा सादयामि
मल्मला॒भव॑न्तीं त्वा सादयामि
दीप्य॑मानां त्वा सादयामि॒
रोच॑मानां त्वा सादयामि॒
अज॑स्रां त्वा सादयामि
बृ॒हज्ज्यो॑तिषं त्वा सादयामि
बो॒धय॑न्तीं त्वा सादयामि
जाग्र॑तीं त्वा सादयामि ॥
प्र॒या॒साय॒ स्वाहा॑या॒साय॒ स्वाहा॑ विया॒साय॒ स्वाहा॑ संया॒साय॒ स्वाहो॑द्या॒साय॒ स्वाहा॑वया॒साय॒ स्वाहा॑ शु॒चे स्वाहा॒ शोका॑य॒ स्वाहा॑ तप्य॒त्वै स्वाहा॒ तप॑ते॒ स्वाहा॑ ब्रह्मह॒त्यायै॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा॑ ॥
चि॒त्तँ सं॑ता॒नेन॑ भ॒वं य॒क्ना रु॒द्रं तनि॑म्ना पशु॒पतिँ॑ स्थूलहृद॒येना॒ग्निँ हृद॑येन रु॒द्रं लोहि॑तेन श॒र्वम् मत॑स्नाभ्याम् महादे॒वम् अ॒न्तःपा॑र्श्वेनौषिष्ठ॒हनँ॑ शिङ्गीनिको॒श्या॑भ्याम् ॥
आ ति॑ष्ठ वृत्रह॒न् रथं॑ यु॒क्ता ते॒ ब्रह्म॑णा॒ हरी॑ । अ॒र्वाचीनँ॒ सु ते॒ मनो॒ ग्रावा॑ कृणोतु व॒ग्नुना॑ ॥
उ॒प॒या॒मगृ॑थीतो॒ऽसीन्द्रा॑य त्वा षोड॒शिन॑ ए॒ष ते॒ योनि॒र् इन्द्रा॑य त्वा षोड॒शिने॑ ॥
इन्द्र॒म् इद् धरी॑ वह॒तोऽप्र॑तिधृष्टशवस॒म् ऋषी॑णां च स्तु॒तीर् उप॑ य॒ज्ञं च॒ मानु॑षाणाम्
उपया॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा षोड॒शिन॑ ए॒ष ते॒ योनि॒र् इन्द्रा॑य त्वा षोड॒शिने॑ ॥
असा॑वि॒ सोम॑ इन्द्र ते॒ शवि॑ष्ठ धृष्ण॒व् आ ग॑हि । आ त्वा॑ पृणक्त्व् इन्द्रि॒यँ रजः॒ सूर्यं॒ न र॒श्मिभिः॑ ॥
उ॒प॒या॒मगृ॑थीतो॒ऽसीन्द्रा॑य त्वा षोडशिन ए॒ष ते॒ योनि॒र् इन्द्रा॑य त्वा षोड॒शिने॑ ॥
सर्व॑स्य प्रति॒शीव॑री॒ भूमि॑स् त्वो॒पस्थ॒ आधि॑त । स्यो॒नास्मै॑ सु॒षदा॑ भव॒ यछा॑स्मै॒ शर्म॑ स॒प्रथाः॑ ॥
उ॒प॒या॒मगृ॑थीतो॒ऽसीन्द्रा॑य त्वा षोडशिन ए॒ष ते॒ योनि॒र् इन्द्रा॑य त्वा षोड॒शिने॑ ॥
म॒हाँ इन्द्रो॒ वज्र॑बाहुः षोड॒शी शर्म॑ यछतु । स्व॒स्ति नो॑ म॒घवा॑ करोतु॒ हन्तु॑ पा॒प्मानं॒ यो॑ऽस्मान् द्वेष्टि॑ ॥
उ॒प॒या॒मगृ॑थीतो॒ऽसीन्द्रा॑य त्वा षोडशिन ए॒ष ते॒ योनि॒र् इन्द्रा॑य त्वा षोड॒शिने॑ ॥
स॒जोषा॒ इन्द्रः॒ सग॑णो म॒रुद्भिः॒ सोम॑म् पिब वृत्रहञ् छूर वि॒द्वान् । ज॒हि शत्रूँ॒र् अप॒ मृधो॑ नुद॒स्वाथाभ॑यं कृणुहि वि॒श्वतो॑ नः ॥
उ॒प॒या॒मगृ॑थीतो॒ऽसीन्द्रा॑य त्वा षोडशिन ए॒ष ते॒ योनि॒र् इन्द्रा॑य त्वा षोड॒शिने॑ ॥
उद् उ॒ त्यं जा॒तवे॑दसं दे॒वं व॑हन्ति के॒तवः॑ । दृ॒शे विश्वा॑य॒ सूर्य॑म् ॥
चि॒त्रं दे॒वाना॒म् उद् अ॑गा॒द् अनी॑कं॒ चक्षु॑र् मि॒त्रस्य॒ वरु॑णस्या॒ग्नेः । आप्रा॒ द्यावा॑पृथि॒वी अ॒न्तरि॑क्षँ॒ सूर्य॑ आ॒त्मा जग॑तस् त॒स्थुष॑श् च ॥
अग्ने॒ नय॑ सु॒पथा॑ रा॒ये अ॒स्मान् विश्वा॑नि देव व॒युना॑नि वि॒द्वान् । यु॒यो॒ध्य् अ॑स्मज् जु॑हुरा॒णम् एनो॒ भूयि॑ष्ठां ते॒ नमौ॑क्तिं विधेम ॥
दिवं॑ गछ॒ सुवः॑ पत
रू॒पेण॑ ॥
वो॒ रू॒पम् अ॒भ्य् ऐमि॒ वय॑सा॒ वयः॑ ।
तु॒थो वो॑ वि॒श्ववे॑दा॒ वि भ॑जतु॒ वर्षि॑ष्ठे॒ अधि॒ नाके॑ ।
ए॒तत् ते॑ अग्ने॒ राध॒ ऐति॒ सोम॑च्युतम् \
तन् मि॒त्रस्य॑ प॒था न॑य \
ऋ॒तस्य॑ प॒था प्रेत॑ च॒न्द्रद॑क्षिणा य॒ज्ञस्य॑ प॒था सु॑वि॒ता नय॑न्तीस् \
ब्रा॒ह्म॒णम् अ॒द्य रा॑ध्यास॒म् ऋषि॑म् आर्षे॒यम् पि॑तृ॒मन्त॑म् पैतृम॒त्यँ सु॒धातु॑दक्षिणम् \
वि सुवः॒ पश्य॒ व्य् अ॑न्तरि॑क्षम् \
यत॑स्व सद॒स्यै॑स् \
अ॒स्मद्दा॑त्रा दे॒वत्रा॑ गछत॒ मधु॑मतीः प्रदा॒तार॒म् आ वि॑श॒तान॑वहाया॒स्मान् दे॑व॒याने॑न प॒थेत॑ सु॒कृतां॑ लो॒के सी॑दत॒
तन् नः॑ सँस्कृ॒तम् ॥
धा॒ता रा॒तिः स॑वि॒तेदं जु॑षन्ताम् प्र॒जाप॑तिर् निधि॒पति॑र् नो अ॒ग्निः । त्वष्टा॒ विष्णुः॑ प्र॒जया॑ सँररा॒णो यज॑मानाय॒ द्रवि॑णं दधातु ॥
सम् इ॑न्द्र णो॒ मन॑सा नेषि॒ गोभिः॒ सँ सू॒रिभि॑र् मघव॒न्त् सँ स्व॒स्त्या । सम् ब्रह्म॑णा दे॒वकृ॑तं॒ यद् अस्ति॒ सं दे॒वानाँ॑ सुम॒त्या य॒ज्ञिया॑नाम् ॥
सं वर्च॑सा॒ पय॑सा॒ सं त॒नूभि॒र् अग॑न्महि॒ मन॑सा॒ सँ शि॒वेन॑ । त्वष्टा॑ नो॒ अत्र॒ वरि॑वः कृणोतु ॥
अनु॑ मार्ष्टु त॒नुवो॒ यद् विलि॑ष्टम् ॥
यद् अ॒द्य त्वा॑ प्रय॒ति य॒ज्ञे अ॒स्मिन्न् अग्ने॒ होता॑र॒म् अवृ॑णीमही॒ह । ऋध॑ग् अया॒ड् ऋध॑ग् उ॒ताश॑मिष्ठाः प्रजा॒नन् य॒ज्ञम् उप॑ याहि वि॒द्वान् ॥
स्व॒गा वो॑ देवाः॒ सद॑नम् अकर्म॒ य आ॑ज॒ग्म सव॑ने॒दं जु॑षा॒णाः । ज॒क्षि॒वाँसः॑ पपि॒वाँस॑श् च॒ विश्वे॒ऽस्मे ध॑त्त वसवो॒ वसू॑नि ॥
यान् आव॑ह उश॒तो दे॑व दे॒वान् तान् ॥
प्रेर॑य॒ स्वे अ॑ग्ने स॒धस्थे॑ । वह॑माना॒ भर॑माणा ह॒वीँषि॒ वसुं॑ घ॒र्मं दिव॒म् आ ति॑ष्ठ॒तानु॑ ॥
यज्ञ॑ य॒ज्ञं ग॑छ य॒ज्ञप॑तिं गछ॒ स्वां योनिं॑ गछ॒ स्वाहा॑ \
ए॒ष ते॑ य॒ज्ञो य॑ज्ञपते स॒हसू॑क्तवाकः सु॒वीरः॒ स्वाहा॒
देवा॑ गातुविदो गा॒तुं वि॒त्त्वा गा॒तुम् इ॑त॒
मन॑सस् पत इ॒मं नो॑ देव दे॒वेषु॑ य॒ज्ञँ स्वाहा॑ वा॒चि स्वाहा॒ वाते॑ धाः ॥
उ॒रुँ हि राजा॒ वरु॑णश् च॒कार॒ सूर्या॑य॒ पन्था॒म् अन्वे॑त॒वा उ॑ । अ॒पदे॒ पादा॒ प्रति॑धातवेऽकर् उ॒ताप॑व॒क्ता हृ॑दया॒विध॑श् चित् ॥
श॒तं ते॑ राजन् भि॒षजः॑ स॒हस्र॑म् उ॒र्वी ग॑म्भी॒रा सु॑म॒तिष् टे॑ अस्तु । बाध॑स्व॒ द्वेषो॒ निरृ॑तिम् परा॒चैः कृ॒तं चि॒द् एनः॒ प्र मु॑मुग्ध्य् अ॒स्मत्
अ॒भिष्ठि॑तो॒ वरु॑णस्य॒ पाश॑स् \
अ॒ग्नेर् अनी॑कम् अ॒प आ वि॑वेश । अपां॑ नपात् प्रति॒रक्ष॑न्न् असु॒र्यं॑ दमे॑दमे ॥
स॒मिधं॑ यक्ष्य् अग्ने । प्रति॑ ते जि॒ह्वा घृ॒तम् उच् च॑रण्येत्
समु॒द्रे ते॒ हृद॑यम् अ॒प्स्व् अ॑न्तः । सं त्वा॑ विश॒न्त्व् ओष॑धीर् उ॒तापो॑ य॒ज्ञस्य॑ त्वा यज्ञपते हविर्भिः । सू॒क्त॒वा॒के न॑मोवा॒के वि॑धेम॒ \
अव॑भृथ निचंकुण निचे॒रुर् अ॑सि निचंकु॒णाव॑ दे॒वैर् दे॒वकृ॑त॒म् एनो॑ऽया॒ड् अव॒ मर्त्यै॒र् मर्त्य॑कृतम् उ॒रोर् आ नो॑ देव रि॒षस् पा॑हि
सुमि॒त्रा न॒ आप॒ ओष॑धयः ॥
स॒न्तु॒ दु॒र्मि॒त्रास् तस्मै॑ भूयासु॒र् यो॑ऽस्मान् द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्मस् \
देवी॑र् आप ए॒ष वो॒ गर्भ॒स् तं वः॒ सुप्री॑तँ॒ सुभृ॑तम् अकर्म दे॒वेषु॑ नः सु॒कृतो॑ ब्रूतात्
प्रति॑युतो॒ वरु॑णस्य॒ पाशः॒ प्रत्य॑स्तो॒ वरु॑णस्य॒ पाश॑स् \
एधो॑ऽस्य् एधिषी॒महि॑ स॒मिद् अ॑सि॒ तेजो॑ऽसि॒ तेजो॒ मयि॑ धेहि \
अ॒पो अन्व् अ॑चारिषँ॒ रसे॑न॒ सम् अ॑सृक्ष्महि॒ पय॑स्वाँ अग्न॒ आग॑मं॒ तम् मा॒ सँ सृ॑ज॒ वर्च॑सा ॥
यस् त्वा॑ हृ॒दा की॒रिणा॒ मन्य॑मा॒नोऽम॑र्त्य॒म् मर्त्यो॒ जोह॑वीमि । जात॑वेदो॒ यशो॑ अ॒स्मासु॑ धेहि प्र॒जाभि॑र् अग्ने अमृत॒त्वम् अ॑श्याम् ॥
यस्मै॒ त्वँ सु॑कृते जातवेद॒ उ लो॒कम् अ॑ग्ने कृ॒णवः॑ स्यो॒नम् । अ॒श्विनँ॒ स पु॒त्रिणं॑ वी॒रव॑न्तं॒ गोम॑न्तँ र॒यिं न॑शते स्व॒स्ति ॥
त्वे सु पु॑त्र शव॒सोऽवृ॑त्र॒न् काम॑कातयः । न त्वाम् इ॒न्द्राति॑ रिच्यते ॥
उ॒क्थौक्थे॒ सोम॒ इन्द्र॑म् ममाद नी॒थेनी॑थे म॒घवा॑नम् ॥
सु॒तासः॑ । यद् ईँ॑ स॒बाधः॑ पि॒तरं॒ न पु॒त्राः स॑मा॒नद॑क्षा॒ अव॑से॒ हव॑न्ते ॥
अग्ने॒ रसे॑न॒ तेज॑सा॒ जात॑वेदो॒ वि रो॑चसे । र॒क्षो॒हामी॑व॒चात॑नः ॥
अ॒पो अन्व् अ॑चारिषँ॒ रसे॑न॒ सम् अ॑सृक्षमहि । पय॑स्वाँ अग्न॒ आग॑मं॒ तम् मा॒ सँ सृ॑ज॒ वर्च॑सा ॥
वसु॒र् वसु॑पति॒र् हिक॒म् अस्य् अ॑ग्ने वि॒भाव॑सुः । स्याम॑ ते सुम॒ताव् अपि॑ ॥
त्वाम् अ॑ग्ने॒ वसु॑पतिं॒ वसू॑नाम् अ॒भि प्र म॑न्दे ॥
अ॒ध्व॒रेषु॑ राजन् । त्वया॒ वाजं॑ वाज॒यन्तो॑ जयेमा॒भि ष्या॑म पृ॒त्स्तीर् मर्त्या॑नाम् ॥
त्वाम् अ॑ग्ने वाज॒सात॑मं॒ विप्रा॑ वर्धन्ति॒ सुष्टु॑तम् । स नो॑ रास्व सु॒वीर्य॑म् ॥
अ॒यं नो॑ अ॒ग्निर् वरि॑वः कृणोत्व् अ॒यम् मृधः॑ पु॒र ए॑तु प्रभि॒न्दन् । अ॒यँ शत्रू॑ञ् जयतु॒ जर्हृ॑षाणो॒ऽयं वाजं॑ जयतु॒ वाज॑सातौ ॥
अ॒ग्निना॒ग्निः सम् इ॑ध्यते क॒विर् गृ॒हप॑ति॒र् युवा॑ । ह॒व्य॒वाड् जु॑ह्वा॑स्यः ॥
त्वँ ह्य् अ॑ग्ने अग्निना॒ विप्रो॒ विप्रे॑ण॒ सन्त् स॒ता । सखा॒ सख्या॑ समि॒ध्यसे॑ ॥
उद् अ॑ग्ने॒ शुच॑य॒स् तव॒
वि ज्योति॑षा ॥