दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे॑ऽश्विनो॑र् बा॒हुभ्या॑म् पू॒ष्णो हस्ता॑भ्या॒म् आ द॒दे भ्रि॑र् असि॒ नारि॑र् असि॒
परि॑लिखितँ॒ रक्षः॒ परि॑लिखिता॒ अरा॑तय इ॒दम् अ॒हँ रक्ष॑सो ग्री॒वा अपि॑ कृन्तामि॒
यो॑ऽस्मान् द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्म इ॒दम् अ॑स्य ग्री॒वा अपि॑ कृन्तामि
दि॒वे त्वा॒न्तरि॑क्षाय त्वा पृथि॒व्यै त्वा॒
शुन्ध॑तां लो॒कः पि॑तृ॒षद॑नस् \
यवो॑ऽसि य॒वया॒स्मद् द्वेषः॑ ॥
य॒वयारा॑तीः
पितृ॒णाँ सद॑नम् अ॒स्य्
उद् दिवँ॑ स्तभा॒नान्तरि॑क्षम् पृण पृथि॒वीं दृँ॑ह
द्युता॒नस् त्वा॑ मारु॒तो मि॑नोतु मि॒त्रावरु॑णयोर् ध्रु॒वेण॒ धर्म॑णा
ब्रह्म॒वनिं॑ त्वा क्षत्र॒वनिँ॑ सुप्रजा॒वनिँ॑ रायस्पोष॒वनि॒म् पर्य् ऊ॑हामि॒
ब्रह्म॑ दृँह क्ष॒त्रं दृँ॑ह प्र॒जां दृँ॑ह रा॒यस् पोषं॑ दृँह
घृ॒तेन॑ द्यावापृथिवी॒ आ पृ॑णेथा॒म्
इन्द्र॑स्य॒ सदो॑ऽसि विश्वज॒नस्य॑ छा॒या
परि॑ त्वा गिर्वणो॒ गिर॑ इ॒मा भ॑वन्तु वि॒श्वतो॑ वृ॒द्धायु॒म् अनु॒ वृद्ध॑यो॒ जुष्टा॑ भवन्तु॒ जुष्ट॑यस् \
इन्द्र॑स्य॒ स्यूर् अ॒सीन्द्र॑स्य ध्रु॒वम् अ॑सि \
ऐ॒न्द्रम् अ॑सि॒ \
इन्द्रा॑य त्वा ॥
र॒क्षो॒हणो॑ वलग॒हनो॑ वैष्ण॒वान् ख॑नामि \
इ॒दम् अ॒हं तं व॑ल॒गम् उद् व॑पामि॒ यं नः॑ समा॒नो यम् अस॑मानो निच॒खान॑ \
इ॒दम् ए॑न॒म् अध॑रं करोमि॒ यो नः॑ समा॒नो योऽस॑मानोऽराती॒यति॑
गाय॒त्रेण॒ छन्द॒साव॑बाढो वल॒गः
किम् अत्र॑ भ॒द्रं तन् नौ॑ स॒ह
वि॒राड् अ॑सि सपत्न॒हा स॒म्राड् अ॑सि भ्रातृव्य॒हा स्व॒राड् अ॑स्य् अभिमाति॒हा वि॑श्वा॒राड् अ॑सि॒ {F विश्वा॑सां॒} {W विश्वा॑नां} {अस्स् विश्वा॑सां} {बि विश्वा॑सां} {गोल्स् विश्वा॑सां} ना॒ष्ट्राणाँ॑ ह॒न्ता ॥
र॒क्षो॒हणो॑ वलग॒हनः॒ प्रोक्षा॑मि वैष्ण॒वान्
र॑क्षो॒हणो॑ वलग॒हनोऽव॑ नयामि वैष्ण॒वान्
यवो॑ऽसि य॒वया॒स्मद् द्वेषो॑ य॒वयारा॑तीस् \
र॒क्षो॒हणो॑ वलग॒हनोऽव॑ स्तृणामि वैष्ण॒वान्
र॑क्षो॒हणो॑ वलग॒हनो॒ऽभि जु॑होमि वैष्ण॒वान्
र॑क्षो॒हणौ॑ वलग॒हना॒व् उप॑ दधामि वैष्ण॒वी
र॑क्षो॒हणौ॑ वलग॒हनौ॒ पर्य् ऊ॑हामि वैष्ण॒वी
र॑क्षो॒हणौ॑ वलग॒हनौ॒ परि॑ स्तृणामि वैष्ण॒वी
र॑क्षो॒हणौ॑ वलग॒हनौ॑ वैष्ण॒वी
बृ॒हन्न् अ॑सि बृ॒हद्ग्रा॑वा बृह॒तीम् इन्द्रा॑य॒ वाचं॑ वद ॥
वि॒भूर् अ॑सि प्र॒वाह॑णस् \
वह्नि॑र् असि हव्य॒वाह॑नः
श्वा॒त्रो॑ऽसि॒ प्रचे॑तास्
तु॒थो॑ऽसि वि॒श्ववे॑दास् \
उ॒शिग् अ॑सि क॒विस् \
अङ्घा॑रिर् असि॒ बम्भा॑रिस् \
अ॒व॒स्युर् अ॑सि॒ दुव॒स्वान् \
शु॒न्ध्यूर् अ॑सि मार्जा॒लीयः॑
स॒म्राड् अ॑सि कृ॒शानुः॑
परि॒षद्यो॑ऽसि॒ पव॑मानः
प्र॒तक्वा॑सि॒ नभ॑स्वा॒न्
अस॑म्मृष्टोऽसि हव्य॒सूद॑स् \
ऋ॒तधा॑मासि॒ सुव॑र्ज्योतिस् \
ब्रह्म॑ज्योतिर् असि॒ सुव॑र्धाम \
अ॒जो॑ऽस्य् एक॑पा॒द्
अहि॑र् असि बु॒ध्निय॑स् \
रौद्रे॒णानी॑केन पा॒हि मा॑ग्ने पिपृ॒हि मा॒ मा मा॑ हिँसीः ॥
त्वँ सो॑म तनू॒कृद्भ्यो॒ द्वेषो॑भ्यो॒ऽन्यकृ॑तेभ्य उ॒रु य॒न्तासि॒ वरू॑थँ॒ स्वाहा॑
जुषा॒णो अ॒प्तुर् आज्य॑स्य वेतु॒ स्वाहा॑ \
अ॒यं नो॑ अ॒ग्निर् वरि॑वः कृणोत्व् अ॒यम् मृधः॑ पु॒र ए॑तु प्रभि॒न्दन् । अ॒यं शत्रू॑ञ् जयतु॒ जर्हृ॑षाणो॒ऽयं वाजं॑ जयतु॒ वाज॑सातौ ॥
उ॒रु वि॑ष्णो॒ वि क्र॑मस्वो॒रु क्षया॑य नः कृधि । घृ॒तं घृ॑तयोने पिब॒ प्रप्र॑ य॒ज्ञप॑तिं तिर ॥
सोमो॑ जिगाति गातु॒वित् ॥
दे॒वाना॑म् एति निष्कृ॒तम् ऋ॒तस्य॒ योनि॑म् आ॒सद॒म्
अदि॑त्याः॒ सदो॑ऽसि॒ \
अदि॑त्याः॒ सद॒ आ सी॑द \
ए॒ष वो॑ देव सवितः॒ सोम॒स् तँ र॑क्षध्व॒म् मा वो॑ दभत् \
{F ए॒तत्} {W ए॒तं} {अस्स् ए॒तत्} {बि ए॒तत्} {गोल्स् ए॒तत्} त्वँ सो॑म दे॒वो दे॒वान् उपा॑गा इ॒दम् अ॒हम् म॑नु॒ष्यो॑ मनु॒ष्या॑न्त् स॒ह प्र॒जया॑ स॒ह रा॒यस् पोषे॑ण॒
नमो॑ दे॒वेभ्यः॑ स्व॒धा पि॒तृभ्य॑स् \
इ॒दम् अ॒हं निर् वरु॑णस्य॒ पाशा॒त् सुव॑र् अ॒भि ॥
वि ख्ये॑षं वैश्वान॒रं ज्योति॑स् \
अग्ने॑ व्रतपते॒ त्वं व्र॒तानां॑ व्र॒तप॑तिर् असि
या मम॑ त॒नूस् त्वय्य् अभू॑द् इ॒यँ सा मयि॒ या तव॑ त॒नूर् मय्य् अभू॑द् ए॒षा सा त्वयि॑
यथाय॒थं नौ॑ व्रतपते व्र॒तिनो॑र् व्र॒तानि॑ ॥
अत्य् अ॒न्यान् अगां॒ नान्यान् उपा॑गाम्
अ॒र्वाक् त्वा॒ परै॑र् अविदम् प॒रोव॑रै॒स्
तं त्वा॑ जुषे वैष्ण॒वं दे॑वय॒ज्यायै॑
दे॒वस् त्वा॑ सवि॒ता मध्वा॑नक्तु॒ \
ओष॑धे॒ त्राय॑स्वैनम् \
स्वधि॑ते॒ मैनँ॑ हिँसीस् \
दिव॒म् अग्रे॑ण॒ मा ले॑खीर् अ॒न्तरि॑क्ष॒म् मध्ये॑न॒ मा हिँ॑सीः पृथि॒व्या सम् भ॑व॒
वन॑स्पते श॒तव॑ल्शो॒ वि रो॑ह स॒हस्र॑वल्शा॒ वि व॒यँ रु॑हेम॒
यं त्वा॒यँ स्वधि॑ति॒स् तेति॑जानः प्रणि॒नाय॑ मह॒ते सौभ॑गा॒याछि॑न्नो॒रायः॑ सु॒वीरः॑ ॥
पृ॒थि॒व्यै त्वा॒न्तरि॑क्षाय त्वा दि॒वे त्वा॒
शुन्ध॑तां लो॒कः पि॑तृ॒षद॑नस् \
यवो॑ऽसि य॒वया॒स्मद् द्वेषो॑ य॒वयारा॑तीः
पितृ॒णाँ सद॑नम् असि
स्वावे॒शो॑ऽस्य् अग्रे॒गा ने॑तृ॒णां वन॒स्पति॒र् अधि॑ त्वा स्थास्यति॒ तस्य॑ वित्तात् \
दे॒वस् त्वा॑ सवि॒ता मध्वा॑नक्तु
सुपिप्प॒लाभ्य॒स् त्वौष॑धीभ्यस् \
उद् दिवँ॑ स्तभा॒नान्तरि॑क्षम् पृण पृथि॒वीम् उप॑रेण दृँह॒
ते ते॒ धामा॑न्य् उश्मसि ॥
ग॒मध्ये॒ गावो॒ यत्र॒ भूरि॑शृङ्गा अ॒यासः॑ । अत्राह॒ तद् उ॑रुगा॒यस्य॒ विष्णोः॑ पर॒मम् प॒दम् अव॑ भाति॒ भूरेः॑ ॥
विष्णोः॒ कर्मा॑णि पश्यत॒ यतो॑ व्र॒तानि॑ पस्प॒शे । इन्द्र॑स्य॒ युज्यः॒ सखा॑ ॥
तद् विष्णोः॑ पर॒मम् प॒दँ सदा॑ पश्यन्ति सू॒रयः॑ । दि॒वीव॒ चक्षु॒र् आत॑तम् ॥
ब्र॒ह्म॒वनिं॑ त्वा क्षत्र॒वनिँ॑ सुप्रजा॒वनिँ॑ रायस्पोष॒वनि॒म् पर्य् ऊ॑हामि॒
ब्रह्म॑ दृँह क्ष॒त्रं दृँ॑ह प्र॒जां दृँ॑ह रा॒यस् पोषं॑ दृँह
परि॒वीर् अ॑सि॒ परि॑ त्वा॒ दैवी॒र् विशो॑ व्ययन्ता॒म् परी॒मँ रा॒यस्पोषो॒ यज॑मानम् मनु॒ष्या॑स् \
अ॒न्तरि॑क्षस्य त्वा॒ साना॒व् अव॑ गूहामि ॥
इ॒षे त्वा॑ \
उप॒वीर् अ॑सि॒ \
उपो॑ दे॒वान् दैवी॒र् विशः॒ प्रागु॒र् वह्नी॑र् उ॒शिज॑स् \
बृह॑स्पते धा॒रया॒ वसू॑नि
ह॒व्या ते॑ स्वदन्ता॒म्
देव॑ त्वष्ट॒र् वसु॑ रण्व॒
रेव॑ती॒ रम॑ध्वम्
अ॒ग्नेर् ज॒नित्र॑म् असि
वृष॑णौ स्थस् \
उ॒र्वश्य् अ॑स्य् आ॒युर् अ॑सि पुरू॒रवा॑स् \
घृते॑ना॒क्ते वृष॑णं दधाथाम् \
गाय॒त्रं छन्दोऽनु॒ प्र जा॑यस्व॒ त्रैष्टु॑भं॒ जाग॑तं॒ छन्दोऽनु॒ प्र जा॑यस्व॒
भव॑तम् ॥
नः॒ सम॑नसौ॒ समो॑कसाव् अरे॒पसौ॑
मा य॒ज्ञँ हिँ॑सिष्ट॒म् मा य॒ज्ञप॑तिं जातवेदसौ शि॒वौ भ॑वतम् अ॒द्य नः॑ ॥
अ॒ग्नाव् अ॒ग्निश् च॑रति॒ प्रवि॑ष्ट॒ ऋषी॑णाम् पु॒त्रो अ॑धिरा॒ज ए॒षः । स्वा॒हा॒कृत्य॒ ब्रह्म॑णा ते जुहोमि॒ मा दे॒वाना॑म् मिथु॒या क॑र् भाग॒धेय॑म् ॥
आ द॑दे \
ऋ॒तस्य॑ त्वा देवहविः॒ पाशे॒नार॑भे॒
धर्षा॒ मानु॑षान्
अ॒द्भ्यस् त्वौष॑धीभ्यः॒ प्रोक्षा॑मि \
अ॒पाम् पे॒रुर् अ॑सि
स्वा॒त्तं चि॒त् सदे॑वँ ह॒व्यम् आपो॑ देवीः स्वदतैनम् \
सं ते॑ प्रा॒णो वा॒युना॑ गछताँ॒ सं यज॑त्रै॒र् अङ्गा॑नि॒ सं य॒ज्ञप॑तिर् आ॒शिषा॑
घृ॒तेना॒क्तौ प॒शुं त्रा॑येथाम् \
रेव॑तीर् य॒ज्ञप॑तिम् प्रिय॒धा वि॑शत॒ \
उरो॑ अन्तरिक्ष स॒जूर् दे॒वेन॑ ॥
वाते॑ना॒स्य ह॒विष॒स् त्मना॑ यज॒ सम् अ॑स्य त॒नुवा॑ भव॒ वर्षी॑यो॒ वर्षी॑यसि य॒ज्ञे य॒ज्ञप॑तिं धाः
पृथि॒व्याः स॒म्पृचः॑ पाहि॒
नम॑स् त आतान \
अन॒र्वा प्रेहि॑ घृ॒तस्य॑ कु॒ल्याम् अनु॑ स॒ह प्र॒जया॑ स॒ह रा॒यस् पोषे॑न \
आपो॑ देवीः शुद्धा॒युवः॑ शु॒द्धा यू॒यं दे॒वाँ ऊ॑ढ्वँ शु॒द्धा व॒यम् परि॑विष्टाः परिवे॒ष्टारो॑ वो भूयास्म ॥
वाक् त॒ आ प्या॑यताम् प्रा॒णस् त॒ आ प्या॑यतां॒ चक्षु॑स् त॒ आ प्या॑यता॒म् श्रोत्रं॑ त॒ आ प्या॑यताम्
या ते॑ प्रा॒णाञ् छुग् ज॒गाम॒ या चक्षु॒र् या श्रोत्रं॒ यत् ते॑ क्रू॒रं यद् आस्थि॑त॒म् तत् त॒ आ प्या॑यतां॒ तत् त॑ ए॒तेन॑ शुन्धताम् \
नाभि॑स् त॒ आ प्या॑यताम् पा॒युस् त॒ आ प्या॑यताम् \
शु॒द्धाश् च॒रित्राः॒
शम् अ॒द्भ्यः ॥
शम् ओष॑धीभ्यः॒ शम् पृ॑थि॒व्यै शम् अहो॑भ्या॒म्
ओष॑धे॒ त्राय॑स्वैनम् \
स्वधि॑ते॒ मैनँ॑ हिँसीस् \
रक्ष॑सा॒म् भागो॑ऽसि \
इ॒दम् अ॒हँ रक्षो॑ऽध॒मम् तमो॑ नयामि॒
यो॑ऽस्मान् द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्म इ॒दम् ए॑नम् अध॒मं तमो॑ नयामि \
इ॒षे त्वा॑
घृ॒तेन॑ द्यावापृथिवी॒ प्रोर्ण्वा॑था॒म्
अछि॑न्नो॒ रायः॑ सु॒वीर॑स् \
उ॒र्व् अ॑न्तरि॑क्ष॒म् अन्व् इ॑हि
वायो॒ वीहि॑ स्तो॒काना॑म् \
स्वाहो॒र्ध्वन॑भसं मारु॒तं ग॑छतम् ॥
सं ते॒ मन॑सा॒ मनः॒ सम् प्रा॒णेन॑ प्रा॒णस् \
जुष्टं॑ दे॒वेभ्यो॑ ह॒व्यं घृ॒तव॒त् स्वाहा॑ \
ऐ॒न्द्रः प्रा॒णो अङ्गेअ॑ङ्गे॒ नि दे॑ध्यद् ऐ॒न्द्रो॑ऽपा॒नो अङ्गेअ॑ङ्गे॒ वि बो॑भुवत् \
देव॑ त्वष्ट॒र् भूरि॑ ते॒ सँस॑म् एतु॒ विषु॑रूपा॒ यत् सल॑क्ष्माणो॒ भव॑थ । दे॒व॒त्रा यन्त॒म् अव॑से॒ सखा॒योऽनु॑ त्वा मा॒ता पि॒तरो॑ मदन्तु ॥
श्रीर् अ॑सि \
अ॒ग्निस् त्वा॑ श्रीणातु \
आपः॒ सम् अ॑रिणन्
वात॑स्य ॥ त्वा॒ ध्रज्यै॑ पू॒ष्णो रँह्या॑ अ॒पाम् ओष॑धीनाँ॒ रोहि॑ष्यै
घृ॒तं घृ॑तपावानः पिबत॒ वसां॑ वसापावानः पिबत \
अ॒न्तरि॑क्षस्य ह॒विर् अ॑सि
स्वाहा॑ त्वा॒न्तरि॑क्षाय॒
दिशः॑ प्र॒दिश॑ आ॒दिशो॑ वि॒दिश॑ उ॒द्दिशः॑
स्वाहा॑ दि॒ग्भ्यस् \
नमो॑ दि॒ग्भ्यः
स॒मु॒द्रं ग॑छ॒ स्वाहा॒न्तरि॑क्षं गछ॒ स्वाहा॑ दे॒वँ स॑वि॒तारं॑ गछ॒ स्वाहा॑होरा॒त्रे ग॑छ॒ स्वाहा॑ मि॒त्रावरु॑णौ गछ॒ स्वाहा॒ सोमं॑ गछ॒ स्वाहा॑ य॒ज्ञं ग॑छ॒ स्वाहा॒ छन्दाँ॑सि गछ॒ स्वाहा॒ द्यावा॑पृथि॒वी ग॑छ॒ स्वाहा॒नभो॑ दि॒व्यं ग॑छ॒ स्वाहा॒ग्निं वै॑श्वान॒रं ग॑छ॒ स्वाहा॑ \
अ॒द्भ्यस् त्वौष॑धीभ्यस् \
मनो॑ मे॒ हार्दि॑ यछ
त॒नूं त्वच॑म् पु॒त्रं नप्ता॑रम् अशीय॒
शुग् अ॑सि॒ तम् अ॒भि शो॑च॒ यो॑ऽस्मान् द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्मस् \
धाम्नो॑धाम्नो राजन्न् इ॒तो व॑रुण नो मुञ्च॒ यद् आपो॒ अघ्नि॑या॒ वरु॒णेति॒ शपा॑महे॒ ततो॑ वरुण नो मुञ्च ॥
ह॒विष्म॑तीर् इ॒मा आपो॑ ह॒विष्मा॑न् दे॒वो अ॑ध्व॒रो ह॒विष्माँ॒ आ वि॑वासति ह॒विष्माँ॑ अस्तु॒ सूर्यः॑ ॥
अ॒ग्नेर् वोऽप॑न्नगृहस्य॒ सद॑सि सादयामि सु॒म्नाय॑ सुम्निमीः सु॒म्ने मा॑ धत्त \
इन्द्राग्नि॒योर् भा॑ग॒धेयी॑ स्थ मि॒त्रावरु॑णयोर् भाग॒धेयी॑ स्थ॒ विश्वे॑षां दे॒वानां॑ भाग॒धेयी॑ स्थ
य॒ज्ञे जा॑गृत ॥
हृ॒दे त्वा॒ मन॑से त्वा दि॒वे त्वा॒ सूर्या॑य त्वा \
ऊ॒र्ध्वम् इ॒मम् अ॑ध्व॒रं कृ॑धि दि॒वि दे॒वेषु॒ होत्रा॑ यछ॒
सोम॑ राज॒न्न् एह्य् अव॑ रोह
मा भेर् मा सं वि॑क्थास् \
मा त्वा॑ हिँसिषम्
प्र॒जास् त्वम् उ॒पाव॑रोह प्र॒जास् त्वाम् उ॒पाव॑रोहन्तु
शृ॒णोत्व् अ॒ग्निः स॒मिधा॒ हव॑म् मे शृ॒ण्वन्त्व् आपो॑ धि॒षणा॑श् च दे॒वीः । शृ॒णोत॑ ग्रावाणो वि॒दुषो॒ नु ॥ य॒ज्ञँ शृ॒णोतु॑ दे॒वः स॑वि॒ता हव॑म् मे ॥
देवी॑र् आपो अपां नपा॒द् य ऊ॒र्मिर् ह॑वि॒ष्य॑ इन्द्रि॒यावा॑न् म॒दिन्त॑म॒स् तं दे॒वेभ्यो॑ देव॒त्रा ध॑त्त शु॒क्रँ शु॑क्र॒पेभ्यो॒ येषा॑म् भा॒ग स्थ स्वाहा॑
कार्षि॑र् अ॒स्य् अपा॒पाम् मृ॒ध्रम् \
स॒मु॒द्रस्य॒ वोक्षि॑त्या॒ उन् न॑ये॒
यम् अ॑ग्ने पृ॒त्सु मर्त्य॒म् आवो॒ वाजे॑षु॒ यं जु॒नाः । स यन्ता॒ शश्व॑ती॒र् इषः॑ ॥
त्वम् अ॑ग्ने रु॒द्रो असु॑रो म॒हो दि॒वस् त्वँ शर्धो॒ मारु॑तम् पृ॒क्ष ई॑शिषे । त्वं वातै॑र् अरु॒णैर् या॑सि शंग॒यस् त्वम् पू॒षा वि॑ध॒तः पा॑सि॒ नु त्मना॑ ॥
आ वो॒ राजा॑नम् अध्व॒रस्य॑ रु॒द्रँ होता॑रँ सत्य॒यजँ॒ रोद॑स्योः । अ॒ग्निम् पु॒रा त॑नयि॒त्नोर् अचि॑त्ता॒द् धिर॑ण्यरूप॒म् अव॑से कृणुध्वम् ॥
अ॒ग्निर् होता॒ नि ष॑सादा॒ यजी॑यान् उ॒पस्थे॑ मा॒तुः सु॑र॒भाव् उ॑ लो॒के । युवा॑ क॒विः पु॑रुनि॒ष्ठः ॥
ऋतावा॑ ध॒र्ता कृ॑ष्टी॒नाम् उ॒त मध्य॑ इ॒द्धः ॥
सा॒ध्वीम् अ॑कर् दे॒ववी॑तिं नो द॒य य॒ज्ञस्य॑ जि॒ह्वाम् अ॑विदाम॒ गुह्या॑म् । स आयु॒र् आगा॑त् सुर॒भिर् वसा॑नो भ॒द्राम् अ॑कर् दे॒वहू॑तिं नो अ॒द्य ॥
अक्र॑न्दद् अ॒ग्नि स्त॒नय॑न्न् इव॒ द्यौः क्षामा॒ रेरि॑हद् वी॒रुधः॑ सम॒ञ्जन् । स॒द्यो ज॑ज्ञा॒नो वि हीम् इ॒द्धो अख्य॒द् आ रोद॑सी भा॒नुना॑ भात्य् अ॒न्तः ॥
त्वे वसू॑नि पुर्वणीक ॥
हो॒त॒र् दो॒षा वस्तो॒र् एरि॑रे य॒ज्ञिया॑सः । क्षामे॑व॒ विश्वा॒ भुव॑नानि॒ यज्मि॒न्त् सँ सौभ॑गानि दधि॒रे पा॑व॒के ॥
तुभ्यं॒ ता अ॑ङ्गिरस्तम॒ विश्वाः॑ सुक्षि॒तयः॒ पृथ॑क् । अग्ने॒ कामा॑य येमिरे ॥
अ॒श्याम॒ तं काम॑म् अग्ने॒ तवो॒ऽत्य् अ॑श्याम॑ र॒यिँ र॑यिवः सु॒वीर॑म् । अ॒श्याम॒ वाज॑म् अ॒भि वा॒जय॑न्तो॒ऽश्याम॑ द्यु॒म्नम् अ॑जरा॒जरं॑ ते ॥
श्रेष्ठं॑ यविष्ठ भार॒ताग्ने॑ द्यु॒मन्त॒म् आ भ॑र ॥
वसो॑ पुरु॒स्पृहँ॑ र॒यिम् ॥
स श्वि॑ता॒नस् त॑न्य॒तू रो॑चन॒स्था अ॒जरे॑भि॒र् नान॑दद्भि॒र् यवि॑ष्ठः । यः पा॑व॒कः पु॑रु॒तमः॑ पु॒रूणि॑ पृ॒थून्य् अ॒ग्निर् अ॑नु॒याति॒ भर्व॑न् ॥
आयु॑ष् टे वि॒श्वतो॑ दधद् अ॒यम् अ॒ग्निर् वरे॑ण्यः । पुन॑स् ते॒ प्राण आय॑ति॒ परा॒ यक्ष्मँ॑ सुवामि ते ॥
आ॒यु॒र्दा अ॑ग्ने ह॒विषो॑ जुषा॒णो घृ॒तप्र॑तीको घृ॒तयो॑निर् एधि । घृ॒तम् पी॒त्वा मधु॒ चारु॒ गव्य॑म् पि॒तेव॑ पु॒त्रम् अ॒भि ॥
र॒क्ष॒ता॒द् इ॒मम् ॥
तस्मै॑ ते प्रति॒हर्य॑ते॒ जात॑वेदो॒ विच॑र्षणे । अग्ने॒ जना॑मि सुष्टु॒तिम् ॥
दि॒वस् परि॑ प्रथ॒मं ज॑ज्ञे अ॒ग्निर् अ॒स्मद् द्वि॒तीय॒म् परि॑ जा॒तवे॑दाः । तृ॒तीय॑म् अ॒प्सु नृ॒मणा॒ अज॑स्र॒म् इन्धा॑न एनं जरते स्वा॒धीः ॥
शुचिः॑ पावक॒ वन्द्योऽग्ने॑ बृ॒हद् वि रो॑चसे । त्वम् घृ॒तेभि॒र् आहु॑तः ॥
दृ॒शा॒नो रु॒क्म उ॒र्व्या व्य् अ॑द्यौद् दु॒र्मर्ष॒म् आयुः॑ श्रि॒ये रु॑चा॒नः । अ॒ग्निर् अ॒मृतो॑ अभव॒द् वयो॑भिः ॥
यद् ए॑नं॒ द्यौर् अज॑नयत् सु॒रेताः॑ ॥
आ यद् इ॒षे नृ॒पतिं॒ तेज॒ आन॒ट् छुचि॒ रेतो॒ निषि॑क्तं॒ द्यौर् अ॑भीके । अ॒ग्निः शर्ध॑म् अनव॒द्यं युवा॑नँ स्वा॒धियं॑ जनयत् सू॒दय॑च् च ॥
स तेजी॑यसा॒ मन॑सा॒ त्वोत॑ उ॒त शि॑क्ष स्वप॒त्यस्य॑ शि॒क्षोः । अग्ने॑ रा॒यो नृत॑मस्य॒ प्रभू॑तौ भू॒याम॑ ते सुष्टु॒तय॑श् च॒ वस्वः॑ ॥
अग्ने॒ सह॑न्त॒म् आ भ॑र द्यु॒म्नस्य॑ प्रा॒सहा॑ र॒यिम् । विश्वा॒ यः ॥
चर्ष॑णीर् अ॒भ्य् आ॑सा वाजे॑षु सा॒सह॑त् ॥
तम् अ॑ग्ने पृतना॒सहँ॑ र॒यिँ स॑हस्व॒ आ भ॑र । त्वँ हि स॒त्यो अद्भु॑तो दा॒ता वाज॑स्य॒ गोम॑तः ॥
उ॒क्षान्ना॑य व॒शान्ना॑य॒ सोम॑पृष्ठाय वे॒धसे॑ । स्तोमै॑र् विधेमा॒ग्नये॑ ॥
व॒द्मा हि सू॑नो॒ अस्य् अ॑द्म॒सद्वा॑ च॒क्रे अ॒ग्निर् ज॒नुषाज्मान्न॑म् । स त्वं न॑ ऊर्जसन॒ ऊर्जं॑ धा॒ राजे॑व जेर् अवृ॒के क्षे॑ष्य् अ॒न्तः ॥
अग्न॒ आयूँ॑षि ॥
प॒व॒स॒ आ सु॒वोर्ज॒म् इषं॑ च नः । आ॒रे ब॑धस्व दु॒छुना॑म् ॥
अग्ने॒ पव॑स्व॒ स्वपा॑ अ॒स्मे वर्चः॑ सु॒वीर्य॑म् । दध॒त् पोषँ॑ र॒यिम् मयि॑ ॥
अग्ने॑ पावक रो॒चिषा॑ म॒न्द्रया॑ देव जि॒ह्वया॑ । आ दे॒वान् व॑क्षि॒ यक्षि॑ च ॥
स नः॑ पावक दीदि॒वोऽग्ने॑ दे॒वाँ इ॒हा व॑ह । उप॑ य॒ज्ञँ ह॒विश् च॑ नः ॥
अ॒ग्निः शुचि॑व्रततमः॒ शुचि॒र् विप्रः॒ शुचिः॑ क॒विः । शुची॑ रोचत॒ आहु॑तः ॥
उद् अ॑ग्ने॒ शुच॑य॒स् तव॑ शु॒क्रा भ्राज॑न्त ईरते । तव॒ ज्योतीँ॑ष्य् अ॒र्चयः॑ ॥