आप॑ उन्दन्तु जी॒वसे॑ दीर्घायु॒त्वाय॒ वर्च॑से॒ \

ओष॑धे॒ त्राय॑स्वैनम् \

स्वधि॑ते॒ मैनँ॑ हिँसीस् \

दे॒व॒श्रूर् ए॒तानि॒ प्र व॑पे

स्व॒स्त्य् उत्त॑राण्य् अशीय \

आपो॑ अ॒स्मान् मा॒तरः॑ शुन्धन्तु घृ॒तेन॑ नो घृत॒पुवः॑ पुनन्तु । विश्व॑म् अ॒स्मत् प्र व॑हन्तु रि॒प्रम् उद् आ॑भ्यः॒ शुचि॒र् आ पू॒त ए॑मि॒

सोम॑स्य त॒नूर् अ॑सि त॒नुव॑म् मे पाहि

मही॒नाम् पयो॑ऽसि वर्चो॒धा अ॑सि॒ वर्चः॑ ॥

मयि॑ धेहि

वृ॒त्रस्य॑ क॒नीनि॑कासि चक्षु॒ष्पा अ॑सि॒ चक्षु॑र् मे पाहि

चि॒त्पति॑स् त्वा पुनातु वा॒क्पति॑स् त्वा पुनातु दे॒वस् त्वा॑ सवि॒ता पु॑ना॒त्व् अछि॑द्रेण प॒वित्रे॑ण॒ वसोः॒ सूर्य॑स्य र॒श्मिभि॒स्

तस्य॑ ते पवित्रपते प॒वित्रे॑ण॒ यस्मै॒ कम् पु॒ने तच् छ॑केयम्

आ वो॑ देवास ईमहे॒ सत्य॑धर्माणो अध्व॒रे यद् वो॑ देवास आगु॒रे यज्ञि॑यासो॒ हवा॑महे॒ \

इन्द्रा॑ग्नी॒ द्यावा॑पृथिवी॒ आप॑ ओषधीस्

त्वं दी॒क्षाणा॒म् अधि॑पतिर् असी॒ह मा॒ सन्त॑म् पाहि ॥

आकू॑त्यै प्र॒युजे॑ऽग॒नये॒ स्वाहा॑ मे॒धायै॒ मन॑से॒ऽग्नये॒ स्वाहा॑ दी॒क्षायै॒ तप॑से॒ऽग्नये॒ स्वाहा॒ सर॑स्वत्यै पू॒ष्णे॑ऽग्नये॒ स्वाहा॑ \

आपो॑ देवीर् बृहतीर् विश्वशम्भुवो॒ द्यावा॑पृथि॒वी उ॒र्व् अ॑न्तरि॑क्ष॒म् बृह॒स्पति॑र् नो ह॒विषा॑ वृधातु॒ स्वाहा॒

विश्वे॑ दे॒वस्य॑ ने॒तुर् मर्तो॑ वृणीत स॒ख्यं । विश्वे॑ रा॒य इ॑षुध्यसि द्यु॒म्नं वृ॑णीत पु॒ष्यसे॒ स्वाहा॑ \

ऋक्सा॒मयोः॒ शिल्पे॑ स्थ॒स् ते वा॒म् आ र॑भे॒ ते मा॑ ॥

पा॒त॒म् आस्य य॒ज्ञस्यो॒दृच॑स् \

इ॒मां धियँ॒ शिक्ष॑माणस्य देव॒ क्रतुं॒ दक्षं॑ वरुण॒ सँ शि॑शाधि । ययाति॒ विश्वा॑ दुरि॒ता तरे॑म सु॒तर्मा॑ण॒म् अधि॒ नावँ॑ रुहेम \

ऊर्ग् अ॑स्य् आङ्गिर॒स्य् ऊर्ण॑म्रदा॒ ऊर्ज॑म् मे यछ पा॒हि मा॒ {F मा मा॑} {W मा} {अन्स्स् मा मा॑} {बि मा मा॑} {गोल्स् मा मा॑} हिँसीस् \

विष्णोः॒ शर्मा॑सि॒ शर्म॒ यज॑मानस्य॒ शर्म॑ मे यछ॒

नक्ष॑त्राणाम् मातीका॒शात् पा॑हि॒ \

इन्द्र॑स्य॒ योनि॑र् असि ॥

मा मा॑ हिँसीः

कृ॒ष्यै त्वा॑ सुस॒स्यायै॑

सुपिप्प॒लाभ्य॒स् त्वौष॑धीभ्यः

सूप॒स्था दे॒वो वन॒स्पति॑र् ऊ॒र्ध्वो मा॑ पा॒ह्य् ओदृचः॑

स्वाहा॑ य॒ज्ञम् मन॑सा॒ स्वाहा॒ द्यावा॑पृथि॒वीभ्याँ॒ स्वाहो॒रोर् अ॒न्तरि॑क्षा॒त् स्वाहा॑ य॒ज्ञं वाता॒द् आ र॑भे ॥

दैवीं॒ धिय॑म् मनामहे सुमृडी॒काम् अ॒भिष्ट॑ये । व॒र्चो॒धां य॒ज्ञवा॑हसँ सुपा॒रा नो॑ अस॒द् वशे॑ ॥

ये दे॒वा मनो॑जाता मनो॒युजः॑ सु॒दक्षा॒ दक्ष॑पितार॒स् ते नः॑ पान्तु॒ ते नो॑ऽवन्तु॒ तेभ्यो॒ नम॒स् तेभ्यः॒ स्वाहा॒ \

अग्ने॒ त्वँ सु जा॑गृहि व॒यँ सु म॑न्दिषीमहि । गो॒पा॒य नः॑ स्व॒स्तये॑ प्र॒बुधे॑ नः॒ पुन॑र् ददः ॥

त्वम् अ॑ग्ने व्रत॒पा अ॑सि दे॒व आ मर्त्ये॒ष्व् आ त्वं ॥

य॒ज्ञेष्व् ईड्यः॑ ॥

विश्वे॑ दे॒वा अ॒भि माम् आव॑वृत्रन् पू॒षा स॒न्या सोमो॒ राध॑सा दे॒वः स॑वि॒ता वसो॑र् वसु॒दावा॑

रास्वेय॑त् सो॒मा भूयो॑ भर

मा पृ॒णन् पू॒र्त्या वि रा॑धि॒ माहम् आयु॑षा

च॒न्द्रम् अ॑सि॒ मम॒ भोगा॑य भव॒ वस्त्र॑म् असि॒ मम॒ भोगा॑य भवो॒स्रासि॒ मम॒ भोगा॑य भव॒ हयो॑ऽसि॒ मम॒ भोगा॑य भव ॥

छागो॑ऽसि॒ मम॒ भोगा॑य भव मे॒षो॑ऽसि॒ मम॒ भोगा॑य भव

वा॒यवे॑ त्वा॒ वरु॑णाय त्वा॒ निरृ॑त्यै त्वा रु॒द्राय॑ त्वा॒

देवी॑र् आपो अपां नपा॒द् य ऊ॒र्मिर् ह॑वि॒ष्य॑ इन्द्रि॒यावा॑न् म॒दिन्त॑म॒स् तं वो॒ माव॑ क्रमिष॒म्

अछि॑न्नं॒ तन्तु॑म् पृथि॒व्या अनु॑ गेषम्

भ॒द्राद् अ॒भि श्रेयः॒ प्रेहि॑

बृह॒स्पतिः॑ पुरए॒ता ते॑ अ॒स्त्व् अथे॒म् अव॑ स्य॒ वर॒ आ पृ॑थि॒व्या आ॒रे शत्रू॑न् कृणुहि॒ सर्व॑वीरस् \

एदम् अ॑गन्म देव॒यज॑नम् पृथि॒व्या विश्वे॑ दे॒वा यद् अजु॑षन्त॒ पूर्व॑ ऋक्सा॒माभ्यां॒ यजु॑षा सं॒तर॑न्तो र्रा॒यस् पोषे॑ण॒ सम् इ॒षा म॑देम ॥

इ॒यं ते॑ शुक्र त॒नूर् इ॒दं वर्च॒स् तया॒ सम् भ॑व॒ भ्राजं॑ गछ

जूर् अ॑सि धृ॒ता मन॑सा॒ जुष्टा॒ विष्ण॑वे॒

तस्या॑स् ते स॒त्यस॑वसः प्रस॒वे वा॒चो य॒न्त्रम् अ॑शीय॒ स्वाहा॑

शु॒क्रम् अ॑स्य् अ॒मृत॑म् असि वैश्वदे॒वँ ह॒विः

सूर्य॑स्य॒ चक्षु॒र् आरु॑हम् अ॒ग्नेर् अ॒क्ष्णः क॒नीनि॑कां॒ यद् एत॑शेभि॒र् ईय॑से॒ भ्राज॑मानो विपश्चिता॒

चिद् अ॑सि म॒नासि॒ धीर् अ॑सि॒ दक्षि॑णा ॥

अ॒सि॒ य॒ज्ञिया॑सि क्ष॒त्रिया॒स्य् अदि॑तिर् अस्य् उभ॒यतः॑शीर्ष्णी

सा नः॒ सुप्रा॑ची॒ सुप्र॑तीची॒ सम् भ॑व

मि॒त्रस् त्वा॑ प॒दि ब॑ध्नातु

पू॒षाध्व॑नः पातु॒ \

इन्द्रा॑याध्यक्षाय॒ \

अनु॑ त्वा मा॒ता म॑न्यता॒म् अनु॑ पि॒तानु॒ भ्राता॒ सग॒र्भ्योऽनु॒ सखा॒ सयू॑थ्यः

सा दे॑वि दे॒वम् अछे॒हीन्द्रा॑य॒ सोम॑म् \

रु॒द्रस् त्वा व॑र्तयतु मि॒त्रस्य॑ प॒था

स्व॒स्ति सोम॑सखा॒ पुन॒र् एहि॑ स॒ह र॒य्या ॥

वस्व्य् अ॑सि रु॒द्रास्य् अदि॑तिर् अस्य् आदि॒त्यासि॑ शु॒क्रासि॑ च॒न्द्रासि॑

बृह॒स्पति॑स् त्वा सु॒म्ने र॑ण्वतु रु॒द्रो वसु॑भि॒र् आ चि॑केतु

पृथि॒व्यास् त्वा॑ मू॒र्धन्न् आ जि॑घर्मि देव॒यज॑न॒ इडा॑याः प॒दे घृ॒तव॑ति॒ स्वाहा॒

परि॑लिखितँ॒ रक्षः॒ परि॑लिखिता॒ अरा॑तय इ॒दम् अ॒हँ रक्ष॑सो ग्री॒वा अपि॑ कृन्तामि॒

यो॑ऽस्मान् द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्म इ॒दम् अ॑स्य ग्री॒वाः ॥

अपि॑ कृन्तामि \

अ॒स्मे राय॒स् त्वे राय॒स् तोते॒ रायः॒

सं दे॑वि दे॒व्योर्वश्या॑ पश्यस्व॒

त्वष्टी॑मती ते सपेय सु॒रेता॒ रेतो॒ दधा॑ना वी॒रं वि॑देय॒ तव॑ सं॒दृशि॑

माहँ रा॒यस् पोषे॑ण॒ वि यो॑षम् ॥

अँ॒शुना॑ ते अँ॒शुः पृ॑च्यता॒म् परु॑षा॒ परु॑र् ग॒न्धस् ते॒ काम॑म् अवतु॒ मदा॑य॒ रसो॒ अच्यु॑तो॒ऽमात्यो॑ऽसि शु॒क्रस् ते॒ ग्रह॑स् \

अ॒भि त्यं दे॒वँ स॑वि॒तार॑म् ऊ॒ण्योः॑ क॒विक्र॑तु॒म् अर्चा॑मि स॒त्यस॑वसँ रत्न॒धाम् अ॒भि प्रि॒यम् म॒तिम् । ऊ॒र्ध्वा यस्या॒मति॒र् भा अदि॑द्युत॒त् सवी॑मनि॒ हिर॑ण्यपाणिर् अमिमीत सु॒क्रतुः॑ कृ॒पा सुवः॑ ॥

प्र॒जाभ्य॑स् त्वा प्रा॒णाय॑ त्वा व्या॒नाय॑ त्वा प्र॒जास् त्वम् अनु॒ प्राणि॑हि प्र॒जास् त्वाम् अनु॒ प्राण॑न्तु ॥

सोमं॑ ते {F क्रीणाम्य्} {W क्र्??णा॒म्य्} {गोल्स् क्री॒णा॒म्य्} ऊर्ज॑स्वन्त॒म् पय॑स्वन्तं वी॒र्या॑वन्तम् अभिमाति॒षाहँ॑ शु॒क्रं ते॑ शु॒क्रेण॑ क्रीणामि च॒न्द्रं च॒न्द्रेणा॒मृत॑म् अ॒मृते॑न स॒म्यत् ते॒ गोस् \

अ॒स्मे च॒न्द्राणि॒

तप॑सस् त॒नूर् अ॑सि प्र॒जाप॑ते॒र् वर्ण॒स् तस्या॑स् ते सहस्रपो॒षम् पुष्य॑न्त्याश् चर॒मेण॑ प॒शुना॑ क्रीणामि \

अ॒स्मे ते॒ बन्धु॒र् मयि॑ ते॒ रायः॑ श्रयन्ताम्

अ॒स्मे ज्योतिः॑ सोमविक्र॒यिणि॒ तम॑स् \

मि॒त्रो न॒ एहि॒ सुमि॑त्रधास् \

इन्द्र॑स्यो॒रुम् आ वि॑श॒ दक्षि॑णम् उ॒शन्न् उ॒शन्तँ॑ स्यो॒नः स्यो॒नम् \

स्वान॒ भ्राजा॑ङ्घारे॒ बम्भा॑रे॒ हस्त॒ सुह॑स्त॒ कृशा॑नव् ए॒ते वः॑ सोम॒क्रय॑णा॒स् तान् र॑क्षध्व॒म् मा वो॑ दभन् ॥

उद् आयु॑षा स्वा॒युशो॒द् ओष॑धीनाँ॒ रसे॒नोत् प॒र्जन्य॑स्य॒ शुष्मे॑णोद् अस्थाम् अ॒मृताँ॒ अनु॑ ।

उ॒र्व् अ॑न्तरि॑क्ष॒म् अन्व् इ॑हि॒ \

अदि॑त्याः॒ सदो॑ऽसि॒ \

अदि॑त्याः॒ सद॒ आ सी॑द॒ \

अस्त॑भ्ना॒द् द्याम् ऋ॑ष॒भो अ॒न्तरि॑क्ष॒म् अमि॑मीत वरि॒माण॑म् पृथि॒व्या आसी॑दद् विश्वा॒ भुव॑नानि स॒म्राड् विश्वे॒त् तानि॒ वरु॑णस्य व्र॒तानि॑ ॥

वने॑षु॒ व्य् अ॑न्तरि॑क्षं ततान॒ वाज॒म् अर्व॑त्सु॒ पयो॑ अघ्नि॒यासु॑ हृ॒त्सु ॥

क्रतुं॒ वरु॑णो वि॒क्ष्व् अ॑ग्निं दि॒वि सूर्य॑म् अदधा॒त् सोम॒म् अद्रौ॒ \

उद् उ॒ त्यं जा॒तवे॑दसं दे॒वं व॑हन्ति के॒तवः॑ । दृ॒शे विश्वा॑य॒ सूर्य॑म् ॥

उस्रा॒व् एतं॑ धूर्षाहाव् अन॒श्रू अवी॑रहणौ ब्रह्म॒चोद॑नौ॒

वरु॑णस्य॒ स्कम्भ॑नम् असि॒

वरु॑णस्य स्कम्भ॒सर्ज॑नम् असि॒

प्रत्य॑स्तो॒ वरु॑णस्य॒ पाशः॑ ॥

प्र च्य॑वस्व भुवस् पते॒ विश्वा॑न्य् अ॒भि धामा॑नि॒ मा त्वा॑ परिप॒री वि॑द॒न् मा त्वा॑ परिप॒न्थिनो॑ विद॒न् मा त्वा॒ वृका॑ अघा॒यवो॒ मा ग॑न्ध॒र्वो वि॒श्वाव॑सु॒र् आ द॑घत् \

श्ये॒नो भू॒त्वा परा॑ पत॒ यज॑मानस्य नो गृ॒हे दे॒वैः सँ॑स्कृ॒तं यज॑मानस्य स्व॒स्त्यय॑न्य् असि॒ \

अपि॒ पन्था॑म् अगस्महि स्वस्ति॒गाम् अ॑ने॒हसं॒ येन॒ विश्वाः॒ परि॒ द्विषो॑ वृ॒णक्ति॑ वि॒न्दते॒ वसु॒

नमो॑ मि॒त्रस्य॒ वरु॑णस्य॒ चक्ष॑से॒ महो॑ दे॒वाय॒ तद् ऋ॒तँ स॑पर्यत दूरे॒दृशे॑ दे॒वजा॑ताय के॒तवे॑ दि॒वस् पु॒त्राय॒ सूर्या॑य शँसत ॥

वरु॑णस्य॒ स्कम्भ॑नम् असि॒

वरु॑णस्य स्कम्भ॒सर्ज॑नम् असि॒ \

उन्मु॑क्तो॒ वरु॑णस्य॒ पाशः॑ ॥

अ॒ग्नेर् आ॑ति॒थ्यम् अ॑सि॒ विष्ण॑वे त्वा॒ सोम॑स्याति॒थ्यम् अ॑सि॒ विष्ण॑वे॒ त्वाति॑थेर् आति॒थ्यम् अ॑सि॒ विष्ण॑वे त्वा॒ग्नये॑ त्वा रायस्पोष॒दाव्ने॒ विष्ण॑वे त्वा श्ये॒नाय॑ त्वा सोम॒भृते॒ विष्ण॑वे त्वा

या ते॒ धामा॑नि ह॒विषा॒ यज॑न्ति॒ ता ते॒ विश्वा॑ परि॒भूर् अ॑स्तु य॒ज्ञम् । ग॒य॒स्फानः॑ प्र॒तर॑णः सु॒वीरोऽवी॑रहा॒ प्र च॑रा सोम॒ दुर्या॑न् ॥

अदि॑त्याः॒ सदो॒ऽस्य् अदि॑त्याः॒ सद॑ आ ॥

सी॒द॒

वरु॑णोऽसि धृ॒तव्र॑तो वारु॒णम् अ॑सि

श॒म्योर् दे॒वानाँ॑ स॒ख्यान् मा दे॒वाना॑म् अ॒पस॑श् छित्स्महि \

आप॑तये त्वा {F गृह्णामि} {W गृह्णा॑मि} {गोल्स् गृ॒ह्णा॒मि॒} परि॑पतये त्वा {F गृह्णामि} {W गृह्णा॑मि} {गोल्स् गृ॒ह्णा॒मि॒} तनू॒नप्त्रे॑ {F त्वा गृह्णामि} {W त्वा गृह्णा॑मि} {गोल्स् गृ॒ह्णा॒मि॒} शा॒क्व॒राय॑ त्वा {F गृह्णामि} {W गृह्णा॑मि} {गोल्स् गृ॒ह्णा॒मि॒} शक्म॒न्न् ओजि॑ष्ठाय त्वा गृह्णामि॒ \

अना॑धृष्टम् अस्य् अनाधृ॒ष्यं दे॒वाना॒म् ओजो॑ऽभिषस्ति॒पा अ॑नभिशस्ते॒न्यम्

अनु॑ मे दीक्षां दी॒क्षाप॑तिर् मन्यता॒म् अनु॒ तप॒स् तप॑स्पति॒र् अञ्ज॑सा स॒त्यम् उप॑ गेषँ सुवि॒ते मा॑ धाः ॥

अँ॒शुरँ॑शुस् ते देव सो॒मा प्या॑यता॒म् इन्द्रा॑यैकधन॒विद॒ आ तुभ्य॒म् इन्द्रः॑ प्यायता॒म् आ त्वम् इन्द्रा॑य प्यायस्व \

आ प्या॑यय॒ सखी॑न्त् स॒न्या मे॒धया॑ स्व॒स्ति ते॑ देव सोम सु॒त्याम् अ॑शीय॒ \

एष्टा॒ रायः॒ प्रेषे भगा॑यर्तम् ऋतवा॒दिभ्यो॒ नमो॑ दि॒वे नमः॑ पृथि॒व्यै \

अग्ने॑ व्रतपते॒ त्वं व्र॒तानां॑ व्र॒तप॑तिर् असि॒ या मम॑ त॒नूर् ए॒षा सा त्वयि॑ ॥

या तव॑ त॒नूर् इ॒यँ सा मयि॑ स॒ह नौ॑ व्रतपते व्र॒तिनो॑र् व्र॒तानि॑

या ते॑ अग्ने॒ रुद्रि॑या त॒नूस् तया॑ नः पाहि॒ तस्या॑स् ते॒ स्वाहा॑

या ते॑ अग्नेऽयाश॒या र॑जाश॒या ह॑राश॒या त॒नूर् वर्षि॑ष्ठा गह्वरे ष्ठा \

उ॒ग्रं वचो॒ अपा॑वधीं त्वे॒षं वचो॒ अपा॑वधीँ॒ स्वाहा॑ ॥

वि॒त्ताय॑नी मेऽसि ति॒क्ताय॑नी मे॒ऽस्य् अव॑तान् मा नाथि॒तम् अव॑तान् मा व्यथि॒तम् \

वि॒देर् अ॒ग्निर् नभो॒ नाम॒ \

अग्ने॑ अङ्गिरो॒ यो॑ऽस्याम् पृ॑थि॒व्याम् अस्य् आयु॑षा॒ नाम्नेहि॒ यत् तेऽना॑धृष्टं॒ नाम॑ य॒ज्ञियं॒ तेन॒ त्वा द॑धे॒ \

अग्ने॑ अङ्गिरो॒ यो द्वि॒तीय॑स्यां तृ॒तीय॑स्याम् पृथि॒व्याम् अस्य् आयु॑षा॒ नाम्नेहि॒ यत् तेऽना॑धृष्टं॒ नाम॑ ॥

य॒ज्ञियं॒ तेन॒ त्वा द॑धे

सिँ॒हीर् अ॑सि महि॒षीर् अ॑सि \

उ॒रु प्र॑थस्वो॒रु ते॑ य॒ज्ञप॑तिः प्रथताम् \

ध्रु॒वासि॑

दे॒वेभ्यः॑ शुन्धस्व दे॒वेभ्यः॑ शुम्भस्व \

इन्द्रघो॒षस् त्वा वसु॑भिः पु॒रस्ता॑त् पातु॒ मनो॑जवास् त्वा पि॒तृभि॑र् दक्षिण॒तः पा॑तु॒ प्रचे॑तास् त्वा रु॒द्रैः प॒श्चात् पा॑तु वि॒श्वक॑र्मा त्वादि॒त्यैर् उ॑त्तर॒तः पा॑तु

सिँ॒हीर् अ॑सि सपत्नसा॒ही स्वाहा॑ सिँ॒हीर् अ॑सि सुप्रजा॒वनिः॒ स्वाहा॑ सिँ॒हीः ॥

अ॒सि॒ रा॒य॒स्पो॒ष॒वनिः॒ स्वाहा॑ सिँ॒हीर् अ॑स्य् आदित्य॒वनिः॒ स्वाहा॑ सिँ॒हीर् अ॒स्य् आ व॑ह दे॒वान् दे॑वय॒ते यज॑मानाय॒ स्वाहा॑

भू॒तेभ्य॑स् त्वा

वि॒श्वायु॑र् असि पृथि॒वीं दृँ॑ह ध्रुव॒क्षिद् अ॑स्य् अ॒न्तरि॑क्षं दृँहाच्युत॒क्षिद् अ॑सि॒ दिवं॑ दृँह \

अ॒ग्नेर् भस्मा॑स्य् अ॒ग्नेः पुरी॑षम् असि ॥

यु॒ञ्जते॒ मन॑ उ॒त यु॑ञ्जते॒ धियो॒ विप्रा॒ विप्र॑स्य बृह॒तो वि॑प॒श्चितः॑ । वि होत्रा॑ दधे वयुना॒विद् एक॒ इन् म॒ही दे॒वस्य॑ सवि॒तुः परि॑ष्टुतिः ॥

सु॒वाग् दे॑व॒ दुर्याँ॒ आ व॑द

देव॒श्रुतौ॑ दे॒वेष्व् आ घो॑षेथाम्

आ नो॑ वी॒रो जा॑यतां कर्म॒ण्यो॑ यँ सर्वे॑ऽनु॒जीवा॑म॒ यो ब॑हू॒नाम् अस॑द् व॒शी ।

इ॒दं विष्णु॒र् वि च॑क्रमे त्रे॒धा नि द॑धे प॒दम् । समू॑ढम् अस्य ॥

पाँ॒सु॒रे

इरा॑वरी धेनु॒मती॒ हि भू॒तँ सू॑यव॒सिनी॒ मन॑वे यश॒स्ये॑ । व्य् अ॑स्कभ्ना॒द् रोद॑सी॒ विष्णु॑र् ए॒ते दा॒धार॑ पृथि॒वीम् अ॒भितो॑ म॒यूखैः॑ ॥

प्राची॒ प्रेत॑म् अध्व॒रं क॒ल्पय॑न्ती॒ ऊर्ध्वं य॒ज्ञं न॑यत॒म् मा जी॑ह्वरत॒म् अत्र॑ रमेथां॒ वर्ष्म॑न् पृथि॒व्यास् \

दि॒वो वा॑ विष्णव् उ॒त वा॑ पृथि॒व्या म॒हो वा॑ विष्णव् उ॒त वा॒न्तरि॑क्षा॒द् धस्तौ॑ पृणस्व ब॒हुभि॑र् वस॒व्यै॑र् आ प्र य॑छ ॥

दक्षि॑णा॒द् ओत स्व॒यात् ॥

विष्णो॒र् नुकं॑ वी॒र्या॑णि॒ प्र वो॑चं॒ यः पार्थि॑वानि विम॒मे रजाँ॑सि॒ यो अस्क॑भाय॒द् उत्त॑रँ स॒धस्थं॑ विचक्रमा॒णस् त्रे॒धोरु॑गा॒यस् \

विष्णो॑ र॒राट॑म् असि॒ विष्णोः॑ पृ॒ष्ठम् अ॑सि॒

विष्णोः॒ श्न्यप्त्रे॑ स्थस् \

विष्णोः॒ स्यूर् अ॑सि॒

विष्णो॑र् ध्रु॒वम् अ॑सि

वैष्ण॒वम् अ॑सि॒ विष्ण॑वे त्वा ॥

कृ॒णु॒ष्व पाजः॒ प्रसि॑तिं॒ न पृ॒थ्वीं या॒हि राजे॒वाम॑वाँ॒ इभे॑न । तृ॒ष्वीम् अनु॒ प्रसि॑तिं द्रूणा॒नोऽस्ता॑सि॒ विध्य॑ र॒क्षस॒स् तपि॑ष्ठैः ॥

तव॑ भ्र॒मास॑ आशु॒या प॑त॒न्त्य् अनु॑ स्पृश धृष॒ता शोशु॑चानः । तपूँ॑ष्य् अग्ने जु॒ह्वा॑ पतं॒गान् असं॑दितो॒ वि सृ॑ज॒ विष्व॑ग् उ॒ल्काः ॥

प्रति॒ स्पशो॒ वि सृ॑ज॒ तूर्णि॑तमो॒ भवा॑ पा॒युर् वि॒शो अ॑स्या॒ अद॑ब्धः । यो नो॑ दूरे अ॒घशँ॑सः ॥

यो अन्त्य् अग्ने॒ माकि॑ष् टे॒ व्यथि॒र् आ द॑धर्षीत् ॥

उद् अ॑ग्ने तिष्ठ॒ प्रत्य् आ त॑नुष्व॒ न्य् अ॑मित्राँ॑ ओषतात् तिग्महेते । यो नो॒ अरा॑तिँ समिधान च॒क्रे नी॒चा तं ध॑क्ष्य् अत॒सं न शुष्क॑म् ॥

ऊ॒र्ध्वो भ॑व॒ प्रति॑ वि॒ध्याध्य् अ॒स्मद् आ॒विष् कृ॑णुष्व॒ दैव्या॑न्य् अग्ने । अव॑ स्थि॒रा त॑नुहि यातु॒जूनां॑ {F जा॒मिम्} {W जा॒मिं} अजा॑मि॒म् प्र मृ॑णीहि॒ शत्रू॑न् ॥

स ते॑ ॥

जा॒ना॒ति॒ सु॒म॒तिं य॑विष्ठ॒ य ईव॑ते॒ ब्रह्म॑णे गा॒तुम् ऐर॑त् । विश्वा॑न्य् अस्मै सु॒दिना॑नि रा॒यो द्यु॒म्नान्य् अ॒र्यो वि दुरो॑ अ॒भि द्यौ॑त् ॥

सेद् अ॑ग्ने अस्तु सु॒भगः॑ सु॒दानु॒र् यस् त्वा॒ नित्ये॑न ह॒विषा॒ य उ॒क्थैः । पिप्री॑षति॒ स्व आयु॑षि दुरो॒णे विश्वेद् अ॑स्मै सु॒दिना॒ सास॑द् इ॒ष्टिः ॥

अर्चा॑मि ते सुम॒तिं घोष्य् अ॒र्वाक् सं ते॑ वा॒वाता॑ जरताम् ॥

इ॒यं गीः । स्वश्वा॑स् त्वा सु॒रथा॑ मर्जयेमा॒स्मे क्ष॒त्राणि॑ धारये॒र् अनु॒ द्यून् ॥

इ॒ह त्वा॒ भूर्य् आ च॑रे॒द् उप॒ त्मन् दोषा॑वस्तर् दीदि॒वाँस॒म् अनु॒ द्यून् । क्रीड॑न्तस् त्वा सु॒मन॑सः सपेमा॒भि द्यु॒म्ना त॑स्थि॒वाँसो॒ जना॑नाम् ॥

यस् त्वा॒ स्वश्वः॑ सुहिर॒ण्यो अ॑ग्न उप॒याति॒ वसु॑मता॒ रथे॑न । तस्य॑ त्रा॒ता भ॑वसि॒ तस्य॒ सखा॒ यस् त॑ आति॒थ्यम् आ॑नु॒षग् जुजो॑षत् ॥

म॒हो रु॑जामि ॥

ब॒न्धुता॒ वचो॑भि॒स् तन् मा॑ पि॒तुर् गोत॑मा॒द् अन्व् इ॑याय । त्वं नो॑ अस्य॒ वच॑सश् चिकिद्धि॒ होत॑र् यविष्ठ सुक्रतो॒ दमू॑नाः ॥

अस्व॑प्नजस् त॒रण॑यः सु॒शेवा॒ अत॑न्द्रासोऽवृ॒का अश्र॑मिष्ठाः । ते पा॒यवः॑ स॒ध्रिय॑ञ्चो नि॒षद्याग्ने॒ तव॑ नः पान्त्व् अमूर ॥

ये पा॒यवो॑ मामते॒यं ते॑ अग्ने॒ पश्य॑न्तो अ॒न्धं दु॑रि॒ताद् अर॑क्षन् । र॒रक्ष॒ तान्त् सु॒कृतो॑ वि॒श्ववे॑दा॒ दिप्स॑न्त॒ इद् रि॒पवो॒ ना ह॑ ॥

दे॒भुः॒ ॥

त्वया॑ व॒यँ स॑द् ह॒न्य॑स् त्वोता॒स् तव॒ प्रणी॑त्य् अश्याम॒ वाजा॑न् । उ॒भा शँसा॑ सूदय सत्यतातेऽनुष्ठु॒या कृ॑णुह्य् अह्रयाण ॥

अ॒या ते॑ अग्ने स॒मिधा॑ विधेम॒ प्रति॒ स्तोमँ॑ श॒स्यमा॑नं गृभाय । दहा॒शसो॑ र॒क्षसः॑ पा॒ह्य् अ॑स्मान् द्रु॒हो नि॒दो मि॑त्रमहो अव॒द्यात् ॥

र॒क्षो॒हनं॑ वा॒जिन॒म् आ जि॑घर्मि मि॒त्रम् {F प्रति॑ष्ठम्} {W प्रथि॑ष्ठ॒म्} उप॑ यामि॒ शर्म॑ । शि॒शा॒नो॒ अ॒ग्निः क्रतु॑भिः॒ समि॑द्धः॒ स नो॒ दिवा॑ ॥

स रि॒षः पा॑तु॒ नक्त॑म् ॥

वि ज्योति॑षा बृह॒ता भा॑त्य् अ॒ग्निर् आ॒विर् विश्वा॑नि कृणुते महि॒त्वा । प्रादे॑वीर् मा॒याः स॑हते दु॒रेवाः॒ शिशी॑ते॒ शृङ्गे॒ रक्ष॑से वि॒निक्षे॑ ॥

उ॒त स्वा॒नासो॑ दि॒वि ष॑न्त्व् अ॒ग्नेस् ति॒ग्मायु॑धा॒ रक्ष॑से॒ हन्त॒वा उ॑ । मदे॑ चिद् अस्य॒ प्र रु॑जन्ति॒ भामा॒ न व॑रन्ते परि॒बाधो॒ अदे॑वीः ॥