बृह॒स्पति॑रकामयत॒ श्रन्मे॑ दे॒वा दधी॑र॒न्गच्छे॑यम्पुरो॒धामिति॒ स ए॒तञ्च॑तुर्विँशतिरा॒त्रम॑पश्य॒त्तमाह॑र॒त्तेना॑यजत॒ ततो॒ वै तस्मै॒ श्रद्दे॒वा अद॑ध॒ताग॑च्छत्पुरो॒धाय्यँ ए॒वव्ँवि॒द्वाँस॑श्चतुर्विँशतिरा॒त्रमास॑ते॒ श्रदे॑भ्यो मनु॒ष्या॑ दधते॒ गच्छ॑न्ति पुरो॒धाञ्ज्योति॒र्गौरायु॒रिति॑ त्र्य॒हा भ॑वन्ती॒यव्ँ वाव ज्योति॑र॒न्तरि॑क्ष॒ङ्गौर॒सावायुः॑ [1]
इ॒माने॒व लो॒कान॒भ्यारो॑हन्त्यभिपू॒र्वन्त्र्य॒हा भ॑वन्त्यभिपू॒र्वमे॒व सु॑व॒र्गल्ँ लो॒कम॒भ्यारो॑ह॒न्त्यस॑त्त्रव्ँ॒वा ए॒तद्यद॑छन्दो॒मय्यँच्छ॑न्दो॒मा भव॑न्ति॒ तेन॑ स॒त्त्रन्दे॒वता॑ ए॒व पृ॒ष्ठैरव॑ रुन्धते प॒शूञ्छ॑न्दो॒मैरोजो॒ वै वी॒र्य॑म्पृ॒ष्ठानि॑ प॒शव॑श्छन्दो॒मा ओज॑स्ये॒व वी॒र्ये॑ प॒शुषु॒ प्रति॑ तिष्ठन्ति बृहद्रथन्त॒राभ्याय्ँ॑यन्ती॒यव्ँ वाव र॑थन्त॒रम॒सौ बृ॒हदा॒भ्यामे॒व [2]
य॒न्त्यथो॑ अ॒नयो॑रे॒व प्रति॑ तिष्ठन्त्ये॒ते वै य॒ज्ञस्या॑ञ्ज॒साय॑नी स्रु॒ती ताभ्या॑मे॒व सु॑व॒र्गल्ँ लो॒कय्ँय॑न्ति चतुर्विँशतिरा॒त्रो भ॑वति॒ चतु॑र्विँशतिरर्धमा॒सास्सव्ँ॑वत्स॒रस्सव्ँ॑वत्स॒रस्सु॑व॒र्गो लो॒कस्सव्ँ॑वत्स॒र ए॒व सु॑व॒र्गे लो॒के प्रति॑ तिष्ठ॒न्त्यथो॒ चतु॑र्विँशत्यक्षरा गाय॒त्री गा॑य॒त्री ब्र॑ह्मवर्च॒सङ्गा॑यत्रि॒यैव ब्र॑ह्मवर्च॒समव॑ रुन्धतेऽतिरा॒त्राव॒भितो॑ भवतो ब्रह्मवर्च॒सस्य॒ परि॑गृहीत्यै ॥ [3]
यथा॒ वै म॑नु॒ष्या॑ ए॒वन्दे॒वा अग्र॑ आस॒न्ते॑ऽकामय॒न्ताव॑र्तिम्पा॒प्मान॑म्मृ॒त्युम॑प॒हत्य॒ दैवीँ॑ सँ॒सद॑ङ्गच्छे॒मेति॒ त ए॒तञ्च॑तुर्विँशतिरा॒त्रम॑पश्य॒न्तमाह॑र॒न्तेना॑यजन्त॒ ततो॒ वै तेऽव॑र्तिम्पा॒प्मान॑म्मृ॒त्युम॑प॒हत्य॒ दैवीँ॑ सँ॒सद॑मगच्छ॒न्‌य ए॒वव्ँवि॒द्वाँ॑सश्चतुर्विँशतिरा॒त्रमास॒तेऽव॑र्तिमे॒व पा॒प्मान॑मप॒हत्य॒ श्रिय॑ङ्गच्छन्ति॒ श्रीर्हि म॑नु॒ष्य॑स्य [4]
दैवी॑ सँ॒सज्ज्योति॑रतिरा॒त्रो भ॑वति सुव॒र्गस्य॑ लो॒कस्यानु॑ख्यात्यै॒ पृष्ठ्य॑ष्षड॒हो भ॑वति॒ षड्वा ऋ॒तव॑स्सव्ँवत्स॒रस्तम्मासा॑ अर्धमा॒सा ऋ॒तवᳶ॑ प्र॒विश्य॒ दैवीँ॑ सँ॒सद॑मगच्छ॒न्‌य ए॒वव्ँवि॒द्वाँ॑सश्चतुर्विँशतिरा॒त्रमास॑ते सव्ँवत्स॒रमे॒व प्र॒विश्य॒ वस्य॑सीँ सँ॒सद॑ङ्गच्छन्ति॒ त्रय॑स्त्रयस्त्रिँ॒शा अ॒वस्ता॑द्भवन्ति॒ त्रय॑स्त्रयस्त्रिँ॒शाᳶ प॒रस्ता॑त्त्रयस्त्रिँ॒शैरे॒वोभ॒यतोऽव॑र्तिम्पा॒प्मान॑मप॒हत्य॒ दैवीँ॑ सँ॒सद॑म्मध्य॒तः [5]
ग॒च्छ॒न्ति॒ पृ॒ष्ठानि॒ हि दैवी॑ सँ॒सज्जा॒मि वा ए॒तत्कु॑र्वन्ति॒ यत्त्रय॑स्त्रयस्त्रिँ॒शा अ॒न्वञ्चो॒ मध्येऽनि॑रुक्तो भवति॒ तेनाजा॑म्यू॒र्ध्वानि॑ पृ॒ष्ठानि॑ भवन्त्यू॒र्ध्वाश्छ॑न्दो॒मा उ॒भाभ्याँ॑ रू॒पाभ्याँ॑ सुव॒र्गल्ँ लो॒कय्ँय॒न्त्यस॑त्त्रव्ँ॒वा ए॒तद्यद॑छन्दो॒मय्ँयच्छ॑न्दो॒मा भव॑न्ति॒ तेन॑ स॒त्त्रन्दे॒वता॑ ए॒व पृ॒ष्ठैरव॑ रुन्धते प॒शूञ्छ॑न्दो॒मैरोजो॒ वै वी॒र्य॑म्पृ॒ष्ठानि॑ प॒शवः॑ [6]
छ॒न्दो॒मा ओज॑स्ये॒व वी॒र्ये॑ प॒शुषु॒ प्रति॑ तिष्ठन्ति॒ त्रय॑स्त्रयस्त्रिँ॒शा अ॒वस्ता॑द्भवन्ति॒ त्रय॑स्त्रयस्त्रिँ॒शाᳶ प॒रस्ता॒न्मध्ये॑ पृ॒ष्ठान्युरो॒ वै त्र॑यस्त्रिँ॒शा आ॒त्मा पृ॒ष्ठान्या॒त्मन॑ ए॒व तद्यज॑माना॒श्शर्म॑ नह्य॒न्तेऽना॑र्त्यै बृहद्रथन्त॒राभ्याय्ँ॑यन्ती॒यव्ँ वाव र॑थन्त॒रम॒सौ बृ॒हदा॒भ्यामे॒व य॒न्त्यथो॑ अ॒नयो॑रे॒व प्रति॑ तिष्ठन्त्ये॒ते वै य॒ज्ञस्या॑ञ्ज॒साय॑नी स्रु॒ती ताभ्या॑मे॒व [7]
सु॒व॒र्गल्ँ लो॒कय्ँय॑न्ति॒ परा॑ञ्चो॒ वा ए॒ते सु॑व॒र्गल्ँ लो॒कम॒भ्यारो॑हन्ति॒ ये प॑रा॒चीना॑नि पृ॒ष्ठान्यु॑प॒यन्ति॑ प्र॒त्यङ्क्ष॑ड॒हो भ॑वति प्र॒त्यव॑रूढ्या॒ अथो॒ प्रति॑ष्ठित्या उ॒भयो॑र्लो॒कयो॑र्ऋ॒द्ध्वोत्ति॑ष्ठन्ति त्रि॒वृतोऽधि॑ त्रि॒वृत॒मुप॑ यन्ति॒ स्तोमा॑नाँ॒ सम्प॑त्त्यै प्रभ॒वाय॒ ज्योति॑रग्निष्टो॒मो भ॑वत्य॒यव्ँ वाव स क्षयो॒ऽस्मादे॒व तेन॒ क्षया॒न्न य॑न्ति चतुर्विँशतिरा॒त्रो भ॑वति॒ चतु॑र्विँशतिरर्धमा॒सास्सव्ँ॑वत्स॒रस्सव्ँ॑वत्स॒रस्सु॑व॒र्गो लो॒कस्सव्ँ॑वत्स॒र ए॒व सु॑व॒र्गे लो॒के प्रति॑ तिष्ठ॒न्त्यथो॒ चतु॑र्विँशत्यक्षरा गाय॒त्री गा॑य॒त्री ब्र॑ह्मवर्च॒सङ्गा॑यत्रि॒यैव ब्र॑ह्मवर्च॒समव॑ रुन्धतेऽतिरा॒त्राव॒भितो॑ भवतो ब्रह्मवर्च॒सस्य॒ परि॑गृहीत्यै ॥ [8]
ऋ॒क्षा वा इ॒यम॑लो॒मका॑सी॒त्साका॑मय॒तौष॑धीभि॒र्वन॒स्पति॑भि॒ᳶ प्र जा॑ये॒येति॒ सैतास्त्रिँ॒शतँ॒ रात्री॑रपश्य॒त्ततो॒ वा इ॒यमोष॑धीभि॒र्वन॒स्पति॑भि॒ᳶ प्राजा॑यत॒ ये प्र॒जाका॑माᳶ प॒शुका॑मा॒स्स्युस्त ए॒ता आ॑सीर॒न्प्रैव जा॑यन्ते प्र॒जया॑ प॒शुभि॑रि॒यव्ँ वा अ॑क्षुध्य॒त्सैताव्ँवि॒राज॑मपश्य॒त्तामा॒त्मन्धि॒त्वान्नाद्य॒मवा॑रु॒न्द्धौष॑धीः [9]
वन॒स्पती॑न्प्र॒जाम्प॒शून्तेना॑वर्धत॒ सा जे॒मान॑म्महि॒मान॑मगच्छ॒द्य ए॒वव्ँवि॒द्वाँस॑ ए॒ता आस॑ते वि॒राज॑मे॒वात्मन्धि॒त्वाऽन्नाद्य॒मव॑ रुन्धते॒ वर्ध॑न्ते प्र॒जया॑ प॒शुभि॑र्जे॒मान॑म्महि॒मान॑ङ्गच्छन्ति॒ ज्योति॑रतिरा॒त्रो भ॑वति सुव॒र्गस्य॑ लो॒कस्यानु॑ख्यात्यै॒ पृष्ठ्य॑ष्षड॒हो भ॑वति॒ षड्वा ऋ॒तव॒ष्षट्पृ॒ष्ठानि॑ पृ॒ष्ठैरे॒वर्तून॒न्वारो॑हन्त्यृ॒तुभि॑स्सव्ँवत्स॒रन्ते सव्ँ॑वत्स॒र ए॒व [10]
प्रति॑ तिष्ठन्ति त्रयस्त्रिँ॒शात्त्र॑यस्त्रिँ॒शमुप॑ यन्ति य॒ज्ञस्य॒ सन्त॑त्या॒ अथो॑ प्र॒जाप॑ति॒र्वै त्र॑यस्त्रिँ॒शᳶ प्र॒जाप॑तिमे॒वा र॑भन्ते॒ प्रति॑ष्ठित्यै त्रिण॒वो भ॑वति॒ विजि॑त्या एकविँ॒शो भ॑वति॒ प्रति॑ष्ठित्या॒ अथो॒ रुच॑मे॒वात्मन्द॑धते त्रि॒वृद॑ग्नि॒ष्टुद्भ॑वति पा॒प्मान॑मे॒व तेन॒ निर्द॑ह॒न्तेऽथो॒ तेजो॒ वै त्रि॒वृत्तेज॑ ए॒वात्मन्द॑धते पञ्चद॒श इ॑न्द्रस्तो॒मो भ॑वतीन्द्रि॒यमे॒वाव॑ [11]
रु॒न्ध॒ते॒ स॒प्त॒द॒शो भ॑वत्य॒न्नाद्य॒स्याव॑रुद्ध्या॒ अथो॒ प्रैव तेन॑ जायन्त एकविँ॒शो भ॑वति॒ प्रति॑ष्ठित्या॒ अथो॒ रुच॑मे॒वात्मन्द॑धते चतुर्विँ॒शो भ॑वति॒ चतु॑र्विँशतिरर्धमा॒सास्सव्ँ॑वत्स॒रस्सव्ँ॑वत्स॒रस्सु॑व॒र्गो लो॒कस्सव्ँ॑वत्स॒र ए॒व सु॑व॒र्गे लो॒के प्रति॑ तिष्ठ॒न्त्यथो॑ ए॒ष वै वि॑षू॒वान्‌वि॑षू॒वन्तो॑ भवन्ति॒ य ए॒वव्ँवि॒द्वाँस॑ ए॒ता आस॑ते चतुर्विँ॒शात्पृ॒ष्ठान्युप॑ यन्ति सव्ँवत्स॒र ए॒व प्र॑ति॒ष्ठाय॑ [12]
दे॒वता॑ अ॒भ्यारो॑हन्ति त्रयस्त्रिँ॒शात्त्र॑यस्त्रिँ॒शमुप॑ यन्ति॒ त्रय॑स्त्रिँश॒द्वै दे॒वता॑ दे॒वता॑स्वे॒व प्रति॑ तिष्ठन्ति त्रिण॒वो भ॑वती॒मे वै लो॒कास्त्रि॑ण॒व ए॒ष्वे॑व लो॒केषु॒ प्रति॑ तिष्ठन्ति॒ द्वावे॑कविँ॒शौ भ॑वत॒ᳶ प्रति॑ष्ठित्या॒ अथो॒ रुच॑मे॒वात्मन्द॑धते ब॒हव॑ष्षोड॒शिनो॑ भवन्ति॒ तस्मा॑द्ब॒हवᳶ॑ प्र॒जासु॒ वृषा॑णो॒ यदे॒ते स्तोमा॒ व्यति॑षक्ता॒ भव॑न्ति॒ तस्मा॑दि॒यमोष॑धीभि॒र्वन॒स्पति॑भि॒र्व्यति॑षक्ता [13]
व्यति॑षज्यन्ते प्र॒जया॑ प॒शुभि॒र्य ए॒वव्ँवि॒द्वाँस॑ ए॒ता आस॒तेऽकॢ॑प्ता॒ वा ए॒ते सु॑व॒र्गल्ँ लो॒कय्ँय॑न्त्युच्चाव॒चान्‌हि स्तोमा॑नुप॒यन्ति॒ यदे॒त ऊ॒र्ध्वाᳵ कॢ॒प्तास्स्तोमा॒ भव॑न्ति कॢ॒प्ता ए॒व सु॑व॒र्गल्ँ लो॒कय्ँय॑न्त्यु॒भयो॑रेभ्यो लो॒कयोः॑ कल्पते त्रिँ॒शदे॒तास्त्रिँ॒शद॑क्षरा वि॒राडन्नव्ँ॑वि॒राड्वि॒राजै॒वान्नाद्य॒मव॑ रुन्धतेऽतिरा॒त्राव॒भितो॑ भवतो॒ऽन्नाद्य॑स्य॒ परि॑गृहीत्यै ॥ [14]
प्र॒जाप॑तिस्सुव॒र्गल्ँ लो॒कमै॒त्तन्दे॒वा येन॑येन॒ छन्द॒सानु॒ प्रायु॑ञ्जत॒ तेन॒ नाप्नु॑व॒न्त ए॒ता द्वात्रिँ॑शतँ॒ रात्री॑रपश्य॒न्द्वात्रिँ॑शदक्षरानु॒ष्टुगानु॑ष्टुभᳶ प्र॒जाप॑ति॒स्स्वेनै॒व छन्द॑सा प्र॒जाप॑तिमा॒प्त्वाभ्या॒रुह्य॑ सुव॒र्गल्ँ लो॒कमा॑य॒न्‌य ए॒वव्ँवि॒द्वाँस॑ ए॒ता आस॑ते॒ द्वात्रिँ॑शदे॒ता द्वात्रिँ॑शदक्षरानु॒ष्टुगानु॑ष्टुभᳶ प्र॒जाप॑ति॒स्स्वेनै॒व छन्द॑सा प्र॒जाप॑तिमा॒प्त्वा श्रिय॑ङ्गच्छन्ति [15]
श्रीर्हि म॑नु॒ष्य॑स्य सुव॒र्गो लो॒को द्वात्रिँ॑शदे॒ता द्वात्रिँ॑शदक्षरानु॒ष्टुग्वाग॑नु॒ष्टुप्सर्वा॑मे॒व वाच॑माप्नुवन्ति॒ सर्वे॑ वा॒चो व॑दि॒तारो॑ भवन्ति॒ सर्वे॒ हि श्रिय॒ङ्गच्छ॑न्ति॒ ज्योति॒र्गौरायु॒रिति॑ त्र्य॒हा भ॑वन्ती॒यव्ँ वाव ज्योति॑र॒न्तरि॑क्ष॒ङ्गौर॒सावायु॑रि॒माने॒व लो॒कान॒भ्यारो॑हन्त्यभिपू॒र्वन्त्र्य॒हा भ॑वन्त्यभिपू॒र्वमे॒व सु॑व॒र्गल्ँ लो॒कम॒भ्यारो॑हन्ति बृहद्रथन्त॒राभ्याय्ँ॑यन्ति [16]
इ॒यव्ँ वाव र॑थन्त॒रम॒सौ बृ॒हदा॒भ्यामे॒व य॒न्त्यथो॑ अ॒नयो॑रे॒व प्रति॑ तिष्ठन्त्ये॒ते वै य॒ज्ञस्या॑ञ्ज॒साय॑नी स्रु॒ती ताभ्या॑मे॒व सु॑व॒र्गल्ँ लो॒कय्ँय॑न्ति॒ परा॑ञ्चो॒ वा ए॒ते सु॑व॒र्गल्ँ लो॒कम॒भ्यारो॑हन्ति॒ ये परा॑चस्त्र्य॒हानु॑प॒यन्ति॑ प्र॒त्यङ्त्र्य॒हो भ॑वति॒ प्र॒त्यव॑रूढ्या॒ अथो॒ प्रति॑ष्ठित्या उ॒भयो॑र्लो॒कयो॑र्ऋ॒द्ध्वोत्ति॑ष्ठन्ति॒ द्वात्रिँ॑शदे॒तास्तासाय्ँ॒यास्त्रिँ॒शत्त्रिँ॒शद॑क्षरा वि॒राडन्नव्ँ॑वि॒राड्वि॒राजै॒वान्नाद्य॒मव॑ रुन्धते॒ ये द्वे अ॑होरा॒त्रे ए॒व ते उ॒भाभ्याँ॑ रू॒पाभ्याँ॑ सुव॒र्गल्ँ लो॒कय्ँय॑न्त्यतिरा॒त्राव॒भितो॑ भवत॒ᳶ परि॑गृहीत्यै ॥ [17]
द्वे वाव दे॑वस॒त्त्रे द्वा॑दशा॒हश्चै॒व त्र॑यस्त्रिँशद॒हश्च॒ य ए॒वव्ँवि॒द्वाँस॑स्त्रयस्त्रिँशद॒हमास॑ते सा॒क्षादे॒व दे॒वता॑ अ॒भ्यारो॑हन्ति॒ यथा॒ खलु॒ वै श्रेया॑न॒भ्यारू॑ढᳵ का॒मय॑ते॒ तथा॑ करोति॒ यद्य॑व॒विध्य॑ति॒ पापी॑यान्भवति॒ यदि॒ नाव॒विध्य॑ति स॒दृङ्य ए॒वव्ँवि॒द्वाँस॑स्त्रयस्त्रिँशद॒हमास॑ते॒ वि पा॒प्मना॒ भ्रातृ॑व्ये॒णा व॑र्तन्तेऽह॒र्भाजो॒ वा ए॒ता दे॒वा अग्र॒ आह॑रन्न् [18]
अह॒रेकोऽभ॑ज॒ताह॒रेक॒स्ताभि॒र्वै ते प्र॒बाहु॑गार्ध्नुव॒न्‌य ए॒वव्ँवि॒द्वाँस॑स्त्रयस्त्रिँशद॒हमास॑ते॒ सर्व॑ ए॒व प्र॒बाहु॑गृध्नुवन्ति॒ सर्वे॒ ग्राम॑णीय॒म्प्राप्नु॑वन्ति पञ्चा॒हा भ॑वन्ति॒ पञ्च॒ वा ऋ॒तव॑स्सव्ँवत्स॒र ऋ॒तुष्वे॒व सव्ँ॑वत्स॒रे प्रति॑ तिष्ठ॒न्त्यथो॒ पञ्चा॑क्षरा प॒ङ्क्तिᳶ पाङ्क्तो॑ य॒ज्ञ य॒ज्ञमे॒वाव॑ रुन्धते॒ त्रीण्या॑श्वि॒नानि॑ भवन्ति॒ त्रय॑ इ॒मे लो॒का ए॒षु [19]
ए॒व लो॒केषु॒ प्रति॑ तिष्ठ॒न्त्यथो॒ त्रीणि॒ वै य॒ज्ञस्ये॑न्द्रि॒याणि॒ तान्ये॒वाव॑ रुन्धते विश्व॒जिद्भ॑वत्य॒न्नाद्य॒स्याव॑रुद्ध्यै॒ सर्व॑पृष्ठो भवति॒ सर्व॑स्या॒भिजि॑त्यै॒ वाग्वै द्वा॑दशा॒हो यत्पु॒रस्ता॑द्द्वादशा॒हमु॑पे॒युरना॑प्ताव्ँ॒वाच॒मुपे॑युरुप॒दासु॑कैषाव्ँ॒वाक्स्या॑दु॒परि॑ष्टाद्द्वादशा॒हमुप॑ यन्त्या॒प्तामे॒व वाच॒मुप॑ यन्ति॒ तस्मा॑दु॒परि॑ष्टाद्वा॒चा व॑दामोऽवान्त॒रम् [20]
वै द॑शरा॒त्रेण॑ प्र॒जाप॑तिᳶ प्र॒जा अ॑सृजत॒ यद्द॑शरा॒त्रो भव॑ति प्र॒जा ए॒व तद्यज॑मानास्सृजन्त ए॒ताँ ह॒ वा उ॑द॒ङ्कश्शौ॑ल्बाय॒नस्स॒त्त्रस्यर्द्धि॑मुवाच॒ यद्द॑शरा॒त्रो यद्द॑शरा॒त्रो भव॑ति स॒त्त्रस्यर्द्ध्या॒ अथो॒ यदे॒व पूर्वे॒ष्वह॑स्सु॒ विलो॑म क्रि॒यते॒ तस्यै॒वैषा शान्ति॑र्द्व्यनी॒का वा ए॒ता रात्र॑यो॒ यज॑माना विश्व॒जित्स॒हाति॑रा॒त्रेण॒ पूर्वा॒ष्षोड॑श स॒हाति॑रा॒त्रेणोत्त॑रा॒ष्षोड॑श॒ य ए॒वव्ँवि॒द्वाँस॑स्त्रयस्त्रिँशद॒हमास॑त॒ ऐ॑षा॑न्द्व्यनी॒का प्र॒जा जा॑यतेऽतिरा॒त्राव॒भितो॑ भवत॒ᳶ परि॑गृहीत्यै ॥ [21]
आ॒दि॒त्या अ॑कामयन्त सुव॒र्गल्ँ लो॒कमि॑या॒मेति॒ ते सु॑व॒र्गल्ँ लो॒कन्न प्राजा॑न॒न्न सु॑व॒र्गल्ँ लो॒कमा॑य॒न्त ए॒तँ ष॑ट्त्रिँशद्रा॒त्रम॑पश्य॒न्तमाह॑र॒न्तेना॑यजन्त॒ ततो॒ वै ते सु॑व॒र्गल्ँ लो॒कम्प्राजा॑नन्त्सुव॒र्गल्ँ लो॒कमा॑य॒न्‌य ए॒वव्ँवि॒द्वाँस॑ष्षट्त्रिँशद्रा॒त्रमास॑ते सुव॒र्गमे॒व लो॒कम्प्र जा॑नन्ति सुव॒र्गल्ँ लो॒कय्ँय॑न्ति॒ ज्योति॑रतिरा॒त्रः [22]
भ॒व॒ति॒ ज्योति॑रे॒व पु॒रस्ता॑द्दधते सुव॒र्गस्य॑ लो॒कस्यानु॑ख्यात्यै षड॒हा भ॑वन्ति॒ षड्वा ऋ॒तव॑ ऋ॒तुष्वे॒व प्रति॑ तिष्ठन्ति च॒त्वारो॑ भवन्ति॒ चत॑स्रो॒ दिशो॑ दि॒क्ष्वे॑व प्रति॑ तिष्ठ॒न्त्यस॑त्त्रव्ँ॒वा ए॒तद्यद॑छन्दो॒मय्यँच्छ॑न्दो॒मा भव॑न्ति॒ तेन॑ स॒त्त्रन्दे॒वता॑ ए॒व पृ॒ष्ठैरव॑ रुन्धते प॒शूञ्छ॑न्दो॒मैरोजो॒ वै वी॒र्य॑म्पृ॒ष्ठानि॑ प॒शव॑श्छन्दो॒मा ओज॑स्ये॒व [23]
वी॒र्ये॑ प॒शुषु॒ प्रति॑ तिष्ठन्ति षट्त्रिँशद्रा॒त्रो भ॑वति॒ षट्त्रिँ॑शदक्षरा बृह॒ती बार्ह॑ताᳶ प॒शवो॑ बृह॒त्यैव प॒शूनव॑ रुन्धते बृह॒ती छन्द॑साँ॒ स्वारा॑ज्यमाश्ञुताश्ञु॒वते॒ स्वारा॑ज्यय्ँ॒य ए॒वव्ँवि॒द्वाँस॑ष्षट्त्रिँशद्रा॒त्रमास॑ते सुव॒र्गमे॒व लो॒कय्ँय॑न्त्यतिरा॒त्राव॒भितो॑ भवतस्सुव॒र्गस्य॑ लो॒कस्य॒ परि॑गृहीत्यै ॥ [24]
वसि॑ष्ठो ह॒तपु॑त्रोऽकामयत वि॒न्देय॑ प्र॒जाम॒भि सौ॑दा॒सान्भ॑वेय॒मिति॒ स ए॒तमे॑कस्मान्नपञ्चा॒शम॑पश्य॒त्तमाह॑र॒त्तेना॑यजत॒ ततो॒ वै सोऽवि॑न्दत प्र॒जाम॒भि सौ॑दा॒सान॑भव॒द्य ए॒वव्ँवि॒द्वाँस॑ एकस्मान्नपञ्चा॒शमास॑ते वि॒न्दन्ते॑ प्र॒जाम॒भि भ्रातृ॑व्यान्भवन्ति॒ त्रय॑स्त्रि॒वृतो॑ऽग्निष्टो॒मा भ॑वन्ति॒ वज्र॑स्यै॒व मुखँ॒ सँ श्य॑न्ति॒ दश॑ पञ्चद॒शा भ॑वन्ति पञ्चद॒शो वज्रः॑ [25]
वज्र॑मे॒व भ्रातृ॑व्येभ्य॒ᳶ प्र ह॑रन्ति षोडशि॒मद्द॑श॒ममह॑र्भवति॒ वज्र॑ ए॒व वी॒र्य॑न्दधति॒ द्वाद॑श सप्तद॒शा भ॑वन्त्य॒न्नाद्य॒स्याव॑रुद्ध्या॒ अथो॒ प्रैव तैर्जा॑यन्ते॒ पृष्ठ्य॑ष्षड॒हो भ॑वति॒ षड्वा ऋ॒तव॒ष्षट्पृ॒ष्ठानि॑ पृ॒ष्ठैरे॒वर्तून॒न्वारो॑हन्त्यृ॒तुभि॑स्सव्ँवत्स॒रन्ते सव्ँ॑वत्स॒र ए॒व प्रति॑ तिष्ठन्ति॒ द्वाद॑शैकविँ॒शा भ॑वन्ति॒ प्रति॑ष्ठित्या॒ अथो॒ रुच॑मे॒वात्मन्न् [26]
द॒ध॒ते॒ ब॒हव॑ष्षोड॒शिनो॑ भवन्ति॒ विजि॑त्यै॒ षडा॑श्वि॒नानि॑ भवन्ति॒ षड्वा ऋ॒तव॑ ऋ॒तुष्वे॒व प्रति॑ तिष्ठन्त्यूनातिरि॒क्ता वा ए॒ता रात्र॑य ऊ॒नास्तद्यदेक॑स्यै॒ न प॑ञ्चा॒शदति॑रिक्ता॒स्तद्यद्भूय॑सीर॒ष्टाच॑त्वारिँशत ऊ॒नाच्च॒ खलु॒ वा अति॑रिक्ताच्च प्र॒जाप॑ति॒ᳶ प्राजा॑यत॒ ये प्र॒जाका॑माᳶ प॒शुका॑मा॒स्स्युस्त ए॒ता आ॑सीर॒न्प्रैव जा॑यन्ते प्र॒जया॑ प॒शुभि॑र्वैरा॒जो वा ए॒ष य॒ज्ञो यदे॑कस्मान्नपञ्चा॒शो य ए॒वव्ँवि॒द्वाँस॑ एकस्मान्नपञ्चा॒शमास॑ते वि॒राज॑मे॒व ग॑च्छन्त्यन्ना॒दा भ॑वन्त्यतिरा॒त्राव॒भितो॑ भवतो॒ऽन्नाद्य॑स्य॒ परि॑गृहीत्यै ॥ [27]
सव्ँ॒व॒त्स॒राय॑ दीक्षि॒ष्यमा॑णा एकाष्ट॒काया॑न्दीक्षेरन्ने॒षा वै सव्ँ॑वत्स॒रस्य॒ पत्नी॒ यदे॑काष्ट॒कैतस्याव्ँ॒वा ए॒ष ए॒ताँ रात्रिव्ँ॑वसति सा॒क्षादे॒व सव्ँ॑वत्स॒रमा॒रभ्य॑ दीक्षन्त॒ आर्तव्ँ॒वा ए॒ते सव्ँ॑वत्स॒रस्या॒भि दी॑क्षन्ते॒ य ए॑काष्ट॒काया॒न्दीक्ष॒न्तेऽन्त॑नामानावृ॒तू भ॑वतो॒ व्य॑स्तव्ँ॒वा ए॒ते सव्ँ॑वत्स॒रस्या॒भि दी॑क्षन्ते॒ य ए॑काष्ट॒काया॒न्दीक्ष॒न्तेऽन्त॑नामानावृ॒तू भ॑वतᳶ फल्गुनीपूर्णमा॒से दी॑क्षेर॒न्मुखव्ँ॒वा ए॒तत् [28]
सव्ँ॒व॒त्स॒रस्य॒ यत्फ॑ल्गुनीपूर्णमा॒सो मु॑ख॒त ए॒व सव्ँ॑वत्स॒रमा॒रभ्य॑ दीक्षन्ते॒ तस्यैकै॒व नि॒र्या यत्साम्मे॑घ्ये विषू॒वान्त्स॒म्पद्य॑ते चित्रापूर्णमा॒से दी॑क्षेर॒न्मुखव्ँ॒वा ए॒तत्सव्ँ॑वत्स॒रस्य॒ यच्चि॑त्रापूर्णमा॒सो मु॑ख॒त ए॒व सव्ँ॑वत्स॒रमा॒रभ्य॑ दीक्षन्ते॒ तस्य॒ न का च॒न नि॒र्या भ॑वति चतुर॒हे पु॒रस्ता॑त्पौर्णमा॒स्यै दी॑क्षेर॒न्तेषा॑मेकाष्ट॒काया॑ङ्क्र॒यस्सम्प॑द्यते॒ तेनै॑काष्ट॒कान्न छ॒म्बट्कु॑र्वन्ति॒ तेषा॑म् [29]
पू॒र्व॒प॒क्षे सु॒त्या सम्प॑द्यते पूर्वप॒क्षम्मासा॑ अ॒भि सम्प॑द्यन्ते॒ ते पू॑र्वप॒क्ष उत्ति॑ष्ठन्ति॒ तानु॒त्तिष्ठ॑त॒ ओष॑धयो॒ वन॒स्पत॒योऽनूत्ति॑ष्ठन्ति॒ तान्क॑ल्या॒णी की॒र्तिरनूत्ति॑ष्ठ॒त्यरा॑त्सुरि॒मे यज॑माना॒ इति॒ तदनु॒ सर्वे॑ राध्नुवन्ति ॥ [30]
सु॒व॒र्गव्ँवा ए॒ते लो॒कय्ँय॑न्ति॒ ये स॒त्त्रमु॑प॒यन्त्य॒भीन्ध॑त ए॒व दी॒क्षाभि॑रा॒त्मानँ॑ श्रपयन्त उप॒सद्भि॒र्द्वाभ्याल्ँ॒लोमाव॑ द्यन्ति॒ द्वाभ्या॒न्त्वच॒न्द्वाभ्या॒मसृ॒द्द्वाभ्या॑म्माँ॒सन्द्वाभ्या॒मस्थि॒ द्वाभ्या॑म्म॒ज्जान॑मा॒त्मद॑क्षिणव्ँ॒ वै स॒त्त्रमा॒त्मान॑मे॒व दक्षि॑णान्नी॒त्वा सु॑व॒र्गल्ँ लो॒कय्ँय॑न्ति॒ शिखा॒मनु॒ प्र व॑पन्त॒ ऋद्ध्या॒ अथो॒ रघी॑याँसस्सुव॒र्गल्ँ लो॒कम॑या॒मेति॑ ॥ [31]
ब्र॒ह्म॒वा॒दिनो॑ वदन्त्यतिरा॒त्रᳶ प॑र॒मो य॑ज्ञक्रतू॒नाङ्कस्मा॒त्तम्प्र॑थ॒ममुप॑ य॒न्तीत्ये॒तद्वा अ॑ग्निष्टो॒मम्प्र॑थ॒ममुप॑ य॒न्त्यथो॒क्थ्य॑मथ॑ षोड॒शिन॒मथा॑तिरा॒त्रम॑नुपू॒र्वमे॒वैतद्य॑ज्ञक्र॒तूनु॒पेत्य॒ ताना॒लभ्य॑ परि॒गृह्य॒ सोम॑मे॒वैतत्पिब॑न्त आसते॒ ज्योति॑ष्टोमम्प्रथ॒ममुप॑ यन्ति॒ ज्योति॑ष्टोमो॒ वै स्तोमा॑ना॒म्मुख॑म्मुख॒त ए॒व स्तोमा॒न्प्र यु॑ञ्जते॒ ते [32]
सँस्तु॑ता वि॒राज॑म॒भि सम्प॑द्यन्ते॒ द्वे चर्चा॒वति॑ रिच्येते॒ एक॑या॒ गौरति॑रिक्त॒ एक॒यायु॑रू॒नस्सु॑व॒र्गो वै लो॒को ज्योति॒रूर्ग्वि॒राठ्सु॑व॒र्गमे॒व तेन॑ लो॒कय्ँय॑न्ति रथन्त॒रन्दिवा॒ भव॑ति रथन्त॒रन्नक्त॒मित्या॑हुर्ब्रह्मवा॒दिन॒ᳵ केन॒ तदजा॒मीति॑ सौभ॒रन्तृ॑तीयसव॒ने ब्र॑ह्मसा॒मम्बृ॒हत्तन्म॑ध्य॒तो द॑धति॒ विधृ॑त्यै॒ तेनाजा॑मि ॥ [33]
ज्योति॑ष्टोमम्प्रथ॒ममुप॑ यन्त्य॒स्मिन्ने॒व तेन॑ लो॒के प्रति॑ तिष्ठन्ति॒ गोष्टो॑मन्द्वि॒तीय॒मुप॑ यन्त्य॒न्तरि॑क्ष ए॒व तेन॒ प्रति॑ तिष्ठ॒न्त्यायु॑ष्टोमन्तृ॒तीय॒मुप॑ यन्त्य॒मुष्मि॑न्ने॒व तेन॑ लो॒के प्रति॑ तिष्ठन्ती॒यव्ँ वाव ज्योति॑र॒न्तरि॑क्ष॒ङ्गौर॒सावायु॒र्यदे॒तान्त्स्तोमा॑नुप॒यन्त्ये॒ष्वे॑व तल्लो॒केषु॑ स॒त्त्रिणᳶ॑ प्रति॒तिष्ठ॑न्तो यन्ति॒ ते सँस्तु॑ता वि॒राज॑म् [34]
अ॒भि सम्प॑द्यन्ते॒ द्वे चर्चा॒वति॑ रिच्येते॒ एक॑या॒ गौरति॑रिक्त॒ एक॒यायु॑रू॒नस्सु॑व॒र्गो वै लो॒को ज्योति॒रूर्ग्वि॒राडूर्ज॑मे॒वाव॑ रुन्धते॒ ते न क्षु॒धार्ति॒मार्च्छ॒न्त्यक्षो॑धुका भवन्ति॒ क्षुत्स॑म्बाधा इव॒ हि स॒त्त्रिणो॑ऽग्निष्टो॒माव॒भितᳶ॑ प्र॒धी तावु॒क्थ्या॑ मध्ये॒ नभ्य॒न्तत्तदे॒तत्प॑रि॒यद्दे॑वच॒क्रय्यँदे॒तेन॑ [35]
ष॒ड॒हेन॒ यन्ति॑ देवच॒क्रमे॒व स॒मारो॑ह॒न्त्यरि॑ष्ट्यै॒ ते स्व॒स्ति सम॑श्ञुवते षड॒हेन॑ यन्ति॒ षड्वा ऋ॒तव॑ ऋ॒तुष्वे॒व प्रति॑ तिष्ठन्त्युभ॒यतो॑ज्योतिषा यन्त्युभ॒यत॑ ए॒व सु॑व॒र्गे लो॒के प्र॑ति॒तिष्ठ॑न्तो यन्ति॒ द्वौ ष॑ड॒हौ भ॑वत॒स्तानि॒ द्वाद॒शाहा॑नि॒ सम्प॑द्यन्ते द्वाद॒शो वै पुरु॑षो॒ द्वे स॒क्थ्यौ॑ द्वौ बा॒हू आ॒त्मा च॒ शिर॑श्च च॒त्वार्यङ्गा॑नि॒ स्तनौ॑ द्वाद॒शौ [36]
तत्पुरु॑ष॒मनु॑ प॒र्याव॑र्तन्ते॒ त्रय॑ष्षड॒हा भ॑वन्ति॒ तान्य॒ष्टाद॒शाहा॑नि॒ सम्प॑द्यन्ते॒ नवा॒न्यानि॒ नवा॒न्यानि॒ नव॒ वै पुरु॑षे प्रा॒णास्तत्प्रा॒णाननु॑ प॒र्याव॑र्तन्ते च॒त्वार॑ष्षड॒हा भ॑वन्ति॒ तानि॒ चतु॑र्विँशति॒रहा॑नि॒ सम्प॑द्यन्ते॒ चतु॑र्विँशतिरर्धमा॒सास्सव्ँ॑वत्स॒रस्तत्सव्ँ॑वत्स॒रमनु॑ प॒र्याव॑र्त॒न्तेऽप्र॑तिष्ठितस्सव्ँवत्स॒र इति॒ खलु॒ वा आ॑हु॒र्वर्षी॑यान्प्रति॒ष्ठाया॒ इत्ये॒ताव॒द्वै सव्ँ॑वत्स॒रस्य॒ ब्राह्म॑णय्ँ॒याव॑न्मा॒सो मा॒सिमा॑स्ये॒व प्र॑ति॒तिष्ठ॑न्तो यन्ति ॥ [37]
मे॒षस्त्वा॑ पच॒तैर॑वतु॒ लोहि॑तग्रीव॒श्छागैः॑ शल्म॒लिर्वृद्ध्या॑ प॒र्णो ब्रह्म॑णा प्ल॒क्षो मेधे॑न न्य॒ग्रोध॑श्चम॒सैरु॑दु॒म्बर॑ ऊ॒र्जा गा॑य॒त्री छन्दो॑भिस्त्रि॒वृत्स्तोमै॒रव॑न्ती॒स्स्थाव॑न्तीस्त्वावन्तु प्रि॒यन्त्वा॑ प्रि॒याणाव्ँ॒वर्षि॑ष्ठ॒माप्या॑नान्निधी॒नान्त्वा॑ निधि॒पतिँ॑ हवामहे वसो मम ॥ [38]
कूप्या॑भ्य॒स्स्वाहा॒ कूल्या॑भ्य॒स्स्वाहा॑ विक॒र्या॑भ्य॒स्स्वाहा॑ऽव॒ट्या॑भ्य॒स्स्वाहा॒ खन्या॑भ्य॒स्स्वाहा॒ ह्रद्या॑भ्य॒स्स्वाहा॒ सूद्या॑भ्य॒स्स्वाहा॑ सर॒स्या॑भ्य॒स्स्वाहा॑ वैश॒न्तीभ्य॒स्स्वाहा॑ पल्व॒ल्या॑भ्य॒स्स्वाहा॒ वर्ष्या॑भ्य॒स्स्वाहा॑ऽव॒र्ष्याभ्य॒स्स्वाहा॑ ह्रा॒दुनी॑भ्य॒स्स्वाहा॒ पृष्वा॑भ्य॒स्स्वाहा॒ स्यन्द॑मानाभ्य॒स्स्वाहा॑ स्थाव॒राभ्य॒स्स्वाहा॑ नादे॒यीभ्य॒स्स्वाहा॑ सैन्ध॒वीभ्य॒स्स्वाहा॑ समु॒द्रिया॑भ्य॒स्स्वाहा॒ सर्वा॑भ्य॒स्स्वाहा॑ ॥ [39]
अ॒द्भ्यस्स्वाहा॒ वह॑न्तीभ्य॒स्स्वाहा॑ परि॒वह॑न्तीभ्य॒स्स्वाहा॑ सम॒न्तव्ँवह॑न्तीभ्य॒स्स्वाहा॒ शीघ्रव्ँ॒वह॑न्तीभ्य॒स्स्वाहा॒ शीभव्ँ॒वह॑न्तीभ्य॒स्स्वाहो॒ग्रव्ँवह॑न्तीभ्य॒स्स्वाहा॑ भी॒मव्ँवह॑न्तीभ्य॒स्स्वाहाऽम्भो॑भ्य॒स्स्वाहा॒ नभो॑भ्य॒स्स्वाहा॒ महो॑भ्य॒स्स्वाहा॒ सर्व॑स्मै॒ स्वाहा॑ ॥ [40]
यो अर्व॑न्त॒ञ्जिघाँ॑सति॒ तम॒भ्य॑मीति॒ वरु॑णः । प॒रो मर्तᳶ॑ प॒रश्श्वा । अ॒हञ्च॒ त्वञ्च॑ वृत्रह॒न्त्सम्ब॑भूव स॒निभ्य॒ आ । अ॒रा॒ती॒वा चि॑दद्रि॒वोऽनु॑ नौ शूर मँसतै भ॒द्रा इन्द्र॑स्य रा॒तयः॑ । अ॒भि क्रत्वे॑न्द्र भू॒रध॒ ज्मन्न ते॑ विव्यङ्महि॒मानँ॒ रजाँ॑सि । स्वेना॒ हि वृ॒त्रँ शव॑सा ज॒घन्थ॒ न शत्रु॒रन्तव्ँ॑विविदद्यु॒धा ते॑ ॥ [41]
नमो॒ राज्ञे॒ नमो॒ वरु॑णाय॒ नमोऽश्वा॑य॒ नमᳶ॑ प्र॒जाप॑तये॒ नमोऽधि॑पत॒येऽधि॑पतिर॒स्यधि॑पतिम्मा कु॒र्वधि॑पतिर॒हम्प्र॒जाना॑म्भूयास॒म्मान्धे॑हि॒ मयि॑ धेह्यु॒पाकृ॑ताय॒ स्वाहाऽऽल॑ब्धाय॒ स्वाहा॑ हु॒ताय॒ स्वाहा॑ ॥ [42]
म॒यो॒भूर्वातो॑ अ॒भि वा॑तू॒स्रा ऊर्ज॑स्वती॒रोष॑धी॒रा रि॑शन्ताम् । पीव॑स्वतीर्जी॒वध॑न्याᳶ पिबन्त्वव॒साय॑ प॒द्वते॑ रुद्र मृड । यास्सरू॑पा॒ विरू॑पा॒ एक॑रूपा॒ यासा॑म॒ग्निरिष्ट्या॒ नामा॑नि॒ वेद॑ । या अङ्गि॑रस॒स्तप॑से॒ह च॒क्रुस्ताभ्यᳶ॑ पर्जन्य॒ महि॒ शर्म॑ यच्छ । या दे॒वेषु॑ त॒नुव॒मैर॑यन्त॒ यासाँ॒ सोमो॒ विश्वा॑ रू॒पाणि॒ वेद॑ । ता अ॒स्मभ्य॒म्पय॑सा॒ पिन्व॑मानाᳶ प्र॒जाव॑तीरिन्द्र [43]
गो॒ष्ठे रि॑रीहि । प्र॒जाप॑ति॒र्मह्य॑मे॒ता ररा॑णो॒ विश्वै॑र्दे॒वैᳶ पि॒तृभि॑स्सव्ँविदा॒नः । शि॒वास्स॒तीरुप॑ नो गो॒ष्ठमाक॒स्तासाव्ँ॑व॒यम्प्र॒जया॒ सँ स॑देम । इ॒ह धृति॒स्स्वाहे॒ह विधृ॑ति॒स्स्वाहे॒ह रन्ति॒स्स्वाहे॒ह रम॑ति॒स्स्वाहा॑ म॒हीमू॒ षु सु॒त्रामा॑णम् ॥ [44]
किँ स्वि॑दासीत्पू॒र्वचि॑त्ति॒ᳵ किँ स्वि॑दासीद्बृ॒हद्वयः॑ । किँ स्वि॑दासीत्पिशङ्गि॒ला किँ स्वि॑दासीत्पिलिप्पि॒ला । द्यौरा॑सीत्पू॒र्वचि॑त्ति॒रश्व॑ आसीद्बृ॒हद्वयः॑ । रात्रि॑रासीत्पिशङ्गि॒लावि॑रासीत्पिलिप्पि॒ला । कस्स्वि॑देका॒की च॑रति॒ क उ॑ स्विज्जायते॒ पुनः॑ । किँ स्वि॑द्धि॒मस्य॑ भेष॒जङ्किँ स्वि॑दा॒वप॑नम्म॒हत् । सूर्य॑ एका॒की च॑रति [45]
च॒न्द्रमा॑ जायते॒ पुनः॑ । अ॒ग्निर्हि॒मस्य॑ भेष॒जम्भूमि॑रा॒वप॑नम्म॒हत् । पृ॒च्छामि॑ त्वा॒ पर॒मन्त॑म्पृथि॒व्याᳶ पृ॒च्छामि॑ त्वा॒ भुव॑नस्य॒ नाभि॑म् । पृ॒च्छामि॑ त्वा॒ वृष्णो॒ अश्व॑स्य॒ रेतᳶ॑ पृ॒च्छामि॑ वा॒चᳶ प॑र॒मव्व्ँयो॑म । वेदि॑माहु॒ᳶ पर॒मन्त॑म्पृथि॒व्या य॒ज्ञमा॑हु॒र्भुव॑नस्य॒ नाभि॑म् । सोम॑माहु॒र्वृष्णो॒ अश्व॑स्य॒ रेतो॒ ब्रह्मै॒व वा॒चᳶ प॑र॒मव्व्ँयो॑म ॥ [46]
अम्बे॒ अम्बा॒ल्यम्बि॑के॒ न मा॑ नयति॒ कश्च॒न । स॒सस्त्य॑श्व॒कः । सुभ॑गे॒ काम्पी॑लवासिनि सुव॒र्गे लो॒के सम्प्रोर्ण्वा॑थाम् । आहम॑जानि गर्भ॒धमा त्वम॑जासि गर्भ॒धम् । तौ स॒ह च॒तुरᳶ॑ प॒दस्सम्प्र सा॑रयावहै । वृषा॑ वाँ रेतो॒धा रेतो॑ दधा॒तूत्स॒क्थ्यो॑र्गृ॒दन्धे॑ह्य॒ञ्जिमुद॑ञ्जि॒मन्व॑ज । यस्स्त्री॒णाञ्जी॑व॒भोज॑नो॒ य आ॑साम् [47]
बि॒ल॒धाव॑नः । प्रि॒यस्स्त्री॒णाम॑पी॒च्यः॑ । य आ॑साङ्कृ॒ष्णे लक्ष्म॑णि॒ सर्दि॑गृदिम्प॒राव॑धीत् । अम्बे॒ अम्बा॒ल्यम्बि॑के॒ न मा॑ यभति॒ कश्च॒न । स॒सस्त्य॑श्व॒कः । ऊ॒र्ध्वामे॑ना॒मुच्छ्र॑यताद्वेणुभा॒रङ्गि॒रावि॑व । अथा॑स्या॒ मध्य॑मेधताँ शी॒ते वाते॑ पु॒नन्नि॑व । अम्बे॒ अम्बा॒ल्यम्बि॑के॒ न मा॑ यभति॒ कश्च॒न । स॒सस्त्य॑श्व॒कः । यद्ध॑रि॒णी यव॒मत्ति॒ न [48]
पु॒ष्टम्प॒शु म॑न्यते । शू॒द्रा यदर्य॑जारा॒ न पोषा॑य धनायति । अम्बे॒ अम्बा॒ल्यम्बि॑के॒ न मा॑ यभति॒ कश्च॒न । स॒सस्त्य॑श्व॒कः । इ॒यय्ँय॒का श॑कुन्ति॒काहल॒मिति॒ सर्प॑ति । आह॑तङ्ग॒भे पसो॒ नि ज॑ल्गुलीति॒ धाणि॑का । अम्बे॒ अम्बा॒ल्यम्बि॑के॒ न मा॑ यभति॒ कश्च॒न । स॒सस्त्य॑श्व॒कः । मा॒ता च॑ ते पि॒ता च॒ तेऽग्रव्ँ॑वृ॒क्षस्य॑ रोहतः । [49]
प्र सु॑ला॒मीति॑ ते पि॒ता ग॒भे मु॒ष्टिम॑तँसयत् । द॒धि॒क्राव्ण्णो॑ अकारिषञ्जि॒ष्णोरश्व॑स्य वा॒जिनः॑ । सु॒र॒भि नो॒ मुखा॑ कर॒त्प्र ण॒ आयूँ॑षि तारिषत् । आपो॒ हि ष्ठा म॑यो॒भुव॒स्ता न॑ ऊ॒र्जे द॑धातन । म॒हे रणा॑य॒ चक्ष॑से । यो व॑श्शि॒वत॑मो॒ रस॒स्तस्य॑ भाजयते॒ह नः॑ । उ॒श॒तीरि॑व मा॒तरः॑ । तस्मा॒ अर॑ङ्गमाम वो॒ यस्य॒ क्षया॑य॒ जिन्व॑थ । आपो॑ ज॒नय॑था च नः ॥ [50]
भूर्भुव॒स्सुव॒र्वस॑वस्त्वाञ्जन्तु गाय॒त्रेण॒ छन्द॑सा रु॒द्रास्त्वा॑ञ्जन्तु॒ त्रैष्टु॑भेन॒ छन्द॑सादि॒त्यास्त्वा॑ञ्जन्तु॒ जाग॑तेन॒ छन्द॑सा॒ यद्वातो॑ अ॒पो अग॑म॒दिन्द्र॑स्य त॒नुव॑म्प्रि॒याम् । ए॒तँ स्तो॑तरे॒तेन॑ प॒था पुन॒रश्व॒मा व॑र्तयासि नः । लाजी (३) ञ्छाची (३) न्‌यशो॑ म॒मा (4)म् । य॒व्यायै॑ ग॒व्याया॑ ए॒तद्दे॑वा॒ अन्न॑मत्तै॒तदन्न॑मद्धि प्रजापते । यु॒ञ्जन्ति॑ ब्र॒ध्नम॑रु॒षञ्चर॑न्त॒म्परि॑ त॒स्थुषः॑ । रोच॑न्ते रोच॒ना दि॒वि । यु॒ञ्जन्त्य॑स्य॒ काम्या॒ हरी॒ विप॑क्षसा॒ रथे॑ । शोणा॑ धृ॒ष्णू नृ॒वाह॑सा । के॒तुङ्कृ॒ण्वन्न॑के॒तवे॒ पेशो॑ मर्या अपे॒शसे॑ । समु॒षद्भि॑रजायथाः ॥ [51]
प्रा॒णाय॒ स्वाहा॑ व्या॒नाय॒ स्वाहा॑ऽपा॒नाय॒ स्वाहा॒ स्नाव॑भ्य॒स्स्वाहा॑ सन्ता॒नेभ्य॒स्स्वाहा॒ परि॑सन्तानेभ्य॒स्स्वाहा॒ पर्व॑भ्य॒स्स्वाहा॑ स॒न्धाने॑भ्य॒स्स्वाहा॒ शरी॑रेभ्य॒स्स्वाहा॑ य॒ज्ञाय॒ स्वाहा॒ दक्षि॑णाभ्य॒स्स्वाहा॑ सुव॒र्गाय॒ स्वाहा॑ लो॒काय॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा॑ ॥ [52]
सि॒ताय॒ स्वाहाऽसि॑ताय॒ स्वाहा॒ऽभिहि॑ताय॒ स्वाहाऽन॑भिहिताय॒ स्वाहा॑ यु॒क्ताय॒ स्वाहाऽयु॑क्ताय॒ स्वाहा॒ सुयु॑क्ताय॒ स्वाहोद्यु॑क्ताय॒ स्वाहा॒ विमु॑क्ताय॒ स्वाहा॒ प्रमु॑क्ताय॒ स्वाहा॒ वञ्च॑ते॒ स्वाहा॑ परि॒वञ्च॑ते॒ स्वाहा॑ सव्ँ॒वञ्च॑ते॒ स्वाहा॑ऽनु॒वञ्च॑ते॒ स्वाहो॒द्वञ्च॑ते॒ स्वाहा॑ य॒ते स्वाहा॒ धाव॑ते॒ स्वाहा॒ तिष्ठ॑ते॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा॑ ॥ [53]